०३४ दशरथमूर्च्छा

श्रीरामायणे श्रीमदयोध्याकाण्डे चतुस्त्रिंशः सर्गः

ततः कमलपत्राक्षः श्यामो निरुदरो महान् ।

उवाच रामस्तं सूतं पितुराख्याहि मामिति ॥ 2.34.1 ॥

स रामप्रेषितः क्षिप्रं सन्तापकलुषेन्द्रियः ।

प्रविश्य नृपतिं सूतो निश्वसन्तं ददर्श ह ॥ 2.34.2 ॥

पूर्वसर्गान्तोक्तमर्थं वक्ष्यमाणसङ्घटनार्थं सङ्ग्रहेण दर्शयति–तत इति । विशेषणैर्निर्विकारत्वं सूच्यते । निरुदरः तनुमध्य इत्यर्थः ॥ 2.34.12 ॥

उपरक्तमिवादित्यं भस्मच्छन्नमिवानलम् ।

तटाकमिव निस्तोयमपश्यज्जगतीपतिम् ॥ 2.34.3 ॥

आलोक्य तु महाप्राज्ञः परमाकुलचेतसम् ।

राममेवानुशोचन्तं सूतः प्राञ्जलिरासदत् ॥ 2.34.4 ॥

उपरक्तमिति । उपरक्तं राहुग्रस्तम् । विशेषणान्तरकथनार्थं पुनरपश्यदित्युक्तिः ॥ 2.34.34 ॥

तं वर्द्धयित्वा राजानं सूतः पूर्वं जयाशिषा ।

भयविक्लवया वाचा मन्दया श्लक्ष्णमब्रवीत् ॥ 2.34.5 ॥

तमिति । भयविक्लवया भयेन कातरया । दुःखितो ऽयं किं वदेत् इति भयम् अत एव मन्दया ॥ 2.34.5 ॥

अयं स पुरुषव्याघ्रो द्वारि तिष्ठति ते सुतः ।

ब्राह्मणेभ्यो धनं दत्त्वा सर्वं चैवोपजीविनाम् ॥ 2.34.6 ॥

स त्वा पश्यतु भद्रं ते रामः सत्यपराक्रमः ।

सर्वान् सुहृद आपृच्छय त्वामिदानीं दिदृक्षते ॥ 2.34.7 ॥

गमिष्यति महारयण्यं तं पश्य जगतीपते ।

वृतं राजगुणैः सर्वैरादित्यमिव रश्मिभिः ॥ 2.34.8 ॥

अयमित्यादि । सर्वं गृहोपकरणादिकम् ॥ 2.34.68 ॥

स सत्यवादी धर्मात्मा गाम्भीर्यात्सागरोपमः ।

आकाश इव निष्पङ्को नरेन्द्रः प्रत्युवाच तम् ॥ 2.34.9 ॥

सुमन्त्रानय मे दारान् ये केचिदिह मामकाः ।

दारैः परिवृतः सर्वैर्द्रष्टुमिच्छामि धार्मिकम् ॥ 2.34.10 ॥

स इति । निष्पङ्कः निर्लेपः ॥ 2.34.910 ॥

सोन्तःपुरमतीत्यैव स्त्रियस्ता वाक्यमब्रवीत् ।

आर्याह्वयति वो राजा गम्यतां तत्र मा चिरम् ॥ 2.34.11 ॥

एवमुक्ताः स्त्रियः सर्वाः सुमन्त्रेण नृपाज्ञया ।

प्रचक्रमुस्तद्भवनं भर्तुराज्ञाय शासनम् ॥ 2.34.12 ॥

सोन्तःपुरमिति । ह्वयति आह्वयति ॥ 2.34.1112 ॥

अर्द्धसप्तशतास्तास्तु प्रमदास्ताम्रलोचनाः ।

कौसल्यां परिवार्याथ शनैर्जग्मुर्धृतव्रताः ॥ 2.34.13 ॥

आगतेषु च दारेषु समवेक्ष्य महीपतिः ।

उवाच राजा तं सूतं सुमन्त्रानय मे सुतम् ॥ 2.34.14 ॥

स सूतो राममादाय लक्ष्मणं मैथिलीं तदा ।

जगामाभिमुखस्तूर्णं सकाशं जगतीपतेः ॥ 2.34.15 ॥

अर्द्धसप्तशता इति । अर्द्धसप्तशताः अर्द्धं सप्तशतस्येति विग्रहः । “अर्द्धं नपुंसकम्” इति समासः । ताम्रलोचनाः सदा रामविवासननिमित्तरोदनादिति भावः ॥ 2.34.1315 ॥

स राजा पुत्रमायान्तं दृष्ट्वा दूरात् कृताञ्जलिम् ।

उत्पपातासनात्तूर्णमार्त्तः स्त्रीजनसंवृतः ॥ 2.34.16 ॥

स इति । उत्पपात उदतिष्ठत् ॥ 2.34.16 ॥

सोभिदुद्राव वेगेन रामं दृष्ट्वा विशां पतिः ।

तमसंप्राप्य दुःखार्त्तः पपात भूवि मूर्च्छितः ॥ 2.34.17 ॥

स इति । अभिदुद्राव अभिमुखमाजगाम ॥ 2.34.17 ॥

तं रामो ऽभ्यपतत् क्षिप्रं लक्ष्मणश्च महारथः ।

विसंज्ञमिव दुःखेन सशोकं नृपतिं तदा ॥ 2.34.18 ॥

तमिति । अभ्यपतत् उत्थापनार्थमिति भावः । इवशब्दः एवकारार्थः ॥ 2.34.18 ॥

स्त्रीसहस्रनिनादश्च संजज्ञे राजवेश्मनि ।

हाहा रामेति सहसा भूषणध्वनिमूर्च्छितः ॥ 2.34.19 ॥

स्त्रीसहस्रनिनाद इति । भूषणध्वनिभिः मूर्च्छितः व्याप्तः ॥ 2.34.19 ॥

तं परिष्वज्य बाहुभ्यां तावुभौ तावुभौ रामलक्ष्मणौ ।

पर्यङ्के सीतया सार्द्धं रुदन्तः समवेशयन् ॥ 2.34.20 ॥

तमिति । रामलक्ष्मणौ सीतया सार्द्धं तं बाहुभ्यां परिष्वज्य पर्यङ्के समवेशयन्नित्यर्थः ॥ 2.34.20 ॥

अथ रामो मुहूर्त्तेन लब्धसंज्ञं महीपतिम् ।

उवाच प्राञ्जलिर्भूत्वा शोकार्णवपरिप्लुतम् ॥ 2.34.21 ॥

अथेति । मुहूर्त्तस्येतिपाठे–मुहूर्त्तेनेत्यर्थः ॥ 2.34.21 ॥

आपृच्छे त्वां महाराज सर्वेषामीश्वरो ऽसि नः ।

प्रस्थितं दण्डकारण्यं पश्य त्वं कुशलेन माम् ॥ 2.34.22 ॥

आपृच्छ इति । कुशलेन चक्षुषेति शेषः । हेतौ तृतीया वा ॥ 2.34.22 ॥

लक्ष्मणं चानुजानीहि सीता चान्वेति मां वनम् ।

कारणैर्बहुभिस्तथ्यैर्वार्यमाणौ न चेच्छतः ॥ 2.34.23 ॥

लक्ष्मणमिति । सीता चेति तामप्यनुजानीहीति भावः । तौ निवर्त्तयेत्याशङ्क्याह कारणैरिति । कारणैः दुःखादिकारणैः । तथ्यैः परमार्थैः । न चेच्छतः अननुगमनमिति शेषः ॥ 2.34.23 ॥

अनुजानीहि सर्वान्नः शोकमुत्सृज्य मानद ।

लक्ष्मण्ां मां च सीतां च प्रजापतिरिव प्रजाः ॥ 2.34.24 ॥

अनुजानीहीति । लक्ष्मणं सीतां मां च सर्वान्नः अनुजानीहीत्यन्वयः । “त्यदादीनि सर्वैर्नित्यम्” इत्येकशेषः ॥ 2.34.24 ॥

प्रतीक्षमाणमव्यग्रमनुज्ञां जगतीपतेः ।

उवाच राजा संप्रेक्ष्य वनवासाय राघवम् ॥ 2.34.25 ॥

प्रतीक्षमाणमिति । वनवासाय जगतीपतेः स्वस्यानुज्ञां प्रतीक्षमाणमित्यन्वयः ॥ 2.34.25 ॥

अहं राघव कैकेय्या वरदानेन मोहितः ।

अयोध्यायां त्वमेवाद्य भव राजा निगृह्य माम् ॥ 2.34.26 ॥

एवमुक्तो नृपतिना रामो धर्मभृतां वरः ।

प्रत्युवाचाञ्जलिं कृत्वा पितरं वाक्यकोविदः ॥ 2.34.27 ॥

अहमिति । मोहितः वञ्चित इत्यर्थः ॥ 2.34.2627 ॥

भवान् वर्षसहस्राय पृथिव्या नृपते पतिः ।

अहं त्वरण्ये वत्स्यामि न मे कार्यं त्वया ऽनृतम् ॥ 2.34.28 ॥

भवानिति । वर्षसहस्राय अनेकवर्षाणीत्यर्थः । मे मह्यम् । अनृतम् अनृतवचनम् ॥ 2.34.28 ॥

नव पञ्च च वर्षाणि वनवासे विहृत्य ते ।

पुनः पादौ ग्रहीष्यामि प्रतिज्ञान्ते नराधिप ॥ 2.34.29 ॥

नवेति । प्रतिज्ञान्ते प्रतिज्ञावसाने ॥ 2.34.29 ॥

रुदन्नार्त्तः प्रियं पुत्रं सत्यपाशेन संयतः ।

कैकेय्या चोद्यमानस्तु मिथो राजा तमब्रवीत् ॥ 2.34.30 ॥

रुदन्निति । मिथः रहसि । कैकेय्या चोद्यमानः अद्यैव प्रस्थापयेति प्रेर्यमाणः ॥ 2.34.30 ॥

श्रेयसे वृद्धये तात पुनरागमनाय च ।

गच्छस्वारिष्टमव्यग्रः पन्थानमकुतोभयम् ॥ 2.34.31 ॥

श्रेयस इति । श्रेयसे पारलौकिकफलाय । वृद्धये ऐहिकफलाय । गच्छस्व गच्छ । अरिष्टं शुभम् “अरिष्टेति शुभाशुभे” इत्यमरः । अकुतोभयं कुतश्चिदपिजन्तोर्भयरहितम् ॥ 2.34.31 ॥

न हि सत्यात्मनस्तात धर्माभिमनसस्तव ।

विनिवर्त्तयितुं बुद्धिः शक्यते रघुनन्दन ॥ 2.34.32 ॥

नेति । सत्यात्मनः सत्यस्वभावस्य । “आत्मा देहे धृतौ जीवे स्वभावे” इति वैजयन्ती । धर्माभिमनसः धर्माभिनिविष्टमनसः ॥ 2.34.32 ॥

अद्य त्विदानीं रजनीं पुत्र मा गच्छ सर्वथा ।

एकाहदर्शनेनापि साधु तावच्चराम्यहम् ॥ 2.34.33 ॥

अद्येति । अद्य अस्मिन् दिने इदानीम्, आसन्नामित्यर्थः । साधु सुखं चरामि वसामि ॥ 2.34.33 ॥

मातरं मां च संपश्यन् वसेमामद्य शर्वरीम् ।

तर्पितः सर्वकामैस्त्वं श्वः काले साधयिष्यसि ॥ 2.34.34 ॥

मातरमिति । साधयिष्यसि गमिष्यसि । काले प्रातःकाले ॥ 2.34.34 ॥

दुष्करं क्रियते पुत्र सर्वथा राघव त्वया ।

मत्प्रियार्थं प्रियांस्त्यक्त्वा यद्यासि विजनं वनम् ॥ 2.34.35 ॥

दुष्करमिति । मत्प्रियार्थं मम परलोकप्रियार्थमित्यर्थः । अन्यथा उत्तरश्लोकविरोधात् । प्रियान् अभिमतवर्गान् ॥ 2.34.35 ॥

न चैतन्मे प्रियं पुत्र शपे सत्येन राघव ।

छन्नया चलितस्त्वस्मि स्त्रिया च्छन्नाग्निकल्पया ॥ 2.34.36 ॥

नेति । छन्नया गूढाभिप्रायया । चलितः स्वाधीनत्वाच्चलनं प्राप्तः । (छुरितइति) पाठान्तरे तु वञ्चित इत्यर्थः । छन्नाग्निकल्पया भस्मच्छन्नाङ्गारतुल्यया ॥ 2.34.36 ॥

वञ्चना या तु लब्धा मे तां त्वं निस्तर्तुमिच्छसि ।

अनया वृत्तसादिन्या कैकेय्या ऽभिप्रचोदितः ॥ 2.34.37 ॥

वञ्चनेति । या वञ्चचना सामान्येन प्रतिश्रुतयोर्वरयोर्भरताभिषेचनत्वद्विवासनरूपविशेषपर्यवसायित्वरूपा । मे मया लब्धा । तामपि वञ्चनां वृत्तसादिन्या कुलोचिताचारनाशिन्या अनया प्रचोदितस्त्वं निस्तर्तुमिच्छसि समापयितुमिच्छसि । अहो ते गुण इति भावः ॥ 2.34.37 ॥

न चैतदाश्चर्यतमं यस्त्वं ज्येष्ठः सुतो मम ।

अपानृतकथं पुत्र पितरं कर्तुमिच्छसि ॥ 2.34.38 ॥

नचेति । अपानृतकथम् अपगतासत्यवचनम् ॥ 2.34.38 ॥

अथ रामस्तथा श्रुत्वा पितुरार्त्तस्य भाषितम् ।

लक्ष्मणेन सह भ्रात्रा दीनो वचनमब्रवीत् ॥ 2.34.39 ॥

अथेति । भाषितम् एकाहदर्शनेनापीत्याद्युक्तम् । दीनः एकाहमपि पितृदर्शनसौख्यं न लब्धमिति दीनः ॥ 2.34.39 ॥

प्राप्स्यामि यानद्य गुणान् को मे श्वस्तान् प्रदास्यति ।

उपक्रमणमेवातः सर्वकामैरहं वृणे ॥ 2.34.40 ॥

तर्पितः सर्वकामैरित्यस्योत्तरमाह–प्राप्स्यामीति । गुणान् गुणविशिष्टाभिमतपदार्थान् सर्वकामैरपक्रमणमेव वृणे, सर्वकामप्रतिनिधित्वेन अपक्रमणमेव वरय इत्यर्थः ॥ 2.34.40 ॥

इयं सराष्ट्रा सजना धनधान्यसमाकुला ।

मया विसृष्टा वसुधा भरताय प्रदीयताम् ॥ 2.34.41 ॥

इयमिति । विसृष्टा त्यक्ता ॥ 2.34.41 ॥

वनवासकृता बुद्धिर्न च मे ऽद्य चलिष्यति ॥ 2.34.42 ॥

वनवासेत्यर्द्धमेकं वाक्यम् ॥ 2.34.42 ॥

यस्तुष्टेन वरो दत्तः कैकेय्यै वरद त्वया ।

दीयतां निखिलेनैव सत्यस्त्वं भव पार्थिव ॥ 2.34.43 ॥

य इति । अत्र स इत्यध्याहार्यः । निखिलेन सर्वात्मना । अतस्त्वं सत्यः सत्यवचनो भव ॥ 2.34.43 ॥

अहं निदेशं भवतो यथोक्तमनुपालयन् ।

चतुर्दश समा वत्स्ये वने वनचरैः सह ॥ 2.34.44 ॥

अहमिति । निदेशं शासनं “निदेशश्शासनम्” इत्यमरः । वनचरैः तपस्विभिः ॥ 2.34.44 ॥

मा विमर्शो वसुमती भरताय प्रदीयताम् ।

न हि मे कांक्षितं राज्यं सुखमात्मनि वा प्रियम् ।

यथा निदेशं कर्तुं वै तवैव रघुनन्दन ॥ 2.34.45 ॥

अपगच्छतु ते दुःखं माभूर्बाष्पपरिप्लुतः ।

न हि क्षुभ्यति दुर्द्धर्षः समुद्रः सरितां पतिः ॥ 2.34.46 ॥

नैवाहं राज्यमिच्छामि न सुखं न च मैथिलीम् ।

नैव सर्वानिमान् कामान् न स्वर्गं नैव जीवितम् ॥ 2.34.47 ॥

भव राजा निगृह्य मामित्यस्योत्तरमाह–मा विमर्श इति । मा विमर्शः विचारो माभूत् । आत्मनि मनसि । सुखं प्रियं वा उद्दिश्य राज्यं न कांक्षितम्, अपि तु तव निदेशं तवाज्ञाम् । यथाकर्त्तुमेव यथावत् कर्तुमेवेत्यर्थः ॥ 2.34.4547 ॥

त्वामहं सत्यमिच्छामि नानृतं पुरुषर्षभ ।

प्रत्यक्षं तव सत्येन सुकृतेन च ते शपे ॥ 2.34.48 ॥

त्वामहमिति । अहं त्वां सत्यं सत्ययुक्तमिच्छामि । अनृतम् अनृतयुक्तं नेच्छामि । तव प्रत्यक्षं प्रत्यक्षदैवभूतस्य तव सन्निधौ । सत्येन सुकृतेन च । ते तुभ्यं शप इत्यन्वयः । “श्लाघह्नुङ्स्था–” इत्यादिना चतुर्थी ॥ 2.34.48 ॥

न च शक्यं मया तात स्थातुं क्षणमपि प्रभो ।

न शोकं धारयस्वैनं न हि मे ऽस्ति विपर्ययः ॥ 2.34.49 ॥

न चेति । स्थातुम् । इह नगर इति शेषः । विपर्ययः संकल्पितवनगमनोद्योगनिवृत्तिः ॥ 2.34.49 ॥

अर्थितो ह्यस्मि कैकेय्या वनं गच्छेति राघव ।

मया चोक्तं व्रजामीति तत्सत्यमनुपालये ॥ 2.34.50 ॥

न केवलं त्वदाज्ञापरिपालनार्थमेव गच्छामि किन्तु मत्प्रतिज्ञापरिपालनार्थमपीत्याह–अर्थित इति ॥ 2.34.50 ॥

मा चोत्कण्ठां कृथा देव वने रंस्यामहे वयम् ।

प्रशान्तहरिणाकीर्णे नानाशकुननादिते ॥ 2.34.51 ॥

मा चेति । उत्कण्ठाम् उत्कलिकाम् “उत्कण्ठोत्कलिके समे” इत्यमरः । शोकातुरतया स्मरणमिति यावत् ॥ 2.34.51 ॥

पिता हि दैवतं तात देवतानामपि स्मृतम् ।

तस्माद्दैवतमित्येव करिष्यामि पितुर्वचः ॥ 2.34.52 ॥

चतुर्दशसु वर्षेषु गतेषु नरसत्तम ।

पुनर्द्रक्ष्यसि मां प्राप्तं सन्तापो ऽयं विमुच्यताम् ॥ 2.34.53 ॥

पितेति । देवतानामपि दैवतमिति स्मृतम्, किमुत मनुष्याणामिति भावः । दैवतमित्येव पिता परमदैवतमिति मत्वेत्यर्थः ॥ 2.34.5253 ॥

येन संस्तम्भनीयो ऽयं सर्वो बाष्पगलो जनः ।

स त्वं पुरुष शार्दूल किमर्थं विक्रियां गतः ॥ 2.34.54 ॥

येनेति । संस्तम्भनीयः निवृत्तबाष्पः करणीयः ॥ 2.34.54 ॥

पुरं च राष्ट्रं च मही च केवला मया विसृष्टा भरताय दीयताम् ।

अहं निदेशं भवतो ऽनुपालयन् वनं गमिष्यामि चिराय सेवितुम् ॥ 2.34.55 ॥

सद्यःशोकनिवृत्तये पुनःपुनराह–पुरं चेत्यादि । मया निसृष्टं पुरं च दीयतां मया निसृष्टं राज्यं च दीयतामिति प्रत्येकमन्वयः । सेवितुं न पुनरद्यैवागन्तुम् ॥ 2.34.55 ॥

मया निसृष्टां भरतो महीमिमां सशैलखण्डां सपुरां सकाननाम् ।

शिवां सुसीमामनुशास्तु केवलं त्वया यदुक्तं नृपते तथास्तु तत् ॥ 2.34.56 ॥

मयेति । शिवामित्यनेन राज्यस्य दुर्भरत्वान्न त्यजामीति गम्यते । इदं च स्वेच्छया न करोमि किंतु त्वदनुज्ञयैवेत्याह त्वया यदिति ॥ 2.34.56 ॥

न मे तथा पार्थिव धीयते मनो महत्सु कामेषु न चात्मनः प्रिये ।

यथा निदेशे तव शिष्टसम्मते व्यपैतु दुःखं तव मत्कृते ऽनघ ॥ 2.34.57 ॥

नेति । धीयते स्थाप्यते ॥ 2.34.57 ॥

तदद्य नैवानघ राज्यमव्ययं न सर्वकामान्न सुखं न मैथिलीम् ।

न जीवितं त्वामनृतेन योजयन् वृणीय सत्यं व्रतमस्तु ते तथा ॥ 2.34.58 ॥

तदिति । त्वाम् अनृतेन योजयन् सन् राज्यादिकं न वृणीय तव व्रतं यथासत्यं तथास्त्वित्यन्वयः ॥ 2.34.58 ॥

फलानि मूलानि च भक्षयन् वने गिरींश्च पश्यन् सरितः सरांसि च ।

वनं प्रविश्यैव विचित्रपादपं सुखी भविष्यामि तवास्तु निर्वृतिः ॥ 2.34.59 ॥

मम दुःखं भविष्यतीति त्वया न क्लेष्टव्यमित्याह–फलानीति । निर्वृतिः सुखम् ॥ 2.34.59 ॥

एवं स राजा व्यसनाभिपन्नः शोकेन दुःखेन च ताम्यमानः ।

आलिङ्ग्य पुत्रं सुविनष्टसंज्ञो मोहं गतो नैव चिचेष्ट किंचित् ॥ 2.34.60 ॥

एवमिति । एवम् उक्तवन्तमिति शेषः । त्वग्दाहोत्पादकः शोकः । दुःखम् अन्तर्व्यथोत्पादकम् । न चिचेष्ट न चेष्टते स्म ॥ 2.34.60 ॥

देव्यस्ततः संरुरुदुः समेतास्तां वर्जयित्वा नरदेवपत्नीम् ।

रुदन् सुमन्त्रोपि जगाम मूर्च्छां हाहाकृतं तत्र बभूव सर्वम् ॥ 2.34.61 ॥

देव्य इति । तां ‘राम तस्मादितः शीघ्रं वनं गन्तुं त्वमर्हसि’ इत्याद्युक्तक्रौर्ययुक्तां कैकेयीम् । हाहाकृतं हाहाशब्दस्य कृतं करणं यस्मिंस्तत्तथा । सर्वं परिचारकादि जनजातम् ॥ 2.34.61 ॥

इत्यार्षे श्रीरामायणे श्रीमदयोध्याकाण्डे चतुस्त्रिंशः सर्गः ॥ 34 ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने चतुस्त्रिंश सर्गः ॥ 34 ॥