०१९ वनवासप्रतिज्ञा

श्रीमद्वाल्मीकीयरामायणम् अयोध्याकाण्डे
एकोनविंशःसर्गः

तदप्रियममित्रघ्नो वचनं मरणोपमम् ।

श्रुत्वा न विव्यथे रामः कैकेयीं चेदमब्रवीत् ॥ 2.19.1 ॥

तदिति । मरणोपममिति लोकदृष्ट्या ॥ 2.19.1 ॥

एवमस्तु गमिष्यामि वनं वस्तुमहं त्वितः ।

जटाजिनधरो राज्ञः प्रतिज्ञामनुपालयन् ॥ 2.19.2 ॥

एवमिति । इतः अस्मान्नगरात् ॥ 2.19.2 ॥

इदं तु ज्ञातुमिच्छामि किमर्थं मां महीपतिः ।

नाभिनन्दति दुर्द्धर्षो यथापुरमरिन्दमः ॥ 2.19.3 ॥

इदं त्विति । यद्यप्येतेन कारुण्येन समाप्लुत इत्यनभिनन्दने हेतुरुक्तः । तथापि मत्स्वभावं जानन् किमर्थं नाभिनन्दतीत्याहेति बोध्यम् । यथापुरं यथापूर्वम् ॥ 2.19.3 ॥

मन्युर्न च त्वया कार्यो देवि ब्रूमि तवाग्रतः ।

यास्यामि भव सुप्रीता वनं चीरजटाधरः ॥ 2.19.4 ॥

मन्युरिति । मन्युः दैन्यम् । “मन्युर्दैन्ये क्रतौ क्रुधि” इत्यमरः । ब्रूमि ब्रवीमि ॥ 2.19.4 ॥

हितेन गुरुणा पित्रा कृतज्ञेन नृपेण च ।

नियुज्यमानो विस्रब्धः किं न कुर्यामहं प्रियम् ॥ 2.19.5 ॥

हितेनेति । हितेन हितपरेण । गुरुणेत्यनेन रामस्य तस्मान्मन्त्रविशेषस्वीकारो ऽस्तीति गम्यते । कृतज्ञेन स्वकृतवरप्रदानाभिज्ञेन ॥ 2.19.5 ॥

अलीकं मानसं त्वेकं हृदयं दहतीव मे ।

स्वयं यन्नाह मां राजा भरतस्याभिषेचनम् ॥ 2.19.6 ॥

अलीकमिति । अलीकम् अप्रियम् । मानसं मनसि वर्त्तमानम् ॥ 2.19.6 ॥

अहं हि सीतां राज्यं च प्राणानिष्टान् धनानि च ।

हृष्टो भ्रात्रे स्वयं दद्यां भरतायाप्रचोदितः ॥ 2.19.7 ॥

तवाप्रीतिर्भविष्यतीति नोक्तवानित्याशङ्क्याह–अहं हीति । सीतां धनुर्भङ्गकाल इति भावः ॥ 2.19.7 ॥

किं पुनर्मनुजेन्द्रेण स्वयं पित्रा प्रचोदितः ।

तव च प्रियकामार्थं प्रतिज्ञामनुपालयन् ॥ 2.19.8 ॥

किं पुनरिति । पित्रा प्रयोदितस्तव प्रियकामार्थं प्रतिज्ञामनुपालयंश्च दद्यामिति किं पुनः ॥ 2.19.8 ॥

तदाश्वासय हीमं त्वं किं न्विदं यन्महीपतिः ।

वसुधासक्तनयनो मन्दमश्रूणि मुञ्चति ॥ 2.19.9 ॥

गच्छन्तु चैवानयितुं दूताः शीघ्रजवैर्हयैः ।

भरतं मातुलकुलादद्यैव नृपशासनात् ॥ 2.19.10 ॥

तदिति । इमं राजानं त्वमाश्वासय अश्रूणि मुञ्चतीति यत् इदं किंनु, निर्हेतुकमित्यर्थः ॥ 2.19.910 ॥

दण्डकारण्यमेषो ऽहमितो गच्छामि सत्वरः ।

अविचार्य पितुर्वाक्यं समा वस्तुं चतुर्दश ॥ 2.19.11 ॥

सा हृष्टा तस्य तद्वाक्यं श्रुत्वा रामस्य कैकयी ।

प्रस्थानं श्रद्दधाना हि त्वरयामास राघवम् ॥ 2.19.12 ॥

एवं भवतु यास्यन्ति दूताः शीघ्रजवैर्हयैः ।

भरतं मातुलकुलादुपावर्त्तयितुं नराः ॥ 2.19.13 ॥

दण्डकेति । पितुर्वाक्यमविचार्य वनं गच्छेति पित्रा नोक्तमिति विचारमकृत्वेत्यर्थः । समाःसंवत्सरान् ॥ 2.19.1113 ॥

तव त्वहं क्षमं मन्ये नोत्सुकस्य विलम्बनम् ।

राम तस्मादितः शीघ्रं वनं त्वं गन्तुमर्हसि ॥ 2.19.14 ॥

अयं यावद्भरतागमनं विलम्बिष्यते चेन्महाननयः स्यात्, भरतस्य ज्येष्ठभ्रातृभक्तत्वादिति मत्वाह–तव त्विति । उत्सुकस्य भरताभिषेकदर्शनोत्सुकस्य गमनोत्सुकस्य वा ॥ 2.19.14 ॥

व्रीडान्वितः स्वयं यच्च नृपस्त्वां नाभिभाषते ।

नैतत्किञ्चिन्नरश्रेष्ठ मन्युरेषोपनीयताम् ॥ 2.19.15 ॥

यावत्त्वं न वनं यातः पुरादस्मादभित्वरन् ।

पिता तावन्न ते राम स्नास्यते भोक्ष्यते ऽपि वा ॥ 2.19.16 ॥

व्रीडान्वित इति । नृपो व्रीडान्वितः सन् स्वयं नाभिभाषत इति यत् एतत् न किञ्चिद्विचारानर्हं व्रीडां विना कारणान्तराभावात् । मन्युः स्वयं नाभिभाषत इत्याग्रहः दैन्यं वा ॥ 2.19.1516 ॥

धिक्कष्टमिति निश्वस्य राजा शोकपरिप्लुतः ।

मूर्च्छितो न्यपतत्तस्मिन् पर्यङ्के हेमभूषिते ॥ 2.19.17 ॥

धिगिति । उक्तासत्यवचनं श्रुत्वेति भावः ॥ 2.19.17 ॥

रामोप्युत्थाप्य राजानं कैकेय्याभिप्रचोदितः ।

कशये वाहतो वाजी वनं गन्तुं कृतत्वरः ॥ 2.19.18 ॥

तदप्रियमनार्याया वचनं दारुणोदयम् ।

श्रुत्वा गतव्यथो रामः कैकेयीं वाक्यमब्रवीत् ॥ 2.19.19 ॥

राम इति । कृतत्वरः अभूदिति शेषः ॥ 2.19.1819 ॥

नाहमर्थपरो देवि लोकमावस्तुमुत्सुहे ।

विद्धि मामृषिभिस्तुल्यं केवलं धर्ममास्थितम् ॥ 2.19.20 ॥

नेति । लोकमावस्तुं लोके वस्तुम् । “उपान्वध्याङ्वसः” इतिकर्मत्वम् । धर्मम् आस्थितम् आश्रितम् । अनेन राज्याय भरतागमनं प्रतीक्षते राम इति कैकेयीशङ्का वारिता ॥ 2.19.20 ॥

यदत्रभवतः किञ्चिच्छक्यं कर्तुं प्रियं मया ।

प्राणानपि परित्यज्य सर्वथा कृतमेव तत् ॥ 2.19.21 ॥

यदिति । अत्रभवतः पूज्यस्य पितुः कृतमेवेति विद्धीति शेषः ॥ 2.19.21 ॥

न ह्यतो धर्मचरणं किञ्चिदस्ति महत्तरम् ।

यथा पितरि शुश्रूषा तस्य वा वचनक्रिया ॥ 2.19.22 ॥

अनुक्तोप्यत्रभवता भवत्या वचनादहम् ।

वने वत्स्यामि विजने वर्षाणीह चतुर्दश ॥ 2.19.23 ॥

न हीति । शुश्रूषा पादसंवाहनादिः । वचनक्रिया वचनकरणम् ॥ 2.19.2223 ॥

न नूनं मयि कैकेयि किञ्चिदाशंससे गुणम् ।

यद्राजानमवोचस्त्वं ममेश्वरतरा सती ॥ 2.19.24 ॥

नेति । गुणम् आर्जवौदार्यादिगुणम् । नाशंससे न जानीष इत्यर्थः । ईश्वरतरा अत्यन्तनियन्त्री ॥ 2.19.24 ॥

यावन्मातरमापृच्छे सीतां चानुनयाम्यहम् ।

ततो ऽद्यैव गमिष्यामि दण्डकानां महद्वनम् ॥ 2.19.25 ॥

अद्यैव गन्तव्यमित्युक्तम्, तत्र यत्किञ्चिद्विलम्बं याचते–यावदिति । मातरं यावदापृच्छे सीतां चानुनयामि तावदनुज्ञां कुर्विति शेषः । ततः तदनन्तरम् । अद्यैव दिने । दण्डकानां महद्वनं दण्डो नामेक्ष्वाकुसुतस्तस्य राष्ट्रं शुक्रशापात्पांसुवर्षेण विनाशितं सदरण्यमभूत् तद्राष्ट्रं तन्नाम्ना दण्डकमित्युच्यते । “संज्ञायां कन्” इतिकन्प्रत्ययः । प्रदेशभेदात् बहुवचनम् ॥ 2.19.25 ॥

भरतः पालयेद्राज्यं शुश्रूषेच्च पितुर्यथा ।

तथा भवत्या कर्त्तव्यं स हि धर्मस्सनातनः ॥ 2.19.26 ॥

भरत इति । धर्मः सनातन इत्यत्र धर्मापेक्षया पुँल्लिङ्गत्वम् ॥ 2.19.26 ॥

स रामस्य वचः श्रुत्वा भृशं दुःखहतः पिता ।

शोकादशक्नुवन् बाष्पं प्ररुरोद महास्वनम् ॥ 2.19.27 ॥

स इति । बाष्पमशक्नुवन्, निरोद्धुमिति शेषः ॥ 2.19.27 ॥

वन्दित्वा चरणौ रामो विसंज्ञस्य पितुस्तथा ।

कैकेय्याश्चाप्यनार्याया निष्पपात महाद्य़ुतिः ॥ 2.19.28 ॥

स रामः पितरं कृत्वा कैकेयीं च प्रदक्षिणम् ।

निष्क्रम्यान्तः पुरात्तस्मात् स्वं ददर्श सुहृज्जनम् ॥ 2.29.29 ॥

तं बाष्पपरिपूर्णाक्षः पृष्ठतो ऽनुजगाम ह ।

लक्ष्मणः परमक्रुद्धः सुमित्रानन्दवर्द्धनः ॥ 2.19.30 ॥

वन्दित्वेति । निष्पपात निर्जगाम ॥ 2.19.2830 ॥

आभिषेचनिकं भाण्डं कृत्वा रामः प्रदक्षिणम् ।

शनैर्जगाम सापेक्षो हृष्टिं तत्राविचालयन् ॥ 2.19.31 ॥

आभिषेचनिकमिति । आभिषेचनिकम् अभिषेकप्रयोजनकम् । भाण्डम् उपकरणजातम् । प्रदक्षिणकरणं “प्रशस्तमाङ्गल्यदेवतायतन च तुष्पथादीन् प्रदक्षिणमावर्त्तयेत्” इत्यादिधर्मशास्त्रोल्लङ्घनभयात् न तु तदासक्त्या । दृष्टिं तत्राविचालयन् स्वयं तत्र निरपेक्ष इत्यर्थः । सापेक्षः भरतस्यानेनाभिषेकोस्त्विति प्रार्थनासहितः शनैर्जगाम, तत्र देवतासान्निध्यसम्भवादिति भावः ॥ 2.19.31 ॥

न चास्य महतीं लक्ष्मीं राज्यनाशो ऽपकर्षति ।

लोककान्तस्य कान्तत्वाच्छीतरश्मेरिव क्षपा ॥ 2.19.32 ॥

न चेति । लक्ष्मीं मुखविकासम् । राज्यनाशः राज्यभ्रंशः ॥ 2.19.32 ॥

न वनं गन्तुकामस्य त्यजतश्च वसुन्धराम् ।

सर्वलोकातिगस्येव लक्ष्यते चित्तविक्रिया ॥ 2.19.33 ॥

रामस्य मुखवैवर्ण्यादिशरीरविकाराभावमभिधाय मानसविकाराभावमप्याह–न वनमिति । सर्वलोकातिगस्य तुल्यमानावमानस्य, परमयोगीश्वरस्येत्यर्थः ॥ 2.19.33 ॥

प्रतिषिध्य शुभं छत्रं व्यजने च स्वलंकृते ।

विसर्जयित्वा स्वजनं रथं पौरांस्तथा जनान् ॥ 2.19.34 ॥

प्रतिषिध्येत्यादि । व्यजने वालव्यजने ॥ 2.19.34 ॥

धारयन् मनसा दुःखमिन्द्रियाणि निगृह्य च ।

प्रविवेशात्मवान् वेश्म मातुरप्रियशंसिवान् ॥ 2.19.35 ॥

धारयन्निति । रामस्य परदुःखासहिष्णुत्वाद्दुःखशब्देन सुहृज्जनदुःखदर्शनजं दुःखमुच्यते । अप्रियशंसिवान् अप्रियमभिधातुकामः । क्वसुः समासाभ्यासलोप आर्षः ॥ 2.19.35 ॥

सर्वो ह्यभिजनः श्रीमान् श्रीमतः सत्यवादिनः ।

नालक्षयत रामस्य किञ्चिदाकारमानने ॥ 2.19.36 ॥

सर्व इति । आकारं विकृताकारम् । श्रीमान् रामाभिषेकार्थं कृतालङ्कारः ॥ 2.19.36 ॥

उचितं च महाबाहुर्न जहौ हर्षमात्मनः ।

शारदः समुदीर्णांशुश्चन्द्रस्तेज इवात्मजम् ॥ 2.19.37 ॥

उचितमिति । उचितं योग्यम्, सहजमित्यर्थः ॥ 2.19.37 ॥

वाचा मधुरनया रामः सर्वं सम्मानयन् जनम् ।

मातुः समीपं धीरात्मा प्रविवेश महायशाः ॥ 2.19.38 ॥

एतादृशदुर्दशायामपि रमयितृत्वरूपं रामशब्दार्थं प्रकटयति–वाचेति ॥ 2.19.38 ॥

तं गुणैः समतां प्राप्तो भ्राता विपुलविक्रमः ।

सौमित्रिरनुवव्राज धारयन् दुःखमात्मजम् ॥ 2.19.39 ॥

तमिति । गुणैः सुखदुःखादिभिः । समतां प्राप्तः, समानसुखदुःख इत्यर्थः ॥ 2.19.39 ॥

प्रविश्य वेश्मातिभृशं मुदान्वितं समीक्ष्य तां चार्थविपत्तिमागताम् ।

न चैव रामो ऽत्र जगाम विक्रियां सुहृज्जनस्यात्मविपत्तिशङ्कया ॥ 2.19.40 ॥

प्रविश्येति । अर्थविपत्तिं अर्थनाशम् । सुहृज्जनस्य आत्मविपत्तिशङ्कया प्राणनाशशङ्कया, विक्रियां न जगाम । स्वविक्रियास्फुरणे सुहृज्जनो नश्येदिति शङ्कया स्वविक्रियां राज्यनाशजां नादर्शयदित्यर्थः ॥ 2.19.40 ॥

इत्यार्षे श्रीरामायणे वाल्मीकाये आदि0 श्रीमदयोध्याकाण्डे एकोनविंशःसर्गः ॥ 19 ॥
इति श्रीगोविन्दाराजविरचिते श्रीरामायणभूषणे पीताम्बराव्याख्याने अयोध्याकाण्डव्याख्याने एकोनविंशः सर्गः ॥ 19 ॥