श्रीरामायणे वाल्मीकीये श्रीमदयोध्याकाण्डे अष्टाविंशः सर्गः
स एव ब्रुवतीं सीतां धर्मज्ञो धर्मवत्सलः ।
न नेतुं कुरुते बुद्धिं वने दुःखानि चिन्तयन् ॥ 2.28.1 ॥
सान्त्वयित्वा पुनस्तां तु बाष्पदूषितलोचनाम् ।
निवर्त्तनार्थे ध्ार्मात्मा वाक्यमेतदुवाच ह ॥ 2.28.2 ॥
‘वने निवासस्य च दुःखिताम्’ इत्युक्तं विवृणोति–स एवमित्यादिना ॥ 2.28.12 ॥
सीते महाकुलीनासि धर्मे च निरता सदा ।
इहाचरस्व धर्मं त्वं मा यथा मनसः सुखम् ॥ 2.28.3 ॥
सीते यथा त्वां वक्ष्यामि तथा कार्यं त्वयाबले ।
वने दोषा हि बहवो वदतस्तान्निबोध मे ॥ 2.28.4 ॥
सीत इति । मा यथा मनसः सुखं मनसो यथा सुखं भवति तथा माचरेत्यर्थः ॥ 2.28.34 ॥
सीते विमुच्यतामेषा वनवासकृता मतिः ।
बहुदोषं हि कान्तारं वनमित्यभिधीयते ॥ 2.28.5 ॥
सीत इति । बहुदोषम् अहिकण्टकादियुक्तत्वात् । कान्तारं महारण्यम् “महारण्ये दुर्गपथे कान्तारं पुंनपुंसकम्” इत्यमरः ॥ 2.28.5 ॥
हितबुद्ध्या खलु वचो मयैतदभिधीयते ।
सदा सुखं न जानामि दुःखमेव सदा वनम् ॥ 2.28.6 ॥
हितबुद्ध्येति । हितबुद्ध्या न तु त्वद्भरणक्लेशेन ॥ 2.28.6 ॥
गिरिनिर्झरसम्भूता गिरिकन्दरवासिनाम् ।
सिंहानां निनदा दुःखाः श्रोतुं दुःखमतो वनम् ॥ 2.28.7 ॥
महावने विद्यमानान् दोषानाह–गिरिनिर्झरेत्यादि । गिरिनिर्झरसम्भूताः गिरिनिर्झरेषु प्रवृद्धाः । श्रोतुं दुःखाः दुःखकराः । अतो वनं दुःखं दुःखकरम् ॥ 2.28.7 ॥
क्रीडमानाश्च विस्रब्धा मत्ताः शून्ये महामृगाः ।
दृष्ट्वा समभिवर्त्तन्ते सीते दुःखमतो वनम् ॥ 2.28.8 ॥
क्रीडमाना इति । शून्ये निर्मानुषे प्रदेशे । विस्रब्धाः निःशङ्काः सन्तः । क्रीडमानाः क्रीडन्तः । अत एव मत्ताः महामृगाः सिंहशार्दूलादयः । अस्मान् दृष्ट्वा अपूर्वदर्शनात्समभिवर्तन्ते हन्तुमभिमुखमागच्छेयुः ॥ 2.28.8 ॥
सग्राहाः सरितश्चैव पङ्कवत्यश्च दुस्तराः ।
मत्तैरपि गजैर्नित्यमतो दुःखतरं वनम् ॥ 2.28.9 ॥
सग्राहा इति । सग्राहाः सनक्राः । पङ्कवत्यः बहुपङ्काः । मत्तैर्गजैरुपलक्षिताश्च । अत एव दुस्तराः सरितः सन्ति । अतो दुःखतरं पूर्वोक्तदुःखसम्मेलनादतिशयेन दुःखवत् ॥ 2.28.9 ॥
लताकण्टकसङ्कीर्णाः कृकवाकूपनादिताः ।
निरपाश्च सुदुर्गाश्च मार्गा दुःखमतो वनम् ॥ 2.28.10 ॥
यत्र न निर्झरादयस्तेनैव मार्गेण गमिष्याम इत्यत्राह–लता इति । लताः पदाकर्षिण्यः, कण्टकाः पादवेधकाः । कृकवाकवः वनकुक्कटास्तैरुपनादिताः तन्नादयुक्ता इत्यर्थः । तन्नादा अप्यश्रुतपूर्वत्वात् भयावहा एव । निरपाः निर्गतजलाः । “ऋक्पूरब्धूः–” इत्यादिना समासान्तः अप्रत्ययः ॥ 2.28.10 ॥
सुप्यते पर्णशय्यासु स्वयम्भग्नासु भूतले ।
रात्रिषु श्रमखिन्नेन तस्माद्दुःखतरं वनम् ॥ 2.28.11 ॥
सुप्यत इति । भूतले न तु पर्यङ्के । तत्रापि वर्णशय्यासु न तु मृदुतूलास्तरणेषु । तत्रापि स्वयं भग्नासु जीर्णतया स्वयमेव पतितासु । रात्रिषु न त्वहःसु । श्रमखिन्नेन फलमूलाद्याहरणश्रमदुःखितेन, वनवासिना सुप्यते अतो ऽस्माभिरपि तथा स्वपितव्यमिति भावः ॥ 2.28.11 ॥
अहोरात्रं च सन्तोषः कर्त्तव्यो नियतात्मना ।
फलैर्वृक्षावपतितैः सीते दुःखमतो वनम् ॥ 2.28.12 ॥
अहोरात्रमिति । अहोरात्रं सायम्प्रातश्च । वृक्षावपतितैः वृक्षात्स्वयं पतितैः फलैः । नियतात्मना नियतमनस्केन, इतरानभिलाषिणेत्यर्थः । वनवासिना सन्तोषः भोजनतृप्तिः कर्त्तव्यः ॥ 2.28.12 ॥
उपवासश्च कर्तव्यो यथाप्राणेन मैथिलि ।
जटाभारश्च कर्त्तव्यो वल्कलाम्बरधारिणा ॥ 2.28.13 ॥
देवतानां पितृ़णां च कर्तव्यं विधिपूर्वकम् ।
प्राप्तानामतिथीनां च नित्यशः प्रतिपूजनम् ॥ 2.28.14 ॥
उपवास इति । यथाप्राणेन यथाशक्त्या ॥ 2.28.1314 ॥
कार्यस्त्रिरभिषेकश्च कालेकाले च नित्यशः ।
चरता नियमेनैव तस्माद्दुःखतरं वनम् ॥ 2.28.15 ॥
कार्य इति । त्रिरभिषेकश्च नैककाल इत्याह कालेकाल इति । प्रातर्मध्याह्नसायाह्नेष्वित्यर्थः । एतच्च न कतिपयदिनेषु किन्तु प्रतिदिनमित्याह नित्यश इति ॥ 2.28.15 ॥
उपहारश्च कर्तव्यः कुसुमैः स्वयमाहृतैः ।
आर्षेण विधिना वेद्यां बाले दुःखमतो वनम् ॥ 2.28.16 ॥
उपहार इति । उपहारो बलिः । “उपहारो बलिर्मतः” इति हलायुधः । आर्षेण ऋषिप्रोक्तेन । विधिना कल्पेन ॥ 2.28.16 ॥
यथालब्धपेन सन्तोषः कर्त्तव्यस्तेन मैथिलि ।
यताहारैर्वचनरैर्नित्यं दुःखमतो वनम् ॥ 2.28.17 ॥
यथेति । यथालब्धेन यावल्लब्धेन तेन फलादिना आहारेण सन्तोषः तृप्तिः । यताहारैर्नियताहारैः ॥ 2.28.17 ॥
अतीव वातास्तिमिरं बुभुक्षा चात्र नित्यशः ।
भयानि च महान्त्यत्र ततो दुःखतरं वनम् ॥ 2.28.18 ॥
अतीति । अत्र वने वाताश्चातीव बहुलाः । तिमिरञ्च रात्रिष्वतीवास्ति । बुभुक्षा चातीव भवति । भयानि पूर्वोक्तानि ॥ 2.28.18 ॥
सरीसृपाश्च बहवो बहुरूपाश्च भामिनि ।
चरन्ति पृथिवीं दर्पात्ततो दुःखतरं वनम् ॥ 2.28.19 ॥
सरीसृपा इति । सरीसृपाः गिरिसर्पाः । बहुरूपाः पृथुशरीराः ॥ 2.28.19 ॥
नदीनिलयनाः सर्पा नदीकुटिलगामिनः ।
तिष्ठन्त्यावृत्य पन्थानं ततो दुःखतरं वनम् ॥ 2.28.20 ॥
नदीनिलयना इति । नदीकुटिलगामिनः नदीवत् कुटिलगामिनः ॥ 2.28.20 ॥
पतङ्गा वृश्चिकाः कीटा दंशाश्च मशकैः सह ।
बाधन्ते नित्यमबले सर्वं दुःखमतो वनम् ॥ 2.28.21 ॥
पतङ्गा इति । पतङ्गा शलभाः । दंशाः वनमक्षिफाः “दंशस्तु वनमक्षिका” इत्यमरः ॥ 2.28.21 ॥
द्रुमाः कण्टकिनश्चैव कुशकाशाश्च भामिनि ।
वने व्याकुलशाखाग्रास्तेन दुःखतरं वनम् ॥ 2.28.22 ॥
द्रुमा इति । कुशकाशयोः शाखाः कुशकाशपर्णान्येव ॥ 2.28.22 ॥
कायक्लेशाश्च बहवो भयानि विविधानि च ।
अरण्यवासे वसतो दुःखमेव ततो वनम् ॥ 2.28.23 ॥
कायक्लेशा इति । कायक्लेशाः व्रतोपवासादयः । अरण्यवासे अरण्यरूपवासस्थाने ॥ 2.28.23 ॥
क्रोधलोभौ विमोक्तव्यौ कर्त्तव्या तपसे मतिः ।
न भेतव्यं च भेतव्ये नित्यं दुःखमतो वनम् ॥ 2.28.24 ॥
क्रोधलोभाविति । भेतव्ये भयहेतुविषये । प्रागुक्तसर्पादौ न भेतव्यम्, भयं न कार्यम् ॥ 2.28.24 ॥
तदलं ते वनं गत्वा क्षमं न हि वनं तव ।
विमृशन्निह पश्यामि बहुदोषतरं वनम् ॥ 2.28.25 ॥
तदिति । वनं गत्वा ऽलमिति “अलंखल्वोः–” इतिनिषेधार्थालमुपपदेक्त्वा । न गन्तव्यमित्यर्थः ॥ 2.28.25 ॥
वनं तु नेतुं न कृता मतिस्तदा बभूव रामेण यदा महात्मना ।
न तस्य सीता वचनं चकार तत् ततो ऽब्रवीद्राममिदं सुदुःखिता ॥ 2.28.26 ॥
वनमिति । रामेण वनं नेतुं मतिर्यदा न कृता बभूव तदा सीता तस्य वचनं न चकार नाङ्गीचकार । इदम् उत्तरसर्गे वक्ष्यमाणम् ॥ 2.28.26 ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये श्रीमदयोध्याकाण्डे अष्टाविंशः सर्गः ॥ 28 ॥
इति श्रीगोविन्द राजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने अष्टाविंशः सर्गः ॥ 28 ॥