श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे चतुर्विंशः सर्गः
तं समीक्ष्य त्ववहितं पितुर्निर्देशपालने ।
कौसल्या बाष्पसंरुद्धा वचो धर्मिष्ठमब्रवीत् ॥ 2.24.1 ॥
अथ धर्म्यस्य रामनिश्चयस्यानुमोदनं कौसल्या करोति–तं समीक्ष्येत्यादिना । तं रामं समीक्ष्य निश्चित्य । अवहितं सावधानम् । निर्देशो नियोगः ॥ 2.24.1 ॥
अदृष्टदुःखो धर्मात्मा सर्वभूतप्रियंवदः ।
मयि जातो दशरथात् कथमुञ्छेन वर्त्तयेत् ॥ 2.24.2 ॥
अदृष्टदुःख इति । उञ्छो नाम–दैवात्प्रकीर्णानां व्रीह्यादिधान्यानामङ्गुल्या एकैकशो ग्रहणम् । कणिशग्रहणं तु शिलमेव । इदं फलमूलाद्याहरणं लक्षयति । वर्त्तयेत् जीवेत् ॥ 2.24.2 ॥
यस्य भृत्याश्च दासाश्च मृष्टान्यन्नानि भुञ्जते ।
कथं स भोक्ष्यते नाथो वने मूलफलान्ययम् ॥ 2.24.3 ॥
यस्येति । भृत्याः भटाः । दासाः दास्यकराः । मृष्टानि श्लाघ्यानि ॥ 2.24.3 ॥
क एतच्छ्रद्दधेत् श्रुत्वा कस्य वा न भेवद्भयम् ।
गुणवान् दयितो राजा राघवो यद्विवास्यते ॥ 2.24.4 ॥
क इति । विवास्यत इतियत् । एतत् कः श्रद्दधेद्गुणवत्पुत्रविवासनस्य असम्भावितत्वात्, श्रद्धेयत्वे वा कस्य भयम् न भवेत्, ममाप्येवं विवासनं भविष्यतीति ॥ 2.24.4 ॥
नूनं तु बलवान् लोके कृतान्तः सर्वमादिशन् ।
लोके रामाभिरामस्त्वं वनं यत्र गमिष्यसि ॥ 2.24.5 ॥
नूनमिति । सर्वं सुखदुःखादिकम् । आदिशन् प्रदिशन् । कृतान्तः दैवम् । यत्र दैवे निमित्ते ॥ 2.24.5 ॥
अयं तु मामात्मभवस्तवादर्शनमारुतः ।
विलापदुःखसमिधो रुदिताश्रुहुताहुतिः ॥ 2.24.6 ॥
चिन्ताबाष्पमहाधूमस्तवादर्शनचित्तजः ।
कर्शयित्वा भृशं पुत्र निश्वासायाससम्भवः ॥ 2.24.7 ॥
त्वया विहीनामिह मां शोकाग्निरतुलो महान् ।
प्रधक्ष्यति यथा कक्षं चित्रभानुर्हिमात्यये ॥ 2.24.8 ॥
अयन्त्वित्यादिश्लोकत्रयमेकं वाक्यम् । अत्र विश्लेषजनितशोकस्याग्निसमाधिरुच्यते । आत्मभवः देहजः अदर्शनमारुतः शोकाग्नेरदर्शनजत्वात् तस्य मारुतत्वनिरूपणम् । विलापदुःखं प्रलापजं दुःखं तदेव समिधा यस्य तस्य तद्वर्धकत्वात् “आपञ्चैव हलन्तानाम्” इति समिच्छब्दाट्टाप् । रुदिताश्रूणि रोदनजाश्रूणि, तान्येव हुता क्षिप्ता आहुतिर्यस्य, चिन्ताबाष्पः चिन्तोष्मा स एव महाधूमो यस्य । तवादर्शनेन हेतुना चित्तज इति हेतुमात्रोक्तिः । आगमनचित्तज इति पाठान्तरम् । निःश्वास एवायासः पुरुषप्रयत्नः समिदादिजन्याग्नेः पुरुषप्रयत्नजत्वात्तथा निरूपणम् । त्वया जलस्थानीयेन, विहीनां मां शोक एवाग्निः शोकाग्निः वैतानिकाग्निः । कर्शयित्वा शुष्कीकृत्य । हिमात्यये शिशिरर्तौ । कक्षं गुल्मम् । चित्रभानुः वन्यो ऽग्निरिव मां प्रधक्ष्यति भस्मीकरिष्यति ॥ 2.24.68 ॥
कथं हि धेनुः स्वं वत्सं गच्छन्तं नानुगच्छति ।
अहं त्वा ऽनुगमिष्यामि पुत्र यत्र गमिष्यसि ॥ 2.24.9 ॥
कथं हीति । उत्तरार्द्धादौ तथेत्युपस्कार्यम् ॥ 2.24.9 ॥
तथा निगदितं मात्रा तद्वाक्यं पुरुषर्षभः ।
श्रुत्वा रामो ऽब्रवीद्वाक्यं मातरं भृशदुःखिताम् ॥ 2.24.10 ॥
तथेति । तथा निगदितमिति स्ववाचोप्यविषयत्वं दर्शयति मुनिः ॥ 2.24.10 ॥
कैकेय्या वञ्चितो राजा मयि चारण्यमाश्रिते ।
भवत्या च परित्यक्तो न नूनं वर्त्तयिष्यति ॥ 2.24.11 ॥
कैकेय्येति । न वर्तयिष्यति न जीविष्यतीत्यर्थः ॥ 2.24.11 ॥
भर्तुः किल परित्यागो नृशंसः केवलं स्त्रियाः ।
स भवत्या न कर्तव्यो मनसापि विगर्हितः ॥ 2.24.12 ॥
भर्तुरिति । नृशंसः नृशंसत्वम्, सिद्ध्यतीति शेषः । मनसापि न कर्त्तव्यः, न चिन्तनीय इत्यर्थः ॥ 2.24.12 ॥
यावज्जीवति काकुत्स्थः पिता मे जगतीपतिः ।
शुश्रूषा क्रियतां तावत् स हि धर्मस्सनातनः ॥ 2.24.13 ॥
यावदिति । सः शुश्रूषा । धर्मापेक्षया पुँल्लिङ्गत्वम् ॥ 2.24.13 ॥
एवमुक्ता तु रामेण कौसल्या शुभदर्शना ।
तथैत्युवाच सुप्रीता राममक्लिष्टकारिणम् ॥ 2.24.14 ॥
एवमिति । शुभदर्शना धर्म्यबुद्धिरित्यर्थः ॥ 2.24.14 ॥
एवमुक्तस्तु वचनं रामो धर्मभृतां वरः ।
भूयस्तामब्रवीद्वाक्यं मातरं भृशदुःखिताम् ॥ 2.24.15 ॥
दार्ढ्यार्थं पुनराहेत्याह–एवमित्यादिना ॥ 2.24.15 ॥
मया चैव भवत्या च कर्त्तव्यं वचनं पितुः ।
राजा भर्त्ता गुरुः श्रेष्ठः सर्वेषामीश्वरः प्रभुः ॥ 2.24.16 ॥
मयेति । उत्तरार्द्धादौ स इत्युपस्कार्यम् । प्राथमिकपितृवचनपरिपालनानन्तरम् ॥ 2.24.16 ॥
इमानि तु महारण्ये विहृत्य नव पञ्च च ।
वर्षाणि परमप्रीतः स्थास्यामि वचने तव ॥ 2.24.17 ॥
एवमुक्ता प्रियं पुत्रबाष्पपूर्णानना तदा ।
उवाच परमार्ता तु कौसल्या पुत्रवत्सला ॥ 2.24.18 ॥
तव वचनं करिष्यामीत्याह–इमानीति । इमानीत्यल्पत्वज्ञापनाय विहृत्येत्यनेन क्लेशराहित्यमुक्तम् ॥ 2.24.1718 ॥
आसां राम सपत्नीनां वस्तुं मध्ये न मे क्षमम् ।
नय मामपि काकुत्स्थ वनं वन्यां मृगीमिव ।
यदि ते गमने बुद्धिः कृता पितुरपेक्षया ॥ 2.24.19 ॥
एवमनुमतरामवनगमनस्वनगरवर्त्तनापि पुनः सपत्नीस्मरणादनुगमनमर्थयते–आसामिति । वन्यां मृगीमिव यथा वन्या मृगीवने संतुष्टा वर्त्तते तथाहमपि वर्ते न भवन्तं क्लेशयिष्यामीति भावः । पितुरपेक्षया पितुरिच्छया ॥ 2.24.19 ॥
तां तथा रुदतीं रामो रुदन् वचनमब्रवीत् ॥ 2.24.20 ॥
जीवन्त्या हि स्त्रिया भर्त्ता दैवतं प्रभुरेव च ।
भवत्या मम चैवाद्य राजा प्रभवति प्रभुः ॥ 2.24.21 ॥
तामिति । रुदन् ‘व्यसनेषु मनुष्याणां भृशं भवति दुःखित’ इत्युक्तगुणविशिष्टो ऽपि रामो मातृव्यसनं दृष्ट्वा पितृवचनपरिपालनरूपधर्मविघ्नभयाद्धैर्येण स्थितवान् । इदानीं वनगमनानुमतिं लब्ध्वा स्वस्नेहप्रदर्शनेन मातृव्यसनं निवर्त्तयितुं रुदितवानित्यवगम्यते ॥ 2.24.2021 ॥
न ह्यनाथा वयं राज्ञा लोकनाथेन धीमता ।
भरतश्चापि धर्मात्मा सर्वभूतप्रियंवदः ।
भवती मनुवर्त्तेत स हि धर्मरतः सदा ॥ 2.24.22 ॥
यथा मयि तु निष्क्रान्ते पुत्रशोकेन पार्थिवः ।
श्रमं नावाप्नुयात्किञ्चिदप्रमत्ता तथा कुरु ॥ 2.24.23 ॥
न हीति । राज्ञा, सनाथा इति शेषः । राज्ञा सनाथाः, वयं न ह्यनाथा इत्यर्थः । सपत्नी मध्यवासदोषं परिहरति भरतश्चापीति ॥ 2.24.2223 ॥
दारुणश्चाप्ययं शोको यथैनं न विनाशयेत् ।
राज्ञो वृद्धस्य सततं हितं चर समाहिता ॥ 2.24.24 ॥
दारुण इति । हितं चरेत्यत्र तथेति शेषः ॥ 2.24.24 ॥
व्रतोपवासनिरता या नारी परमोत्तमा ।
भर्त्तारं नानुवर्त्तेत सा तु पापगतिर्भवेत् ॥ 2.24.25 ॥
पतिशुश्रूषणमेव पत्न्याः परमो धर्म इत्यन्वयव्यतिरेकाभ्यां श्लोकद्वयेन दर्शयति–व्रतेति । पापस्य गतिः फलमिव यस्याः सा तथा ॥ 2.24.25 ॥
भर्तृशुश्रूषया नारी लभते स्वर्गमुत्तमम् ।
अपि या निर्नमस्कारा निवृत्ता देवपूजनात् ॥ 2.24.26 ॥
निर्नमस्कारापि भर्तृभिन्नद्विजादिविषयनमस्काररहितापि ॥ 2.24.26 ॥
शुश्रूषामेव कुर्वीत भर्तुः प्रियहिते रता ।
एष धर्मः पुरा दृष्टो लोके वेदे श्रुतः स्मृतः ॥ 2.24.27 ॥
उपसंहरति–शुश्रूषामिति । लोके पुरा दृष्टः पुरातनलोकाचारसिद्ध इत्यर्थः । वेदे श्रुतः वेदावगत इत्यर्थः । स्मृतः स्मृत्यवगतश्चेत्यर्थः ॥ 2.24.27 ॥
अग्निकार्येषु च सदा सुमनोभिश्च देवताः ।
पूज्यास्ते मत्कृते देवि ब्राह्मणाश्चैव सुव्रताः ॥ 2.24.28 ॥
तूष्णीमवस्थाने एनां दुःखमाक्रमिष्यतीति धिया दुःखविच्छेदनार्थं कालक्षेपसाधनं विधत्ते–अग्नीति । अग्निकार्येषु शान्तिकपौष्टिकहोमेषु । सुमनोभिश्चेत्यत्र चकारेण चन्दनताम्बूलादीनि समुच्चीयन्ते, अग्निकार्येषु क्रियमाणेषु सुमनःप्रभृतिभिः देवताब्राह्मणाश्च पूज्या इत्यर्थः ॥ 2.24.28 ॥
एवं कालं प्रतीक्षस्व ममागमनकांक्षिणी ।
नियतानियताहारा भर्तृशुश्रूषणे रता ॥ 2.24.29 ॥
एवमिति । नियता स्नानादि नियमयुक्ता । नियताहारा मधुमांसादिवर्जनेन शुद्धाहारा ॥ 2.24.29 ॥
प्राप्स्यसे परमं कामं मयि प्रत्यागते सति ।
यदि धर्मभृतां श्रेष्ठो धारयिष्यति जीवितम् ॥ 2.24.30 ॥
एवमुक्ता तु रामेण बाष्पपर्याकुलेक्षणा ।
कौसल्या पुत्रशोकार्त्ता रामं वचनमब्रवीत् ॥ 2.24.31 ॥
प्राप्स्यस इति । भर्त्तृजीवनपुत्रागमनयोः सतोरेव हि परमकामप्राप्तिसम्भव इति भावः ॥ 2.24.3031 ॥
गमने सुकृतां बुद्धिं न ते शक्नोमि पुत्रक ।
विनिवर्त्तयितुं वीर नूनं कालो दुरत्ययः ॥ 2.24.32 ॥
गमन इति । सुकृतां सुदृढामित्यर्थः ॥ 2.24.32 ॥
गच्छ पुत्रत्वमेकाग्रो भद्रं ते ऽस्तु सदा विभो ।
पुनस्त्वयि निवृत्ते तु भविष्यामि गतक्लमा ॥ 2.24.33 ॥
गच्छेति । गतक्लमा गतक्लेशा ॥ 2.24.33 ॥
प्रत्यागते महाभागे कृतार्थेचरितव्रते ।
पितुरानृण्यतां प्राप्ते त्वयि लप्स्ये परं सुखम् ॥ 2.24.34 ॥
प्रत्यागत इति । महाभागे महाभागधेये । आनृण्यताम् अनृणताम् । स्वार्थे ष्यञ् ॥ 2.24.34 ॥
कृतान्तस्य गतिः पुत्र दुर्विभाव्या सदा भुवि ।
यस्त्वां सञ्चोदयति मे वच आच्छिद्य राघव ॥ 2.24.35 ॥
कृतान्तस्येति । आच्छिद्य छित्त्वा, अन्यथाकृत्वेत्यर्थः ॥ 2.24.35 ॥
गच्छेदानीं महाबाहो क्षेमेण पुनरागतः ।
नन्दयिष्यसि मां पुत्र साम्ना वाक्येन चारुणा ॥ 2.24.36 ॥
गच्छेति । साम्ना सान्त्वरूपेण ॥ 2.24.36 ॥
अपीदानीं स कालः स्यात् वनात् प्रत्यागतं पुनः ।
यत्त्वां पुत्रक पश्येयं जटावल्कलधारिणम् ॥ 2.24.37 ॥
क्षणमात्रमप्यदर्शनासहिष्णुत्वात् प्रत्यागमनकाल इदानीमेव सम्भवेदिति प्रार्थयते–अपीति । यत् येन चतुर्दशवर्षान्तेन कालेन वनात्प्रत्यागतं त्वां पुनः पश्येयं स काल इदानीमेवापि स्यात् । अपिशब्दः सम्भावनायाम् । “अपिःसम्भावनाप्रश्नगर्हाशङ्कासमुच्चये” इति वैजयन्ती । यत् यत्रेति वार्थः ॥ 2.24.37 ॥
तथा हि रामं वनवासनिश्चितं समीक्ष्य देवी परमेण चेतसा ।
उवाच रामं शुभलक्षणं वचो बभूव च स्वस्त्ययनाभिकांक्षिणी ॥ 2.24.38 ॥
तथेति । वनवासनिश्चितं निश्चितवनवासम् । परमेण चेतसा, आदरेणेति यावत् । स्वस्त्ययनं मङ्गलम् अभिकाङ्क्षितुं शीलमस्या अस्तीति तथा ॥ 2.24.38 ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे चतुर्विंशः सगः ॥ 24 ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने चतुर्विंशः सर्गः ॥ 24 ॥