श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे चत्वारिंशः सर्गः
अथ रामश्च सीता च लक्ष्मणश्च कृताञ्जलिः ।
उपसंगृह्य राजानं चक्रुर्दीनाः प्रदक्षिणम् ॥ 2.40.1 ॥
तं चापि समनुज्ञाप्य धर्मज्ञः सीतया सह ।
राघवः शोकसम्मूढो जननीमभ्यवादयत् ॥ 2.40.2 ॥
अथेति । उपसंगृह्य पादग्रहणपूर्वकं प्रणम्य । दीनाः वृद्धयोर्मातापित्रोः शुश्रूषा न लब्धेति दीनाः ॥ 2.40.12 ॥
अन्वक्षं लक्ष्मणो भ्रातुः कौसल्यामभ्यवादयत् ।
अथ मातुः सुमित्राया जग्राह चरणौ पुनः ॥ 2.40.3 ॥
तं वन्दमानं रुदती माता सौमित्रिमब्रवीत् ।
हितकामा महाबाहुं मूर्ध्न्युपाघ्राय लक्ष्मणम् ॥ 2.40.4 ॥
अन्वक्षमिति । अन्वक्षम् अनुपदम् । “अन्वगन्वक्षमनुगेनुपदम्” इत्यमरः ॥ 2.40.34 ॥
सृष्टस्त्वं वनवासाय स्वनुरक्तः सुहृज्जने ।
रामे प्रमादं मा कार्षीः पुत्र भ्रातरि गच्छति ॥ 2.40.5 ॥
सृष्ट इति । सृष्टस्त्वम्, दैवेनेति शेषः । भ्रातरि गच्छति देव्या सह पुष्पितवनदर्शनपारवश्येन गच्छति सतीत्यर्थः । प्रमादम् अनवधानम् । मा कार्षीः सावधानो भवेत्यर्थः । सृष्ट इति यथा कौसल्या लोकरक्षणार्थं पुत्रं प्रासूत एवं मया सुहृज्जने रामे स्वनु रक्तस्त्वं वनवासाय सृष्टः । वने रामानुवर्तनायोत्पादितः, अतो रामे गच्छति प्रमादं मा कार्षीः । रामगमनसौन्दर्याकृष्टमनस्कतया रक्षणकर्मण्यनवहितो माभूरित्यर्थः । यद्वा रामे वनं गच्छति त्वमत्रैव मा तिष्ठेति भावः ॥ 2.40.5 ॥
व्यसनी वा समृद्धो वा गतिरेष तवानघ ।
एष लोके सतां धर्मो यज्ज्येष्ठवशगो भवेत् ॥ 2.40.6 ॥
रामगमने गन्तव्यतायां निमित्तमाह–व्यसनीति । गतित्वे धर्मशास्त्रानुमतिं दर्शयति एष इति ॥ 2.40.6 ॥
इदं हि वृत्तमुचितं कुलस्यास्य सनातनम् ।
दानं दीक्षा च यज्ञेषु तनुत्यागो मृधेषु च ॥ 2.40.7 ॥
[ज्येष्ठस्याप्यनुवृत्तिश्च राजवंशस्य लक्षणम् ।]
ज्येष्ठानुवर्तनादपि परमधर्मं कुलोचितं दर्शयति–इदमिति । मृधेषु युद्धेषु । तनुत्यागेनापि रामो रक्षणीय इति भावः ॥ 2.40.7 ॥
लक्ष्मणं त्वेवमुक्त्वा सा संसिद्धं प्रियराघवम् ।
सुमित्रा गच्छगच्छेति पुनःपुनरुवाच तम् ॥ 2.40.8 ॥
लक्ष्मणमिति । संसिद्धं “षिधु गत्याम्” इत्यस्माद्धातोर्निष्ठायां रूपम् । गमनोद्युक्तमित्यर्थः । गच्छगच्छेति वीप्सया सुमित्राया अपि रामानुवर्त्तने महानादरो द्योत्यते ॥ 2.40.8 ॥
रामं दशरथं विद्धि मां विद्धि जनकात्मजाम् ।
अयोध्यामटवीं विद्धि गच्छ तात यथासुखम् ॥ 2.40.9 ॥
ततः सुमन्त्रः काकुत्स्थं प्राञ्चलिर्वाक्यमब्रवीत् ।
विनीतो विनयज्ञश्च मातलिर्वासवं यथा ॥ 2.40.10 ॥
वनवासे पितृमातृनगरस्मरणे मनश्चाञ्चल्यं भविष्यतीतिधिया तत्रैव प्रतिनिधिं कल्पयति–रामतिति । यथामुखं गच्छेत्यस्य इत्युवाचेति पूर्वेण सम्बन्धः । रामं दशरथं विद्धि, पितरमवगच्छेत्यर्थः । जनकात्मजां मां विद्धि, मातरं विद्धीत्यर्थः । अटवीमयोध्याम्, तद्वत् भोगस्थानं विद्धि । गच्छ तात यथासुखम् तदनुवर्तनमेव उचितं सुखमित्यर्थः । यद्वा रामं दशरथं विद्धि दशति मत्स्यकच्छपोरगादीन् दंष्ट्राव्यापारविषयान् करोतीति दशः पक्षी “दशं दशने” इति धातुः । दशनं दंष्ट्राव्यापारः । पचाद्यच् । पृषोदरादित्वा दनुनासिकलोपः । स गरुडः रथो यस्य तम्, विष्णुं विद्धीत्यर्थः । जनकात्मजां मां लक्ष्मीं विद्धि । अटवीमयोध्याम् अपराजिताख्यां वैकुण्ठनगरीं विद्धि । तद्वासस्थानमिति भावः । यद्वा रामं दशरथं च विद्धि, उभयोस्तारतम्यं पश्येत्यर्थः । मां जनकात्मजां च विद्धि, गुणतः आलोचय मदपेक्षया सीतैव तव हितपरेति भावः । अयोध्याम् अटवीं च विद्धि एतन्नगरापेक्षया वनमेव तव कैङ्कर्यैकान्तस्थानतयोत्कृष्टमित्यर्थः । यद्वा दशरथं रामम् उपरतं विद्धि, मां जनकस्य पितुरात्मजां विद्धि, कैकेयीविवासिततया पितृगृहवर्तिनीं विद्धीत्यर्थः । अयोध्यामटवीं विद्धि, निर्जनेयं भविष्यतीत्यर्थः । एवं तात्पर्यान्तराण्यूह्यानि ॥ 2.40.910 ॥
रथमारोह भद्रं ते राजपुत्र महायशः ।
क्षिप्रं त्वां प्रापयिष्यामि यत्र मां राम वक्ष्यसि ॥ 2.40.11 ॥
रथमिति । यत्र यस्मिन् प्रदेशविषये ॥ 2.40.11 ॥
चतुर्दश हि वर्षाणि वस्तव्यानि वने त्वया ।
तान्युपक्रमितव्यानि यानि देव्या ऽसि चोदितः ॥ 2.40.12 ॥
चतुर्दशेति । चतुर्दशवर्षेष्वेकदिवसापनयनमपि महान् लाभ इति धिया त्वरयति तान्युपक्रमितव्यानीति । देव्यासि चोदितः अद्यैव गच्छ इति कैकेय्या चोदितत्वादित्यर्थः । ॥ 2.40.12 ॥
तं रथं सूर्यसङ्काशं सीता हृष्टेन चेतसा ।
आरुरोह वरारोहा कृत्वालङ्कारमात्मनः ॥ 2.40.13 ॥
तमिति । अलङ्कारं कृत्वा, श्वशुरदत्तवस्त्राभरणादिभिरिति शेषः ॥ 2.40.13 ॥
अथो ज्वलनसङ्काशं चामीकरविभूषितम् ।
तमारुरुहतुस्तूर्णं भ्रातरौ रामलक्ष्मणौ ॥ 2.40.14 ॥
वनवासं हि सङ्ख्याय वासांस्याभरणानि च ।
भर्तारमनुगच्छन्त्यै सीतायै श्वशुरो ददौ ॥ 2.40.15 ॥
तथैवायुधजालानि भ्रातृभ्यां कवचानि च ।
रथोपस्थे प्रतिन्यस्य सचर्म कठिनं च तत् ॥ 2.40.16 ॥
सीतातृतीयानारूढान् दृष्ट्वा धृष्टमचोदयत् ।
सुमन्त्रः संमतानश्वान् वायुवेगसमान् जवे ॥ 2.40.17 ॥
एतच्श्लोकानन्तरमथोज्वलनेति श्लोकः पठितव्यः । अथो अति । ज्वलनसङ्काशम् आयुधपूर्णत्वादिति भावः । वनवासं हीति श्लोकस्तथैवेति श्लोकस्सीतातृतीयानितिश्लोकश्चैकं वाक्यम् । श्वशुरो दशरथः । सीतायै यानि ददौ तानि च रथोपस्थे प्रतिन्यस्य तथा भ्रातृभ्यां दत्तान्यायुधजालानि कवचानि सचर्म चर्मपिनद्धम् अल्पकण्डोलं कठिनं तत् खनित्रं च रथमध्ये प्रतिन्यस्य सीता तृतीयानारूढान् दृष्ट्वा अश्वानचोदयदिति योजना । धृष्टं सधैर्यम् । सम्मतान् श्रेष्ठानित्यर्थः । यथान्यासमेव वास्तु । तदा तं रथमितिश्लोको वनवासमिति श्लोकः तथैवेति श्लोकश्चैकं वाक्यम् । सीतात्मानो ऽलङ्कारं कृत्वा यानि श्वशुरो ददौ यानि भ्रातृभ्यामानीतानि आयुधजालानि कवचानि सचर्म कठिनं च तत्सर्वं रथोपस्थे प्रतिन्यस्यारुरोहेत्यन्वयः ॥ 2.40.1417 ॥
प्रतियाते महारण्यं चिररात्राय राघवे ।
बभूव नगरे मूर्च्छा बलमूर्च्छा जनस्य च ॥ 2.40.18 ॥
प्रतियात इति । चिररात्राय चिरकालम् । नगरे मूर्च्छा बभूव नगरस्थस्त्रीबालादिषु दुःखातिशयेन विसंज्ञता बभूवेत्यर्थः । बलमूर्च्छा अश्वगजादिमोहः । जनस्य उत्सवार्थमागतजनपदजनस्य ॥ 2.40.18 ॥
तत्समाकुलसम्भ्रान्तं मत्तसङ्कुपितद्विपम् ।
हयशिञ्जितनिर्घाषं पुरमासीन्महास्वनम् ॥ 2.40.19 ॥
तदिति । समाकुलम् अन्तःकरणक्षोभयुक्तम् । सम्भ्रान्तं बाह्येन्द्रियक्षोभयुक्तं, सर्वेन्द्रियक्षोभवत् पौरजनयुक्तमित्यर्थः । मत्तसङ्कुपितद्विपं व्यसनातिशयेन सङ्कुपितमत्तद्विपमित्यर्थः । हयशिञ्जितनिर्घोषं परितापातिशयेन ततइतश्चलतां हयानां भूषणरवेण सञ्जातघोषमित्यर्थः । “भूषणानां तु शिञ्जितम्” इत्यमरः । अत एव महास्वनमासीत् ॥ 2.40.19 ॥
ततः सबालवृद्धा सा पुरी परमपीडिता ।
राममेवाभिदुद्राव घर्मार्त्ता सलिलं यथा ॥ 2.40.20 ॥
तत इति । परमपीडिता रामविरहदुःखेनेति शेषः ॥ 2.40.20 ॥
पार्श्वतः पृष्ठतश्चापि लम्बमानास्तदुन्मुखाः ।
बाष्पपूर्णमुखाः सर्वे तमूचुर्भृशनिस्वनाः ॥ 2.40.21 ॥
संयच्छ वाजिनां रश्मीन् सूत याहि शनैः शनैः ।
मुखं द्रक्ष्याम रामस्य दुर्दर्शं नो भविष्यति ॥ 2.40.22 ॥
पार्श्वत इति । लम्बमानाः रथैकदेशमाश्रित्येति शेषः ॥ 2.40.2122 ॥
आयसं हृदयं नूनं राममातुरसंशयम् ।
यद्देवगर्भप्रतिमे वनं यानि न भिद्यते ॥ 2.40.23 ॥
आयसमिति । देव गर्भप्रतिमे देवकुमारसदृशे ॥ 2.40.23 ॥
कृतकृत्या हि वैदेही छायेवानुगता पतिम् ।
न जहाति रता धर्मे मेरुमर्कप्रभा यथा ॥ 2.40.24 ॥
अहो लक्ष्मण सिद्धार्थः सततं प्रियवादिनम् ।
भ्रातरं देवसङ्काशं यस्त्वं परिचरिष्यसि ॥ 2.40.25 ॥
महत्येषा हि ते सिद्धिरेष चाभ्युदयो महान् ।
एष स्वर्गस्य मार्गश्च यदेनमनुगच्छसि ॥ 2.40.26 ॥
एवं वदन्तस्ते सोढुं न शेकुर्बाष्पमागतम् ।
नरास्तमनुगच्छन्तः प्रियमिक्ष्वाकुनन्दनम् ॥ 2.40.27 ॥
अथ राजा वृतः स्त्रीभिर्दीनाभिर्दीनचेतनः ।
निर्ज्जगाम प्रियं पुत्रं द्रक्ष्यामीति ब्रुवन् गृहात् ॥ 2.40.28 ॥
शुश्रुवे चाग्रतः स्त्रीणां रुदन्तीनां महास्वनः ।
यथा नादः करेणूनां बद्धे महति कुञ्जरे ॥ 2.40.29 ॥
कृत्यकृत्येति । मेरुमर्कप्रभा यथेति सूर्यस्य प्रादक्षिण्येन मेरुगमनमिति सर्वदा तस्य मेरुसम्बन्धो ऽस्त्येव ॥ 2.40.2429 ॥
पिता हि राजा काकुत्स्थः श्रीमान् सन्नस्तदाभवत् ।
परिपूर्णः शशी काले ग्रहेणोपप्लुतो यथा ॥ 2.40.30 ॥
पितेति । सन्नः अवसन्नतेजा इत्यर्थः ॥ 2.40.30 ॥
स च श्रीमानचिन्त्यात्मा रामो दशरथात्मजः ।
सूतं सञ्चोदयामास त्वरितं वाह्यतामिति ॥ 2.40.31 ॥
स इति । अचिन्त्यात्मा इयत्तया परिच्छेत्तुमशक्यधैर्यइत्यर्थः ॥ 2.40.31 ॥
रामो याहीति सूतं तं तिष्ठेति स जनस्तदा ।
उभयं नाशकत् सूतं कर्तुमध्वनि चोदितः ॥ 2.40.32 ॥
राम इति । याहि तिष्ठेति उभयत्राचोदयदिति शेषः । उभयं यानं स्थानं च । अध्वनि रामजनाभ्यां चोदितः सन् कर्तुं नाशकत् ॥ 2.40.32 ॥
निर्गच्छति महाबाहौ रामे पौरजनाश्रुभिः ।
पतितैरभ्यवहितं प्रशशाम महीरजः ॥ 2.40.33 ॥
निर्गच्छतीति । अभ्यवहितं सिक्तम् ॥ 2.40.33 ॥
रुदिताश्रुपरिद्यूनं हाहाकृतमचेतनम् ।
प्रयाणे राघवस्यासीत् पुरं परमपीडितम् ॥ 2.40.34 ॥
रुदिताश्रुपरिद्यूनमिति । हाहाकृतं हाहाकारवत् । मत्त्वर्थीयलोपः । अचेतनं मूढम् । राघवस्य दशरथस्य । पुरं पुरस्थजनाः ॥ 2.40.34 ॥
सुस्राव नयनैः स्त्रीणामास्रमायाससम्भवम् ।
मीनसंक्षोभचलितैः सलिलं पङ्कजैरिव ॥ 2.40.35 ॥
सुस्रावेति । नयनैः नयनेभ्यः । आयाससम्भवं खेदजनितम् । संक्षोभः उल्ललनम् । सलिलं मकरन्दरूपम् ॥ 2.40.35 ॥
दृष्ट्वा तु नृपतिः श्रीमानेकचित्तगतं पुरम् ।
निपपातैव दुःखेन हतमूल इव द्रुमः ॥ 2.40.36 ॥
दृष्ट्वेति । एकचित्तगतम् एकचित्ततां गतम् ॥ 2.40.36 ॥
ततो हलहलाशब्दो जज्ञे रामस्य पृष्ठतः ।
नराणां प्रेक्ष्य राजानं सीदन्तं भृशदुःखितम् ॥ 2.40.37 ॥
तत इति । प्रेक्ष्य, स्थितानामिति शेषः ॥ 2.40.37 ॥
हा रामेति जनाः केचिद्राममातेति चापरे ।
अन्तःपुरं समृद्धं च क्रोशन्तः पर्यदेवयन् ॥ 2.40.38 ॥
हा रामेति । हा रामेति परिदेवनप्रकारः । राममातेत्यत्रापि हेत्यनुषञ्जनीयम् । सन्धिरार्षः । राममातरित्यर्थः । जनाः क्रोशन्तः सन्तः । पर्यदेवयन् अरुदन् । समृद्धम् अन्तःपुरम् । अन्तःपुरजनश्च पर्यदेवयदिति विपरिणामेनानुषङ्गः ॥ 2.40.38 ॥
अन्वीक्षमाणो रामस्तु विषण्णं भ्रान्तचेतसम् ।
राजानं मातरं चैव ददर्शानुगतौ पथि ॥ 2.40.39 ॥
अन्वीक्षमाण इति । अन्वीक्षमाणः आक्रोशानुसोरण पश्चात्सामान्यत ईक्षमाणः ॥ 2.40.39 ॥
स बद्ध इव पाशेन किशोरो मातरं यथा ।
धर्मपाशेन संक्षिप्तः प्रकाशं नाभ्युदैक्षत ॥ 2.40.40 ॥
पदातिनौ च यानार्हावदुःखार्हौ सुखोचितौ ।
दृष्ट्वा संचोदयामास शीघ्रं याहीति सारथिम् ॥ 2.40.41 ॥
स इति । किशोरो ऽश्वबालः । संक्षिप्तः बद्ध इति यावत् । प्रकाशं नाभ्युदैक्षत अपाङ्गेनाभ्युदैक्षतेत्यर्थः ॥ 2.40.4041 ॥
न हि तत् पुरुषव्याघ्रो दुःखजं दर्शनं पितुः ।
मातुश्च सहितुं शक्तस्तोत्रार्दित इव द्विपः ॥ 2.40.42 ॥
नहीति । सहितुं सोढुम् । तोत्रार्दितः वैणुकेन पीडितः । “तोत्रं वैणुकम्” इत्यमरः ॥ 2.40.42 ॥
प्रत्यगारमिवायान्ती वत्सला वत्सकारणात् ।
बद्धवत्सा यथा धेनू राममाता ऽभ्यधावत ॥ 2.40.43 ॥
प्रत्यगारमिति । बद्धवत्सा वत्सकारणात् अगारं प्रत्यायान्ती धेनुरिव । वत्सला राममाता अभ्यधावत् रथमिति शेषः ॥ 2.40.43 ॥
तथा रुदन्तीं कौसल्यां रथं तमनुधावतीम् ।
क्रोशन्तीं रामरामेति हा सीते लक्ष्मणेति च ॥ 2.40.44 ॥
रामलक्ष्मणसीतार्थं स्रवन्तीं वारि नेत्रजम् ।
असकृत् प्रैक्षत सतां नृत्यन्तीमिव मातरम् ॥ 2.40.45 ॥
तथेत्यादि । नृत्यन्तीमिवेति तद्वदितस्ततः परिभ्रमन्तीमित्यर्थः ॥ 2.40.4445 ॥
तिष्ठेति राजा चुक्रोश याहियाहीति राघवः ।
सुमन्त्रस्य बभूवात्मा चक्रयोरिव चान्तरा ॥ 2.40.46 ॥
तिष्ठेति । सुमन्त्रस्य आत्मा मनः चक्रयोरन्तरेव रथपूर्वपश्चाद्भागस्थितयोश्चक्रयोर्मध्यगतः पुरुष इव बभूव । दशरथरामवचनाभ्यामतिसङ्कटं प्राप्त इत्यर्थः ॥ 2.40.46 ॥
नाश्रौषमिति राजानमुपालब्धोपि वक्ष्यसि ।
चिरं दुःखस्य पापिष्ठमिति रामस्तमब्रवीत् ॥ 2.40.47 ॥
राजवचनातिक्रमणे महान् दोषो भविष्यतीत्याशङ्कायामाह–नाश्रौषमिति । पुनरागमनानन्तरं राज्ञा किमर्थं मद्वाक्ये न स्थितो ऽसीति निन्दितोपि नाश्रौषं त्वद्वचनमिति वक्ष्यसि । किमर्थमेवमसत्यवचनम् ?तत्राह चिरमिति । दुःखस्य इदानीमनुभूयमानदुःखस्य । चिरं विलम्बः पापिष्ठम् अतिदुस्सहम् ॥ 2.40.47 ॥
रामस्य स वचः कुर्वन्ननुज्ञाप्य च तं जनम् ।
व्रजतोपि हयान् शीघ्रं चोदयामास सारथिः ॥ 2.40.48 ॥
रामस्येति । तं जनं कौसल्यां परिवेष्ट्यागतमवरोधजनम् । अनुज्ञाप्य रामेणानुज्ञां प्रापय्येत्यर्थः ॥ 2.40.48 ॥
न्यवर्त्तत जनो राज्ञो रामं कृत्वा प्रदक्षिणम् ।
मनसाप्यश्रुवेगैश्च न न्यवर्त्तत मानुषम् ॥ 2.40.49 ॥
न्यवर्ततेति । राज्ञो जनः राजसम्बन्ध्यवरोधजनः । मानुषं मानुषाणां समूहः । समूहार्थे ऽण्प्रत्ययः । मनसा अश्रुवेगैश्च निवृत्तावरोधजनस्य मनसा अश्रुवेगैश्च सह न न्यवर्ततेति सम्बन्धः ॥ 2.40.49 ॥
यमिच्छेत् पुनरायान्तं नैनं दूरमनुव्रजेत् ।
इत्यमात्या महाराजमूचुर्दशरथं वचः ॥ 2.40.50 ॥
कालोचितकर्तव्यज्ञाः सचिवाः शास्त्रार्थकथनेन राजानं निवर्तयन्ति–यमिच्छेदिति ॥ 2.40.50 ॥
तेषां वचः सर्वगुणोपपन्नं प्रस्विन्नगात्रः प्रविषण्णरूपः ।
निशम्य राजा कृपणः सभार्यो व्यवस्थितस्तं सुतमीक्षमाणः ॥ 2.40.51 ॥
तेषामिति । व्यवस्थितः स्थितवान् ॥ 2.40.51 ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे चत्वारिंशः सर्गः ॥ 40 ॥
इति श्रीगोविन्दीराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने चत्वारिंशः सर्गः ॥ 40 ॥