०२६ सीता-रामयोर्संवादः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे षड्विशः सर्गः

अभिवाद्य च कौसल्यां रामः संप्रस्थितो वनम् ।

कृतस्वस्त्ययनो मात्रा धर्मिष्ठे वर्त्मनि स्थितः ॥ 2.26.1 ॥

विराजयन् राजसुतो राजमार्गं नरैर्वृतम् ।

हृदयान्याममन्थेव जनस्य गुणवत्तया ॥ 2.26.2 ॥

एवं मातरमनुमान्य सीतामनुमानयितुं निर्गच्छति–अभिवाद्येत्यादि श्लोकद्वयमेकं वाक्यम् । वनं संप्रस्थितः वनं गन्तुं प्रवृत्तः । धर्मिष्ठे अतिशयितधर्मे आममन्थेव विलोडयामासेत्यर्थः । गुणवत्तया पूर्वभाषी प्रियवादी चेत्याद्युक्तगुणविशिष्टतया ॥ 2.26.12 ॥

वैदेही चापि तत्सर्वं न शुश्राव तपस्विनी ।

तदेव हृदि तस्याश्च यौवराज्याभिषेचनम् ॥ 2.26.3 ॥

वैदेहीति । तत्सर्वम् अभिषेकविघातादिकम् । तपस्विनी रामाभिषेकार्थव्रतोपवासादिनियमविशिष्टा । यौवराज्याभिषेचनम्, वर्त्तत इति शेषः ॥ 2.26.3 ॥

देवकार्यं स्वयं कृत्वा कृत्ज्ञा हृष्टचेतना ।

अभिज्ञा राजधर्माणां राजपुत्रं प्रतीक्षते ॥ 2.26.4 ॥

देवकार्यमिति । देवकार्यं देवपूजाम् । कृतज्ञा अभिषिक्तभर्तृविषये पट्टमहिषीभिः गन्धपुष्पादिना कृतपादार्चनादिसमाचारज्ञेत्यर्थः । हृष्टचेतना हृष्टमनस्का । रामधर्माणामभिज्ञा अभिषिक्तराजा साधारणलक्षणानि श्वेतछत्रचामरपुरस्कृतभद्रासनादीनि ज्ञातवती । प्रतीक्षते स्म उक्तलक्षणविशिष्टो भर्त्ता कदा समागमिष्यतीत्यपेक्षया स्थितवतीत्यर्थः ॥ 2.26.4 ॥

प्रविवेशाथ रामस्तु स्वं वेश्म सुविभूषितम् ।

प्रहृष्टजनसम्पूर्णं ह्रिया किञ्चिदवाङ्मुखः ॥ 2.26.5 ॥

प्रविवेशेति । ह्रिया गृहालङ्कारजनप्रहर्षजया ॥ 2.26.5 ॥

अथ सीता समुत्पत्य वेपमाना च तं पतिम् ।

अपश्यत् शोकसन्तप्तं चिन्ताव्याकुलितेन्द्रियम् ॥ 2.26.6 ॥

अथेति । समुत्पत्य स्वासनादुत्थाय वेपमाना, भर्तुर्विगतहर्षत्वावाङ्मुखत्वादिदर्शनात्कम्पमानेत्यर्थः ॥ 2.26.6 ॥

तां दृष्ट्वा सह धर्मात्मा न शशाक मनोगतम् ।

तं शोकं राघवः सोढुं ततो विवृततां गतः ॥ 2.26.7 ॥

तामिति । ततः सोढुमशक्तत्वादेव विवृततां व्यक्तदुःखताम् । एतावत्पर्यन्तं शोकलेशहीनस्य रामस्येदानीं शोकाविर्भावः सीताया भाविदुःखस्मरणेनेति बोध्यम् ॥ 2.26.7 ॥

विवर्णवदनं दृष्ट्वा तं प्रस्विन्नममर्षणम् ।

आह दुःखाभिसन्तप्ता किमिदानीमिदं प्रभो ॥ 2.26.8 ॥

विवर्णवदनमिति । प्रस्विन्नं हस्तगतराज्यस्यान्यगामित्वं स्ववनप्रव्राजनं च कथमस्यै निवेदयिष्यामीति शोकेन प्रस्वेदः, अमर्षणं सञ्जातदुःखं नियन्तुमशक्तम् । इदानीं हर्षकाले । इदं दौस्थ्यम् ॥ 2.26.8 ॥

अद्य बार्हस्पतः श्रीमानुक्तः पुष्यो नु राघव ।

प्रोच्यते ब्राह्मणैः प्राज्ञैः केन त्वमसि दुर्मनाः ॥ 2.26.9 ॥

अद्येति । बार्हस्पतः बृहस्पतिदैवत्यः । उक्तः अभिषेकार्हत्वेन विहितः । युक्त इतिपाठे–अभिषेकार्हः । श्रीमान् कर्मारब्धवतां श्रीकरः । पुष्यः पुष्यनक्षत्रम् । अद्येति ब्राह्मणैः प्रोच्यते नु प्रोच्यते खल्वित्यर्थः । अन्विति च्छित्वा अनु प्रोच्यत इति वा सम्बन्धः ॥ 2.26.9 ॥

न ते शतशलाकेन जलफेननिभेन च ।

आवृतं वदनं वल्गु छत्रेणापि विराजते ॥ 2.26.10 ॥

नेति । शतं शलाका यस्य तेन । स्थलस्थत्वेन मालिन्यं व्यावर्त्तयितुं जलपदम् । वल्गु सुन्दरम् । आवृतं सन्न विराजत इति सम्बन्धः ॥ 2.26.10 ॥

व्यजनाभ्यां च मुख्याभ्यां शतपत्रनिभेक्षणम् ।

चन्द्रहंसप्रकाशाभ्यां वीज्यते न तवाननम् ॥ 2.26.11 ॥

व्यजनाभ्यामिति । व्यजनाभ्यां वालव्यजनाभ्याम् । शतपत्रं पद्मम् ॥ 2.26.11 ॥

वाग्ग्मिनो वन्दिनश्चापि प्रहृष्टास्त्वां नरर्षभ ।

स्तुवन्तो नात्र दृश्यन्ते मङ्गलैः सूत मागधाः ॥ 2.26.12 ॥

वाग्ग्मिन इति । वन्दिनः स्तुतिपाठकाः । “वन्दिनः स्तुतिपाठकाः” इत्यमरः । मङ्गलैः मङ्गलवचनैः । सूताः पुरावृत्तकथाशंसिनः । मागधाः वंशशंसकाः ॥ 2.26.12 ॥

न ते क्षौद्रं च दधि च ब्राह्मणा वेदपारगाः ।

मूर्ध्नि मूर्द्धाभिषिक्तस्य दधति स्म विधानतः ॥ 2.26.13 ॥

नेति । क्षौद्रं मधु । मूर्ध्नि न दधति स्म नाभिषिञ्चन्ति स्मेत्यर्थः ॥ 2.26.13 ॥

न त्वां प्रकृतयः सर्वाः श्रेणीमुख्याश्च भूषिताः ।

अनुव्रजितुमिच्छन्ति पौरजानपदास्तथा ॥ 2.26.14 ॥

नेति । प्रकृतयः अमात्यादयः । श्रेणीमुख्याः वीथीप्रधानाः ॥ 2.26.14 ॥

चतुर्भिर्वेगसम्पन्नैर्हयैः काञ्चनभूषितैः ।

मुख्यः पुष्यरथो युक्ताः किं न गच्छति ते ऽग्रतः ॥ 2.26.15 ॥

चतुर्भिरिति । पुष्यरथः उत्सवाय कल्पितो रथ इत्यर्थः । “असौ पुष्यरथश्चक्रयानं न समराय यत्” इत्यमरः । स हि राज्ञामग्रतो नीयते केवलं सम्भ्रमाय ॥ 2.26.15 ॥

न हस्ती चाग्रतः श्रीमांस्तव लक्षणपूजितः ।

प्रयाणे लक्ष्यते वीर कृष्णमेघगिरिप्रभः ॥ 2.26.16 ॥

नेति । कृष्णमेघगिरिप्रभः कृष्णमेघयुक्तगिरिप्रभः । उभयोरुपमानत्वे वैषम्यापत्तिः ॥ 2.26.16 ॥

न च काञ्चनचित्रं ते पश्यामि प्रियदर्शन ।

भद्रासनं पुरस्कृत्य यातं वीरपुरस्कृतम् ॥ 2.26.17 ॥

न च काञ्चनचित्रमिति । वीरपुरस्कृतं भद्रासनं पुरस्कृत्य ते यातं गमनं न पश्यामीत्यन्वयः ॥ 2.26.17 ॥

अभिषेको यथा सज्जः किमिदानीमिदं तव ।

अपूर्वो मुखवर्णश्च न प्रहर्षश्च लक्ष्यते ॥ 2.26.18 ॥

अभिषेक इति । यथा अभिषेकः सज्जः सन्नद्धः । इदानीं तथैवेत्यर्थः । तवापूर्वो मुखवर्णो दृश्यते, प्रहर्षश्च न लक्ष्यते किमिदमिति सम्बन्धः ॥ 2.26.18 ॥

इतीव विलपन्तीं तां प्रोवाच रघुनन्दनः ।

सीते तत्रभवांस्तातः प्रव्राजयति मां वनम् ॥ 2.26.19 ॥

इतीति । विलपन्तीं विविधं लपन्तीम् । तत्रभवान् पूज्यः । “तत्रभवानत्रभवानितिशब्दो वै प्रयुज्यते पूज्ये” इति हलायुधः । प्रव्राजयतीत्यनन्तरमितीति शेषः ॥ 2.26.19 ॥

कुले महति सम्भूते धर्मज्ञे धर्मचारिणि ।

श्रृणु जानकि येनेदं क्रमेणाभ्यागतं मम ॥ 2.26.20 ॥

राज्ञा सत्यप्रतिज्ञेन पित्रा दशरथेन च ।

कैकेय्यै मम मात्रे तु पुरा दत्तौ महावरौ ॥ 2.26.21 ॥

महतो ऽप्रियस्य श्रवणे सीतायाः किं भविष्यतीति भयात् चित्त दार्ढ्यार्थं विविधगुणकीर्तनेन सम्बोधयति–कुल इत्यादि । इदं प्रव्राजनम् । येन क्रमेण येन मार्गेण ॥ 2.26.2021 ॥

तया ऽद्य मम सज्जे ऽस्मिन्नभिषेके नृपोद्यते ।

प्रचोदितः स समयो धर्मेण प्रतिनिर्जितः ॥ 2.26.22 ॥

तयेति । अद्य नृपोद्यते ममाभिषेके सज्जे सति । प्रचोदितः पूर्वदत्तं वरद्वयम् देहीति प्रकर्षेण प्रेरितः, स समयः त्वदपेक्षितं करिष्यामीतिकृतशपथ इत्यर्थः । “समयाः शपथाचारकालसिद्धान्तसंविदः” इत्यमरः । धर्मेण प्रतिनिर्जितः, कर्त्तृभूतधर्मेण स्वायत्तीकृत इत्यर्थः ॥ 2.26.22 ॥

चतुर्दश हि वर्षाणि वस्तव्यं दण्डके मया ।

पित्रा मे भरतश्चापि यौवराज्ये नियोजितः ।

सो ऽहं त्वामागतो द्रष्टुं प्रस्थितो विजनं वनम् ॥ 2.26.23 ॥

ततः किमित्यत्राह–चतुर्दशेति । मया पितृचोदितेनेत्यर्थः ॥ 2.26.23 ॥

भरतस्य समीपे तु नाहं कथ्यः कदाचन ॥ 2.26.24 ॥

ऋद्धियुक्ता हि पुरुषा न सहन्ते परस्तवम् ।

तस्मान्न ते गुणाः कथ्या भरतस्याग्रतो मम ॥ 2.26.25 ॥

सीताहृदयं ज्ञातुं बुद्ध्युपदेशव्यपदेशेन प्रणयरोषमुत्पादयन्नाह–भरतस्येति । त्वया न कथ्यः न श्लाघनीयः । त्वत्प्रणामागमनदशायामिति शेषः ॥ 2.26.2425 ॥

नापि त्वं तेन भर्तव्या विशेषेण कदाचन ।

अनुकूलतया शक्यं समीपे त्वस्य वर्तितुम् ॥ 2.26.26 ॥

नेति । तेन भरतेन । विशेषेण न भर्तव्या बन्धुसाधारण्येन भरणीयेत्यर्थः । अशनादिभरणं लक्ष्मणशत्रुघ्नभार्याभ्यां विशेषेण न काङ्क्षणीयमिति भावः । अनुकूलतया स्वजनसाधारणतया । शक्यं योग्यम् ॥ 2.26.26 ॥

तस्मै दत्तं नृपतिना यौवराज्यं सनातनम् ।

स प्रसाद्यस्त्वया सीते नृपतिश्च विशेषतः ॥ 2.26.27 ॥

तदनुकूलाचरणं किमर्थमित्यत आह–तस्मा इति । नृपतिना दशरथेन ॥ 2.26.27 ॥

अहं चापि प्रतिज्ञां तां गुरोः समनुपालयन् ।

वनमद्यैव यास्यामि स्थिरा भव मनस्विनी ॥ 2.26.28 ॥

याते च मयि कल्याणि वनं मुनिनिषेवितम् ।

व्रतोपवासपरया भवितव्यं त्वया ऽनघे ॥ 2.26.29 ॥

अहमिति । गुरोः दशरथस्य । स्थिरा भव मयि स्थिरानुरागा भवेत्यर्थः । तत्र हेतुः मनस्विनीति । दृढमनस्केत्यर्थः ॥ 2.26.2829 ॥

काल्यमुत्थाय देवानां कृत्वा पूजां यथाविधि ।

वन्दितव्यो दशरथः पिता मम नरेश्वरः ॥ 2.26.30 ॥

काल्यमिति । काल्यम् अहर्मुखे । “प्रत्यूषोहर्मुखं काल्यम्” इत्यमरः ॥ 2.26.30 ॥

माता च मम कौसल्या वृद्धा सन्तापकर्शिता ।

धर्ममेवाग्रतः कृत्वा त्वत्तः सम्मानमर्हति ॥ 2.26.31 ॥

मातेति । धर्ममेवाग्रतः कृत्वा, स्थिताया इति शेषः ॥ 2.26.31 ॥

वन्दितव्याश्च ते नित्यं याः शेषा मम मातरः ।

स्नेहप्रणयसम्भोगैः समा हि मम मातरः ॥ 2.26.32 ॥

वन्दितव्या इति । स्नेहः प्रीतिः । प्रणयः सौहृदम् । “प्रणयः स्यात्परिचये याच्ञायां सौहृदेपि च” इति वैजयन्ती । भोगः पालनम् । “भोगो राज्ये धने सौख्ये पालनाभ्यवहारयोः” इति वैजयन्ती । मयि स्नेहादित्रयमविशेषेण कुर्वन्ति, अतस्तास्तुल्यतया वन्द्या इति भावः ॥ 2.26.32 ॥

भ्रातृपुत्रसमौ चापि द्रष्टव्यौ च विशेषतः ।

त्वया भरतशत्रुघ्नौ प्राणैः प्रियतरौ मम ॥ 2.26.33 ॥

भ्रातृपुत्रसमाविति । भ्रातृपुत्रसमौ भ्रात्रा पुत्रेण च समौ । प्राणैः प्राणेभ्यः ॥ 2.26.33 ॥

विप्रिपवयं न च कर्त्तव्यं भरतस्य कदाचन ।

स हि राजा प्रभुश्चैव देशस्य च कुलस्य च ॥ 2.26.34 ॥

विप्रियमिति । राजत्वेप्यप्रभुत्वमनियन्तृत्वं कस्यचित्सम्भवतीति तद्व्यावृत्त्यर्थं प्रभुरित्युक्तम् । देशपतेरकुलपतित्वदर्शनादाह देशस्य च कुलस्य चेति ॥ 2.26.34 ॥

आराधिता हि शीलेन प्रयत्नैश्चोपसेविताः ।

राजानः सम्प्रसीदन्ति प्रकुप्यन्ति विपर्यये ॥ 2.26.35 ॥

आराधिता इति । शीलेन अकुटिलवृत्त्या । प्रयत्नैः आलस्यत्यागादिभिः । विपर्यये शीलाद्यभावे ॥ 2.26.35 ॥

औरसानपि पुत्रान् हि त्यजन्त्यहितकारिणः ।

समर्थान् सम्प्रगृह्णन्ति जनानपि नराधिपाः ॥ 2.26.36 ॥

औरसानिति । जनान् अबन्धून् ॥ 2.26.36 ॥

सा त्वं वसेह कल्याणि राज्ञः समनुवर्तिनी ।

भरतस्य रता धर्मे सत्यव्रतपरायणा ॥ 2.26.37 ॥

सा त्वमिति । सत्यव्रतम् अमोघव्रतम् ॥ 2.26.37 ॥

अहं गमिष्यामि महावनं प्रिये त्वया हि वस्तव्यमिहैव भामिनि ।

यथा व्यलीकं कुरुषे न कस्यचित्तथा त्वया कार्यमिदं वचो मम ॥ 2.26.38 ॥

अहमिति । व्यलीकम् अप्रियम् । कस्यचिदपि जनस्य यथा व्यलीकं न कुरुषे तथा त्वया वर्तितव्यम्, इदं मम वचश्च कार्यम् । अत्रैव स्थातव्यमिति मम वचश्च कार्यमिति । यद्वा यथा कस्यचिदपि व्यलीकं न कुरुषे तथा इदमपि मम वचस्त्वया कार्यमित्यर्थः ॥ 2.26.38 ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे षड्विशः सर्गः ॥ 26 ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने षड्विंशः सर्गः ॥ 26 ॥