श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे पञ्चविंशः सर्गः
सा ऽपनीय तमायासमुपस्पृश्य जलं शुचिः ।
चकार माता रामस्य मङ्गलानि मनस्विनी ॥ 2.25.1 ॥
तान्येव स्वस्त्ययनानि दर्शयतिसेत्यादि । आयासं क्लेशम् । अप्तनीय त्यक्त्वा । जलमुपस्पृश्य आचम्येत्यर्थः । “उपस्पर्शस्त्वाचमनम्” इत्यमरः । रोदनस्याशुचिताहेतुत्वात् देवताप्रार्थनस्य शुचिना कर्त्तव्यत्वादुपस्पर्शनमुक्तम् । अत एव शुचिरित्युच्यते । मङ्गलानि मङ्गलाशासनानि ॥ 2.25.1 ॥
न शक्यसे वारयितुं गच्छेदानीं रघूत्तम ।
शीघ्रं च विनिवर्त्तस्व वर्त्तस्व च सतां क्रमे ॥ 2.25.2 ॥
नेति । शीघ्रं विनिवर्त्तस्व, चतुर्दशवर्षान्त इति शेषः । सतां क्रमे अभिषेचने ॥ 2.25.2 ॥
यं पालयसि धर्मं त्वं धृत्या च नियमेन च ।
स वै राघवशार्दूल धर्मस्त्वामभिरक्षतु ॥ 2.25.3 ॥
यमिति । पालयसि अप्रच्युतमनुतिष्ठसि । धृत्या प्रीत्या । नियमेन समग्रतया । स वै प्रसिद्धो धर्मः । राघवशार्दूल रघुकुलश्रेष्ठ अभिरक्षतु अभितो रक्षतु । पुनर्द्धर्मपदप्रयोगात् स एव रक्षत्वित्युच्यते ॥ 2.25.3 ॥
येभ्यः प्रणमसे पुत्र चैत्येष्वायतनेषु च ।
ते च त्वामभिरक्षन्तु वने सह महर्षिभिः ॥ 2.25.4 ॥
येभ्य इति । चैत्येषु चतुष्पथेषु । आयतनेषु देवतागृहेषु । ते देवा इति सिद्धम् ॥ 2.25.4 ॥
यानि दत्तानि ते ऽस्त्राणि विश्वामित्रेण धीमता ।
तानि त्वामभिरक्षन्तु गुणैः समुदितं सदा ॥ 2.25.5 ॥
पितृशुश्रूषया पुत्र मातृशुश्रूषया तथा ।
सत्येन च महाबाहो चिरञ्जीवाभिरक्षितः ॥ 2.25.6 ॥
समुदितं श्रेष्ठम् ॥ 2.25.56 ॥
समित्कुशपवित्राणि वेद्यश्चायतनानि च ।
स्थण्डिलानि विचित्राणि शैला वृक्षाः क्षुपा ह्रदाः ।
पतङ्गाः पन्नगाः सिंहास्त्वां रक्षन्तु नरोत्तम ॥ 2.25.7 ॥
समिदित्यादिसार्धश्लोक एकान्वयः । वन्याः समित्कुशादयः । प्रमादकृतप्रत्यवायसहिष्णवः सन्तो वने चरन्तं भवन्तं रक्षन्त्विति वाक्यार्थः । पवित्राणि दर्भग्रन्थयः । वेद्यः अग्निधिष्ण्यानि, स्थण्डिलानि देवपूजास्थलानि तेषामलङ्कारभेदात् संस्थानभेदाच्च वैचित्र्यम् । वृक्षग्रहणं लतादेरप्युपलक्षणम् । क्षुपाः ह्रस्वशाखाशिफायुक्ता वृक्षविशेषाः । “ह्रस्वशाखाशिफः क्षुपः” इत्यमरः । वृक्षविशेषणं वा । ह्रस्वशाखावृक्षेष्वेव प्रायशो देवतास्सन्निदधत इत्यैतिह्यात् । पतङ्गाः पक्षिणः ॥ 2.25.7 ॥
स्वस्ति साध्याश्च विश्वे च मरुतश्च महर्षयः ।
स्वस्ति धाता विधाता च स्वस्ति पूषा भगो ऽर्यमा ॥ 2.25.8 ॥
लोकपालाश्च ते सर्वे वासवप्रमुखास्तथा ।
ऋतवश्चैव पक्षाश्च मासास्संवत्सराः क्षपाः ॥ 2.25.9 ॥
स्वस्तीत्यादि । कुर्वन्त्वित्यनुषङ्गः । स्वस्ति धोतेत्यादौ करोत्वित्यध्याहारः । साध्याः देवताविशेषाः । विश्वे विश्वेदेवाः । मरुतः वायवः । धातृविधातृशब्दौ देवताविशेषवाचकौ । पूषादिशब्दाः द्वादशसङ्ख्याकादित्यावान्तरभेदवाचकाः ॥ 2.25.89 ॥
दिनानि च मुहूर्त्ताश्च स्वस्ति कुर्वन्तु ते सदा ।
स्मृतिर्धृतिश्च धर्मश्च पातु त्वां पुत्र सर्वतः ॥ 2.25.10 ॥
मुहूर्तः दिनस्य त्रिंशो भागः । स्मृतिः ध्यानम् । धृतिः ऐकाग्र्यम्, निष्पन्नयोग इति यावत् । धर्मः श्रुतिस्मृत्युदितः । यं पालयसीत्यत्र पितृवाक्यपरिपालनज एवोक्त इति न पुनरुक्तिः ॥ 2.25.10 ॥
स्कन्दश्च भगवान् देवः सोमश्च सबृहस्पतिः ।
सप्तर्षयो नारदश्च ते त्वां रक्षन्तु सर्वतः ॥ 2.25.11 ॥
स्कन्द इति । स्कन्दः सनत्कुमारः “तं स्कन्द इत्याचक्षते” इति दहरविद्यायां तथाभिधानात् । कुमारो वा ॥ 2.25.11 ॥
याश्चापि सर्वतः सिद्धा दिशश्च सदिगीश्वराः ।
स्तुता मया वने तस्मिन् पान्तु त्वां पुत्र नित्यशः ॥ 2.25.12 ॥
याश्चापीति । सर्वतः सिद्धाः प्रसिद्धाः ॥ 2.25.12 ॥
शैलाः सर्वे समुद्राश्च राजा वरुण एव च ।
द्यौरन्तरिक्षं पृथिवी नद्यः सर्वास्तथैव च ॥ 2.25.13 ॥
नक्षत्राणि च सर्वाणि ग्रहाश्च सहदेवताः ।
अहोरात्रे तथा सन्ध्ये पान्तु त्वां वनमाश्रितम् ॥ 2.25.14 ॥
शैला इति । शैलाः कुलपर्वताः । समुद्रसन्निधानात् शैला वृक्षा इत्यत्र क्षुद्रपर्वताः । राजा कुबेरः । ग्रहाः कुजादयः । सहदेवताः तदभिमानिदेवतासहिताः । अहोरात्रे तदभिमानिदेवते । अतो न पुनरुक्तिः ॥ 2.25.1314 ॥
ऋतवश्चैव षट् पुण्या मासाः संवत्सरास्तथा ।
कलाश्च काष्ठाश्च तथा तव शर्म दिशन्तु ते ॥ 2.25.15 ॥
ऋतव इति । ऋतुमासादिशब्दास्तदधिदेवतापराः केचिदाहुः । अस्मिन् प्रकरणे प्रायशः पुनरुक्तयः पुत्ररक्षणविषयप्रेमपारवश्यकृताः इति । शर्म सुखम् । “शर्मशातसुखानि च” इत्यमरः ॥ 2.25.15 ॥
महावने विचरतो मुनिवेषस्य धीमतः ।
तवादित्याश्च दैत्याश्च भवन्तु सुखदास्सदा ॥ 2.25.16 ॥
महावन इति । आदित्याः देवाः ॥ 2.25.16 ॥
राक्षसानां पिशाचानां रौद्राणां क्रूरकर्मणाम् ।
क्रव्यादानाञ्च सर्वेषां माभूत्पुत्रक ते भयम् ॥ 2.25.17 ॥
राक्षसानामिति । राक्षसादिसम्बन्धि भयम् । सम्बन्धसामान्ये षष्ठी । तेभ्यो भयमित्यर्थः ॥ 2.25.17 ॥
प्लवगा वृश्चिका दंशा मशकाश्चैवकानने ।
सरीसृपाश्च कीटाश्च माभूवन् गहने तव ॥ 2.25.18 ॥
प्लवगा इति । प्लवगाः वानराः । दंशाः वनमक्षिकाः । “दंशस्तु वनमक्षिका” इत्यमरः । सरीसृपाः गिरिसर्पाः । गहने वने । माभूवन् हिंसका माभूवन्नित्यर्थः ॥ 2.25.28 ॥
महाद्विपाश्च सिंहाश्च व्याघ्रा ऋक्षाश्च दंष्ट्रिणः ।
महिषाः शृङ्गिणो रौद्रा न ते द्रुह्यन्तु पुत्रक ॥ 2.25.19 ॥
महाद्विपा इति । ऋक्षाः भल्लूकाः । न ते द्रुह्यन्तु “क्रुधद्रुह–” इत्यादिना चतुर्थी ॥ 2.25.19 ॥
नृमांसभोजना रौद्रा ये चान्ये सत्त्वजातयः ।
मा च त्वां हिंसिषुः पुत्र मया संपूजितास्त्विह ॥ 2.25.20 ॥
नृमांसभोजना इति । सत्त्वजातयः सत्त्वस्य जातिर्जन्म येषु ते सत्त्वजातयः । क्रूरजन्तव इत्यर्थः ॥ 2.25.20 ॥
आगमास्ते शिवाः सन्तु सिद्ध्यन्तु च पराक्रमाः ।
सर्वसम्पत्तये राम स्वस्तिमान् गच्छ पुत्रक ॥ 2.25.21 ॥
आगमा इति । आगम्यन्त इति आगमाः मार्गाः । सर्वसम्पत्तये वन्यफलमूलादिसम्पत्तये ॥ 2.25.21 ॥
स्वस्ति ते ऽस्त्वान्तरिक्षेभ्यः पार्थिवेभ्यः पुनःपुनः ।
सर्वेभ्यश्चैव देवेभ्यो ये च ते परिपन्थिनः ॥ 2.25.22 ॥
स्वस्तीति । आन्तरिक्षेभ्यः अन्तरिक्षचारिभ्यः । पार्थिवेभ्यः पृथिवीवर्तिभ्यः सकाशात् । परिपन्थिनः शत्रवः ॥ 2.25.22 ॥
गुरुः सोमश्च सूर्यश्च धनदो ऽथ यमस्तथा ।
पान्तु त्वामर्चिता राम दण्डकारण्यवासिनम् ॥ 2.25.23 ॥
गुरुरित्यादि । पृथक्पृथक् मिलिताश्च रक्षन्त्वित्यर्थ इति न पुनरुक्तिः ॥ 2.25.23 ॥
अग्निर्वायुस्तथा धूमो मन्त्राश्चर्षिमुखाच्च्युताः ।
उपस्पर्शनकाले तु पान्तु त्वां रघुनन्दन ॥ 2.25.24 ॥
ऋषिमुखाच्च्युताः निर्गताः । त्वया गृहीताश्चेति शेषः ॥ 2.25.24 ॥
सर्वलोकप्रभुर्ब्रह्मा भूतभर्त्ता तथर्षयः ।
ये च शेषाः सुरास्ते त्वां रक्षन्तु वनवासिनम् ॥ 2.25.25 ॥
सर्वलोकप्रभुरिति । भूतभर्त्ता नारायणः ॥ 2.25.25 ॥
इति माल्यैः सुरगणान् गन्धैश्चापि यशस्विनी ।
स्तुतिभिश्चानुकूलाभिरानर्चायतलोचना ॥ 2.25.26 ॥
ज्वलनं समुपादाय ब्राह्मणेन महात्मना ।
हावयामास विधिना राममङ्गलकारणात् ॥ 2.25.27 ॥
इतीति । इतीत्यत्र मत्वेति शेषः ॥ 2.25.2627 ॥
घृतं श्वेतानि माल्यानि समिधः श्वेतसर्षपान् ।
उपसम्पादयामास कौसल्या परमाङ्गना ॥ 2.25.28 ॥
घृतमिति । उपसम्पादयामास । होमायेति शेषः ॥ 2.25.28 ॥
उपाध्यायः स विधिना हुत्वा शान्तिमनामयम् ।
हुतहव्यावशेषेण बाह्यं बलिमकल्पयत् ॥ 2.25.29 ॥
उपाध्याय इति । शान्तिं सर्वोपद्रवशान्तिम् । अनामयम् आरोग्यञ्च, उद्दिश्येति शेषः । हुतहव्यावशेषेण हुतहविश्शेषेण । बाह्यं होमस्थानाद्बहिर्भवम् ॥ 2.25.29 ॥
मधुदध्यक्षतघृतैः स्वस्ति वाच्य द्विजांस्ततः ।
वाचयामास रामस्य वने स्वस्त्ययनक्रियाः ॥ 2.25.30 ॥
मध्विति । मध्वादिद्रव्यदक्षिणाभिर्दत्ताभिः । द्विजान् स्वस्ति वाच्य पुण्याहं वाचयित्वेत्यर्थः । स्वस्त्ययनक्रियाः स्वस्त्ययनक्रियाप्रतिपादकमन्त्रानित्यर्थः ॥ 2.25.30 ॥
ततस्तस्मै द्विजेन्द्राय राममाता यशस्विनी ।
दक्षिणां प्रददौ काम्यां राघवं चेदमब्रवीत् ॥ 2.25.31 ॥
तत इति । काम्याम् अभीष्टाम् ॥ 2.25.31 ॥
यन्मङ्गलं सहस्राक्षे सर्वदेवनमस्कृते ।
वृत्रनाशे समभवत्तत्ते भवतु मङ्गलम् ॥ 2.25.32 ॥
यन्मङ्गलं सुपर्णस्य विनता ऽकल्पयत् पुरा ।
अमृतं प्रार्थयानस्य तत्ते भवतु मङ्गलम् ॥ 2.25.33 ॥
अमृतोत्पादने दैत्यान् घ्नतो वज्रधरस्य यत् ।
अदितिर्मङ्गलं प्रादात्तत्ते भवतु मङ्गलम् ॥ 2.25.34 ॥
यन्मङ्गलमिति । वृत्रनाशे वृत्रनाशनिमित्ते ॥ 2.25.3234 ॥
त्रीन् विक्रमान् प्रक्रमतो विष्णोरमिततेजसः ।
यदासीन्मङ्गलं राम तत्ते भवतु मङ्गलम् ॥ 2.25.35 ॥
त्रीनिति । विक्रमान् पादविक्षेपान् ॥ 2.25.35 ॥
ऋतवः सागरा द्वीपा वेदा लोका दिशश्चते ।
मङ्गलानि महाबाहो दिशन्तु शुभमङ्गलाः ॥ 2.25.36 ॥
ऋतव इति । शुभमङ्गलाः मङ्गलानामपि मङ्गलाः, मङ्गलद्रव्याणामप्यतिशयदायका इत्यर्थः ॥ 2.25.36 ॥
इति पुत्रस्य शेषांश्च कृत्वा शिरसि भामिनी ।
गन्धैश्चापि समालभ्य राममायतलोचना ॥ 2.25.37 ॥
ओषधीं चापि सिद्धार्थां विशल्यकरणीं शुभाम् ।
चकार रक्षां कौसल्या मन्त्रैरभिजजाप च ॥ 2.25.38 ॥
इतीति । शेषान् अक्षतानि । गन्धैश्च समालभ्य विलिप्य । “समालम्भो विलेपनम्” इत्यमरः । सिद्धार्थां दृष्टफलाम् । विशल्यकरणीं च अन्तर्गतशल्यनिर्गमनकारिणीं च । ओषधीं मूलिकां मन्त्रैरभिमन्त्र्य रक्षां चकार, रक्षाहेतुत्वेन हस्ते बबन्धेत्यर्थः । पुनर्जजाप च ॥ 2.25.3738 ॥
उवाचातिप्रहृष्टेव सा दुःखवशवर्त्तिनी ।
वाङ्मात्रेण न भावेन वाचा संसज्जमानया ॥ 2.25.39 ॥
उवाचेति । अतिप्रहृष्टेव दुःखवशवर्तिन्यपि पुत्रमुखोल्लासार्थमतिसन्तुष्टेव भावयन्तीत्यर्थः । असंसज्जमानया स्खलन्त्येत्यर्थः ॥ 2.25.39 ॥
आनम्य मूर्ध्नि चाघ्राय परिष्वज्य यशस्विनी ।
अवदत् पुत्र सिद्धार्थो गच्छ राम यथासुखम् ॥ 2.25.40 ॥
केन प्रकारेणोवाचेत्यत्राह–आनम्येति । आनम्य आनमय्य । सिद्धार्थः सिद्धप्रयोजनः । गच्छेत्यत्रेतिकरणं द्रष्टव्यम् ॥ 2.25.40 ॥
अरोगं सर्वसिद्धार्थमयोध्यां पुनरागतम् ।
पश्यामि त्वां सुखं वत्स सुस्िथतं राजवर्त्त्मनि ॥ 2.25.41 ॥
अरोगमिति । सर्वसिद्धार्थं सिद्धसर्वप्रयोजनम् । पश्यामि द्रक्ष्यामि ॥ 2.25.41 ॥
प्रणष्टदुःखसङ्कल्पा हर्षविद्योतितानना ।
द्रक्ष्यामि त्वां वनात् प्राप्तं पूर्णचन्द्रमिवोदितम् ॥ 2.25.42 ॥
भद्रासनगतं राम वनवासादिहागतम् ।
द्रक्ष्यामि च पुनस्त्वां तु तीर्णवन्तं पितुर्वचः ॥ 2.25.43 ॥
प्रणष्टेति । प्रणष्टदुःखसङ्कल्पा सङ्कल्पः मानसं कर्म, वने रामस्य किम्भविष्यतीति चिन्तात्मक इत्यर्थः ॥ 2.25.4243 ॥
मङ्गलैरुपसम्पन्नो वनवासादिहागतः ।
वध्वा मम च नित्यं त्वं कामान् संवर्द्ध याहि भो ॥ 2.25.44 ॥
मयार्चिता देवगणाः शिवादयो महर्षयो भूतमहासुरोरगाः ।
अभिप्रयातस्य वनं चिराय ते हितानि कांक्षन्तु दिशश्च राघव ॥ 2.25.45 ॥
मङ्गलैरिति । वध्वाः स्नुषायाः सीतायाः । कामान् काम्यमानवस्त्राभरणादीनि ॥ 2.25.4445 ॥
इतीव चाश्रुप्रतिपूर्णलोचना समाप्य च स्वस्त्ययनं यथाविधि ।
प्रदक्षिणं चैव चकार राघवं पुनःपुनश्चापि निपीड्य सस्वजे ॥ 2.25.46 ॥
तदा कौसल्योक्तस्य वाचामगोचरत्वादाह–इतीवेत्यादि । इतीव एवंविधमित्यर्थः । प्रदक्षिणं अनुकूलम् । रक्षामिति यावत् ॥ 2.25.46 ॥
तथा तु देव्या स कृतप्रदक्षिणो निपीड्य मातुश्चरणौ पुनःपुनः ।
जगाम सीतानिलयं महायशास्स राघवः प्रज्वलितः स्वयाश्रिया ॥ 2.25.47 ॥
तथेति । निपीड्य निपीडनपूर्वकमभिवाद्येत्यर्थः । स्वया स्वतस्सिद्धया ॥ 2.25.47 ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे पञ्चविंशः सर्गः ॥ 25 ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने पञ्चविशः सर्गः ॥ 25 ॥