श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे पञ्चत्रिंशः सर्गः
ततो निर्द्धूय सहसा शिरो निश्वस्य चासकृत् ।
पाणिं पाणौ विनिष्पिष्य दन्तान् कटकटाप्य च ॥ 2.35.1 ॥
सुमन्त्रस्य कैकेयीविषयकोपानुभावं दर्शयति–तत इत्यादि । कटकटाप्य कटकटाशब्दयुक्तान् कृत्वा । कटकटाश्ाब्दात् “तत्करोति” इति ण्यन्ताल्ल्यप् ॥ 2.35.1 ॥
लोचने कोपसंरक्ते वर्णं पूर्वोचितं जहत् ।
कोपाभिभूतः सहसा सन्तापमशुभं गतः ॥ 2.35.2 ॥
मनः समीक्षमाणश्च सूतो दशरथस्य सः ।
कम्पयन्निव कैकेय्या हृदयं वाक्छरैः शितैः ॥ 2.35.3 ॥
वाक्यवज्रैरनुपमैर्निर्भिन्दन्निव चाशुगैः ।
कैकेय्याः सर्वमर्माणि सुमन्त्रः प्रत्यभाषत ॥ 2.35.4 ॥
कोपसंरक्ते कृत्वेति शेषः । वर्णं देहकान्तिम् । पूर्वोचितं पूर्वाभ्यस्तम्, स्वाभाविकमित्यर्थः । जहत् त्यजन्, कोपरक्ताङ्ग इत्यर्थः । अशुभं तीव्रमित्यर्थः । मनः समीक्षमाणः कैकेयीविषयस्नेहरहितं जानन्नित्यर्थः । सूतः सारथिः । आशुगैरिव बाणैरिव स्थितैः । वाक्यवज्रैः वाक्सारैः । मर्माणि मर्मतुल्यान् दोषान् । निर्भिन्दन् प्रकाशयन् ॥ 2.35.24 ॥
यस्यास्तव पतिस्त्यक्तो राजा दशरथः स्वयम् ।
भर्त्ता सर्वस्य जगतः स्थावरस्य चरस्य च ।
न ह्यकार्यतमं किञ्चित्तव देवीह विद्यते ॥ 2.35.5 ॥
यस्या इत्यादि । यस्यास्तव । यया त्वयेत्यर्थः । तवेत्यत्र तस्या इत्युपस्कार्यम् ॥ 2.35.5 ॥
पतिघ्नीं त्वामहं मन्ये कुलघ्नीमपि चान्ततः ॥ 2.35.6 ॥
पतिघ्नीमीति । अन्ततः पर्यवसानगत्या पतिहननद्वारा सर्वेषां विनाशनादिति भावः ॥ 2.35.6 ॥
यन्महेन्द्रमिवाजय्यं दुष्प्रकम्प्यमिवाचलम् ।
महोदधिमिवाक्षोभ्यं सन्तापयसि कर्मभिः ॥ 2.35.7 ॥
तत्रैव युक्त्यन्तरमाह–यदिति ॥ 2.35.7 ॥
मावमंस्था दशरथं भर्त्तारं वरदं पतिम् ।
भर्तुरिच्छा हि नारीणां पुत्रकोट्यां विशिष्यते ॥ 2.35.8 ॥
मावमंस्था इत्यादि । भर्तुरिच्छा हि भर्त्तुरिच्छानुसरणमेव । पुत्रकोट्या इति पञ्चमी । पुत्रानुसरणं त्यक्त्वापि भर्तुरिच्छानुसर्तव्येति भावः ॥ 2.35.8 ॥
यथावयो हि राज्यानि प्राप्नुवन्ति नृपक्षये ।
इक्ष्वाकुकुलनाथे ऽस्मिंस्तल्लोपयितुमिच्छसि ॥ 2.35.9 ॥
यथेति । यथावयः वयःक्रममनतिक्रम्य, ज्येष्ठानुक्रमेणेत्यर्थः । प्राप्नुवन्ति, पुत्रा इति शेषः । इक्ष्वाकुकुलनाथे, वर्तमान इति शेषः । तत् पूर्वोक्तराजधर्मद्वयम् ॥ 2.35.9 ॥
राजा भवतु ते पुत्रो भरतः शास्तु मेदिनीम् ।
वयं तत्र गमिष्यामो यत्र रामो गमिष्यति ॥ 2.35.10 ॥
राजेति । शास्तु शास्तु च ॥ 2.35.10 ॥
न हि ते विषये कश्चिद्ब्राह्मणे वस्तुमर्हति ।
तादृशं त्वममर्यादमद्य कर्म चिकीर्षसि ॥ 2.35.11 ॥
नेति । विषये देशे “नीवृज्जनपदो देशविषयौ” इत्यमरः । ब्राह्मण इति सत्पुरुषमात्रोपलक्षणम् । तत्र हेतुमाह तादृशमिति । तादृशं ब्राह्मणनिर्गमनार्हम् । अमर्यादं ज्येष्ठाभिषेकादिमर्यादाशून्यम् ॥ 2.35.11 ॥
आश्चर्यमिव पश्यामि यस्यास्ते वृत्तमीदृशम् ।
आचरन्त्या न विवृता सद्यो भवति मेदिनी ॥ 2.35.12 ॥
आश्चर्यमिति । ईदृशम् अमर्यादम् । वृत्तम् आचारम् आचरन्त्या यस्यास्ते मेदिनी न विवृता न विदीर्णा । तस्यास्ते इदमविदारणम् आश्चर्यमिव पश्यामि ॥ 2.35.12 ॥
महाब्रह्मर्षिजुष्टा वा ज्वलन्तो भीमदर्शनाः ।
धिग्वाग्दण्डा न हिंसन्ति रामप्रव्राजने स्थिताम् ॥ 2.35.13 ॥
महाब्रह्मर्षीति । महाब्रह्मर्षिभिः वसिष्ठादिभिः । जुष्टाः प्रयुक्ताः । ज्वलन्तः तीव्राः । धिग्वाग्दण्डाः धिगित्येवंरूपाः वाग्दण्डाः । रामप्रव्राजने स्थितां स्थिरबुद्धिं त्वां न हिंसन्ति । वाशब्द एवकारार्थः । “वा स्याद्विकल्पोपमयोरेवार्थे च समुच्चये” इति विश्वः ॥ 2.35.13 ॥
आम्रं छित्त्वा कुठारेण निम्बं परिचरेत्तु यः ।
यश्चैनं पयसा सिञ्चेन्नैवास्य मधुरो भवेत् ॥ 2.35.14 ॥
अथ कैकेयीदशरथावन्यापदेशेन निन्दति–आम्रमिति । आम्रं मधुरफलदं कुठारेण सद्यः बुद्धिपूर्वकं छित्त्वा निम्बं कटुफलकं यः परिचरेत् आलवालादिकरणेन संरक्षेत् । यश्चेत्यपि स एवोच्यते । एनं निम्बम् । पयसा क्षीरेण सिञ्चेत् । अस्य आम्रं छित्त्वा निम्बं पयसा सिञ्चतः, स इति शेषः । स निम्बः मधुरः मधुरफलदः नैव भवेत् । अनेन सुगुणं रामं वरव्याजेन विवास्य कैकेयीचित्तानुसरणं न युक्तमित्युक्तम् । तेन च सर्वथा कैकेयी कटुरेवेत्युक्तम् ॥ 2.35.14 ॥
अभिजातं हि ते मन्ये यथा मातुस्तथैव च ।
न हि निम्बात् स्रवेत् क्षौद्रं लोके निगदितं वचः ॥ 2.35.15 ॥
अभिजातमिति । अभिजातम् अभिजननम्, स्वभाव इति यावत् । ते मातुर्यादृशी तादृशी तवापि प्रकृतिरित्यर्थः । कारणानुसारिकार्यसम्भवे लौकिकवाक्यं निदर्शयति नहीति । क्षौद्रं मधु । स्रवेदित्यत्र इतिकरणं बोध्यम् ॥ 2.35.15 ॥
तव मातुरसद्ग्राहं विद्मः पूर्वं यथा श्रुतम् ॥ 2.35.16 ॥
कैकेय्याः पतिघ्नीत्वस्वभावो मातृसम्बन्धप्रयुक्त इति प्रस्तावं कृत्वा तन्मातुर्वृत्तान्तं वक्तुमुपक्रमते–तव मातुरित्यादिना । असद्ग्राहम् असदर्थाभिनिवेशम् । पूर्वं यथा येनप्रकारेण श्रुतं तथा विद्मः ॥ 2.35.16 ॥
पितुस्ते वरदः कश्चिद्ददौ वरमनुत्तमम् ।
सर्वभूतरुतं तस्मात् सञ्जज्ञे वसुधाधिपः ।
तेन तिर्यग्गतानां च भूतानां विदितं वचः ॥ 2.35.17 ॥
पितुरिति । कश्चिद्योगी गन्धर्व इति श्रुतम् । तस्माद्वरदानात् रुतं शब्दं “तिरश्चां वाशितं रुतम्” इत्यमरः । सञ्जज्ञे सम्यक् ज्ञातवान् । तेन सर्वभूतरुतज्ञेन राज्ञा । तिर्यग्गतानां तिर्यग्गमनानाम् ॥ 2.35.17 ॥
ततो जृम्भस्य शयने विरुताद्भूरिवर्चसः ।
पितुस्ते विदितो भावः स तत्र बहुधा ऽहसत् ॥ 2.35.18 ॥
तत इति । जृम्भस्य पिपीलिकाविशेषस्य । शयने शयनसमीपे, पर्यङ्काधःप्रदेश इत्यर्थः । भूरिवर्चस इति पितुर्विश्ोषणम् । वरलाभेन अधिकतेजस इत्यर्थः । जृम्भविशेषणं वा तदा सुवर्णवर्चस इत्यर्थः । “सुवर्णेपि भूरि–” इत्यमरः । सः पिता तत्र रुते विषये बहुधा द्विस्त्रिः अहसत् ॥ 2.35.18 ॥
तत्र ते जननी क्रुद्धा मृत्युपाशमभीप्सती ।
हासं ते नृपतं सौम्य जिज्ञासामीति चाब्रवीत् ॥ 2.35.19 ॥
नृपश्चोवाच तां देवीं शंसामि ते यदि ।
ततो मे मरणं सद्यो भविष्यति न संशयः ॥ 2.35.20 ॥
तत्रेति । तत्र हासविषये । क्रुद्धा मां परिहसतीति क्रुद्धा । हे नृप ते हासं हासनिमित्तम् । जिज्ञासामि ज्ञातुमिच्छामि ॥ 2.35.1920 ॥
माता ते पितरं देवि ततः केकयमब्रवीत् ।
शंस मे जीव वा मा वा न मामपहसिष्यसि ॥ 2.35.21 ॥
मातेति । जीव वा मावेत्यनेन कैकेयीमातुः पतिघ्नीत्वमुक्तम् ॥ 2.35.21 ॥
प्रियया च तथोक्तः सन् केकयः पृथिवीपतिः ।
तस्मै तं वरदायार्थं कथयामास तत्त्वतः ॥ 2.35.22 ॥
प्रिययेति । वरदाय तत्त्वतः कथयामास । अत्यन्तसङ्कटेपि विमृश्यकारी सन् वरदाय कथयामासेत्यर्थः ॥ 2.35.22 ॥
ततः स वरदः साधू राजानं प्रत्यभाषत ।
म्रियतां ध्वंसतां वेयं मा कृथास्त्वं महीपते ॥ 2.35.23 ॥
स तच्छ्रुत्वा वचस्तस्य प्रसन्नमनसो नृपः ।
मातरं ते निरस्याशु विजहार कुबेरवत् ॥ 2.35.24 ॥
तत इति । ध्वंसतां स्वाधिकारात् प्रच्युता स्यात् ॥ 2.35.2324 ॥
तथा त्वमपि राजानं दुर्ज्जनाचरिते पथि ।
असद्ग्राहमिमं मोहात् कुरुषे पापदर्शिनि ॥ 2.35.25 ॥
उक्तमर्थं प्रकृते निगमयति–तथेति । दुर्जनाचरिते पथि । स्थितेति शेषः । असद्ग्राहम् असदर्थाभिनिवेशम् ॥ 2.35.25 ॥
सत्यश्चाद्य प्रवादो ऽयं लौकिकः प्रतिभाति मा ।
पितृ़न् समनुजायन्ते नरा मातरमङ्गनाः ॥ 2.35.26 ॥
सत्य इति । सत्य इति मा मां प्रतिभातीत्यन्वयः । “अभितः परितः–” इत्यादिना प्रतियोगे द्वितीया । पितृ़न् समनुजायन्ते । अत्र इति करणं द्रष्टव्यम् । पितृसमानलक्षणा जायन्त इत्यर्थः । अङ्गनाः पुत्र्यः ॥ 2.35.26 ॥
नैवं भव गृहाणेदं यदाह वसुधाधिपः ।
भर्त्तुरिच्छामुपास्वेह जनस्यास्य गतिर्भव ॥ 2.35.27 ॥
नेति । नैवं भवेति पाठः । नेया भवेति पाठे–नेया नेतुं योग्या । विधेया भवेत्यर्थः । वसुधाधिपः यदाह “श्व एव पुष्यो भविता श्वो ऽभिषिच्येत मे सुतः” इति यद्वचनमाह इदं गृहाण । अस्य जनस्य पौरजानपदस्य । गतिः शरणमिति सान्त्वोक्तिः ॥ 2.35.27 ॥
मा त्वं प्रोत्साहिता पापैर्देवराजसमप्रभम् ।
भर्त्तारं लोकभर्त्तारमसद्धर्ममुपादधाः ॥ 2.35.28 ॥
मेति । असद्धर्मं कनिष्ठाभिषेकपूर्वकज्येष्ठविवासनरूपम् । मोपादधाः मा ग्राहय ॥ 2.35.28 ॥
न हि मिथ्या प्रतिज्ञातं करिष्यति तवानघः ।
श्रीमान् दशरथो राजा देवि राजीवलोचनः ॥ 2.35.29 ॥
एवं क्रियमाणे मम वरस्य का गतिरित्याशङ्क्य प्रकारान्तरेण गतिर्भविष्यतीत्याह–नहीति । प्रतिज्ञातं प्रतिश्रुतम् । वरद्वयं तन्मिथ्या न करिष्यति, राज्यादप्यधिकमूल्यरत्नभूषणसम्मानादिभिस्सफलं करिष्यतीत्यर्थः ॥ 2.35.29 ॥
ज्येष्ठो वदान्यः कर्मण्यः स्वधर्मपरिरक्षिता ।
रक्षिता जीवलोकस्य बली रामो ऽभिषिच्यताम् ॥ 2.35.30 ॥
रामस्य राज्याभिषेकार्हता साधनगुणानाह–ज्येष्ठ इति । कर्मण्यः कर्मणि साधुः । सदाचारपर इत्यर्थः । वदान्यः उदारः । स्वधर्मपरिरक्षिता स्वधर्मस्य दुष्टनिग्रहपूर्वकशिष्टपरिपालनरूपक्षत्त्रियधर्मस्य परिरक्षिता । बली रामोभिषिच्यताम्, त्वयेति शेषः । अभिषेकानुमतिः क्रियतामित्यर्थः ॥ 2.35.30 ॥
परिवादो हि ते देवि महान् लोके चरिष्यति ।
यदि रामो वनं याति विहाय पितरं नृपम् ॥ 2.35.31 ॥
परिवाद इति । परिवादः अपवादः, दोषवाद इत्यर्थः ॥ 2.35.31 ॥
स राज्यं राघवः पातु भव त्वं विगतज्वरा ।
न हि ते राघवादन्यः क्षमः पुरवरे वसेत् ॥ 2.35.32 ॥
स इति । ते पुरवरे । हि यस्मात्कारणात् । क्षमो राघवादन्यो न वसेत्, अतः स राघवः राज्यं पात्विति सम्बन्धः । यद्वा राघवादन्यः पुरवरे राजतया वसन् भरतः ते न क्षमः न युक्तः, कनिष्ठस्त्वया राज्ये स्थापयितुं न युक्त इत्यर्थः । हिते हितकरणे । न क्षम इति वा ॥ 2.35.32 ॥
रामे हि यौवराज्यस्थे राजा दशरथो वनम् ।
प्रवेक्ष्यति महेष्वासः पूर्ववृत्तमनुस्मरन् ॥ 2.35.33 ॥
इति सान्त्वैश्च तीक्ष्णैश्च कैकेयीं राजसंसदि ।
सुमन्त्रः क्षोभयामास भूय एव कृताञ्जलिः ॥ 2.35.34 ॥
राम इति । पूर्ववृत्तम् इक्ष्वाकुकुलक्रमागतवृत्तम् ॥ 2.35.3334 ॥
नैव सा क्षुम्यते देवी न च स्म परिदूयते ।
न चास्या मुखवर्णस्य विक्रिया लक्ष्यते तदा ॥ 2.35.35 ॥
नेति । मुखवर्णस्य उग्रमुखवर्णस्य ॥ 2.35.35 ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे पञ्चत्रिंशः सर्गः ॥ 35 ॥
इति श्रीगोविन्दीराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने पञ्चत्रिंशः सर्गः ॥ 35 ॥