०१५ सुमन्त्रस्य रामगृहगमनम्

श्रीमद्वाल्मीकीयरामायणम् अयोध्याकाण्डे
पञ्चदशः सर्गः

ते तु तां रजनीमुष्य ब्राह्मणा वेदपारगाः ।

उपतस्थुरुपस्थानं सह राजपुरोहिताः ॥ 2.15.1 ॥

अथ रामाभिषेकसामग्रीसन्निधानमाह पञ्चदशे–ते त्विति । उष्य उषित्वा । उपस्थानं सदः ॥ 2.15.1 ॥

अमात्या बलमुख्याश्च मुख्या ये निगमस्य च ।

राघवस्याभिषेकार्थे प्रीयमाणास्तु सङ्गताः ॥ 2.15.2 ॥

निगमस्य पुरस्य “निगमो निश्चये वेदे पुरे पथिवणिक्पथे” इति वैजयन्ती ॥ 2.15.2 ॥

उदिते विमले सूर्य्ये पुष्ये चाभ्याग ते ऽहनि ।

लग्ने कर्कटके प्राप्ते जन्म रामस्य च स्थिते ।

अभिषेकाय रामस्य द्विजेन्द्रैरुपकल्पितम् ॥ 2.15.3 ॥

उदित इति । उपकल्पितम्, अभिषेकार्थद्रव्यजातमिति शेषः ॥ 2.15.3 ॥

काञ्चनाजलकुम्भाश्च भद्रपीठं स्वलंकृतम् ।

रथश्च सम्यगास्तीर्णो भास्वता व्याघ्रचर्मणा ॥ 2.15.4 ॥

उपकल्पितमेव प्रपञ्चयति–काञ्चना इत्यादि । अत्र भान्तीत्यनुषज्यते ॥ 2.15.4 ॥

गङ्गायमुनयोः पुण्यात् सङ्गमादाहृतं जलम् ।

याश्चान्याः सरितः पुण्या ह्रदाः कूपाः सरांसि च ॥ 2.15.5 ॥

गङ्गेति । आहृतं, वर्तते इति शेषः । याश्चान्यास्सरित इत्यत्र ताभ्यश्चेत्यनुकृष्याहृतमिति पूर्वेण सम्बन्धः । ये च ह्रदाः कूपाः यानि सरांसि । अत्र तु तेभ्य इत्यध्याहारः । आहृतं जलमिति पूर्वेण सम्बन्धः ॥ 2.15.5 ॥

प्राग्वाहाश्चोर्ध्ववाहाश्च तिर्यग्वाहास्समाहिताः ।

ताभ्यश्चैवाहृतं तोयं समुद्रेभ्यश्च सर्वशः ॥ 2.15.6 ॥

प्राग्वाहाः इति । प्राग्वाहाः पूर्वाभिमुखप्रवाहाः गोदावरीकावेर्यादयः । ऊर्ध्ववाहाः ऊर्ध्वोद्गतप्रवाहाः नैमिषारण्यस्थब्रह्मावर्त्तरुद्रावर्तादिसरोविशेषाः । ऊर्ध्ववाहाः प्रत्यग्वाहाः इत्यप्याहुः । ऊर्ध्वाद्वहन्तीत्यूर्द्ध्ववाहाः । निर्झरा इतिकेचित् । तिर्य्यग्वाहाः दक्षिणोत्तराभिमुखप्रवाहाः गण्डकीशोणभद्रादयः ॥ 2.15.6 ॥

सलाजाः क्षीरिभिश्छन्ना घटाः काञ्चनराजताः ।

पद्मोत्पलयुता भान्ति पूर्णाः परमवारिणा ॥ 2.15.7 ॥

सलाजा इति । क्षीरिभिः अश्वत्थोदुम्बरादिभिः पूर्वं जलकुम्भमात्रमुक्तम् । अत्र तद्विशेष इति न पुनरुक्तिः ॥ 2.15.7 ॥

क्षौद्रं दधि घृतं लाजा दर्भाः सुमनसः पयः ।

वेश्याश्चैव शुभाचाराः सर्वाभरणभूषिताः ॥ 2.15.8 ॥

क्षौद्रमिति । क्षौद्रं मधु । सुमनसः कुसुमानि । शुभाचाराः अञ्जनस्रगलङ्करणादिमङ्गलवेषयुक्ताः ॥ 2.15.8 ॥

चन्द्रांशुविकचप्रख्यं काञ्चनं रत्नभूषितम् ।

सज्जं तिष्ठति रामस्य वालव्यजनमुत्तमम् ॥ 2.15.9 ॥

चन्द्रांशुविकचप्रख्यं विकचचन्द्रांशुसदृशम् । विकचत्वं विस्तृतत्वम् । यद्वा चन्द्रांशव इव विकचा विस्तृता प्रख्या कान्तिर्यस्य तत्तथा । काञ्चनं काञ्चनदण्डम् । सज्जं गन्धपुष्पादिभिरलंकृतम् ॥ 2.15.9 ॥

चन्द्रमण्डलसङ्काशमातपत्रं च पाण्डरम् ।

सज्जं द्युतिकरं श्रीमदभिषेकपुरस्कृतम् ॥ 2.15.10 ॥

चन्द्रमण्डलेति । अभिषेकपुरस्कृतम् । अभिषेकाय पुरस्कृतम् ॥ 2.15.10 ॥

पाण्डरश्च वृषः सज्जः पाण्डरो ऽश्वश्च संस्थितः ।

प्रसृतश्च गजः श्रीमानौपवाह्यः प्रतीक्षते ॥ 2.15.11 ॥

पाण्डर इति । प्रसृतः प्रकर्षेणस्रवन्मदः । औपवाह्यः राजवाह्यः “राजवाह्यस्त्वौपवाह्यः” इत्यमरः ॥ 2.15.11 ॥

अष्टौ च कन्या माङ्गल्याः सर्वाभरणभूषिताः ।

वादित्राणि च सर्वाणि वन्दिनश्च तथा परे ॥ 2.15.12 ॥

माङ्गल्याः मङ्गलार्हाः । वादित्राणि वीणादिचतुर्विधवाद्यानि ॥ 2.15.12 ॥

इक्ष्वाकूणां यथा राज्ये सम्भ्रियेताभिषेचनम् ।

तथा जातीयमादाय राजपुत्राभिषेचनम् ॥ 2.15.13 ॥

ते राजवचनात्तत्र समवेता महीपतिम् ।

अपश्यन्तो ऽब्रुवन् को नु राज्ञो नः प्रतिवेदयत् ॥ 2.15.14 ॥

इक्ष्वाकूणामिति । इक्ष्वाकूणां राज्ये अभिषेचनमुद्दिश्य यथा सम्भ्रियेत, वस्तुजातमिति शेषः । तथा जातीयमनर्घरत्नादिवस्तुजातं आदाय ते महीपतयः राजवचनात् राजपुत्राभिषेचनमुद्दिश्य तत्र राजभवनद्वारे समवेताः महीपतिमपश्यन्तः राज्ञः को नु नः प्रतिवेदयेदित्यब्रुवन्निति योजना ॥ 2.15.1314 ॥

न पश्यामश्च राजानमुदितश्च दिवाकरः ।

यौवराज्याभिषेकश्च सज्जो रामस्य धीमतः ॥ 2.15.15 ॥

इति तेषु ब्रुवाणेषु सार्वभौमान् महीपतीन् ।

अब्रवीत्तानिदं सर्वान् सुमन्त्रो राजसत्कृतः ॥ 2.15.16 ॥

नेति । सज्जः सम्पन्नसाधन इत्यर्थः ॥ 2.15.1516 ॥

रामं राज्ञो नियोगेन त्वरया प्रस्थितो ऽस्म्यहम् ।

पूज्या राज्ञो भवन्तस्तु रामस्य च विशेषतः ॥ 2.15.17 ॥

अयं पृच्छामि वचनात्सुखमायुष्मतामहम् ।

राज्ञः सम्प्रतिबुद्धस्य यच्चागमनकारणम् ॥ 2.15.18 ॥

राममिति । रामं प्रस्थितः, आनेतुमिति शेषः । यस्मात् पूज्यास्तस्मात् आयुष्मतां युष्माकं वचनात् राज्ञः सुखं पृच्छामि । यच्चागमनकारणं दर्शनायानागमनहेतुः तं च । अयमविलम्बेन पृच्छामि ॥ 2.15.1718 ॥

इत्युक्त्वान्तःपुरद्वारमाजगाम पुराणवित् ।

सदासक्तं च तद्वेश्म सुमन्त्रः प्रविवेशह ॥ 2.15.19 ॥

पुराणवित् सामन्तराजानुवर्त्तनरूपपुरातनवृत्तान्तज्ञः । सदासक्तं सर्वदा अनिवारितम् ॥ 2.15.19 ॥

तुष्टावास्य तदा वंशं प्रविश्य स विशांपतेः ।

शयनीयं नरेन्द्रस्य तदासाद्य व्यतिष्ठत ॥ 2.15.20 ॥

तुष्टावेति । शयनीयं शयनयोग्यं गृहम् ॥ 2.15.20 ॥

सो ऽत्यासाद्य तु तद्वेश्म तिरस्करणिमन्तरा ।

आशीर्भिर्गुणयुक्ताभिरभितुष्टाव राघवम् ॥ 2.15.21 ॥

सोमसूर्यौ च काकुत्स्थ शिववैश्रवणावपि ।

वरुणश्चाग्निरिन्द्रश्च विजयं प्रदिशन्तु ते ॥ 2.15.22 ॥

गता भगवती रात्रिः कृतं कृत्यमिदं तव ।

बुध्यस्व नृपशार्दूल कुरु कार्य्यमनन्तरम् ॥ 2.15.23 ॥

ब्राह्मणा बलमुख्याश्च नैगमाश्चागता नृप ।

दर्शनं प्रतिकांक्षन्ते प्रतिबुध्यस्व राघव ॥ 2.15.24 ॥

स इति । अत्यासाद्य अतिशयेन प्राप्य । अतिसमीपं प्राप्येत्यर्थः । तिस्करणिमन्तरा जवनिकामात्रं व्यवधानं कृत्येत्यर्थः । राघवं दशरथम् पुनस्तोत्रकरणं सूतस्य विज्ञापनात्पूर्वं स्तुतेः कुलधर्मत्वात् ॥ 2.15.2124 ॥

वस्तुवन्तं तं तदा सूतं सुमन्त्रं मन्त्रकोविदम् ।

प्रतिबुध्य ततो राजा इदं वचनमब्रवीत् ॥ 2.15.25 ॥

राममानय सूतेति यदस्यभिहितो ऽनया ।

किमिदं कारणं येन ममाज्ञा प्रतिहन्यते ॥ 2.15.26 ॥

प्रतिबुद्ध्य ज्ञात्वेत्यर्थः ॥ 2.15.2526 ॥

न चैव सम्प्रसुप्तो ऽहमानयेहाशु राघवम् ।

इति राजा दशरथः सूतं तत्रान्वशात् पुनः ॥ 2.15.27 ॥

स राजवचनं श्रुत्वा शिरसा प्रतिपूज्य तम् ।

निर्जगाम नृपावासान्मन्यमानः प्रियं महत् ॥ 2.15.28 ॥

कैकेय्युक्तं निद्रापरवशस्य राज्ञो ऽनुमतं न वेति न संशयितव्यमित्याह–न चेत्यादिना ॥ 2.15.2728 ॥

प्रपन्नो राजमार्गं च पताकाध्वजशोभितम् ।

हृष्टः प्रमुदितः सूतो जगामाशु विलोकयन् ॥ 2.15.29 ॥

प्रपन्न इति । हृष्टः रोमाञ्चाञ्चितगात्रः । प्रमुदितः सञ्जातमानसानन्दः ॥ 2.15.29 ॥

स सूतस्तत्र शुश्राव रामाधिकरणाः कथाः ।

अभिषेचनसंयुक्ताः सर्वलोकस्य हृष्टवत् ॥ 2.15.30 ॥

ततो ददर्श रुचिरं कैलासशिखरप्रभम् ।

रामवेश्म सुमन्त्रस्तु शक्रवेश्मसमप्रभम् ॥ 2.15.31 ॥

स इति । रामाधिकरणाः राममधिकृत्य प्रवृत्ताः । हृष्टवत् । स्वार्थे वतिः ॥ 2.15.3031 ॥

महाकवाटविहितं वितर्दिशतशोभितम् ।

काञ्चनप्रतिमैकाग्रं मणिविद्रुमतोरणम् ॥ 2.15.32 ॥

महाकवाटेत्यादि । महाकवाटविहितं निर्मितमहाकवाटम् । वितर्दिशतशोभितं वेदिकाशतशोभितम् । “स्याद्वितर्दिस्तु वेदिका” इत्यमरः । काञ्चनप्रतिमैकाग्रं काञ्चनप्रतिमाभिः एकाग्रं निरन्तरम् । यद्वा काञ्चनप्रतिमाभिः एकानि मुख्यानि अग्राणि शिखराग्राणि यस्मिन् तत्तथोक्तम् । मणिविद्रुमतोरणं मणिविद्रुमप्रचुरबहिर्द्वारयुक्तम् “तोरणो ऽस्त्री बहिर्द्वारम्” इत्यमरः ॥ 2.15.32 ॥

शारदाभ्रघनप्रख्यं दीप्तमेरुगुहोपमम् ।

मणिभिर्वरमाल्यानां सुमहद्भिरलङ्कृतम् ॥ 2.15.33 ॥

शारदाभ्रघनप्रख्यं शारदाभ्रमूर्तिसदृशम् । “घनो मेघे मूर्तिगुणे त्रिषु मूर्त्तौ निरन्तरे” इत्यमरः ॥ 2.15.33 ॥

मुक्तामणिभिराकीर्णं चन्दनागरुधूपितम् ।

गन्धान्मनोज्ञान् विसृजद्दार्दुरं शिखरं यथा ॥ 2.15.34 ॥

दार्दुरं मलयसंनिकृष्टश्चन्दनोत्पत्तिस्थानभूतो गिरिर्दर्दुरः, तत्सम्बन्धि दार्दुरम् ॥ 2.15.34 ॥

सारसैश्च मयूरैश्च विनदद्भिर्विराजितम् ।

सुकृतेहामृगाकीर्णं सुकीर्णं भक्तिभिस्तथा ॥ 2.15.35 ॥

सुकृतेहामृगाकीर्णं द्वारभित्तिस्तम्भादिषु सुष्ठु रचितैः ईहामृगैः वृकैः आकीर्णं “कोकस्त्वीहामृगो वृकः” इत्यमरः । भक्तिभिः सुकीर्णं सुष्ठु रचितम् ॥ 2.15.35 ॥

मनश्चक्षुश्च भूतानामाददत्तिग्मतेजसा ।

चन्द्रभास्करसङ्काशं कुबेरभवनोपमम् ॥ 2.15.36 ॥

तिग्मतेजसा तीव्रतेजसा “तिग्मं तीव्रं खरम्” इत्यमरः । अतिशयिततेजसेत्यर्थः ॥ 2.15.36 ॥

महेन्द्रधामप्रतिमं नानापक्षिसमाकुलम् ।

मेरुश्रृङ्गसमं सूतो रामवेश्म ददर्श ह ॥ 2.15.37 ॥

रामवेश्म ददर्श हेति पुनर्वचनस्य सामान्योक्तस्य विशेषणविशेषकथनार्थत्वान्न पुनरुक्तिः । भगवतो वाल्मीकेरियं हि शैली ॥ 2.15.37 ॥

उपस्थितैः समाकीर्णं जनैरञ्जलिकारिभिः ।

उपादाय समाक्रान्तैस्तथा जानपदैर्जनैः ॥ 2.15.38 ॥

उपस्थितैरिति । उपादाय उपायनानीति शेषः । समाक्रान्तैः समागतैः ॥ 2.15.38 ॥

रामाभिषेकसुमुखैरुन्मुखैः समलंकृतम् ।

महामेघसमप्रख्यमुदग्रं सुविभूषितम् ॥ 2.15.39 ॥

उन्मुखैः उत्सुकैः । उदग्रम् उन्नतम् ॥ 2.15.39 ॥

नानारत्नसमाकीर्णं कुब्जकैरातकावृतम् ॥ 2.15.40 ॥

कुब्जकैरातकावृतं किरातानां स्वल्पशरीरकाणां समूहः कैरातकं “पृश्निरल्पशरीरः स्यात्किरातः स च कथ्यते” इति हलायुधः । उपस्थितैः समाकीर्णमित्यादिकमपि रामवेश्मेत्यनेन सम्बध्यते ॥ 2.15.40 ॥

स वाजियुक्तेन रथेन सारथिर्नराकुलं राजकुलं विलोकयन् ।

वरूथिना रामगृहाभिपातिना पुरस्य सर्वस्य मनांसि रञ्जयत् ॥ 2.15.41 ॥

स वाजियुक्तेनेति । वरूथिना रथगुप्तिमता । “रथगुप्तिर्वरूथो ना” इत्यमरः । पुरस्य पुरस्थजनस्य । रञ्जयत् अरञ्जयत् ॥ 2.15.41 ॥

ततः समासाद्य महाधनं महत् प्रहृष्टरोमा स बभूव सारथिः ।

मृगैर्मयूरैश्च समाकुलोल्बणं गृहं वरार्हस्य शचीपतेरिव ॥ 2.15.42 ॥

तत इति । समाकुलोल्बणम् इतस्ततः समाकुलैर्जनैरुल्बणम् अतिशयेनोल्बणं वा । वरार्हस्य श्रेष्ठवस्त्वर्हस्य, रामस्येति शेषः ॥ 2.15.42 ॥

स तत्र कैलासनिभाः स्वलंकृताः प्रविश्य कक्ष्यास्त्रिदशालयोपमाः ।

प्रियान्नरान् राममते स्थितान् बहूनपोह्य शुद्धान्तमुपस्थितो रथी ॥ 2.15.43 ॥

स इति । अपोह्य अतिक्रम्य । शुद्धान्तम् अन्तःपुरम् ॥ 2.15.43 ॥

स तत्र शुश्राव च हर्षयुक्ता रामाभिषेकार्थकृता जनानाम् ।

नरेन्द्रसूनोरभिमङ्गलार्थास्सर्वस्य लोकस्य गिरः प्रहृष्टः ॥ 2.15.44 ॥

स इति । रामाभिषेकार्थकृता रामाभिषेकार्थं प्रयुक्ता इत्यर्थः । अभिमङ्गलार्थाः अभितो मङ्गलप्रतिपादनप्रयोजनाः ॥ 2.15.44 ॥

महेन्द्रसद्मप्रतिमं तु वेश्म रामस्य रम्यं मृगपक्षिजुष्टम् ।

ददर्श मेरोरिव शृङ्गमुच्चं विभ्राजमानं प्रभया सुमन्त्रः ॥ 2.15.45 ॥

महेन्द्रसद्मप्रतिममिति । वेश्म रामावासभूतं गृहराजम् ॥ 2.15.45 ॥

उपस्थितैरञ्जलिकारकैश्च सोपायनैर्जानपदैश्च मर्त्यैः ।

कोट्या परार्द्धैश्च विमुक्तयानैः समाकुलं द्वारपथं ददर्श ॥ 2.15.46 ॥

उपस्थितैरिति । कोट्या कोटिसङ्ख्यया । परार्द्धैः परार्द्धसङ्ख्यया च सङ्ख्येयैः, सर्वान्तसङ्ख्या परार्द्धः ॥ 2.15.46 ॥

ततो महामेघमहीधराभं प्रभिन्नमत्यङ्कुशमप्रसह्यम् ।

रामौपवाह्यं रुचिरं ददर्श शत्रुञ्जयं नागमुदग्रकायम् ॥ 2.15.47 ॥

तत इति । प्रभिन्नं मत्तम् । “प्रभिन्नो गर्जितो मत्तः” इत्यमरः ॥ 2.15.47 ॥

स्वलंकृतान् साश्वरथान् सकुञ्जरानमात्यमुख्यान् शतशश्च वल्लभान् ।

व्यापोह्य सूतः सहितान् समन्ततः समृद्धमन्तःपुरमाविवेश ॥ 2.15.48 ॥

स्वलंकृतानिति । वल्लभान् राजप्रियान् ॥ 2.15.48 ॥

तदद्रिकूटाचलमेघसन्निभं महाविमानोत्तमवेश्मसङ्घवत् ।

अवार्यमाणः प्रविवेश सारथिः प्रभूतरत्नं मकरो यथार्णवम् ॥ 2.15.49 ॥

तदिति । अद्रिकूटाचलमेघसन्निभम् अद्रिशिखरेण निश्चलमेघेन च सदृशम् । महाविमानोत्तमवेश्मसङ्घवत् महाविमानसहितोत्तमवेश्मसमूहयुक्तम् “विमानो ऽस्त्री देवयाने सप्तभूमौ च सद्मनि” इति निघण्टुः ॥ 2.15.49 ॥

इत्यार्षे श्रीरामायणे श्रीमदयोध्याकाण्डे पञ्चदशः सर्गः ॥ 15 ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने प़ञ्चदशस्सर्गः ॥ 15 ॥