श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे षङ्त्रिंशः सर्गः
ततः सुमन्त्रमैक्ष्वाकः पीडितो ऽत्र प्रतिज्ञया ।
स बाष्पमतिनिश्वस्य जगादेदं पुनःपुनः ॥ 2.36.1 ॥
तत इत्यादि । ततः कैकेयीसम्मत्यभावानन्तरम् । अत्र वरदानविषये ॥ 2.36.1 ॥
सूत रत्नसुसम्पूर्णा चतुर्विधबला चमूः ।
राघवस्यानुयात्रार्थं क्षिप्रं प्रतिविधीयताम् ॥ 2.36.2 ॥
सूतेति । अनुयात्रार्थं प्रतिविधीयतां प्रेष्यताम् ॥ 2.36.2 ॥
रूपाजीवाश्च वादिन्यो वणिजश्चमहाधनाः ।
शोभयन्तु कुमारस्य वाहिनीं सुप्रसारिताः ॥ 2.36.3 ॥
रूपाजीवा इति । रूपाजीवा वेश्याः । “वारस्त्री गणिका वेश्या रूपाजीवा” इत्यमरः । वादिन्यः परचित्ताकर्षणचतुरवचनाः । सुप्रसारिताः शिबिरदेशे पण्यपदार्थप्रसारणं कुर्वन्तः ॥ 2.36.3 ॥
ये चैनमुपजीवन्ति रमते यैश्च वीर्यतः ।
तेषां बहुविधं दत्त्वा तान्यप्यत्र नियोजय ॥ 2.36.4 ॥
य इति । एनं रामं बहुविधं सुवर्णरत्नवस्त्रादिकम् । अत्र वाहिन्याम् ॥ 2.36.4 ॥
आयुधानि च मुख्यानि नागराः शकटानि च ।
अनुगच्छन्तु काकुत्स्थं व्याधाश्चारण्यगोचराः ॥ 2.35.5 ॥
आयुधानीति । आयुधानि आयुधधराः । नागराः नगराजाः श्रेष्ठिनः । शकटानि तैलघृतादिप्रापकाणि । व्याधाः वने मार्गदर्शिनः ॥ 2.36.5 ॥
निघ्नन् मृगान् कुञ्जरांश्च पिबंश्चारण्यकं मधु ।
नदीश्च विविधाः पश्यन्न राज्यस्य स्मरिष्यति ॥ 2.36.6 ॥
निघ्नन्निति । राज्यस्येति “अधीगर्थदयेशां कर्मणि” इति षष्ठी ॥ 2.36.6 ॥
धान्यकोशश्च यः कश्चिद्धनकोशश्च मामकः ।
तौ राममनुगच्छेतां वसन्तं निर्जने वने ॥ 2.36.7 ॥
धान्यकोश इति । कोशो वासस्थानम् । अनुगच्छेतां गोण्युष्ट्रादिमुखेनेति शेषः ॥ 2.36.7 ॥
यजन् पुण्येषु देशेषु विसृजंश्चाप्तदक्षिणाः ।
ऋषिभिश्च समागम्य प्रवत्स्यति सुखं वने ॥ 2.36.8 ॥
यजन्निति । विसृजत् दददिति यावत् । दक्षिणाः यज्ञदक्षिणाः ॥ 2.36.8 ॥
भरतश्च महाबाहुरयोध्यां पालयिष्यति ।
सर्वकामैः सह श्रीमान् रामः संसाध्यतामिति ॥ 2.36.9 ॥
एवं ब्रुवति काकुत्स्थे कैकेय्या भयमागतम् ।
मुखं चाप्यगमच्छोषं स्वरश्चापि न्यरुध्यत ॥ 2.36.10 ॥
भरत इति । अयोध्यां पालयिष्यतीति सोपालम्भोक्तिः । सर्वकामैः सह साध्यतां प्रस्थाप्यताम् । इतिशब्दः नियोगसमाप्तिवाचकः ॥ 2.36.910 ॥
सा विषण्णा च सन्त्रस्ता मुखेन परिशुष्यता ।
राजानमेवाभिमुखी कैकेयी वाक्यमब्रवीत् ॥ 2.36.11 ॥
सेति । मुखेनेत्युपलक्षणे तृतीया ॥ 2.36.11 ॥
राज्यं गतजनं साधो पीतमण्डां सुरामिव ।
निरास्वाद्यतमं शून्यं भरतो नाभिपत्स्यते ॥ 2.36.12 ॥
राज्यमिति । पीतमण्डां “मण्डं दधिभवं मस्तु” इति मण्डशब्दो यथा दधिसारवाचकः तद्वदत्रापि मण्डशब्देन सुरासार उच्यते । साधो इति सहासोक्तिः । निरास्वाद्यतमं निर्गतभोग्यवस्तुयुक्तम् ॥ 2.36.12 ॥
कैकेय्यां मुक्तलज्जायां वदन्त्यामतिदारुणम् ।
राजा दशरथो वाक्यमुवाचायतलोचनाम् ॥ 2.36.13 ॥
कैकेय्यामिति । आयतलोचनामिति दैन्योक्तिमूलसौन्दर्योक्तिः ॥ 2.36.13 ॥
वहन्तं किं तुदसि मां नियुज्य धुरि मा ऽहिते ।
अनार्ये कृत्यमारब्धं किन्न पूर्वमुपारुधः ॥ 2.36.14 ॥
वहन्तमिति । हे अहिते अहितकारिणि धुरि वरदानहेतुकभरताभिषेचनरामविवासनरूपदुर्वहभारे । नियुज्य तथा वहन्तं मां वत्सतरमिव किं तुदसि व्यथयसि, त्वदाज्ञप्तरामविवासनकारिणं किमर्थं पुनरपि पीडयसीत्यर्थः । किमधुना पीड्यते ? पूर्वमेव भवता दत्तं खल्वित्यत्राह अनार्य इति । हे अनार्ये आरब्धं कृत्यं सेनाप्रेषणादिकम् । पूर्वं वरप्रार्थनाकाले किमर्थं नोपारुधः नोपरुद्धवती, न प्रार्थितवतीति यावत् । वरयाचनाकाले अनुद्घाटितत्वात् सेनाप्रेषणादिकं न निवर्त्तितव्यमिति भावः ॥ 2.36.14 ॥
तस्यैतत् क्रोधसंयुक्तमुक्तं श्रुत्वा वराङ्गना ।
कैकेयी द्विगुणं क्रुद्धा राजानमिदमब्रवीत् ॥ 2.36.15 ॥
तस्येति । द्विगुणं क्रुद्धा प्रकारान्तरेण मदभिमतं विघटयतीति बहुतरं क्रुद्धेत्यर्थः ॥ 2.36.15 ॥
तवैव वंशे सगरो ज्येष्ठपुत्रमुपारुधत् ।
असमञ्ज इति ख्यातं तथा ऽयं गन्तुमर्हति ॥ 2.36.16 ॥
यद्यपि पूर्वमिदं न वृतं तथाप्यर्थसिद्धमित्याशयेनाह–तवैवेति । उपारुधदिति निष्कासनमेवोच्यते । गन्तुमर्हतीति निर्देशात् तथायमिति निर्द्धन एवेत्यर्थः ॥ 2.36.16 ॥
एवमुक्तो धिगित्वेन राजा दशरथो ऽब्रवीत् ।
व्रीडितश्च जनः सर्वः सा च तं नावबुध्यत ॥ 2.36.17 ॥
एवमिति । प्रतिज्ञातातिरिक्तेपि चापलवतीं निन्दति । धिगिति । सा कैकेयी । तं व्रीडितं जनं नावबुध्यत नाजीगणत् ॥ 2.36.17 ॥
तत्र वृद्धो महामात्रः सिद्धार्थो नाम नामतः ।
शुचिर्बहुमतो राज्ञः कैकेयीमिदमब्रवीत् ॥ 2.36.18 ॥
तत्रेति । महामात्रः प्रधानः । शुचिः अकुटिलः ॥ 2.36.18 ॥
असमञ्जो गृहीत्वा तु क्रीडतः पथि दारकान् ।
सरय्वाः प्रक्षिपन्नप्सु रमते तेन दुर्मतिः ॥ 2.36.19 ॥
असमञ्ज इति । दाकान् बालकान् । तेन प्रक्षेपेण । सशब्दबुद्बुददजननेन हसन् रमत इत्यर्थः ॥ 2.36.19 ॥
तं दृष्ट्वा नागराः सर्वे क्रुद्धा राजानमब्रुवन् ।
असमञ्जं वृणीष्वैकमस्मान् वा राष्ट्रवर्द्धन ॥ 2.36.20 ॥
तमिति । वृणीष्व अत्र नगरे स्थापय ॥ 2.36.20 ॥
तानुवाच ततो राजा किंनिमित्तमिदं भयम् ।
ताश्चापि राज्ञा संपृष्टा वाक्यं प्रकृतयो ऽब्रुवन् ॥ 2.36.21 ॥
तानिति । भयमित्यनन्तरमितिकरणं द्रष्टव्यम् । प्रकृतयः प्रजाः ॥ 2.36.21 ॥
क्रीडतस्त्वेष नः पुत्रान् बालानुद्भ्रान्तचेतनः ।
सरय्वां प्रक्षिपन् मौर्ख्यादतुलां प्रीतिमश्नुते ॥ 2.36.22 ॥
स तासां वचनं श्रुत्वा प्रकृतीनां नराधिपः ।
तं तत्याजाहितं पुत्रं तासां प्रियचिकीर्षया ॥ 2.36.23 ॥
क्रीडत इति । उद्भ्रान्तचेतनः भ्रान्तबुद्धिः ॥ 2.36.2223 ॥
तं यानं शीघ्रमारोप्य सभार्यं सपरिच्छदम् ।
यावज्जीवं विवास्योयमिति स्वानन्वशात्पिता ॥ 2.36.24 ॥
तमिति । अन्वशात् अनुशिष्टवान् ॥ 2.36.24 ॥
स फालपिटकं गृह्य गिरिदुर्गाण्यलोलयत् ।
दिशः सर्वास्त्वनुचरन् स यथा पापकर्मकृत् ॥ 2.36.25 ॥
स फालेति । फालं मन्दमूलादिखननसाधनम् पिटका तद्धारणपात्रम् । एकवद्भावः । गृह्य गृहीत्वा । अलोलयत् कन्दमूलाद्यर्थम् अखनदित्यर्थः । यथा पापकृत्तथाचरन् अलोलयदित्यन्वयः ॥ 2.36.25 ॥
इत्येनमत्यजद्राजा सगरो वै सुधार्मिकः ।
रामः किमकरोत्पापं येनैवमुपरुध्यते ॥ 2.36.26 ॥
इतीति । उपरुध्यते विवास्यते ॥ 2.36.26 ॥
न हि कञ्चन पश्यामो राघवस्यागुणं वयम् ।
दुर्ल्लभो ह्यस्य निरयः शशाङ्कस्येव कल्मषम् ॥ 2.36.27 ॥
अथवा देवि दोषं त्वं कंचित् पश्यसि राघवे ।
तमद्य ब्रूहि तत्त्वेन ततो रामो विवास्यताम् ॥ 2.36.28 ॥
अदुष्टस्य हि सन्त्यागः सत्पथे निरतस्य च ।
निर्दहेदपि शक्रस्य द्युतिं धर्मनिरोधनात् ॥ 2.36.29 ॥
न हीति । निरयः निरयहेतुभूतो दोषः ॥ 2.36.2729 ॥
तदलं देवि रामस्य श्रिया विहतया त्वया ।
लोकतोपि हि ते रक्ष्यः परिवादः शुभानने ॥ 2.36.30 ॥
तदिति । विहतया श्रिया अलम् अभिषेकविघातं मा कुर्वित्यर्थः । रक्ष्यः परिहरणीयः । परिवादः निन्दा ॥ 2.36.30 ॥
श्रुत्वा तु सिद्धार्थवचो राजा श्रान्ततरः स्वनः ।
शोकोपहतया वाचा कैकेयीमिदमब्रवीत् ॥ 2.36.31 ॥
श्रुत्वेति । श्रान्ततरः हीनतरः ॥ 2.36.31 ॥
एतद्वचो नेच्छसि पापवृत्ते हितं न जानासि ममात्मनो वा ।
आस्थाय मार्गं कृपणं कुचेष्टा चेष्टा हि ते साधुपथादपेता ॥ 2.36.32 ॥
अनुव्रजिष्याम्यहमद्य रामं राज्यं परित्यज्य सुखं धनं च ।
सहैव राज्ञा भरतेन च त्वं यथासुखं भुङ्क्ष्व चिराय राज्यम् ॥ 2.36.33 ॥
एतदिति । एतद्वचः सिद्धार्थवचः । कृपणं कुत्सितमित्यर्थः । “कदर्ये कृपणक्षुद्र” इत्यमरः । कुचेष्टेत्येतदुपपादयति चेष्टाहीति ॥ 2.36.3233 ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे षङ्त्रिंशः सर्गः ॥ 36 ॥
इति श्रीगोविन्दीराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने षट्त्रिंशः सर्गः ॥ 36 ॥