श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे
त्रयोविंशः सर्गः
इति ब्रुवति रामे तु लक्ष्मणो ऽधश्शिरा मुहुः ।
श्रुत्वा मध्यं जगामेव मनसा दुःखहर्षयोः ॥ 2.23.1 ॥
पूर्वं दैवस्य प्रबलत्वेन राज्यविपर्यये न संतापः कार्यः । धर्मस्य सर्वश्रेयस्साधनत्वात् तन्मूलभूते । पितृवचनकरणसत्ये अवश्यं कर्त्तव्ये मातृवचनं च पश्चात्तनत्वात्पश्चात्पालनीयमित्येतावत् सयुक्तिकमुपपादितम् । तत्र पौरुषमेव बलं बलीयः । दैवबलं तु दुर्बलानुसरणीयम्, धर्मश्चार्थकामविरोधेन कर्त्तव्य इति पूर्वपक्षं पूर्वं संग्रहेण लक्ष्मणवाक्येनोक्तं पुनस्तन्मुखेन प्रपञ्चयन् संग्रहेण सिद्धान्तं च दर्शयति–इतीत्यादीना । रामे मुहुः ब्रुवति सति, लक्ष्मणः स्वानभ्युपगमसूचनायाधश्शिरास्सन् श्रुत्वा दुःखहर्षयोर्मध्यं धर्मे स्थिरो ऽभूदिति हर्षं राज्यं त्यक्ष्यतीति दुःखं च मनसा जगाम न तु वाचा प्रतिपादितवान् । इवशब्देनास्थिरत्वमुच्यते । उत्तरक्षणे माध्यस्थ्यत्यागस्य वक्ष्यमाणत्वात् ॥ 2.23.1 ॥
तदा तु बद्ध्वा भ्रुकुटीं भ्रुवोर्मध्ये नरर्षभः ।
निशश्वास महासर्पो बिलस्थ इव रोषितः ॥ 2.23.2 ॥
तदेति । तुशब्देन पूर्वावस्थातो विलक्षणावस्था सूच्यते । भ्रुवोर्मध्ये ललाटे भ्रुकुटीं कृत्वेत्यर्थः । बिलस्थः पेटिकाबिलस्थः न तु वल्मीकस्थः । तदानीं रोषासम्भवात् ॥ 2.23.2 ॥
तस्य दुष्प्रतिवीक्षं तद्भ्रुकुटीसहितं तदा ।
बभौ क्रुद्धस्य सिंहस्य मुखस्य सदृशं मुखम् ॥ 2.23.3 ॥
तस्येति । दुष्प्रतिवीक्षम् अभिमुखतया दुर्निरीक्षं तस्य मुखम् ॥ 2.23.3 ॥
अग्रहस्तं विधुन्वंस्तु हस्तिहस्तमिवात्मनः ।
तिर्यगूर्ध्वं शरीरे च पातयित्वा शिरोधराम् ॥
अग्राक्ष्णा वीक्षमाणस्तु तिर्यग् भ्रातरमब्रवीत् ॥ 2.23.4 ॥
क्रोधविकारं दर्शयति– अग्रहस्तमित्यादिसार्द्धश्लोकः । अग्रं हस्तस्य अग्रहस्तः । एकदेशसमाप्तः । पूर्वापरादिव्यतिरिक्तस्थलेपि क्वचिदस्ति । अग्रं चासौ हस्तश्च अग्रहस्तः । “हस्तशब्दो हस्तावयवे उपचर्यते” इति वामनः । शरीरे उरसि, अध इत्यर्थः । यद्वा शिरोधराम् शरीरे तिर्यगूर्ध्वं चकारादधश्च पातयित्वा क्रोधातिशयेन विविधं शिरोविधूननं कृत्वेत्यर्थः । अग्राक्ष्णा कटाक्षेण तिर्यग्वीक्षमाणस्सन् अब्रवीत् ॥ 2.23.4 ॥
अस्थाने सम्भ्रमो यस्य जातो वै सुमहानयम् ।
धर्मदोषप्रसङ्गेन लोकस्यानतिशङ्कया ॥ 2.23.5 ॥
अस्थान इति । धर्मदोषप्रसङ्गेन पितृवचनपरिपालनरूपधर्महानिप्रसक्त्या । लोकस्य अनतिशङ्कया अतिशङ्कापरिहाराय मया ऽननुष्ठिते लोको धर्मं त्यजतीति शङ्कापरिहाराय चेत्यर्थः । एवंविधकार्यद्वयार्थं यस्य प्रसिद्धस्य ते जातो ऽयं सुमहान् सम्भ्रमः वनगमनत्वरा, अस्थाने अनवकाशे अयुक्त इत्यर्थः । “अवकाशे स्थितौ स्थानम्” इत्यमरः ॥ 2.23.5 ॥
कथं ह्येतदसम्भ्रान्तस्त्वद्विधो वक्तुमर्हति ।
यथा दैवमशौण्डीरं शौण्डीर क्षत्रियर्षभ ॥ 2.23.6 ॥
तथात्वमेवोपपादयति–कथमित्यादिना । हे शौण्डीर समर्थ दैवमपि निराकर्त्तुं क्षमेत्यर्थः । क्षत्र्रियर्षभ क्षत्र्रियश्रेष्ठ त्वं अशौण्डीरमशूरम् एतत् दैवं यथा समर्थं वदसि एवमसम्भ्रान्तस्त्वद्विधः कथं वक्तुमर्हति ? न कथमपि । अशूरः संभ्रान्तः क्षत्र्रबन्धुरेवासमर्थं दैवमनुसर्तुमर्हतीत्यर्थः । अस्थान इत्यादिश्लोकद्वयस्यैवं वार्थः– धर्महानिप्रसक्त्या लोस्यानतिशङ्कया आनतिः पूजा, तद्विषये शङ्कया लोको मामधर्मिष्ठ इति न पूजयेदितिशङ्कयेत्यर्थः । यस्य ते अयुक्तः सुमहान् सम्भ्रमो भ्रान्तिः जातः धर्महानिर्लोकानत्यभावो वा सर्वातिशायिनस्ते किं करिष्यतीति भावः । भ्रमसद्भावं व्यतिरेकमुखेन दृढयति–कथमिति ॥ 2.23.6 ॥
किन्नाम कृपणं दैवमशक्तमभिशंससि ।
पापयोस्ते कथं नाम तयोः शङ्का न विद्यते ॥ 2.23.7 ॥
दैवालम्बनस्य भ्रमत्वमुपपादयति–किमिति । कृपणं “बुद्धिपौरुषहीनानां जीविकेति बृहस्पतिः” इत्युक्तरीत्या दुर्बुलैकपरिग्राह्यतया शोच्यम् । अशक्तं शक्तिहीनं पौरुषं तिरस्कृत्य कार्यकरणाक्षमम् । दैवं किन्नाम अभिशंससि अभिष्टौषि । अशक्तत्वादेव न कार्यानुमयो दैवसद्भावः । असद्भावादेव तदवलम्बनं ते भ्रम इत्यर्थः । एवं दैवकृतस्यानतिलङ्घनीयत्वं परिहृतम्, पितृवाक्यपरिपालनरूपधर्मदोषप्रसङ्गं परिहरति पापयोरिति । पापयोः कैकेयीदशरथयोर्विषये । ते शङ्का पापित्वशङ्का कथं नाम न विद्यते पापिनौतौ त्वयि पापं कर्तुमिच्छतः, अतस्तद्वचनाकरणे न धर्महानिरिति भावः ॥ 2.23.7 ॥
सन्ति धर्मोपधाः श्लक्ष्णा धर्मात्मन् किं न बुध्यसे ।
तयोः सुचरितं स्वार्थं शाठ्यात् परिजिहीर्षतोः ॥ 2.23.8 ॥
ननु धर्मिष्ठयोस्तयोः कथं पापित्वशङ्केत्यत्राह–सन्तीति । धर्मः उपधा व्याजो येषां ते धर्मोपधाः । श्लक्ष्णाः धर्माचरणकञ्चुकेन स्वदोषपिधान च तुराः, सन्ति लोक इति शेषः । हे धर्मात्मन् धर्मैकप्रवणस्वभाव शाठ्याद्गूढविप्रियकारित्वात् । स्वार्थम् अभिषेकरूपमस्मत्प्रयोजनं । परिजिहीर्षतोः परिहर्तुमिच्छतोः तयोः कैकेयीदशरथयोः सुचरितं सुष्ठु मन्त्रितं किं न बुध्यसे ॥ 2.23.8 ॥
यदि नैवं व्यवसितं स्याद्धि प्रागेव राघव ।
तयोः प्रागेव दत्तश्च स्याद्वरः प्रकृतश्च सः ॥ 2.23.9 ॥
विपर्यये ऽनिष्टं प्रसञ्जयति–यदीति । हे राघव प्रागेव अभिषेकात्पूर्वमेव । एवम् उक्तप्रकारेण । तयोः कैकेयीदशरथयोः । व्यवसितं निश्चयः । यदि न स्यात् तदा प्रकृतः पूर्वमेव प्रसक्तः स वरश्च प्रागेव दत्तः स्यात् । किंचेति चार्थः । अयंभावः– भरतायावश्यं राज्यं देयम्, रामस्य ज्येष्ठत्वेन तद्विषयो ऽभिषेक आरभ्यते तदानीं त्वया वरद्वयं प्रष्टव्यं तद्व्याजेन रामो विवास्यते भरतोभिषिच्यत इति कैकेयीदशरथाभ्यां सङ्केतितम् । अन्यथा सा वरद्वयं किमेतावत्पर्यन्तं च याचेत, अयाचितमपि तत् नीतिज्ञो राजा वा कुतो न पूर्वमेव परिहरेदिति ॥ 2.23.9 ॥
लोकविद्विष्टमारब्धं त्वदन्यस्याभिषेचनम् ।
नोत्सहे सहितुं वीर तत्र मे क्षन्तुमर्हसि ॥ 2.23.10 ॥
अस्तु तथा, ततः किमित्यत्राह–लोकविद्विष्टमिति । लोकविद्विष्टं ज्येष्ठं परित्यज्य कनिष्ठस्याभिषेचनात् । लोकविद्वेषविषयमित्यारम्भक्रियाविशेषणम् । मे तत्र असहनविषये क्षन्तुमर्हसि ॥ 2.23.10 ॥
येनेयमागता द्वैधं तव बुद्धिर्महामते ।
स हि धर्मो मम द्वेष्यः प्रसङ्गाद्यस्य मुह्यसि ॥ 2.23.11 ॥
यथाकथञ्चित् पितृवचनं कर्त्तव्यमेवेति मन्वानं रामं प्रत्याह–येनेति । इयं ते बुद्धिः येन पितृवचनपरिपालनरूपधर्मेण । द्वैधं भेदम् । आगता प्राप्ता । नाभिषच्ये वनं प्रवेक्ष्यामीति । यस्य प्रसङ्गात्प्रस्तावात् मुह्यसि अकरणे प्रत्यवायः स्यादिति मोहं प्राप्नोषि, स धर्मो मम द्वेष्यः ॥ 2.23.11 ॥
कथं त्वं कर्मणा शक्तः कैकेयीवशवर्त्तिनः ।
करिष्यसि पितुर्वाक्यमधर्मिष्ठं विगर्हितम् ॥ 2.23.12 ॥
मोहं विशदयति–कथमिति । कर्मणा पौरुषकर्मणा, शक्तः प्रतीकारसमर्थ इत्यर्थः । त्वं कैकेयीवशवर्तित्वादेवाधर्मिष्ठं विगर्हितं च वाक्यं कथं केनप्रकारेण मोहं विना करिष्यसि ॥ 2.23.12 ॥
यद्ययं किल्बिषाद्भेदः कृतो ऽप्येवं न गृह्यते ।
जायते तत्र मे दुःखं धर्मसङ्गश्च गर्हितः ॥ 2.23.13 ॥
[तवायं धर्मसंयोगो लोकस्यास्य विगर्हितः ।]
त्वन्मोहादेव मे दुःखमित्याह–यदीति । अयं भेदः अभिषेकविघातात्मा विपर्यासः । किल्बिषात् मृषावरकल्पनात् । कृतोपि एवं किल्बिषकल्पित इति यदि न गृह्यते । तत्राग्रहणनिमित्ते । मे दुःखं जायते । धर्मसङ्गश्च एतादृशधर्मसङ्गश्च विगर्हितः ॥ 2.23.13 ॥
मनसापि कथं कामं कुर्यास्त्वं कामवृत्तयोः ।
तयोस्त्वहितयोर्नित्यं शत्र्वोः पित्रभिधानयोः ॥ 2.23.14 ॥
तस्मात् मनसापि तन्न कर्त्तव्यमित्याह–मनसेत्यादिना ॥ 2.23.14 ॥
यद्यपि प्रतिपत्तिस्ते दैवी चापि तयोर्मतम् ।
तथाप्युपेक्षणीयं ते न मे तदपि रोचते ॥ 2.23.15 ॥
मम विवासनं दैवकृतम् न तु कैकेयीकृतमिति पूर्वं रामोक्तमनूद्य परिहरति–यद्यपीत्यादिना । तयोः पित्रोः प्रतिपत्तिः अभिषेकविघटनविषया बुद्धिः । दैवी चापि दैवकृतैवेति ते मतम्, यद्यपि तथापि ते त्वया तत् उपेक्षणीयम् । तदपि दैवमपि मम न रोचते ॥ 2.23.15 ॥
विक्लवो वीर्यहीनो यः स दैवमनुवर्त्तते ।
वीराः सम्भावितात्मानो न दैवं पर्युपासते ॥ 2.23.16 ॥
उपेक्षणीयतायां हेतुमाह–विक्लव इति । विक्लवः कातरः । वीर्यहीन इत्यस्य प्रतियोगितयोक्तं वीरा इति । विक्लव इत्यस्य प्रतियोगितयोक्तं संभावितात्मान इति । संभावितः सम्यक् प्रापितः दृढ इति यावत् । आत्मा मनो येषां ते तथा, धीरा इत्यर्थः । नोपासते नाश्रयन्ति ॥ 2.23.16 ॥
दैवं पुरुषकारेण यः समर्थः प्रबाधितुम् ।
न दैवेन विपन्नार्थः पुरुषः सो ऽवसीदति ॥ 2.23.17 ॥
कुतो नाश्रयन्तीत्यपेक्षायां पौरुषवतो दैवेन प्रयोजनहान्यभावादित्याह–दैवमिति । पुरुषकारेण पुरुषबलेन । दैवं बाधितुम् अतिक्रम्य वर्तितुम् यः समर्थः स दैवेन विपन्नार्थः विहतप्रयोजनः सन् नावसीदति न क्लिश्यति ॥ 2.23.17 ॥
द्रक्ष्यन्ति त्वद्य दैवस्य पौरुषं पुरुषस्य च ।
दैवमानुषयोरद्य व्यक्ता व्यक्तिर्भविष्यति ॥ 2.23.18 ॥
पुरुषकारापेक्षया दैवस्य दुर्बलत्वे प्रत्यक्षं प्रमाणयति–द्रक्ष्यन्तीति । पौरुषं सामर्थ्यम् । व्यक्तिः प्रबलदुर्बलविवेकः । व्यक्ता स्फुटा भविष्यति ॥ 2.23.18 ॥
अद्य मत्पौरुषहतं दैवं द्रक्ष्यन्ति वै जनाः ।
यद्दैवादाहतं ते ऽद्य दृष्टं राज्याभिषेचनम् ॥ 2.23.19 ॥
तदेव स्पष्टमाह–अद्येति । यद्दैवात् यस्माद्दैवात् । आहतं विघ्नितम् । ते राज्याभिषेचनं दृष्टं तद्दैवं मत्पौरुषहतं द्रक्ष्यन्ति ॥ 2.23.19 ॥
अत्यङ्कुशमिवोद्दामं गजं मदबलोद्धतम् ।
प्रधावितमहं दैवं पौरुषेण निवर्त्तये ॥ 2.23.20 ॥
अत्यङ्कुशमिति । अत्यङ्कुशम् अतिक्रान्ताङ्कुशव्यापारम् । उद्दामं छन्ननिगलम् । मदबलोद्धतं मदबलाभ्यां गर्विष्ठम् । प्रधावितं दुर्निवारं स्वच्छन्दगमनं गजमिव दुर्निवारत्वेन त्वदभिमतं दैवं पौरुषेण निवर्तये ॥ 2.23.20 ॥
लोकपालास्समस्तास्ते नाद्य रामाभिषेचनम् ।
न च कृत्स्नास्त्रयो लोका विहन्युः किं पुनः पिता ॥ 2.23.21 ॥
लोकपाला इति । ते प्रसिद्धाः । हे राम ते तवाभिषेचनमिति वा । न विहन्युः न विहन्तुं शक्ताः । कृत्स्नाः अन्यूनाः ॥ 2.23.21 ॥
यैर्विवासस्तवारण्ये मिथो राजन् समर्थितः ।
अरण्ये ते विवत्स्यन्ति चतुर्दश समास्तथा ॥ 2.23.22 ॥
राजत्वं सिद्धवत्कृत्याह–राजन्निति । मिथः रहसि । “मिथोन्योन्यरहस्ययोः” इति वैजयन्ती । तथा त्वां प्रत्युक्तप्रकारेण ॥ 2.23.22 ॥
अहं तदाशां छेत्स्यामि पितुस्तस्याश्च या तव ।
अभिषेकविघातेन पुत्रराज्याय वर्तते ॥ 2.23.23 ॥
अहमिति । तत्तस्मात् या तवाभिषेकविघातेन द्वारेण पुत्रराज्याय वर्तते प्रवर्तते । तस्याः पितुश्च आशाम् अतितृष्णाम् “आशा दिगतितृष्णयोः” इति वैजयन्ती ॥ 2.23.23 ॥
मद्बलेन विरुद्धाय न स्याद्दैवबलं तथा ।
प्रभविष्यति दुःखाय यथोग्रं पौरुषं मम ॥ 2.23.24 ॥
मद्बलेनेति । मद्बलेन विरुद्धाय जनाय । ममोग्रं पौरुषं दुःखाय यथा प्रभविष्यति तथा दैवबलं न स्यात् सुखाय न भवेत् ॥ 2.23.24 ॥
ऊर्ध्वं वर्षसहस्रान्ते प्रजापाल्यमनन्तरम् ।
आर्यपुत्राः करिष्यन्ति वनवासं गते त्वयि ॥ 2.23.25 ॥
न कदाचिदपि भरतस्य राज्यप्राप्तिरस्तीत्याह–ऊर्ध्वमिति । ऊर्ध्वमित्यस्य विवरणं वर्षसहस्रान्त इति । प्रजापाल्यं प्रजापालनम् । स्वार्थे यत्प्रत्ययः । ऊर्ध्वं वर्षसहस्रान्ते त्वयि वनं गते सति वानप्रस्थाश्रमस्थे सति अनन्तरं प्रजापाल्यम् आर्यस्य ते पुत्राः करिष्यन्ति ॥ 2.23.25 ॥
पूर्वं राजर्षिवृत्त्या हि वनवासो विधीयते ।
प्रजा निक्षिप्य पुत्रेषु पुत्रवत्परिपालने ॥ 2.23.26 ॥
मदुक्त एव वनवासः पूर्वसम्मत इत्याह–पूर्वेति । पुत्रेषु प्रजाः पुत्रवत्परिपालने परिपालननिमित्तं निक्षिप्य । पूर्वराजर्षिवृत्त्या तदाचारेण वनवासो विधीयते ॥ 2.23.26 ॥
स चेद्राजन्यनेकाग्रे राज्यविभ्रमशङ्कया ।
नैवमिच्छसि धर्मात्मन् राज्यं राम त्वमात्मनि ॥ 2.23.27 ॥
प्रतिजाने च ते वीर माभूवं वीरलोकभाक् ।
राज्यं च तव रक्षेयमहं वेलेव सागरम् ॥ 2.23.28 ॥
स चेत्यादिश्लोकद्वयमेकान्वयम् । हे राम स त्वं राजनि दशरथे एवमनेकाग्रे चलचित्ते अव्यवस्थितचित्ते सति । राज्यविभ्रमशङ्कया राज्यस्य विविधचलनशङ्कया । आत्मनि राज्यं नेच्छसि चेदहं तव राज्यं च रक्षेयम् । कथमिव ? वेला सागरमिव । नोचेद्वीरलोकभाक् माभूवम् । ते तुभ्यं प्रतिजाने च ॥ 2.23.2728 ॥
मङ्गलैरभिषिञ्चस्व तत्र त्वं व्यापृतो भव ।
अहमेको महीपालानलं वारयितुं बलात् ॥ 2.23.29 ॥
मङ्गलैरिति । मङ्गलैः मङ्गलद्रव्ययुक्तैर्जलैः । अभिषिञ्चस्व आत्मानं वसिष्ठादिभिरिति शेषः । तत्र अभिषेककर्मणि । व्यापृतो भव, व्यासक्तचित्तोभवेत्यर्थः । अलं पर्याप्तः । वारयितुं निवारयितुम् ॥ 2.23.29 ॥
न शोभार्थाविमौ बाहू न धनुर्भूषणाय मे ।
नासिराबन्धनार्थाय न शरास्तम्भहेतवः ।
अमित्रदमनार्थं मे सर्वमेतच्चतुष्टयम् ॥ 2.23.30 ॥
न शोभार्थावित्यादिसार्द्धश्लोकमेकं वाक्यम् । नेति । आबन्धनार्थाय आपाततो वीरभूषणतया कट्यां बन्धनरूपप्रयोजनायेत्यर्थः । स्तम्भहेतवः केवलं लक्ष्यभूतस्तम्भहेतवः । तूण्यां स्थापनहेतव इति वा ॥ 2.23.30 ॥
न चाहं कामये ऽत्यर्थं यः स्यात् शत्रुर्मतो मम ।
असिना तीक्ष्णधारेण विद्युच्चलितवर्चसा ।
प्रगृहीतेन वै शत्रुं वज्रिणं वा न कल्पये ॥ 2.23.31 ॥
न चाहमित्यादिसार्धश्लोकः । यः मम अत्यर्थं शत्रुः शातयिता । मतः स्यात्, परीक्षकैरिति शेषः । तमहं न कामये तस्य स्थितिं न सह इत्यर्थः । किन्त्वसिना वज्रिणमपि शत्रुं न कल्पये न स्थापयामि, हन्मीत्यर्थः । तीक्ष्णधारेण तीक्ष्णाग्रेण । विद्युच्चलितवर्चसा विद्युदिव चलितं निर्गतं वर्चः स्फुलिङ्गरूपं यस्य तेन ॥ 2.23.31 ॥
खड्गनिष्पेषनिष्पिष्टैर्गहना दुश्चरा च मे ।
हस्त्यश्वनरहस्तोरुशिरोभिर्भविता मही ॥ 2.23.32 ॥
खड्गेति । खड्गकृतमर्दनेन चूर्णीकृतैर्गहना काननमिव निरन्तरा अत एव दुश्चरा संचारायोग्या च भविता भविष्यति ॥ 2.23.32 ॥
खड्गधाराहता मे ऽद्य दीप्यमाना इवाद्रयः ।
पतिष्यन्ति द्विपा भूमौ मेधा इव सविद्युतः ॥ 2.23.33 ॥
खड्गधारेति । मे खड्गधारया खड्गकोट्या हताः अत एव सविस्फुलिङ्गत्वाद्दीप्यमानाः ज्वलिताः अद्रय इव सविद्युतो मेघा इव च स्थिताः द्विपाः शत्रुगजाः । भूमौ पतिष्यन्ति ॥ 2.23.33 ॥
बद्धगोधाङ्गुलित्राणे प्रगृहीतशरासने ।
कथं पुरुषमानी स्यात् पुरुषाणां मयि स्थिते ॥ 2.23.34 ॥
बद्धेति । गोधा ज्याघातवारणम् । “गोधा तलं ज्याघातवारणे” इत्यमरः । गोधारूपाङ्गुलिरक्षककवचवति मयि स्थिते सति पुरुषाणां मध्ये कश्चित्कथं पुरुषमानी शूरमानी स्यात् । सर्वे स्त्रीप्राया भविष्यन्तीत्यर्थः ॥ 2.23.34 ॥
बहुभिश्चैकमत्यस्यन्नेकेन च बहून् जनान् ।
विनियोक्ष्याम्यहं बाणान् नृवाजिगजमर्मसु ॥ 2.23.35 ॥
बहुभिरिति । अहं बहुभिर्बाणैरेकं शूरम् अत्यस्यन् प्रकर्षेण क्षिपन् । “प्रकर्षे लङ्घनेप्यति” इत्यमरः । एकेन बाणेन बहून् क्षुद्रान् अत्यस्यन् अनेन प्रकारेण नृवाजिगजानां मर्मसु मर्मस्थलेषु । बाणान्विनियोक्ष्यामि विसर्जयिष्यामि । अतः कथमेको बहून् हनिष्यतीति न चिन्तनीयमिति भावः ॥ 2.23.35 ॥
अद्य मे ऽस्त्रप्रभावस्य प्रभावः प्रभविष्यति ।
राज्ञश्चाप्रभुतां कर्त्तुं प्रभुत्वं च तव प्रभो ॥ 2.23.36 ॥
अद्येति । अस्त्रप्रभावस्य अस्त्रमाहात्म्यस्य । प्रभावः प्रतापः “प्रतापमाहात्म्ययोः प्रभावः स्यात्” इति वैजयन्ती ॥ 2.23.36 ॥
अद्य चन्दनसारस्य केयुरामोक्षणस्य च ।
वसूनां च विमोक्षस्य सुहृदां पालनस्य च ॥ 2.23.37 ॥
अनुरूपाविमौ बाहू राम कर्म करिष्यतः ।
अभिषेचनविघ्नस्य कर्तृ़णां ते निवारणे ॥ 2.23.38 ॥
अद्येत्यादिश्लोकद्वयमेकं वाक्यम् । चन्दनसारस्य चन्दनपङ्कस्य । केयूरामोक्षणस्य अङ्गदधारणस्य । “केयूरमङ्गदम्” इत्यमरः । वसूनां धनानां विमोक्षस्य त्यागस्य । सुहृदां पालनस्य शत्रुभ्यो रक्षणस्य च । अनुरूपौ राजपुत्रत्वेन योग्यावपि इमौ बाहू । हे रामा तत्सर्वं विहाय ते अभिषेचनविघ्नस्य कर्तृ़णां निवारणे विषये कर्म करिष्यतः ॥ 2.23.3738 ॥
ब्रवीहि को ऽद्यैव मया वियुज्यतां तवासुहृत्प्राणयशः सुहृज्जनैः ।
यथा तवेयं वसुधा वशे भवेत्तथैव मां शाधि तवास्मि किङ्करः ॥ 2.23.39 ॥
त्वदाज्ञात्वेकावश्यम्भाविनीत्याह–ब्रवीहीति । ब्रवीहि ब्रूहि । वियुज्यतां मया वियोज्यताम् ॥ 2.23.39 ॥
विमृज्य बाष्पं परिसान्त्व्य चासकृत् स लक्ष्मणं राघववंशवर्द्धनः ।
उवाच पित्र्ये वचने व्यवस्थितं निबोध मामेव हि सौम्य सत्पथे ॥ 2.23.40 ॥
एवं विस्तरेण पूर्वपक्षमुपन्यस्तवन्तं लक्ष्मणं मतिपूर्वं विस्तृतं सिद्धान्तं सङ्ग्रहेणाह–विमृज्येति । बाष्पं रामासंपतिजम् । राघववंशवर्द्धनः रघोः सम्बन्धी राघवः । राघवश्चासौ वंशश्चेति विशेषणसमासः । सत्पथे पित्र्ये वचने व्यवस्थितं निश्चलं मां निबोध जानीहि । सर्वथाहं पितृवचनं न त्यजामीत्यर्थः । “जीवतोर्वाक्यकरणात् प्रत्यब्दं भूरिभोजनात् । गयायां पिण्डदानाच्च त्रिभिः पुत्रस्य पुत्रता ॥” इतिस्मरणादिति भावः ॥ 2.23.40 ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे त्रयोविंशः सर्गः ॥ 23 ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने त्रयोविंशः सर्गः ॥ 23 ॥