०३० वनगमनानुज्ञा

श्रीरामायणे वाल्मीकीये श्रीमदयोध्याकाण्डे त्रिंशः सर्गः

सान्त्व्यमाना तु रामेण मैथिली जनकात्मजा ।

वनवासनिमित्ताय भर्तारमिदमब्रवीत् ॥ 2.30.1 ॥

सान्त्व्यमानेति । जनकात्मजेतिविशेषणं स्वकुलोचिता चारदार्ढ्याय । वनवासनिमित्ताय वनवास एव निमित्तं प्रयोजनं तस्मै ॥ 2.30.1 ॥

सा तमुत्तमसंविग्ना सीता विपुलवक्षसम् ।

प्रणयाच्चाभिमानाच्च परिचिक्षेप राघवम् ॥ 2.30.2 ॥

सेति । उत्तमसंविग्ना उत्तममत्यन्तं कम्पमाना । विपुलवक्षमं शूरमिति यावत् । शूरमपि कथं चिक्षेपेत्यत्राह प्रणयादित्यादि । प्रणयात् स्नेहात् । अभिमानात् मदीयो ऽयमित्यभिमानात् कोपाद्वा । प्रणयकोपादिति सम्पिण्डितो ऽर्थः । परिचिक्षेप निनिन्द ॥ 2.30.2 ॥

किं त्वा ऽमन्यत वैदेहः पिता मे मिथिलाधिपः ।

राम जामातरं प्राप्य स्त्रियं पुरुषविग्रहम् ॥ 2.30.3 ॥

किं त्वेति । मां त्यक्त्वा वनं गतं त्वां यदि मे पिता श्रृणुयात्तदा त्वां स्त्र्येव काचित् पुरुषवेषं धृत्वा मत्कन्यामुपयेमे इति मन्येतेत्यर्थः । हे राम सौन्दर्य्यमात्रेण परभ्रामक वैदेहः विदेहवंश्यः “कर्मणैव हि संसिद्धिमास्थिता जनकादयः” इति कर्मप्रधानतया कदाचिदपि पत्नीविरहमसहमान इत्यर्थः । मिथिलाधिपः जनपदस्य सम्यग्रहक्षकः । मे पिता । त्वा मामेकां रक्षितुमशक्त्या मां पत्नीं त्यक्त्वा गतं त्वाम् । प्राप्य ज्ञात्वा । गत्यर्थो ज्ञानार्थः । स्त्रियम् अन्तःस्त्रीस्वभावम् । पुरुषविग्रहं बहिःपुरुषवेषम् । जामातरम् अमन्यत किं मन्यते किम् । अवश्यमित्थं मन्येतेत्यर्थः । स्त्रियं पुरुषविग्रहमिति पुरुषत्वेपि मोहिनीरूपभ्रमकृत्त्वं पूर्वकृतं सूचयतीति प्राहुः ॥ 2.30.3 ॥

अनृतं बत लोको ऽयमज्ञानाद्यद्धि वक्ष्यति ।

तेजो नास्ति परं रामे तपतीव दिवाकरे ॥ 2.30.4 ॥

अनृतमिति । बतेति खेदे । अयं लोकः तपति दिवाकर इव रामे परं तेजोस्तीति अज्ञानात् यद्वक्ष्यति वदति तदनृतम् । कुतः ? नास्ति अनुपलभ्यमानत्वात्तादृशं तेजो नास्त्येवेत्यर्थः । यद्वा अयं लोकः यद्वक्ष्यति यद्वदति, रामे परं तेजोस्तीत्यर्थसिद्धं । तत् अज्ञानात् । अतो ऽनृतं बत । तपति दिवाकर इव रामे परं तेजो नास्ति । व्यतिरेकदृष्टान्तः । यद्यस्ति दिवाकर इव उपलभ्येत इति भावः । यद्वा अज्ञानात् रामस्वरूपाज्ञानात् । लोको ऽयं यद्वदति तदनृतम् । किं वदतीत्यत्राह–तेज इति । राम इव तपति दिवाकरे परं तेजो नास्तीति यद्वदति तदनृतमिति पूर्वेणान्वयः ॥ 2.30.4 ॥

किं हि कृत्वा विषण्णस्त्वं कुतो वा भयमस्ति ते ।

यत् परित्यक्तुकामस्त्वं मामनन्यपरायणाम् ॥ 2.30.5 ॥

द्युमत्सेनसुतं वीर सत्यवन्तमनुव्रताम् ।

सावित्रीमिव मां विद्धि त्वमात्मवशवर्तिनीम् ॥ 2.30.6 ॥

किमिति । किं हि कृत्वा किमकार्यं कृत्वा । विषण्णः “अप्यकार्य्यशतं कृत्वा भर्त्तव्या मनुरब्रवीत्” इत्युक्तावश्यभरणीयविषये विषादप्राप्तिर्न युक्तेति भावः । ते कालाग्निसदृशक्रोधस्य तव । यत् यस्मात् कारणात् मां परित्यक्तुकामो ऽसि तादृशं कारणं नास्तीत्यर्थः । यद्वा किं हि कृत्वा किं मनसि कृत्वा, किं विचार्येत्यर्थः । यद्यस्मात् विषादात् भयाच्च मां परित्यक्तुकामो ऽसि ॥ 2.30.56 ॥

न त्वहं मनसाप्यन्यं द्रष्टास्मि त्वदृते ऽनघ ।

त्वया राघव गच्छेयं यथान्या कुलपांसनी ॥ 2.30.7 ॥

न त्विति । हे राघव अन्या कुलपांसनी यथा कुलपांसनीव । अहं त्वदृते अन्यं मनसापि न द्रष्टास्मि न द्रक्ष्याम्येव । अतस्त्वया गच्छेयमिति योजना ॥ 2.30.7 ॥

स्वयं तु भार्यां कौमारीं चिरमध्युषितां सतीम् ।

शैलूष इव मां राम परेभ्यो दातुमिच्छसि ॥ 2.30.8 ॥

दृढपातिव्रत्यप्रदर्शनेपि वनगमनासम्मतिं ज्ञात्वा क्रुध्यति–स्वयमिति । कौमारीं कुमारावस्थायामेव परिणताम् । शैलूष इव जायाजीव इव । “शैलालिनस्तु शैलूषा जायाजीवाः कृशाश्विनः” इत्यमरः । परेभ्यः स्वयं दातुमिच्छसि ॥ 2.30.8 ॥

यस्य पथ्यं च रामात्थ यस्य चार्थे ऽवरुद्ध्यसे ।

त्वं तस्य भव वश्यश्च विधेयश्च सदानघ ॥ 2.30.9 ॥

मातरं शुश्रूषस्वेति यदुक्तं तत्र परिहारमाह–यस्येति । यस्य मातृजनस्य पथ्यं हितम् आत्थ । यस्य चार्थे अवरुद्ध्यसे मां निवारयसे । तस्य जनस्य त्वमेव वश्यः अनुकूलः । विधेयः प्रेष्यश्च भव । अहन्तु त्वामनुयास्यामीत्यर्थः । यद्वा यस्य मद्रूपजनस्य पथ्यं चात्थ एतावत्पर्यन्तं यस्य चार्थे अवरुद्ध्यसे क्लिश्यसि तस्य जनस्य त्वं वश्यो विधेयश्च भव, त्वमेव मद्वचनं श्रृण्वित्यर्थः । अथवा यस्य भरतस्य पथ्मात्थ यस्य चार्थे यस्याभिषेकरूपप्रयोजननिमित्ते अवरुद्ध्यसे निगृहीतोसि तस्य वश्यः इच्छानुसारी विधेयश्च प्रेष्यश्च भवेति सम्बन्धः ॥ 2.30.9 ॥

स मामनादाय वनं न त्वं प्रस्थातुमर्हसि ।

तपो वा यदि वा ऽरण्यं स्वर्गो वा मे सह त्वया ॥ 2.30.10 ॥

स इति । वश्यो विधेयश्च त्वं तपो वा तपश्चरणं वा । अरण्यम् अरण्यवासो वा । स्वर्गो वा स्वर्गगमनं वा । त्वया सह भवत्विति शेषः ॥ 2.30.10 ॥

न च मे भविता तत्र कश्चित् पथि परिश्रमः ।

पृष्ठतस्तव गच्छन्त्या विहारशयनेष्विव ॥ 2.30.11 ॥

न चेति । पथि तव पृष्ठतो गच्छन्त्या मे विहारशयनेष्विव विहारः परिक्रमः, उद्यानस़ञ्चार इति यावत् । “विहारस्तु परिक्रमः” इत्यमरः ॥ 2.30.11 ॥

कुशकाशशरेषीका ये च कण्टकिनो द्रुमाः ।

तूलाजिनसमस्पर्शा मार्गे मम सह त्वया ॥ 2.30.12 ॥

कुशेति । त्वया सह गच्छन्त्या मम तूलाजिनसमस्पर्शाः तूलं तूलपिण्डः, अजिनं कन्दल्याद्यजिनम् “कदली कन्दलीचीनचमूरूप्रियका अपि । समूरुश्चेति हरिणा अमी अजिनयोनयः ॥” इत्यभिधानात्। भवन्तीति शेषः ॥ 2.30.12 ॥

महावातसमुद्धूतं यन्मामपकरिष्यति ।

रजो रमण तन्मन्ये परार्द्ध्यमिव चन्दनम् ॥ 2.30.13 ॥

महावातेति । परार्द्ध्यं श्रेष्ठं चन्दनं वासितम्, चन्दनचूर्णमित्यर्थः ॥ 2.30.13 ॥

शाद्वलेषु यथा शिश्ये वनान्ते वनगोचर ।

कुथास्तरणतल्पेषु किं स्यात् सुखतरं ततः ॥ 2.30.14 ॥

पत्रं मूलं फलं यत्त्वमल्पं वा यदि वा बहु ।

दास्यसि स्वयमाहृत्य तन्मे ऽमृतरसोपमम् ॥ 2.30.15 ॥

शाद्वलेष्विति । शाद्वलेषु बालतृणवत्प्रदेशेषु, शिश्ये त्वया सहेति शेषः । कुथाः चित्रकम्बलाः । आस्तरणानि कौसुम्भोत्तरच्छदाः तैर्युक्तेषु तल्पेषु ॥ 2.30.1415 ॥

न मातुर्न पितुस्तत्र स्मरिष्यामि न वेश्मनः ।

आर्त्तवान्युपभुञ्जाना पुष्पाणि च फलानि च ॥ 2.30.16 ॥

नेति । मातुरित्यादौ “अधीगर्थदयेशाम्–” इतिषष्ठी । आर्तवानि तत्तदृतुसमुत्पन्नानि ॥ 2.30.16 ॥

न च तत्र गतः किञ्चिद्द्रष्टुमर्हसि विप्रियम् ।

मत्कृते न च ते शोको न भविष्यामि दुर्भरा ॥ 2.30.17 ॥

न चेति । तत्र वने । गतस्त्वं मत्कृते मन्निमित्तम् । किञ्चिद्विप्रियं दुःखं द्रष्टुं नार्हसि ते शोकश्च न भवेत् । अतो दुर्भरा दुःखेन भर्तव्या, न भविष्यामि ॥ 2.30.17 ॥

यस्त्वया सह स स्वर्गो निरयो यस्त्वया विना ।

इति जानन् परां प्रीतिं गच्छ राम मया सह ॥ 2.30.18 ॥

किं बहुनोक्तेन ? निश्चितमेकं संक्षेपतः श्रृण्वित्याह–य इति । त्वया सह यो वासः स स्वर्गः मे स्वर्गसमः । त्वया विना यो वासः सः निरयः नरकोपमः । त्वत्संश्लेषविश्लेषादन्ये न मे सुखदुःखे स्त इति भावः । इति एवम् । परां विश्लेषासहां प्रीतिम् जानन् पूर्वमपि बहुशो ऽनुभवन् मया सह गच्छ ॥ 2.30.18 ॥

अथ मामेवमव्यग्रां वनं नैव नयिष्यसि ।

विषमद्यैव पास्यामि माविशं द्विषतां वशम् ॥ 2.30.19 ॥

अथेति । अथेति प्रश्ने । एवम् उक्तप्रकारेण । अव्यग्रां वनगमनविषयभीतिरहिताम् । अद्यैव त्वत्सन्निधावेव । द्विषतां भरतादीनां वशं माविशं न प्राप्नुयाम् । विरहो वा द्विषन्तः ॥ 2.30.19 ॥

पश्चादपि हि दुःखेन मम नैवास्ति जीवितम् ।

उज्झितायास्त्वया नाथ तदैव मरणं वरम् ॥ 2.30.20 ॥

पश्चादिति । पश्चादपि त्वद्गमनानन्तरमपि । उज्झितायाः त्यक्तायाः । तदैव त्वत्सन्निधानकाल एव ॥ 2.30.20 ॥

इमं हि सहितुं शोकं मुहूर्त्तमपि नोत्सहे ।

किं पुनर्दशवर्षाणि त्रीणि चैकं च दुःखिता ॥ 2.30.21 ॥

विषकृतदुर्मरणाद्दुःखेन मरणं ज्याय इत्याशङ्क्याह–इममिति । आदौ दशवर्षाणि, मध्ये त्रीणि वर्षाणि, अन्ते एकवर्षं च तुल्यतया भाति विरहिण्या इत्यावेदयितुं विभज्योक्तिः ॥ 2.30.21 ॥

इति सा शोकसन्तप्ता विलप्य करुणं बहु ।

चुक्रोश पतिमायस्ता भृशमालिङ्ग्य सस्वरम् ॥ 2.30.22 ॥

इतीत्यादि । आयस्ता आयासं प्राप्ता, प्रशिथिलगात्रीत्यर्थः । सस्वरं सतारध्वनीत्यर्थः ॥ 2.30.22 ॥

सा विद्धा बहुभिर्वाक्यैर्दिग्धैरिव गजाङ्गना ।

चिरसन्नियतं बाष्पं मुमोचाग्निमिवारणिः ॥ 2.30.23 ॥

सेति । विद्धा ताडिता । वाक्यैः पूर्वं रामोक्तैः । दिग्धैः विषलिप्तैः बाणैः । चिरसंनियतं वार्त्ताप्रसङ्गेन चिरात्सन्निरुद्धम् । अरणिरित्यत्राणि विद्धेत्यनुषञ्जनीयम् ॥ 2.30.23 ॥

तस्याः स्फटिकसङ्काशं वारि सन्तापसम्भवम् ।

नेत्राभ्यां परिसुस्राव पङ्कजाभ्यामिवोदकम् ॥ 2.30.24 ॥

तस्या इति । स्फटिकसङ्काशमित्यनेन विकज्जलतावगमात् चिरविगलितधारत्वमवगम्यते । उदकं मकरन्दरूपं तद्ध्युष्णं निर्मलं च ॥ 2.30.24 ॥

तच्चैवामलचन्द्राभं मुखमायतलोचनम् ।

पर्यशुष्यत बाष्पेण जलोद्धृतमिवाम्बुजम् ॥ 2.30.25 ॥

तदिति । अमलसङ्काशमितिपाठे–अमलतया प्रकाशमानम् । बाष्पेण सन्तापसम्भवेनोष्णेन । अम्बुजपक्षे ऊष्मणेत्यर्थः । “बाष्प ऊष्मा” इत्यमरः ॥ 2.30.25 ॥

तां परिष्वज्य बाहुभ्यां विसंज्ञामिव दुःखिताम् ।

उवाच वचनं रामः परिविश्वासयंस्तदा ॥ 2.30.26 ॥

तामिति । विसंज्ञामित्यनेन मूर्च्छाभावः सूच्यते । परिविश्वासयन् । सम्यविग्वश्वासयन् ॥ 2.30.26 ॥

न देवि तव दुःखेन स्वर्गमप्यभिरोचये ।

न हि मे ऽस्ति भयं किञ्चित्स्वयम्भोरिव सर्वतः ॥ 2.30.27 ॥

नेति । तव दुःखेन हेतुना प्राप्यं स्वर्गमपि न रोचये । त्वयि दुःखितायां स्वर्गमपि नेच्छामीत्यर्थः । स्वयम्भोः नारायणस्य न तु चतुर्मुखस्य । तस्य मधुकैटभादिभ्यो भयसम्भवात् । आर्षो डुप्रत्ययः । सर्वतः सर्वजन्तुभ्यः ॥ 2.30.27 ॥

तव सर्वमभिप्रायमविज्ञाय शुभानने ।

वासं न रोचये ऽरण्ये शक्तिमानपि रक्षणे ॥ 2.30.28 ॥

तवेति । तव विरहदुःखासहिष्णुरपि निर्भयोपि शक्तिमानपि तवान्तराभिप्रायानभिज्ञानादेतावत्पर्यन्तं त्वां वनं नेतुं नेच्छामीति भावः ॥ 2.30.28 ॥

यत्सृष्टासि मया सार्द्धं वनवासाय मैथिलि ।

न विहातुं मया शक्या कीर्तिरात्मवता यथा ॥ 2.30.29 ॥

यदिति । सृष्टा दैवेनेति शेषः । आत्मवता शीलवता अतिकृच्छ्रावस्थायामप्यक्षुभितमनस्केन वा । यच्छब्दयोगात्तदिति पूरणीयम् ॥ 2.30.29 ॥

धर्मस्तु गजनासोरु सद्भिराचरितः पुरा ।

तं चाहमनुवर्त्ते ऽद्य यथा सूर्यं सुवर्चला ॥ 2.30.30 ॥

इदं पत्न्या सह वनगमनं रागप्राप्तं न भवति अपि तु शिष्टाचारसिद्धमित्याह–धर्म इति । धर्मः वानप्रस्थधर्मः । सद्भिः सपत्नीकैः राजर्षिभिः । यथा सूर्यं सूवर्चलेति भिन्नलिङ्गयोरप्यौपम्यमार्षम् । यथा सूर्यं सुवर्चला देवी तद्वन्मामनुवर्त्तस्वेति वार्थः ॥ 2.30.30 ॥

न खल्वहं न गच्छेयं वनं जनकनन्दिनि ।

वचनं तन्नयति मां पितुः सत्योपबृंहितम् ॥ 2.30.31 ॥

न खल्विति । सत्योपबृंहितं पितुर्वचनं मां वनं नयति खलु तत् तस्मात्कारणात् अहं न गच्छेयमिति न अद्यैव गच्छेयमेवेत्यर्थः ॥ 2.30.31 ॥

एष धर्मस्तु सुश्रोणि पितुर्मातुश्च वश्यता ।

अतश्च तं व्यतिक्रम्य नाहं जीवितुमुत्सहे ॥ 2.30.32 ॥

एष इति । पितुर्मातुश्च वश्यतेत्येष एव धर्मः । वश्यता विधेयता । अहं पितृवचनपरिपालनोद्युक्तो ऽहं तं व्यतिक्रम्य मातापितृविधेयत्वरूपधर्मं व्यतिक्रम्य अहं जीवितुं नोत्सह इति सम्बन्धः ॥ 2.30.32 ॥

अस्वाधीनं कथं दैवं प्रकारैरभिराध्यते ।

स्वाधीनं समतिक्रम्य मातरं पितरं गुरुम् ॥ 2.30.33 ॥

माभूत् पितृवचनकरणं दैवमाराध्यास्माभिरत्रैव स्थातव्यमित्यत्राह–अस्वाधीनमिति । अस्वाधीनम् आराधकानधीनम्, स्वतन्त्रमिति यावत् । यद्वा अस्वाधीनं प्रत्यक्षतया अनाज्ञापयत् । स्वाधीनं प्रत्यक्षतया नियोजयन्तम् । गुरुम् गुरुं चेत्यर्थः । प्रकारैः आराधनप्रकारैः ॥ 2.30.33 ॥

यत् त्रयं तत् त्रयो लोकाः पवित्रं तत्समं भुवि ।

नान्यदस्ति शुभापाङ्गे तेनेदमभिराध्यते ॥ 2.30.34 ॥

यदिति । यत् गुर्वादित्रयं तत् त्रयो लोकाः । लोकत्रयमपि तदाराधनसाध्यमित्यर्थः । भुवि तत्समे पवित्रमन्यन्नास्ति । ‘गगनं गगनाकारम्’ इतिवत् स्वस्य स्वेनौपम्यसम्भवात्तद्व्यावृत्त्यर्थमन्यपदम्, तेन कारणेन इदं गुर्वादित्रयम् । अभिराध्यते ॥ 2.30.34 ॥

न सत्यं दानमानौ वा न यज्ञाश्चाप्तदक्षिणाः ।

तथा बलकराः सीते यथा सेवा पितुर्हिता ॥ 2.30.35 ॥

पितृवाक्यस्य सत्यादिवैलक्षणण्यमाह–न सत्यमिति । हिता हितकरी । पितुः सेवा यथा बलकरी । तथा सत्यादयः न बलकराः न परलोकबलकराः न पारत्रिकाभ्युदयसाधका इत्यर्थः ॥ 2.30.35 ॥

स्वर्गो धनं वा धान्यं वा विद्याः पुत्राः सुखानि च ।

गुरुवृत्त्यनुरोधेन न किञ्चिदपि दुर्ल्लभम् ॥ 2.30.36 ॥

स्वर्ग इति । स्वर्गादीनि गुरुवृत्त्यनुरोधेन, सिध्यन्तीति शेषः । गुरूणां मात्रादीनां वृत्तिः शुश्रूषणं तदनुरोधेन तदनुवर्त्तनेन “अनुरोधो ऽनुवर्त्तम्” इत्यमरः । व्यतिरेकेणाप्याह न किञ्चिदिति ॥ 2.30.36 ॥

देवगन्धर्वगोलोकान् ब्रह्मलोकांस्तथा नराः ।

प्राप्नुवन्ति महात्मानो मातापितृपरायणाः ॥ 2.30.37 ॥

देवगन्धर्वेति । क्रमेण ब्रह्मलोकं प्राप्नुवन्तीति भावः । नरा इति सर्ववर्णसाधारण्योक्तिः । महात्मानः दृढमनस्काः । मातेति तच्छुश्रूषणैकरता इत्यर्थः ॥ 2.30.37 ॥

स मा पिता यथा शास्ति सत्यधर्मपथे स्थितः ।

तथा वर्त्तितुमिच्छामि स हि धर्मः सनातनः ॥ 2.30.38 ॥

स इति । मा माम् । सः स्वतन्त्रः । वर्तितुम् अनुष्ठातुम् । सः वर्त्तनम् । धर्मापेक्षया पुंस्त्वम् ॥ 2.30.38 ॥

मम सन्ना मतिः सीते त्वां नेतुं दण्डकावनम् ।

वसिष्यामीति सा त्वं मामनुयातुं सुनिश्चिता ॥ 2.30.39 ॥

ममेति । सन्ना त्वद्भावापरिज्ञानात् क्षीणा सा त्वं मया सह वसिष्यामीति मामनुयातुं सुनिश्चिता तेन इदानीं ज्ञातासीति भावः ॥ 2.30.39 ॥

सा हि सृष्टानवद्याङ्गी वनाय मदिरेक्षणे ।

अनुगच्छस्व मां भीरु सहधर्मचरी भव ॥ 2.30.40 ॥

सेति । सृष्टा, दैवेनेति शेषः ॥ 2.30.40 ॥

सर्वथा सदृशं सीते मम स्वस्य कुलस्य च ।

व्यवसायमतिक्रान्ता कान्ते त्वमतिशोभनम् ॥ 2.30.41 ॥

सर्वथेति । व्यवसायं भर्त्रनुसरणाध्यवसायम् । अतिक्रान्ता प्रकर्षेण प्राप्ता । “प्रकर्षे लङ्घने प्यति” इत्यमरः ॥ 2.30.41 ॥

आरभस्व शुभश्रोणि वनवासक्षमाः क्रियाः ।

नेदानीं त्वदृते सीते स्वर्गो ऽपि मम रोचते ॥ 2.30.42 ॥

आरभ्ास्वेति । वनवासक्षमाः वनवासहिताः । “क्षमं शक्ते हिते त्रिषु” इत्यमरः । क्रियाः दानादिक्रियाः ॥ 2.30.42 ॥

ब्राह्मणेभ्यश्च रत्नानि भिक्षुकेभ्यश्च भोजनम् ।

देहि चाशंसमानेभ्यः सन्त्वरस्व च मा चिरम् ॥ 2.30.43 ॥

ब्राह्मणेभ्य इति । आशंसमानेभ्यः अर्थयमानेभ्यः ॥ 2.30.43 ॥

भूषणानि महार्हाणि वरवस्त्राणि यानि च ।

रमणीयाश्च ये केचित् क्रीडार्थाश्चाप्युपस्कराः ॥ 2.30.44 ॥

शयनीयानि यानानि मम चान्यानि यानि च ।

देहि स्वभृत्यवर्गस्य ब्राह्मणानामनन्तरम् ॥ 2.30.45 ॥

भूषणानीति । क्रीडार्थाश्चाप्युपस्कराः जातरूपमयकृत्र्रिमपुत्रिकालीलापाकभाजनादिविचित्रोपकरणानि । ब्राह्मणानामनन्तरं स्वभृत्यवर्गस्य देहीति सम्बन्धः ॥ 2.30.4445 ॥

अनुकूलं तु सा भर्तुर्ज्ञात्वा गमनमात्मनः ।

क्षिप्रं प्रमुदिता देवी दातुमेवोपचक्रमे ॥ 2.30.46 ॥

अनुकूलमिति । अनुकूलं सम्मतम् ॥ 2.30.46 ॥

ततः प्रहृष्टा प्रतिपूर्णमानसा यशस्विनी भर्तुरवेक्ष्य भाषितम् ।

धनानि रत्नानि च दातुमङ्गना प्रचक्रमे धर्मभृतां मनस्विनी ॥ 2.30.47 ॥

तत इति । प्रतिपूर्णमानसा निश्चिन्तेत्यर्थः । अवेक्ष्य आलोच्य । धर्मभृतां धर्मभृभ्द्यः । मनस्विनी निश्चितमनस्का ॥ 2.30.47 ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये श्रीमदयोध्याकाण्डे त्रिंशः सर्गः ॥ 30 ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने त्रिंशः सर्गः ॥ 30 ॥