श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे सप्तत्रिंशः सर्गः
महामात्रवचः श्रुत्वा रामो दशरथं तदा ।
अभ्यभाषत वाक्यं तु विनयज्ञो विनीतवत् ॥ 2.37.1 ॥
महामात्रेत्यादि । महामात्रवचः सिद्धार्थवचः । विनीतवत् विनीत इव । अभ्यभाषत सविनयमाहेत्यर्थः ॥ 2.37.1 ॥
त्यक्तभोगस्य मे राजन् वने वन्येन जीवतः ।
किं कार्यमनुयात्रेण त्यक्तसङ्गस्य सर्वतः ॥ 2.37.2 ॥
त्यक्तभोगस्येति । अनुयात्रेण अनुगतबलेन । भोगत्यागेपि सङ्गो वर्त्तते लौकिकानां, सोपि नास्तीत्याह त्यक्तसङ्गस्य सर्वत इति ॥ 2.37.2 ॥
यो हि दत्त्वा गजश्रेष्ठं कक्ष्यायां कुरुते मनः ।
रज्जुस्नेहेन किं तस्य त्यजतः कुञ्जरोत्तमम् ॥ 2.37.3 ॥
य इति । कक्ष्यायाम् इभबन्धनरज्जौ “कक्ष्या प्रकोष्ठे हर्म्यादौ काञ्च्यां मध्येभबन्धने” इत्यमरः ॥ 2.37.3 ॥
तथा मम सतां श्रेष्ठ किं ध्वजिन्या जगत्पते ।
सर्वाण्येवानुजानामि चीराण्येवानयन्तु मे ॥ 2.37.4 ॥
तथेति । ध्वजिन्या सेनया । सर्वाणि त्वया मह्यं दातुमुद्युक्तानि । अनुजानामि प्रददामि । भरतायेति शेषः । सर्वाणि कार्याणि सम्यक्जानामीति वार्थः । चीराणि वल्कलवस्त्राणि । आनयन्तु परिचारका इति शेषः ॥ 2.37.4 ॥
खनित्रपिटके चोभे समानयत गच्छत ।
चतुर्दश वने वासं वर्षाणि वसतो मम ॥ 2.37.5 ॥
अथ चीराणि कैकेयी स्वयमाहृत्य राघवम् ।
उवाच परिधत्स्वेति जनौघे निरपत्रपा ॥ 2.37.6 ॥
खनित्रपिटकेति । खनित्रपिटके खनित्रम् अवदारणम्, पिटकम् अल्पार्थे कन्प्रत्ययः । फलमूलाद्याहरणयोग्याल्पकण्डोलः । “कण्ठोलपिटौ” इत्यमरः । वासं वसतः वासं कुर्वत इत्यर्थः ॥ 2.37.56 ॥
स चीरे पुरुषव्याघ्रः कैकेय्याः प्रतिगृह्य ते ।
सूक्ष्मवस्त्रमवक्षिप्य मुनिवस्त्राण्यवस्तह ॥ 2.37.7 ॥
लक्ष्मणश्चापि तत्रैव विहाय वसने शुभे ।
तापसाच्छादने चैव जग्राह पितुरग्रतः ॥ 2.37.8 ॥
स इति । स रामः कैकेय्यास्सकाशात् मुनिवस्त्राणि परिगृह्य तेषु द्वे चीरे उत्तरीयान्तरीयरूपे । सूक्ष्मवस्त्रमवक्षिप्य अवस्तह, आदीधरदित्यर्थः ॥ 2.37.78 ॥
अथात्मपरिधानार्थं सीता कौशेयवासिनी ।
समीक्ष्य चीरं सन्त्रस्ता पृषती वागुरामिव ॥ 2.37.9 ॥
अथेति । सन्त्रस्ता, अभवदिति शेषः । पृषती मृगी । वागुरां मृगबन्धनीम् “वागुरा मृगबन्धनी” इत्यमरः ॥ 2.37.9 ॥
सा व्यपत्रपमाणेव प्रगृह्य च सुदुर्मनाः ।
कैकेयीकुशचीरे ते जानकी शुभलक्षणा ॥ 2.37.10 ॥
अश्रुसम्पूर्णनेत्रा च धर्मज्ञा धर्मदर्शिनी ।
गन्धर्वराजप्रतिमं भर्त्तारमिदमब्रवीत् ॥ 2.37.11 ॥
सेति । व्यपत्रपमाणा विशेषेण लज्जमाना । कैकेयीकुशचीरे कैकेयीसम्बन्धिनी कुशचीरे । धर्मज्ञा पातिव्रत्यधर्मज्ञा । धर्मदार्शिनी स्वानुष्ठानेन पातिव्रत्यधर्मप्रदर्शिनी । बध्नन्तीतीदमब्रवीदिति सम्बन्धः ॥ 2.37.1011 ॥
कथं नु चीरं बध्नन्ति मुनयो वनवासिनः ।
इति ह्यकुशला सीता सा मुमोह मुहुर्मुहुः ॥ 2.37.12 ॥
कथमिति । मुमोह स्तब्धा बभूवेत्यर्थः ॥ 2.37.12 ॥
कृत्वा कण्ठे च सा चीरमेकमादाय पाणिना ।
तस्थौ ह्यकुशला तत्र व्रीडिता जनकात्मजा ॥ 2.37.13 ॥
तस्यास्तत् क्षिप्रमागम्य रामो धर्मभृतां वरः ।
चीरं बबन्ध सीतायाः कौशेयस्योपरि स्वयम् ॥ 2.37.14 ॥
रामं प्रेक्ष्य तु सीताया बध्नन्तं चीरमुत्तमम् ।
अन्तःपुरगता नार्यो मुमुचुर्वारि नेत्रजम् ॥ 2.37.15 ॥
तदेव विवृणोति–कृत्वेति ॥ 2.37.1315 ॥
ऊचुश्च परमायस्ता रामं ज्वलिततेजसम् ।
वत्स नैवं नियुक्तेयं वनवासे मनस्विनी ॥ 2.37.16 ॥
ऊचुरिति । एवं त्वमिव इयं सीता वनवासे न नियुक्तेति, पित्रेति यावत् ॥ 2.37.16 ॥
पितुर्वाक्यानुरोधेन गतस्य विजनं वनम् ।
तावद्दर्शनमस्यां नः सफलं भवतु प्रभो ॥ 2.37.17 ॥
लक्ष्मणेन सहायेन वनं गच्छस्व पुत्रक ।
नेयमर्हति कल्याणी वस्तुं तापसवद्वने ॥ 2.37.18 ॥
कुरु नो याचनां पुत्र सीता तिष्ठतु भामिनी ।
धर्मनित्यः स्वयं स्थातुं न हीदानीं त्वमिच्छसि ॥ 2.37.19 ॥
पितुरिति । तावत् तवागमनपर्यन्तम् । पितुर्वाक्यानुरोधेन विजनं वनं गतस्य तव दर्शनम् । अस्यां सफलं भवतु, त्वामिवैनां द्रक्ष्याम इति भावः ॥ 2.37.1719 ॥
तासामेवंविधा वाचः शृण्वन् दशरथात्मजः ।
बबन्धैव तदा चीरं सीतया तुल्यशीलया ॥ 2.37.20 ॥
चीरे गृहीते तु तया समीक्ष्य नृपतेर्गुरुः ।
निवार्य सीतां कैकेयीं वसिष्ठो वाक्यमब्रवीत् ॥ 2.37.21 ॥
तासामिति । सीतयेति षष्ठ्यर्थे तृतीया । बबन्धैवेति कैकेय्यनुज्ञाभावादिति भावः ॥ 2.37.2021 ॥
अतिप्रवृत्ते दुर्मेधे कैकेयि कुलपांसनि ।
वञ्चयित्वा च राजानं न प्रमाणे ऽवतिष्ठसे ॥ 2.37.22 ॥
अतीति । अतिप्रवृत्ते अतिक्रम्य प्रवर्त्तमाने प्रमाणे मर्यादायाम् । “प्रमाणं हेतुमर्यादाशास्त्रयत्नप्रमातृषु” इत्यमरः ॥ 2.37.22 ॥
न गन्तव्यं वनं देव्या सीतया शीलवर्जिते ।
अनुष्ठास्यति रामस्य सीता प्रकृतमासनम् ॥ 2.37.23 ॥
न गन्तव्यमिति । प्रकृतं प्रस्तुतम् । आसनं सिंहासनम् । अनुष्ठास्यति अधिष्ठास्यति ॥ 2.37.23 ॥
आत्मा हि दाराः सर्वेषां दारसङ्ग्रहवर्तिनाम् ।
आत्मेयमिति रामस्य पालयिष्यति मेदिनीम् ॥ 2.37.24 ॥
अथ यास्यति वैदेही वनं रामेण सङ्गता ।
वयमप्यनुयास्यामः पुरं चेदं गमिष्यति ॥ 2.37.25 ॥
आत्मेति । दारसङ्ग्रहवर्त्तिनां गृहस्थानाम् । आत्मेयमिति “अर्द्धो वा एष आत्मनो यत्पत्नी” इति श्रुतेरिति भावः ॥ 2.37.2425 ॥
अन्तपालाश्च यास्यन्ति सदारो यत्र राघवः ।
सहोपजीव्यं राष्ट्रं च पुरं च सपरिच्छदम् ॥ 2.37.26 ॥
भरतश्च सशत्रुघ्नः चीरवासा वनेचरः ।
वने वसन्तं काकुत्स्थमनुवत्स्यति पूर्वजम् ॥ 2.37.27 ॥
ततः शून्यां गतजनां वसुधां पादपैः सह ।
त्वमेका शाधि दुर्वृत्ता प्रजानामहिते स्थिता ॥ 2.37.28 ॥
न हि तद्भविता राष्ट्रं यत्र रामो न भूपतिः ।
तद्वनं भविता राष्ट्रं यत्र रामो निवत्स्यति ॥ 2.37.29 ॥
अन्तपाला इति । अन्तपालाः राष्ट्रान्तपरिपालकाः दण्डनायकाः । सहोपजीव्यं जीवाजीवरूपधनसहितम् । सपरिच्छदं दासदासीशकटादिपरिकरयुक्तम् ॥ 2.37.2629 ॥
न ह्यदत्तां महीं पित्रा भरतः शास्तुमर्हति ।
त्वयि वा पुत्रवद्वस्तुं यदि जातो महीपतेः ॥ 2.37.30 ॥
यद्यपि त्वं क्षितितलाद्गगनं चोत्पतिष्यसि ।
पितृवंशचरित्रज्ञः सो ऽन्यथा न करिष्यति ॥ 2.37.31 ॥
अदत्तां प्रीतिपूर्वकमदत्ताम् ॥ 2.37.3031 ॥
तत्त्वया पुत्रगर्द्धिन्या पुत्रस्य कृतमप्रियम् ।
लोके हि न स विद्येत यो न राममनुव्रतः ॥ 2.37.32 ॥
तदिति । पुत्रगर्द्धिन्या पुत्रविषयस्नेहयुक्तया ॥ 2.37.32 ॥
द्रक्ष्यस्यद्यैव कैकेयि पशुव्यालमृगद्विजान् ।
गच्छतः सह रामेण पादपांश्च तदुन्मुखान् ॥ 2.37.33 ॥
द्रक्ष्यसीति । पादपांश्च तदुन्मुखानिति वृक्षाणां तदुन्मुखत्वं नाम रामविषयस्नेहासक्तत्वम् । तथोपरिष्टात् स्पष्टी भविष्यति “अपिवृक्षाः परिम्लानाः सपुष्पाङ्कुरकोरकाः ।” इति ॥ 2.37.33 ॥
अथोत्तमान्याभरणानि देवि देहि स्नुषायै व्यपनीय चीरम् ।
न चीरमस्याः प्रविधीयतेति न्यवारयत्तद्वसनं वसिष्ठः ॥ 2.37.34 ॥
एवं वसिष्ठो भाव्यर्थमुक्त्वा प्रकृतमाह–अथेत्यादि । व्यपनीय निरस्य । प्रविधीयत इतीति वक्तव्ये प्रविधीयतेति सन्धिरार्षः ॥ 2.37.34 ॥
एकस्य रामस्य वने निवासस्त्वया वृतः केकयराजपुत्रि ।
विभूषितेयं प्रतिकर्मनित्या वसत्वरण्ये सह राघवेण ॥ 2.37.35 ॥
न प्रविधीयत इत्येतदुपपादयति–एकस्येति । प्रतिकर्मनित्या अलङ्कारनियता । नित्यमलङ्करणयोग्येत्यर्थः ॥ 2.37.35 ॥
यानैश्च मुख्यैः परिचारकैश्च सुसंवृता गच्छतु राजपुत्री ।
वस्त्रैश्च सर्वैः सहितैर्विधानैर्नेयं वृता ते वरसम्प्रदाने ॥ 2.37.36 ॥
यानैरिति । विधानैः भृङ्गाराद्युपकरणैः ॥ 2.37.36 ॥
तस्मिंस्तथा जल्पति विप्रमुख्ये गुरौ नृपस्याप्रतिमप्रभावे ।
नैव स्म सीता विनिवृत्तभावा प्रियस्य भर्तुः प्रतिकारकामा ॥ 2.37.37 ॥
तस्मिन्निति । प्रतिकारकामा प्रतिकारं सदृशकरणं कामयमाना, भर्तृसदृशतया वनवासकरणमिच्छन्तीत्यर्थः । विनिवृत्तभावा चीरपरिधानाद्विनिवृत्तभावा न बभूवेति ॥ 2.37.37 ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे सप्तत्रिंशः सर्गः ॥ 37 ॥
इति श्रीगोविन्दीराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने सप्तत्रिंशः सर्गः ॥ 37 ॥