०३१ लक्ष्मणानुगमनम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकत्रिंशः सर्गः

एवं श्रुत्वा तु संवादं लक्ष्मणः पूर्वमागतः ।

बाष्पपर्याकुलमुखः शोकं सोढुमशक्नुवन् ॥ 2.31.1 ॥

स भ्रातुश्चरणौ गाढं निपीड्य रघुनन्दनः ।

सीतामुवाचातियशा राघवं च महाव्रतम् ॥ 2.31.2 ॥

एवं रामेण सीतागमने ऽङ्गीकृते लक्ष्मणस्यानुगमनप्रार्थनमुपक्षिपति–एवमित्यादिना । श्लोकद्वयमेकं वाक्यम् । एवं संवादं पूर्वोक्तं सीतारामयोस्संवादम् । पूर्वमागतः कौसल्यागृहाद्रामेण सह पूर्वमेवागतः । शोकम् अर्द्धशरीरभूतायाः सीताया अपि वनानुगमनं कृच्छ्रादप्यङ्गीकृतम् मम कथं तत्सम्भविष्यतीति विचारजं शोकम् ॥ स्वानुवृत्तिरूपप्रयोजनाय सीतापुरुषकारेण रामे शरणागतिं विधत्ते–स भ्रातुरिति । सः रामानुवृत्तिरूपप्रयोजनाय उपायान्तरशून्यः । भ्रातुरित्यवर्जनीयसम्बन्धकथनाच्छरण्यत्वमुक्तम् । चरणौ निपीड्येति शरणागत्युक्तिः । गाढमित्यश्लथत्वोक्त्या महाविश्वास उक्तः । रघुनन्दनः लक्ष्मणः । अतियशाः आनुकूल्यसङ्कल्पप्रातिकूल्यवर्जनवान् । आदौ सीतां पुरुषकारत्वेन परिगृह्योवाच पश्चात्तत्पुरुषकारेण महाव्रतम् “न त्यजेयं कथंचन । एतद्व्रतं मम” इत्युक्तगुरुतरव्रतयुक्तम् । राघवं रघुराक्षससंवादादिप्रसिद्धकुलधर्मशरणागतरक्षणं च । उवाच शरणागतेः सर्वफलप्रदत्वेन स्वाभिमतफलं विज्ञापयामास । निपीड्येत्यन्तेन द्वयस्य पूर्वखण्डोक्तशरणागतिरनूदिता । राघवमुवाचेत्यनेनोत्तरखण्डोक्तफलप्रार्थनोक्ता । सीतामुवाचेत्युभयत्र पुरुषकारपरिग्रहोक्तिः ॥ 2.31.12 ॥

यदि गन्तुं कृता बुद्धिर्वनं मृगगजायुतम् ।

अहं त्वा ऽनुगमिष्यामि वनमग्रे धनुर्धरः ॥ 2.31.3 ॥

कैङ्कर्यप्रार्थनमेवाह–यदीति । यदीत्यनेन रामस्य वनगमनं स्वानभिमतमित्युक्तम् । कैङ्कर्यसाधनमाह धनुर्द्धर इति । धनुर्द्धरत्वे हेतुमाह–मृगेति । अहं त्वां अनु पश्चादग्रे च वनं गमिष्यामि तवाग्रे पश्चाद्वा यत्र दुष्टमृगशङ्का तत्र सावधानो गमिष्यामीत्यर्थः । अत एव ‘मया समेतः’ इति वक्ष्यति ॥ 2.31.3 ॥

मया समेतो ऽरण्यानि बहूनि विचरिष्यसि ।

पक्षिभिर्मृगयूथैश्च संघुष्टानि समन्ततः ॥ 2.31.4 ॥

मया धनुर्द्धरेण मया । त्वदीयं धनुर्वहतेति वार्थः । बहूनीत्यनेन सर्वदेशसर्वकालसर्वावस्थोचितसर्वविधकैङ्कर्य्यप्रार्थनं कृतम् ॥ 2.31.4 ॥

न देवलोकाक्रमणं नामरत्वमहं वृणे ।

ऐश्वर्यं वापि लोकानां कामये न त्वया विना ॥ 2.31.5 ॥

एवं ब्रुवाणः सौमित्रिर्वनवासाय निश्चितः ।

रामेण बहुभिः सान्त्वैर्निषिद्धः पुनरब्रवीत् ॥ 2.31.6 ॥

अनन्योपायत्ववदनन्यप्रयोजनत्वमाह–नेति । देवलोकाक्रमणम् “देवानां पूरयोध्या” इत्युक्तपरमपदप्राप्तिं त्वया विना न वृणे । त्वत्कैङ्कर्य्यविनाकृतं मोक्षमपि न वाञ्छामीत्यर्थः । अमरत्वम् “जरामरणमोक्षाय” इत्युक्तं कैवल्याख्यं मोक्षमपि न वृणे । लोकानामैश्वर्यं त्रिलोकाधिपतित्वम्, ब्रह्मत्वमिति यावत् । मोक्षमप्यकामयमानो ऽहं कथं कैवल्यादिकं कामयेयेति भावः । यद्वा अवरोहक्रमेण त्रैलोक्यैश्वर्यादिकमपि न कामय इति । अतो न पतत्प्रकर्षदोषः । देवलोकगमनं देवत्वमिन्द्रत्वं वा न कामय इति वाक्यार्थस्तुच्छः ॥ 2.31.56 ॥

अनुज्ञातश्च भवता पूर्वमेव यदस्म्यहम् ।

किमिदानीं पुनरिदं क्रियते मे निवारणम् ॥ 2.31.7 ॥

अनुज्ञात इति । अनुज्ञातश्च अनुज्ञात एव । “उपक्लृप्तं च यत्किञ्चिदभिषेकार्थमद्य मे । सर्वं विसर्जय क्षिप्रं कुरु कार्यं निरत्ययम् ॥” इति वचनात्। अन्यत्र च “तस्मादपरितापः संस्त्वमप्यनुविधाय माम्। प्रतिसंहारय क्षिप्रमाभिषेचनिकीः क्रियाः ॥” इति । अपरत्र च “भ्रातृपुत्रसमौ चापि द्रष्टव्यौ च विशेषतः । त्वया भरतशत्रुघ्नौ प्राणैः प्रियतरौ मम ॥” इति। भरतशत्रुघ्नयोरेवानुसरणीयत्वोक्तेश्चानुज्ञा सिद्धा ॥ 2.31.7 ॥

यदर्थं प्रतिषेधो मे क्रियते गन्तुमिच्छतः ।

एतदिच्छामि विज्ञातुं संशयो ऽयं ममानघ ॥ 2.31.8 ॥

यदर्थमिति । अनुज्ञातत्वेपि प्रतिषेधात् किमद्य मया ऽपराद्धमिति संशयः ॥ 2.31.8 ॥

ततो ऽब्रवीन्महातेजा रामो लक्ष्मणमग्रतः ।

स्थितं प्राग्गामिनं वीरं याचमानं कृताञ्जलिम् ॥ 2.31.9 ॥

तत इति । स्थितम् अग्रतः स्थितम् । प्राग्गामिनं प्रागेव गन्तुमुद्युक्तम् । वीरं प्राग्गमनोचितवीर्यवन्तम् । याचमानं गमनाज्ञां याचमानम् । कृताञ्जलिं याच्ञाव्यञ्जकाञ्जलियुक्तम् ॥ 2.31.9 ॥

स्निग्धो धर्मरतो वीरः सततं सत्पथे स्थितः ।

प्रियः प्राणसमो वश्यो भ्राता चापि सखा च मे ॥ 2.31.10 ॥

स्निग्ध इत्यादिविशेषणानि स्वकार्यकरणार्हतानुगुणानि ॥ 2.31.10 ॥

मयाद्य सह सौमित्रे त्वयि गच्छति तद्वनम् ।

को भरिष्यति कौसल्यां सुमित्रां वा यशस्विनीम् ॥ 2.31.11 ॥

प्रतिषेधनिमित्तमाह–मयेति । कौसल्यादिभरणार्थमेव त्वं वारितोसि, पूर्वानुज्ञा तु तात्कालिकपरिहारायेति भावः ॥ 2.31.11 ॥

अभिवर्षति कामैर्यः पर्जन्यः पृथिवीमिव ।

स कामपाशपर्यस्तो महातेजा महीपतिः ॥ 2.31.12 ॥

राजैव भरिष्यतीत्यत्राह–अभिवर्षतीति । कामपाशपर्यस्तः पराभिलाषरूपपाशेन संयत इत्यर्थः ॥ 2.31.12 ॥

सा हि राज्यमिदं प्राप्य नृपस्याश्वपतेः सुता ।

दुःखितानां सपत्नीनां न करिष्यति शोभनम् ॥ 2.31.13 ॥

न स्मरिष्यति कौसल्यां सुमित्रां च सुदुःखिताम् ।

भरतो राज्यमासाद्य कैकेय्यां पर्य्यवस्थितः ॥ 2.31.14 ॥

तर्हि भरतो भरिष्यतीत्यपेक्षायां सोपि कैकेयीपरवशो न भरिष्यतीत्याशयेनाह–सा हीत्यादि ॥ 2.31.1314 ॥

तामार्यां स्वयमेवेह राजानुग्रहणेन वा ।

सौमित्रे भर कौसल्यामुक्तमर्थमिमं चर ॥ 2.31.15 ॥

मया वा कथं भर्तुं शक्यमित्यत आह–तामिति । राजानुग्रहणेन राजानुमत्या, तदभावे स्वयमेव वा भरेत्यर्थः । अस्योत्तरं मा वदेत्याह उक्तमर्थमिमं चरेति ॥ 2.31.15 ॥

एवं मम च ते भक्तिर्भविष्यति सुदर्शिता ।

धर्मज्ञ गुरुपूजायां धर्मश्चाप्यतुलो महान् ॥ 2.31.16 ॥

त्वत्कैङ्कर्य्यपरस्य मे किमनेनेत्यत आह–एवमिति । एवम् एवं च सतीत्यर्थः । मम मयीत्यर्थः । गुरुपूजा मातृशुश्रूषणम् ॥ 2.31.16 ॥

एवं कुरुष्व सौमित्रे मत्कृते रघुनन्दन ।

अस्माभिर्विप्रहीणाया मातुर्नो न भवेत्सुखम् ॥ 2.31.17 ॥

एवमिति । अस्माभिः आवाभ्यां सीतया चेत्यर्थः । नः नौ । “अस्मदो द्वयोश्च” इति द्विवचनस्य बहुवचनम् ॥ 2.31.17 ॥

एवमुक्तस्तु रामेण लक्ष्मणः श्लक्ष्णया गिरा ।

प्रत्युवाच तदा रामं वाक्यज्ञो वाक्यकोविदम् ॥ 2.31.18 ॥

एवमिति । वाक्यज्ञो वाक्यकोविदमिति “उत्तरोत्तरयुक्तौ च वक्ता वाचस्पतिर्यथा” इत्युक्तवक्तृत्वविशिष्टम्, राममपि प्रतिवचनरचनाचातुर्येण तोषयितुं समर्थ इत्यर्थः ॥ 2.31.18 ॥

तवैव तेजसा वीर भरतः पूजयिष्यति ।

कौसल्यां च सुमित्रां च प्रयतो नात्र संशयः ॥ 2.31.19 ॥

कौसल्या बिभृयादार्या सहस्रमपि मद्विधान् ।

यस्याः सहस्रं ग्रामाणां सम्प्राप्तमुपजीविनाम् ॥ 2.31.20 ॥

तदात्मभरणे चैव मम मातुस्तथैव च ।

पर्याप्ता मद्विधानां च भरणाय यशस्िवनी ॥ 2.31.21 ॥

पूर्वं रामोक्तानुपपत्तिं परिहरति–तवैवेत्यादिना ॥ 2.31.1921 ॥

कुरुष्व मामनुचरं वैधर्म्यं नेह विद्यते ।

कृतार्थोहं भविष्यामि तव चार्थः प्रकल्पते ॥ 2.31.22 ॥

एवं रामोक्तं परिहृत्य प्रस्तुतं स्वाभिमतं कैङ्कर्य्यं प्रपञ्चयति–कुरुष्वेत्यादि । मां शेषभूतम् । अनुचरं शेषत्वानुगुणकैङ्केर्ययुक्तं कुरुष्व । तत्करणमपि तवैव प्रयोजनमित्यात्मनेपदाल्लभ्यते । वैधर्म्यं नेह विद्यते इहानुचरत्वकरणे वैधर्म्यं सेव्यसेवकधर्मराहित्यं नास्ति, तव सेव्यधर्मः पर्य्याप्तः स्वामित्वात् । मम सेवकधर्मश्च पूर्णः स्वाभाविकशेषत्वात् । यद्वा वैधर्म्यं वैपरीत्यसाधकं न विद्यते त्वदुक्तहेतोरन्यथासिद्धेरुक्तत्वादित्याशयः । अनुचरकरणस्य किं प्रयोजनमित्यपेक्षायामाह तवेति । तवार्थः स्वायासं विना फलमूलाद्याहरणं प्रकल्पते सिद्ध्यति । अहं च कृतार्थः लब्धत्वत्कैङ्कर्यफलो भविष्यामि । यद्वा मां स्वाभाविकशेषभूतं माम् अनुचरं स्वरूपानुरूपशेषवृत्तियुक्तं कुरुष्व । इहास्मिन् जने मयि वैधर्म्यं शेषत्वविपर्यासः नास्ति, अनेन शेषत्वस्य स्वाभाविकत्वं तज्ज्ञानवतः फलं कैङ्कर्यं चेत्युक्तम् । कैङ्कर्याकरणे तव का हानिरित्यत्राह कृतार्थोहं भविष्यामीति । अकिञ्चित्कुर्वतः शेषत्वानुपपत्तेरिति भावः । तच्च प्राप्यं कैङ्कर्यं निष्कृष्य दर्शयति तव चेति । चोवधारणे । तवैवार्थः, न तु मम । परार्थकैङ्कर्यस्यैव पुरुषार्थत्वादिति भावः । शेषत्वाध्यवसाय उपायः, अस्वार्थशेषिकैङ्कर्य्यमेव फलमित्युपायोपेयनिष्कर्षोनेन कृत इति रहस्यम् । वैधर्म्यं नेह विद्यत इत्युक्तिः ज्येष्ठभ्रातुः पितृसमत्वात् । आवयोः श्रेयश्चास्तीत्याह कृतार्थ इतीति केचिद्व्याचक्षते ॥ 2.31.22 ॥

धनुरादाय सशरं खनित्रपिटकाधरः ।

अग्रतस्ते गमिष्यामि पन्थानमनुदर्शयन् ॥ 2.31.23 ॥

स्वकृतार्थत्वं प्रपञ्चयति–धनुरिति । धनुराद्यादानं हिंस्रनिवारणाय । खनित्रं मूलकन्दखननसाधनं कुद्दालादि । पिटका । अल्पार्थे कप्रत्ययः । फलमूलाद्याहरणयोग्याल्पकण्डोलः । “कण्डोलपिटौ” इत्यमरः ॥ 2.31.23 ॥

आहरिष्यामि ते नित्यं मूलानि च फलानि च ।

वन्यानि यानि चान्यानि स्वाहाराणि तपस्विनाम् ॥ 2.31.24 ॥

एवं मार्गे सम्भावितं केङ्कर्यमुक्त्वा स्थाने संभावितमाह–आहरिष्यामीति । अन्यानि शाकप्रियालबीजक्षौद्रादीनि । स्वाहाराणि सुखेनाहर्त्तुं भोक्तुं योग्यानि ॥ 2.31.24 ॥

भवांस्तु सह वैदेह्या गिरिसानुषु रंस्यते ।

अहं सर्वं करिष्यामि जाग्रतः स्वपतश्च ते ॥ 2.31.25 ॥

एवं सर्वदेशकर्त्तव्यकैङ्कर्याण्युक्तानि, केङ्कर्यस्य विशिष्टविषयस्यैव रस्यत्वाद्विशिष्टविषयत्वमाह–भवांस्त्विति । जाग्रतः स्वपतश्च त इत्यनेन सर्वकालसर्वावस्थोचितकैङ्कर्यमुक्तम् । सर्वं करिष्यामीत्यनेन सर्वविधकैङ्कर्यमुक्तम् । तथा च देवीविशिष्टस्य शेषिणः सर्वदेशसर्वकालसर्वावस्थासु सर्वविधमपि कैङ्कर्यं शेषभूतेन कर्त्तव्यमिति दर्शितम् ॥ 2.31.25 ॥

रामस्त्वनेन वाक्येन सुप्रीतः प्रत्युवाच तम् ।

व्रजापृच्छस्व सौमित्रे सर्वमेव सुहृज्जनम् ॥ 2.31.26 ॥

रामस्त्विति । अनेनानुगमनाज्ञा व्यञ्जिता ॥ 2.31.26 ॥

ये च राज्ञो ददौ दिव्ये महात्मा वरुणः स्वयम् ।

जनकस्य महायज्ञे धनुषी रौद्रदर्शने ॥ 2.31.27 ॥

अभेद्ये कवचे दिव्ये तूणी चाक्षयसायकौ ।

आदित्यविमलौ चोभौ खड्गौ हेमपरिष्कृतौ ॥ 2.31.28 ॥

सत्कृत्य निहितं सर्वमेतदाचार्यसद्मनि ।

स त्वमायुधमादाय क्षिप्रमाव्रज लक्ष्मण ॥ 2.31.29 ॥

स सुहृज्जनमामन्त्र्य वनवासाय निश्चितः ।

इक्ष्वाकुगुरुमागम्य जग्राहायुधमुत्तमम् ॥ 2.31.30 ॥

तद्दिव्यं राजशार्दूल सत्कृतं माल्यभूषितम् ।

रामाय दर्शयामास सौमित्रिः सर्वमायुधम् ॥ 2.31.31 ॥

ये चेत्यादि । जनकस्य राज्ञो यज्ञे महात्मा वरुणः स्वयमेव मह्यं यद्धनुरादिकं ददौ । आचार्यसद्मनि आचार्यस्य गृहे । पूजार्थं निहितं तदेतत्सर्वमायुधमादाय सः आपृष्टसुहृज्जनस्त्वं क्षिप्रमाव्रजेत्यन्वयः । अत्र धनुरादिषु सर्वत्र द्विवचनादावयोर्ददाविति सिद्धम् । बालकाण्डे ऽनुक्तोप्ययं वृत्तान्तो ऽनुवादात्सिद्धः, यथा सुन्दरकाण्डे ऽभिहितं मणिबन्धनम् “मणिरत्नमिदं दत्तं वैदेह्याः श्वशुरेण मे । वधूकाले तथा बद्धमधिकं मूर्ध्नि शोभते ॥ ” इति । यथा चायोध्याकाण्डे ऽनभिहितोपि वायसवृत्तान्तः सुन्दरकाण्डे ऽनूद्यते– “स पित्रा च परित्यक्तः सुरैश्च समहर्षिभिः । त्रीन् लोकान् संपरिक्रम्य तमेव शरणं गतः ॥” इति आचार्यो वसिष्ठः। इक्ष्वाकुगुरुमागम्येत्युत्तरत्रानुवादात्, नहीक्ष्वाकुकुलगुरुर्वसिष्ठादन्योस्ति ॥ 2.31.2731 ॥

तमुवाचात्मवान् रामः प्रीत्या लक्ष्मणमागतम् ।

काले त्वमागतः सौम्य कांक्षिते मम लक्ष्मण ॥ 2.31.32 ॥

तमिति । प्रीत्योवाचेत्यन्वयः ॥ 2.31.32 ॥

अहं प्रदातुमिच्छामि यदिदं मामकं धनम् ।

ब्राह्मणेभ्यस्तपस्विभ्यस्त्वया सह परन्तप ॥ 2.31.33 ॥

कांक्षितत्वमेवाह–अहमित्यादिना ॥ 2.31.33 ॥

वसन्तीह दृढं भक्त्या गुरुषु द्विजसत्तमाः ।

तेषामपि च मे भूयः सर्वेषां चोपजीविनाम् ॥ 2.31.34 ॥

वसन्तीति । यच्छब्दोर्थसिद्धः । इह नगरे गुरुभक्त्या ये दृढं वसन्ति नित्यं गुरुशुश्रूषणं कुर्वन्तीत्यर्थः । तेषामपि मे सर्वेषाम् उपजीविनां च । भूयः अतिशयेन नित्यदेयादधिकतया दातुमिच्छामि, तानानयेति शेषः ॥ 2.31.34 ॥

वसिष्ठपुत्रं तु सुयज्ञमार्यं त्वमानयाशु प्रवरं द्विजानाम् ।

अभिप्रयास्यामि वनं समस्तानभ्यर्च्य शिष्टानपरान् द्विजातीन् ॥ 2.31.35 ॥

वसिष्ठपुत्रमिति । वसिष्ठपुत्रम् आर्यं द्विजानां प्रवरं सुयज्ञम् । अन्यानपि शिष्टानानय । सुयज्ञं तांश्चाभ्यर्च्याभिप्रयास्यामीत्यर्थः ॥ 2.31.35 ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकत्रिंशः सर्गः ॥ 31 ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने श्रीमदयोध्याकाण्डव्याख्याने एकत्रिंशः सर्गः ॥ 31 ॥