श्रीमद्वाल्मीकीयरामायणम् अयोध्याकाण्डे
सप्तदशः सर्गः
स रामो रथमास्थाय सम्प्रहृष्टसुहृज्जनः ।
पताकाध्वजसम्पन्नं महार्हागरुधूपितम् ।
अपश्यन्नगरं श्रीमान्नानाजनसमाकुलम् ॥ 2.17.1 ॥
अथ रामस्य राजसमीपगमनं सप्तदशे–स राम इत्यादि । पताकाध्वजसम्पन्नं पताकाः अनामाङ्किताः, तदङ्कितानि ध्वजानि ॥ 2.17.1 ॥
स गृहैरभ्रसङ्काशैः पाण्डरैरुपशोभितम् ।
राजमार्गं ययौ रामो मध्येनागरुधूपितम् ॥ 2.17.2 ॥
सगृहैरिति । मध्येन वीथीमध्येन । प्रकृत्यादित्वात्तृतीया ॥ 2.17.2 ॥
चन्दनानां च मुख्यानामगरूणां च सञ्चयैः ।
उत्तमानां च गन्धानां क्षौमकौशाम्बरस्य च ॥ 2.17.3 ॥
अविद्धाभिश्च मुक्ताभिरुत्तमैः स्फाटिकैरपि ।
शोभमानमसम्बाधैस्तं राजपथमुत्तमम् ॥ 2.17.4 ॥
संवृतं विविधैः पण्यैर्भक्ष्यैरुच्चावचैरपि ।
ददर्श तं राजपथं दिवि देवपथं यथा ॥ 2.17.5 ॥
कीदृशं राजमार्गं ययावित्याकांक्षायामाह–चन्दनानामित्यादिना । क्षौमकौशाम्बरस्य क्षौमं दुकूलम् । “क्षौमं दुकूलम्” इत्यमरः । कौशाम्बरं कौशेयम् । अविद्धाभिः अकृतरन्ध्राभिः, नूतनाभिरिति यावत् । स्फाटिकैः स्फटिकैः । स्वार्थे अण्प्रत्ययः । तं राजपथं सकलभाग्ययुक्तम् राजमार्गमित्यर्थः । यद्वा प्रथमस्य राजपथपदस्य ददर्शेत्यनेन सम्बन्धः । द्वितीयस्य वक्ष्यमाणेन ययावित्यनेन सम्बन्धः ॥ 2.17.35 ॥
दध्यक्षतहविर्लाजैर्धूपैरगरुचन्दनैः ।
नानामाल्योपगन्धैश्च सदाभ्यर्चितचत्वरम् ॥ 2.17.6 ॥
आशीर्वादान् बहून् शृण्वन् सुहृद्भिः समुदीरितान् ।
यथार्हं चापि सम्पूज्य सर्वानेव नरान् ययौ ॥ 2.17.7 ॥
दध्यक्षतहविरिति । अभ्यर्चितचत्वरं प्रतिपूजिताङ्गणम् “अङ्गणं चत्वराजिरे” इत्यमरः । यथार्हमिति वीक्षणभ्रूक्षेपवचनाञ्जलिप्रणामादिभिरित्यर्थः ॥ 2.17.67 ॥
पितामहैराचरितं तथैव प्रपितामहैः ।
अद्योपादाय तं मार्गमभिषिक्तो ऽनुपालय ॥ 2.17.8 ॥
पितामहैरिति । अद्याभिषक्तस्त्वं पितामहाद्यैराचरितं तं प्रसिद्धं मार्गंमर्यादामनुपालय ॥ 2.17.8 ॥
यथा स्म लालिताः पित्रा यथा पूर्वैः पितामहैः ।
ततः सुखतरं रामे वत्स्यामस्सति राजनि ॥ 2.17.9 ॥
यथेति । रामे राजनि सति । सर्वे वयं ततः पूर्वस्मात् सुखतरं यथा भवति तथा वत्स्यामः ॥ 2.17.9 ॥
अलमद्य हि भुक्तेन परमार्थैरलं च नः ।
यथा पश्याम निर्यान्तं रामं राज्ये प्रतिष्ठितम् ॥ 2.17.10 ॥
अलमिति । भुक्तेन भोजनेन । परमार्थैः परमपुरुषार्थसाधनभूतैः, जपहोमध्यानादिभिरित्यर्थः । राज्ये प्रतिष्ठितं अभिषिक्तम्, पुनः स्वगृहाय निर्यान्तम् । यथा यथावत् पश्याम । प्रार्थनायां लोट् ॥ 2.17.10 ॥
ततो हि नः प्रियतरं नान्यत् किञ्चिद्भविष्यति ।
यथाभिषेको रामस्य राज्येनामिततेजसः ॥ 2.17.11 ॥
तत इति । राज्येनाभिषेको राज्यायाभिषेकः । स यथा प्रियतरस्तथा ततो ऽन्यत्प्रियतरं किञ्चिन्नास्ति ॥ 2.17.11 ॥
एताश्चान्याश्च सुहृदामुदासीनः कथाः शुभाः ।
आत्मसम्पूजनीः शृण्वन् ययौ रामो महापथम् ॥ 2.17.12 ॥
एता इति । उदासीनः स्तुतिश्रवणेन निर्विकारः । आत्मसम्पूजनीः आत्मसम्पूजाजननीः मनोहर्षजननीर्वा । महापथं राजमार्गम् ॥ 2.17.12 ॥
न हि तस्मान्मनः कश्चिच्चक्षुषी वा नरोत्तमात् ।
नरः शक्नोत्यपाक्रष्टुमतिक्रान्ते ऽपि राघवे ॥ 2.17.13 ॥
नहीति । कश्चिदपि नरः मनश्चक्षुषी वा तस्मात् अपाक्रष्टुं निवर्तयितुं न शक्नोति किमुत नारीजन इति भावः । अतिक्रान्ते दूरगते ऽपि किमुत सन्निहित इत्याशयः ॥ 2.17.13 ॥
यश्च रामं न पश्येत्तु यं च रामो न पश्यति ।
निन्दितः स वसेल्लोके स्वात्माप्येनं विगर्हते ॥ 2.17.14 ॥
यश्चेति । चकारो भिन्नक्रमः । रामं च दर्शनकाल एव परिपूर्णामृतसरसि मज्जयन्तमपि । यस्तु अतिशयितवैलक्षण्यसम्पन्नोपि । न पश्येत् स्तुतिसल्लापसत्काराद्यभावेपि अचेतनविलक्षणाकारेण चक्षुर्विषयं न करोति । अत एव यं रामो ऽपि न पश्यति नरस्याभिमुख्ये हि भगवान् कटाक्षयति । सः राममदृष्ट्वा तत्कटाक्षाविषयः निन्दितो वसेत् यावत्कालं निन्दितः स्यात् । लोके निन्दितः स्यात्तं निन्दितुमनर्हः कोपि जनोनास्तीति भावः । लोके विषयप्रवणः कश्चित्सत्यामपि लोकगर्हायां स्वयं सन्तुष्टो भवति न तथेत्याह स्वात्माप्येनं विगर्हत इति । स्वान्तःकरणमप्येनं विशेषेण गर्हते, रामादर्शनाल्लोकगर्हया चेति भावः ॥ 2.17.14 ॥
सर्वेषां हि स धर्मात्मा वर्णानां कुरुते दयाम् ।
चतुर्णां हि वयस्स्थानां तेन ते तमनुव्रताः ॥ 2.17.15 ॥
सर्वेषामिति । सः रामः चतुर्णां वर्णानां सर्वेषामपि जनानाम् । सप्तम्यर्थे षष्ठी । वयः स्थानं प्रमाणं यस्यास्तां वयो ऽनुरूपां दयाम् । हि यस्मात्कारणात् कुरुते तेन कारणेन ते तमनुव्रता इत्यन्वयः । वयस्थानां वृद्धानामिति वा सर्वविशेषणम् ॥ 2.17.15 ॥
चतुष्पथान् देवपथांश्चैत्यान्यायतनानि च ।
प्रदक्षिणं परिहरन् जगाम नृपतेः सुतः ॥ 2.17.16 ॥
चतुष्पथानिति । चतुष्पथान् श्रृङ्गाटकानि । देवपथान् देवालयान् । चैत्यानि चैत्यवृक्षस्थानानि । आयतनानि सभादीनि च परिहरन् अप्रदक्षिणं परिहरन् प्रदक्षिणं यथा भवति तथा जगामेति सम्बन्धः ॥ 2.17.16 ॥
स राजकुलमासाद्य मेघसङ्घोपमैः शुभैः ।
प्रासादश्रृङ्गैर्विविधैः कैलासशिखरोपमैः ॥ 2.17.17 ॥
आवारयद्भिर्गगनं विमानैरिव पाण्डरैः ।
वर्द्धमानगृहैश्चापि रत्नजालपरिष्कृतैः ॥ 2.17.18 ॥
तत्पृथिव्यां गृहवरं महेन्द्रभवनोपमम् ।
राजपुत्रः पितुर्वेश्म प्रविवेश श्रिया ज्वलन् ॥ 2.17.19 ॥
स इत्यादि । राजकुलं राजगृहं “कुलं गृहे ऽपि” इत्यमरः । वर्द्धमानगृहैः वर्द्धमानलक्षणाधिष्ठानसमेतगृहैः । पृथिव्यां गृहवरम्, पृथिव्यामद्वितीयमित्यर्थः । पितुर्वेश्म पितृवासस्थानम् ॥ 2.17.1719 ॥
स कक्ष्या धन्विभिर्गुप्तास्तिस्रो ऽतिक्रम्य वाजिभिः ।
पदातिरपरे कक्ष्ये द्वे जगाम नरोत्तमः ॥ 2.17.20 ॥
स इति । वाजिभिः रथयुक्तैर्वाजिभिः । पदातिः पादचारी ॥ 2.17.20 ॥
स सर्वाः समतिक्रम्य कक्ष्यादशरथात्मजः ।
सन्निवर्त्त्य जनं सर्वं शुद्धान्तं पुनरभ्यगात् ॥ 2.17.21 ॥
ततः प्रविष्टे पितुरन्तिकं तदा जनः स सर्वोमुदितो नृपात्मजे ।
प्रतीक्षते तस्य पुनर्विनिर्गमं यथोदयं चन्द्रमसः सरित्पतिः ॥ 2.17.22 ॥
स इति । शुद्धान्तम् अन्तःपुरम् ॥ 2.17.2122 ॥
इत्यार्षे श्रीरामायणेवाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे सप्तदशः सर्गः ॥ 17 ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्यानेयोध्याकाण्डव्याख्याने सप्तदशः सर्गः ॥ 17 ॥