०१८ रामेण दशरथसान्त्वनम्

श्रीमद्वाल्मीकीयरामायणम् अयोध्याकाण्डे
अष्टादशः सर्गः

स ददर्शासने रामो निषण्णं पितरं शुभे ।

कैकेयीसहितं दीनं मुखेन परिशुष्यता ॥ 2.18.1 ॥

स पितुश्चरणौ पूर्वमभिवाद्य विनीतवत् ।

ततो ववन्दे चरणौ कैकेय्याः सुसमाहितः ॥ 2.18.2 ॥

स इति । आसने पर्यङ्के । ‘मूर्च्छितो न्यपतत्तस्मिन् पर्यङ्के हेमभूषिते’ इत्युत्तरत्र वक्ष्यमाणत्वात् । मुखेनेत्युपलक्षणे तृतीया ॥ 2.18.12 ॥

रामेत्युक्त्वा च वचनं बाष्पपर्याकुलेक्षणः ।

शशाक नृपतिर्दीनो नेक्षितुं नाभिभाषितुम् ॥ 2.18.3 ॥

रामेति । नाभिभाषितुं रामेत्यस्मादधिकमित्यर्थः ॥ 2.18.3 ॥

तदपूर्वं नरपतेर्दृष्ट्वा रूपं भयावहम् ।

रामो ऽपि भयमापन्नः पदा स्पृष्ट्वेव पन्नगम् ॥ 2.18.4 ॥

तदिति । अपूर्वम् अदृष्टपूर्वम् । रामोपीत्यपिशब्देन दुःखसहस्रसद्भावेप्यक्षुभितो रामो दशरथविषादस्य स्वहेतुकत्वमाशङ्क्य भयमापन्न इत्यवगन्तव्यम् ॥ 2.18.4 ॥

इन्द्रियैरप्रहृष्टैस्तं शोकसन्तापकर्शितम् ।

निश्वसन्तं महाराजं व्यथिताकुलचेतसम् ॥ 2.18.5 ॥

ऊर्मिमालिनमक्षोभ्यं क्षुभ्यन्तमिव सागरम् ।

उपप्लुतमिवादित्यमुक्तानृतमृषिं यथा ॥ 2.18.6 ॥

इन्द्रियैरित्यादिश्लोकद्वये दृष्ट्वा भयमापन्न इत्येतदनुकृष्य सम्बध्यते । उपप्लुतं राहुग्रस्तम् । उक्तानृतमृषिं यथा ऋषिमिव स्थितम्, निस्तेजस्कमित्यर्थः ॥ 2.18.56 ॥

अचिन्त्यकल्पं हि पितुस्तं शोकमुपधारयन् ।

बभूव संरब्धतरः समुद्र इव पर्वणि ॥ 2.18.7 ॥

अचिन्त्यकल्पमिति । अचिन्त्यकल्पम्, असम्भावितमित्यर्थः । उपधारयन् विचारयन् । संरब्धतरः सम्भ्रान्ततरः ॥ 2.18.7 ॥

चिन्तयामास च तदा रामः पितृहितेरतः ।

किं स्विदद्यैव नृपतिर्न मां प्रत्यभिनन्दति ॥ 2.18.8 ॥

चिन्तयामासेति । किंस्वित् किंवा ॥ 2.18.8 ॥

अन्यदा मां पिता दृष्ट्वा कुपितो ऽपि प्रसीदति ।

तस्य मामद्य संप्रेक्ष्य किमायासः प्रवर्तते ॥ 2.18.9 ॥

स दीन इव शोकार्त्तो विषण्णवदनद्युतिः ।

कैकेयीमभिवाद्यैव रामो वचनमब्रवीत् ॥ 2.18.10 ॥

अद्यैवेत्येवकारव्यवच्छेद्यमाह–अन्यदेति । आयासः चित्तक्लेशः । इति चिन्तयामासेत्यन्वयः ॥ 2.18.910 ॥

कच्चिन्मया नापराद्धमज्ञानाद्येन मे पिता ।

कुपितस्तन्ममाचक्ष्व त्वं चैवैनं प्रसादय ॥ 2.18.11 ॥

अप्रसन्नमनाः किं नु सदा मां प्रति वत्सलः ।

विवर्णवदनो दीनो न हि मामभिभाषते ॥ 2.18.12 ॥

कच्चिदिति । नापराद्धमपराधो न कृतः । अज्ञानात् प्रमादात् ॥ 2.18.1112 ॥

शारीरो मानसो वापि कच्चिदेनं न बाधते ।

सन्तापो वाभितापो वा दुर्ल्लभं हि सदा सुखम् ॥ 2.18.13 ॥

शारीर इति । शारीरः सन्तापो व्याधिः । मानसो ऽभिताप आधिः । दुर्लभं हीति पुण्यपापारब्धत्वान्मानुषशरीरस्येति भावः ॥ 2.18.13 ॥

कच्चिन्न किञ्चिद्भरते कुमारे प्रियदर्शने ।

शत्रुध्ने वा महासत्त्वे मातृ़णां वा ममाशुभम् ॥ 2.18.14 ॥

अतोषयन्महाराजमकुर्वन् वा पितुर्वचः ।

मुहूर्त्तमपि नेच्छेयं जीवितुं कुपिते नृपे ॥ 2.18.15 ॥

कच्चिदिति । मातृ़णामिति निर्द्धारणे षष्ठी । कच्चिदिति प्रश्ने । किञ्चिदशुभं न कच्चिदितिसम्बन्धः ॥ 2.18.1415 ॥

यतोमूलं नरः पश्येत् प्रादुर्भावमिहात्मनः ।

कथं तस्मिन्न वर्त्तेत प्रत्यक्षे सति दैवते ॥ 2.18.16 ॥

यत इति । इह जगति । नरः आत्मनो देहस्य । प्रादुर्भावम् उत्पत्तिम् । यतोमूलं यत्कारणकं पश्येत् प्रत्यक्षे दैवते सति सिद्धे तस्मिन् पितरि कथं न वर्त्तेत, तद्वशे एव वर्त्तेतेत्यर्थः ॥ 2.18.16 ॥

कच्चित्ते परुषं किञ्चिदभिमानात् पिता मम ।

उक्तो भवत्या कोपेन यत्रास्य लुलितं मनः ॥ 2.18.17 ॥

कच्चित्त इति । ते अभिमानात् तव वाल्लभ्यात् । कोपेन वा मम पिता भवत्या किञ्चित्परुषमुक्तः कच्चित् । यत्र येनास्य मनः लुलितं कलुषितम् ॥ 2.18.17 ॥

एतदाचक्ष्व मे देवि तत्त्वेन परिपृच्छतः ।

किंनिमित्तमपूर्वो ऽयं विकारो मनुजाधिपे ॥ 2.18.18 ॥

एतदिति । किंनिमित्तमित्याद्याचक्ष्वेति पूर्वोक्तस्य सर्वस्य संग्रहः ॥ 2.18.18 ॥

एवमुक्ता तु कैकेयी राघवेण महात्मना ।

उवाचेदं सुनिर्लज्जा धृष्टमात्महितं वचः ॥ 2.18.19 ॥

एवमिति । एवम् इति । धृष्टं प्रत्यक्षते रामानिष्टवचनविषयवैक्लव्यरहितम् ॥ 2.18.19 ॥

न राजा कृपितो राम व्यसनं नास्य किञ्चन ।

किञ्चिन्मनोगतं त्वस्य त्वद्भयान्नाभिभाषते ॥ 2.18.20 ॥

न राजेति ॥ 2.18.20 ॥

प्रियं त्वामप्रियं वक्तुं वाणी नास्योपवर्तते ।

तदवश्यं त्वया कार्यं यदनेनाश्रुतं मम ॥ 2.18.21 ॥

त्वद्भयादित्यस्य विवरणम्–प्रियमिति । आश्रुतं प्रतिज्ञातम् ॥ 2.18.21 ॥

एष मह्यं वरं दत्त्वा पुरा मामभिपूज्य च ।

स पश्चात्तप्यते राजा यथान्यः प्राकृतस्तथा ॥ 2.18.22 ॥

तत्किमित्यपेक्षायां सामान्यतो दर्शयति–एष इत्यादिना ॥ 2.18.22 ॥

अतिसृज्य ददानीति वरं मम विशांपतिः ।

स निरर्थं गतजले सेतुं बन्धितुमिच्छति ॥ 2.18.23 ॥

अतिसृज्येति । अतिसृज्य प्रतिज्ञाय । गतजले सेतुं बन्धितुमिच्छतीति दानस्य पूर्वमेव कृतत्वात् इदानीं तत्परिहारव्यापारो व्यर्थ इति भावः ॥ 2.18.23 ॥

धर्ममूलमिदं राम विदितं च सतामपि ।

तत्सत्यं न त्यजेद्राजा कुपितस्त्वत्कृते यथा ॥ 2.18.24 ॥

धर्ममूलमिति । इदं जगद्धर्ममूलम् । इदं च सतां विदितं सद्भिर्विदितम् । “क्तस्य च वर्त्तमाने” इति षष्ठी । तत्तस्मात्सत्यं सत्यरूपधर्मम् । राजा त्वत्कृते त्वत्प्रयोजनाय । मयि कुपितः सन् यथा न त्यजेत् तथा कुर्वित्यर्थः ॥ 2.18.24 ॥

यदि तद्वक्ष्यते राजा शुभं वा यदि वाशुभम् ।

करिष्यसि ततः सर्वमाख्यास्यामि पुनस्त्वहम् ॥ 2.18.25 ॥

तर्हि तद्विशेषतो वक्तव्यमित्यत्राह–यदीति । शुभमशुभं वा तत्प्रतिज्ञातं राजा यद्वक्ष्यति तत् त्वं करिष्यसि यदि तदा राज्ञो विवक्षितमहमेवाख्यास्यामीत्यर्थः ॥ 2.18.25 ॥

यदि त्वभिहितं राज्ञा त्वयि तन्न विपत्स्यते ।

ततो ऽहमभिधास्यामि न ह्येष त्वयि वक्ष्यति ॥ 2.18.26 ॥

राजैव कुतो न वदतीत्यत्राह–यदीति । न विपत्स्यते यदि विफलं न भविष्यति चेदित्यर्थः ॥ 2.28.26 ॥

एतत्तु वचनं श्रुत्वा कैकेय्या समुदाहृतम् ।

उवाच व्यथितो रामस्तां देवीं नृपसन्निधौ ॥ 2.18.27 ॥

एतदिति । व्यथितः गुरुवचनं करिष्यति नवेति सन्देहस्य विषयो ऽस्मीति सन्तप्त इत्यर्थः ॥ 2.28.27 ॥

अहो धिङ्नार्हसे देवि वक्तुं मामीदृशं वचः ।

अहं हि वचनाद्राज्ञः पतेयमपि पावके ।

भक्षयेयं विषं तीक्ष्णं मज्जेयमपि चार्णवे ॥ 2.18.28 ॥

व्यथामेवाह–अहो इत्यादिना ॥ 2.18.28 ॥

नियुक्तो गुरुणा पित्रा नृपेण च हितेन च ॥ 2.18.29 ॥

नियुक्त इति । गुरुत्वपितृत्वनृपत्वहितपरत्वानि वचनकरणहेतवः । करिष्ये तदित्यनुकर्षः ॥ 2.18.29 ॥

तद्ब्रूहि वचनं देवि राज्ञो यदभिकांक्षितम् ।

करिष्ये प्रतिजाने च रामोद्विर्नाभिभाषते ॥ 2.18.30 ॥

तमार्जवसमायुक्तमनार्या सत्यवादिनम् ।

उवाच रामं कैकेयी वचनं भृशदारुणम् ॥ 2.18.31 ॥

पुरा दैवासुरे युद्धे पित्रा ते मम राघव ।

रक्षितेन वरौ दत्तौ सशल्येन महारणे ॥ 2.18.32 ॥

तदिति । यत्कार्यमभिकांक्षितं तद्वचनं तद्विषयवचनं ब्रूहि । तत्कार्यं करिष्ये, प्रतिजाने च प्रतिज्ञां करोमि च । रामो द्विर्नाभिभाषते विना प्रतिज्ञया रामो द्विरुक्तिं न करोतीत्यर्थः ॥ 2.18.3032 ॥

तत्र मे याचितो राजा भरतस्याभिषेचनम् ।

गमनं दण्डकारण्ये तव चाद्यैव राघव ॥ 2.18.33 ॥

यदि सत्यप्रतिज्ञां त्वं पितरं कर्तुमिच्छसि ।

आत्मानं नरश्रेष्ठ मम वाक्यमिदं शृणु ॥ 2.18.34 ॥

तत्रेति । तत्र वरप्रदाननिमित्तम् ॥ 2.18.3334 ॥

सन्निदेशे पितुस्तिष्ठ यथा ऽनेन प्रतिश्रुतम् ।

त्वयारण्यं प्रवेष्टव्यं नव वर्षाणि पञ्च च ॥ 2.18.35 ॥

सन्निदेश इति । सन्निदेशे नियमने ॥ 2.18.35 ॥

भरतस्त्वभिषिच्येत यदेतदभिषेचनम् ।

त्वदर्थे विहितं राज्ञा तेन सर्वेण राघव ॥ 2.18.36 ॥

सप्त सप्त च वर्षाणि दण्डकारण्यमाश्रितः ।

अभिषेकमिमं त्यक्त्वा जटाजिनधरो वस ॥ 2.18.37 ॥

भरतः कोसलपुरे प्रशास्तु वसुधामिमाम् ।

नानारत्नसमाकीर्णां सवाजिरथकुञ्जराम् ॥ 2.18.38 ॥

भरत इति । यदेतदभिषेचनम् अभिषेकसाधनम् । त्वदर्थे विहितं तेन सर्वेण राज्ञा भरतो ऽभिषिच्येतेति योजना ॥ 2.18.3638 ॥

एतेन त्वां नरेन्द्रो ऽयं कारुण्येन समाप्लुतः ।

शोकसंक्लिष्टवदनो न शक्नोति निरीक्षितुम् ॥ 2.18.39 ॥

एतत् कुरु नरेन्द्रस्य वचनं रघुनन्दन ।

सत्येन महता राम तारयस्व नरेश्वरम् ॥ 2.18.40 ॥

एतेनेति । एतेन वरद्वयप्रदाननिमित्तेन ॥ 2.18.3940 ॥

इतीव तस्यां परुषं वदन्त्यां न चैव रामः प्रविवेश शोकम् ।

प्रविव्यथे चापि महानुभावो राजा तु पुत्रव्यसनाभितप्तः ॥ 2.18.41 ॥

इतीति । इवशब्देन अन्यान्यपि परुषाणि बहून्युक्तनीति गम्यते । शोकं मुखवैवर्ण्यादिबाह्यविकारम् । प्रविव्यथे चापि रामविकारादर्शनेनाप्यधिकं विव्यथ इत्यर्थः ॥ 2.18.41 ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे अष्टादशः सर्गः ॥ 18 ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बरख्याने अयोध्याकाण्डव्याख्याने अष्टादशः सर्गः ॥ 18 ॥