श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकोनचत्वारिंशः सर्गः
ताश्चापि स तथैवार्ता मातृ़र्दशरथात्मजः ।
धर्मयुक्तमिदं वाक्यं निजगाद कृताञ्जलिः ॥ 2.39.37 ॥
ता इति । तथैवार्त्ताः कौसल्येव दुःखिताः ॥ 2.39.37 ॥
संवासात् परुषं किञ्चिदज्ञानाद्वापि यत्कृतम् ।
तन्मे समनुजानीत सर्वाश्चामन्त्रयामि वः ॥ 2.39.38 ॥
संवासादिति । संवासात् एकत्र सहवासात्, चिरपरिचयादित्यर्थः । समनुजानीत क्षान्तमित्यनुज्ञां कुरुतेत्यर्थः । आमन्त्रयामि आपृच्छामि ॥ 2.39.38 ॥
वचनं राघवस्यैतद्धर्मयुक्तं समाहितम् ।
शुश्रुवुस्ताः स्त्रियः सर्वाः शोकोपहतचेतसः ॥ 2.39.39 ॥
जज्ञे ऽथ तासां सन्नादः क्रौञ्चीनामिव निस्वनः ।
मानवेन्द्रस्य भार्याणामेवं वदति राघवे ॥ 2.39.40 ॥
वचनमिति । समाहितं समीचीनार्थयुक्तमित्यर्थः ॥ 2.39.3940 ॥
मुरजपणमवेघघोषवद्दशरथवेश्म बभूव यत् पुरा ।
विलपितपरिदेवनाकुलं व्यसनगतं तदभूत् सुदुःखितम् ॥ 2.39.41 ॥
मुरजपणवेति । मुरजपणवा एव मेघास्तेषां घोषास्तद्वत् । यद्वा मुरजादिसहपाठात् मेघोपि वाद्यविशेषः । मुरजश्च पणवश्च मेघश्च मुरजपणवमेघम् । “द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम्” इत्येकवद्भावः । तद्धोषात् । विलपितपरिदेवनाकुलं विविधानि लपितानि रामगुणकैकेयीदुर्गुणप्रतिपादकवाक्यानि यस्मिंस्तद्विलपितं परिदेवनं रोदनशब्दः तेनाकुलम् । व्यसनगतम् आपद्गतम् अत एव दुःखितमभूत् ॥ 2.39.41 ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकोनचत्वारिंशः सर्गः ॥ 39 ॥
इति श्रीगोविन्दीराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने एकोनचत्वारिंशः सर्गः ॥ 39 ॥