श्रीमद्वाल्मीकीयरामायणम् अयोध्याकाण्डे
चतुर्दशः सर्गः
पुत्रशोकार्दितं पापा विसंज्ञं पतितं भुवि ।
विवेष्टमानमुद्वीक्ष्य सैक्ष्वाकमिदमब्रवीत् ॥ 2.14.1 ॥
अथ रामविवासननिर्द्धारणं दर्शयति चतुर्दशे–पुत्रेत्यादि ॥ 2.14.1 ॥
पापं कृत्वैव किमिदं मम संश्रुत्य संश्रवम् ।
शेषे क्षितितले सन्नः स्थित्यां स्थातुं त्वमर्हसि ॥ 2.14.2 ॥
पापमिति । संश्रवं दास्यामीति प्रतिज्ञाम् । संश्रुत्य कृत्वेत्यर्थः । पाकं पचतीतिवन्निर्देशः । पापं प्रतिज्ञाताकरणरूपं पापं कृत्वैव क्षितितले सन्नः अवसन्नः सन् शेषे । किमिदं स्थित्यां मर्यादायां सत्यपरिपालनरूपायां “मर्यादाधारणा स्थितिः” इत्यमरः । स्थातुमर्हसि ॥ 2.14.2 ॥
आहुः सत्यं हि परमं धर्मं धर्मविदो जनाः ।
सत्यमाश्रित्य हि मया त्वं च धर्मप्रचोदितः ॥ 2.14.3 ॥
इदमेव युक्तमिति दर्शयति–आहुरित्यादिना । सत्यरूपं धर्ममाश्रित्य हि मया प्रचोदितः ॥ 2.14.3 ॥
संश्रुत्य शैब्यः श्येनाय स्वां तनुं जगतीपतिः ।
प्रदाय पक्षिणे राजन् जगाम गतिमुत्तमाम् ॥ 2.14.4 ॥
प्राणसङ्कटे कथं सत्यं पालनीयमित्यत्राह–संश्रुत्येत्यादिना ॥ 2.14.4 ॥
तथा ह्यलर्कस्तेजस्वी ब्राह्मणे वेदपारगे ।
याचमाने स्वके नेत्रे उद्धृत्या विमना ददौ ॥ 2.14.5 ॥
तथेति । याचमाने ब्राह्मणे । अविमनाः सुप्रसन्नमनाः सन् नेत्रे ददौ । तस्मा इति शेषः ॥ 2.14.5 ॥
सरितां तु पतिः स्वल्पां मर्यादां सत्यमन्वितः ।
सत्यानुरोधात्समये वेलां स्वां नातिवर्त्तते ॥ 2.14.6 ॥
सरितामिति । सरितां पतिः समुद्रः । मर्यादां सत्यमन्वितः वेलां नातिवर्त्तत इति मर्यादारूपं सत्यं प्राप्तः सन् । सत्यानुरोधात् स्वकृतसत्यानुवर्त्तनात् समये सङ्कल्पितकाले । स्वां वेलां स्वल्पामपि नातिवर्तत इतिसम्बन्धः ॥ 2.14.6 ॥
सत्यमेकपदं ब्रह्म सत्ये धर्मः प्रतिष्ठितः ।
सत्यमेवाक्षया वेदाः सत्येनैवाप्यते परम् ॥ 2.14.7 ॥
सत्यमिति । सत्यमेव एकपदं ब्रह्म एकं मुख्यम् । “एके मुख्यान्यकेवलाः” इत्यमरः । पद्यत इति पदं परमप्राप्यम्, ब्रह्मेत्यर्थः । यद्वा एकं पदं प्रणवरूपं वाचकं यस्य तत्तथा “ओमित्येकाक्षरं ब्रह्म” इति स्मृतेः । सत्ये धर्मः प्रतिष्ठितः सत्यमेव धर्मस्य परा काष्ठेत्यर्थः । अक्षया वेदाश्च सत्यमेव प्राधान्येन प्रतिपादयन्तीत्यर्थः । परं प्रयोजनं सत्येनैवाप्यते ॥ 2.14.7 ॥
सत्यं समनुवर्त्तस्व यदि धर्मे धृता मतिः ।
स वरः सफलो मे ऽस्तु वरदो ह्यसि सत्तम ॥ 2.14.8 ॥
सत्यमिति । अत्रादौ तस्मादित्युपस्कार्यम् । धृता स्थिरा । वरदः सर्वेषां सर्ववरप्रदः ॥ 2.14.8 ॥
धर्मस्येहाभिकामार्थं मम चैवाभ्यचोदनात् ।
प्रव्राजय सुतं रामं त्रिः खलु त्वां ब्रवीम्यहम् ॥ 2.14.9 ॥
धर्मस्येति । अभिकामार्थं प्रीत्यर्थम् । धर्माभिवृद्ध्यर्थमिति यावत् । मम प्रियाया इति शेषः । समनस्कत्वज्ञापनाय त्रिरित्युक्तम् ॥ 2.14.9 ॥
समयं च ममाद्येमं यदि त्वं न करिष्यसि ।
अग्रतस्ते परित्यक्ता परित्यक्ष्यामि जीवितम् ॥ 2.14.10 ॥
समयमिति । समयं रामविवासनं । परित्यक्ता उपेक्षिता ॥ 2.14.10 ॥
एवं प्रचोदितो राजा कैकेय्या निर्विशङ्कया ।
नाशकत् पाशमुन्मोक्तुं बलिरिन्द्रकृतं यथा ॥ 2.14.11 ॥
एवमिति । एवं त्रिर्ब्रवीमीत्येवम् । पाशं सत्यपाशम् । अन्मोक्तुं मोचयितुम् । बलिः महाबलिः । इन्द्रकृतम् इन्द्रद्वारोपेन्द्रकृतं पाशं पदत्रयदानप्रतिज्ञारूपं पदत्रयादानान्निगलं वा ॥ 2.14.11 ॥
उद्भ्रान्तहृदयश्चापि विवर्णवदनो ऽभवत् ।
स धुर्यो वै परिस्पन्दन् युगचक्रान्तरं यथा ॥ 2.14.12 ॥
उद्भ्रान्तहृदय इति । स राजा युगचक्रयोरन्तरं परिस्पन्दन् गच्छन् । धुर्यो यथा अनङ्वानिव । उद्भ्रान्तहृदयो विवर्णवदनश्चाभवत् ॥ 2.14.12 ॥
विह्वलाभ्यां च नेत्राभ्यामपश्यन्निव भूमिपः ।
कृच्छ्राद्धैर्येण संस्तभ्य कैकेयीमिदमब्रवीत् ॥ 2.14.13 ॥
विह्वलाभ्यामिति । विह्वलाभ्यां क्षुब्धाभ्याम् । अपश्यन्निव अन्ध इव स्थितः भूमिपः कृच्छ्रात् लब्धेन धैर्येण संस्तभ्य, दुःखातिशयजनितक्षोभं निरुद्ध्येत्यर्थः ॥ 2.14.13 ॥
यस्ते मन्त्रकृतः पाणिरग्नौ पापे मया धृतः ।
तं त्यजामि स्वजं चैव तव पुत्रं सह त्वया ॥ 2.14.14 ॥
य इति । हे पापे अग्नौ अग्निसमीपे सामीप्ये सप्तमी । मन्त्रकृतः मन्त्रसंस्कृतः । यः पाणिर्मया धृतः तं त्यजामि, तत्प्रयुक्तव्यवहारं त्यजामीत्यर्थः । अत एव स्वजं स्वस्मात् जातमपि तव पुत्रं त्वया सह त्यजामि ॥ 2.14.14 ॥
प्रयाता रजनीदेवि सूर्यस्योदयनं प्रति ।
अभिषेकं गुरुजनस्त्वरयिष्यति मां ध्रुवम् ॥ 2.14.15 ॥
प्रयातेति । उदयनं प्रति उदयं प्रतिलभ्य त्वरयिष्यतीति सम्बन्धः ॥ 2.14.15 ॥
रामाभिषेकसम्भारैस्तदर्थमुपकल्पितैः ।
रामः कारयितव्यो मे मृतस्य सलिलक्रियाम् ॥ 2.14.16 ॥
रामेति । तदर्थं रामाभिषेकार्थम् उपकल्पितैः रामाभिषेकसम्भारैः रामाभिषेकसामग्रीभिःसह गुरुजनस्त्वरयिष्यतीति पूर्वेण सम्बन्धः । यद्वा अभिषेकसामग्र्येव सलिलक्रियासामग्रीभवत्वित्यर्थः ॥ 2.14.16 ॥
त्वया सपुत्रया नैव कर्त्तव्या सलिलक्रिया ।
व्याहन्तास्यशुभाचारे यदि रामाभिषेचनम् ॥ 2.14.17 ॥
त्वयेति । व्याहन्तासीति लुण्मध्यमपुरषैकवचनम् ॥ 2.14.17 ॥
न च शक्नोम्यहं द्रष्टुं दृष्ट्वा पूर्वं तथासुखम् ।
हतहर्षं निरानन्दं पुनर्जनमवाङ्मुखम् ॥ 2.14.18 ॥
न चेति । तथासुखं तादृशसुखयुक्तम् । जनं दृष्ट्वा पुनः हतहर्षं हतहर्षविकारम् । निरानन्दं अतएवावाङ्मुखं जनं द्रष्टुं न शक्नोमि ॥ 2.14.18 ॥
तां तथा ब्रुवतस्तस्य भूमिपस्य महात्मनः ।
प्रभाता शर्वरी पुण्या चन्द्रनक्षत्रशालिनी ॥ 2.14.19 ॥
तामिति । तस्य ब्रुवतः तस्मिन् ब्रुवतीत्यर्थः । पुण्येत्युक्तिः अनन्तरं रामदर्शनसम्भवात् ॥ 2.14.19 ॥
ततः पापसमाचारा कैकेयी पार्थिवं पुनः ।
उवाच परुषं वाक्यं वाक्यज्ञा रोषमूर्च्छिता ॥ 2.14.20 ॥
तत इति । रोषमूर्च्छिता क्रोधेन व्याप्ता ॥ 2.14.20 ॥
किमिदं भाषसे राजन् वाक्यं गररुजोपमम् ।
आनाययितुमक्लिष्टं पुत्रं राममिहार्हसि ॥ 2.14.21 ॥
स्थाप्य राज्ये मम सुतं कृत्वा रामं वनेचरम् ।
निस्सपत्नां च मां कृत्वा कृतकृत्यो भविष्यसि ॥ 2.14.22 ॥
किमिदमिति । गररुजोपमं विषजनितव्याधिसदृशम् । अङ्गरुजोपममितिपाठे सर्वाङ्गव्याप्तमहाव्याधिसदृशमित्यर्थः । अङ्गेति सम्बोधनं वा । अक्लिष्टम् अक्लेशं यथा भवति तथा आनाययितुमिति सम्बन्धः ॥ 2.14.2122 ॥
स नुन्न इव तीक्ष्णेन प्रतोदेन हयोत्तमः ।
राजा प्रयोदितो ऽभीक्ष्णं कैकेयीमिदमब्रवीत् ॥ 2.14.23 ॥
स इति । नुन्नः व्यथितः । प्रतोदेन तोत्रेण । अभीक्ष्णं पुनः पुनः । “पुनः पुनः शश्वदभीक्ष्णमसकृत्समाः” इत्यमरः ॥ 2.14.23 ॥
धर्मबन्धेन बद्धो ऽस्मि नष्टा च मम चेतना ।
ज्येष्ठं पुत्रं प्रियं रामं द्रष्टुमिच्छामि धार्मिकम् ॥ 2.14.24 ॥
धर्मबन्धेनेति । धर्मबन्धेन धर्मपाशेन । बद्धोस्मीत्यनेन रामविवासनं मनागनुज्ञातम् । द्रष्टुमिच्छामि गमनात्पूर्वमिति शेषः ॥ 2.14.24 ॥
ततः प्रभातां रजनीमुदिते च दिवाकरे ।
पुण्ये नक्षत्रयोगे च मुहूर्त्ते च समाहिते ॥ 2.14.25 ॥
तत इत्यादि परमद्विजैरित्यन्तमेकं वाक्यम् । प्रभातां रजनीं प्रभातायां रजन्यां समाहिते सन्निहिते सति ॥ 2.14.25 ॥
वसिष्ठो गुणसम्पन्नः शिष्यैः परिवृतस्तदा ।
उपगृह्याशु सम्भारान् प्रविवेश पुरोत्तमम् ॥ 2.14.26 ॥
सिक्तसम्मार्जितपथां पताकोत्तमभूषिताम् ।
विचित्रकुसुमाकीर्णां नानास्रग्भिर्विराजिताम् ॥ 2.14.27 ॥
प्रविवेश पुरोत्तमम् इत्यनेन वसिष्ठो नगरबाह्यसरय्वां स्नानाद्यनुष्ठानं कृत्वा पुरीं प्रविष्टवानित्यवगम्यते ॥ 2.14.2627 ॥
संहृष्टमनुजोपेतां समृद्धविपणापणाम् ।
महोत्सवसमाकीर्णां राघवार्थे समुत्सुकाम् ॥ 2.14.28 ॥
चन्दनागरुधूपैश्च सर्वतः परिधूपिताम् ।
तां पुरीं समतिक्रम्य पुरन्दरपुरोपमाम् ॥ 2.14.29 ॥
ददर्शान्तःपुरं श्रेष्ठं नानाद्विजगणायुतम् ।
पौरजानपदाकीर्णं ब्राह्मणैरुपशोभितम् ।
यज्ञविद्भिः सुसम्पूर्णं सदस्यैः परमद्विजैः ॥ 2.14.30 ॥
समृद्धविपणापणां समृद्धाः विपणाः विक्रय्याः येषां ते समृद्धविपणाः आपणाः निषद्याः यस्यां ताम् । समुत्सुकां समुत्सुकजनाम् ॥ 2.14.2830 ॥
तदन्तःपुरमासाद्य व्यतिचक्राम तु जनम् ।
वसिष्ठः परमप्रीतः परमर्षिर्विवेश च ॥ 2.14.31 ॥
तदिति । तं जनं पौरादिजनम् । व्यतिचक्रामेत्यनेनान्तःपुरद्वारवेदिकां प्राप्त इति गम्यते । विवेश वेदिकायामिति शेषः ॥ 2.14.31 ॥
स त्वपश्यद्विनिष्क्रान्तं सुमन्त्रं नाम सारथिम् ।
द्वारे तु राजसिंहस्य सचिवं प्रियदर्शनम् ॥ 2.14.32 ॥
स इति । विनिष्क्रान्तम् स्वगृहादिति शेषः । द्वारे अन्तःपुरद्वारे । प्रियदर्शनमित्यनेनाभिषेकार्थमात्मानमलंकृत्यागत इत्युक्तम् ॥ 2.14.32 ॥
तमुवाच महातेजाः सूतपुत्रं विशारदम् ।
वसिष्ठः क्षिप्रमाचक्ष्व नृपतेर्मामिहागतम् ॥ 2.14.33 ॥
तमिति । क्षिप्रमाचक्ष्वेति वसिष्ठः प्रोवाचेतिसम्बन्धः ॥ 2.14.33 ॥
इमे गङ्गोदकघटाः सागरेभ्यश्च काञ्चनाः ।
औदुम्बरं भद्रपीठमभिषेकार्थमाहृतम् ॥ 2.14.34 ॥
इम इत्यादि । काञ्चनाः काञ्चनमयाः । गङ्गोदकघटाः गङ्गोदकपूर्णघटाः । अत्र आहृतमित्येतद्वचनव्यत्ययेन सम्बध्यते । इमे इति छेदमपि । सागरेभ्य आहृता इमे उदकघटा इत्यध्याहारेण योज्यम् ॥ 2.14.34 ॥
सर्वबीजानि गन्धाश्च रत्नानि विविधानि च ।
क्षौद्रं दधि धृतं लाजा दर्भाः सुमनसः पयः ॥ 2.14.35 ॥
क्षौद्रं मधु ॥ 2.14.35 ॥
अष्टौ च कन्यारुचिरा मत्तश्च वरवारणः ।
चतुरश्वो रथः श्रीमान् निस्त्रिंशो धनुरुत्तमम् ॥ 2.14.36 ॥
‘चतुरश्वो रथः श्रीमान् निस्त्रिंशो धनुरुत्तमम्’ इत्यत्रतु इति गायत्र्याश्चतुर्थाक्षरम् । निस्त्रिंशः खङ्गः ॥ 2.14.36 ॥
वाहनं नरसंयुक्तं छत्रं च शशिसन्निभम् ।
श्वेते च वालव्यजने भृङ्गारश्च हिरण्मयः ॥ 2.14.37 ॥
भृङ्गारः कनकालुका ॥ 2.14.37 ॥
हेमदामपिनद्धश्च ककुद्मान् पाण्डरो वृषः ।
केसरी च चतुर्दंष्ट्रो हरिश्रेष्ठो महाबलः ॥ 2.14.38 ॥
सिंहासनं व्याघ्रतनुः समिद्धश्च हुताशनः ।
सर्ववादित्रसङ्घाश्च वेश्याश्चालंकृताः स्त्रियः ॥ 2.14.39 ॥
केसरी प्रशस्तकेसरः । हरिश्रेष्ठः अश्वोत्तमः ॥ 2.14.3839 ॥
आचार्या ब्राह्मणां गावः पुण्याश्च मृगपक्षिणः ।
पौरजानपदश्रेष्ठा नैगमाश्च गणैः सह ॥ 2.14.40 ॥
एते चान्ये च बहवः प्रीयमाणाः प्रियम्वदाः ।
अभिषेकाय रामस्य सह तिष्ठन्ति पार्थिवैः ॥ 2.14.41 ॥
व्याघ्रतनुः व्याघ्रचर्मेत्यर्थः । नैगमो वणिजः । “नैगमो वणिजो वणिक्” इत्यमरः ॥ 2.14.4041 ॥
त्वरयस्व महाराजं यथा समुदिते ऽहनि ।
पुण्ये नक्षत्रयोगे च रामो राज्यमवाप्नुयात् ॥ 2.14.42 ॥
इति तस्य वचः श्रुत्वा सूतपूत्रो महात्मनः ।
स्तुवन्नृपतिशार्दूलं प्रविवेश निवेशनम् ॥ 2.14.43 ॥
समुदिते सम्यग्व्यक्ते ॥ 2.14.4243 ॥
तं तु पूर्वोदितं वृद्धं द्वारस्था राजसम्मतम् ।
न शेकुरभिसंरोद्धुं राज्ञः प्रियचिकीर्षवः ॥ 2.14.44 ॥
पूर्वोदितम् अयं सर्वदा अनिवार्य इति राज्ञा पूर्वमुक्तम् ॥ 2.14.44 ॥
स समीपस्थितो राज्ञस्तामवस्थामजज्ञिवान् ।
वाग्भिः परमतुष्टाभिरभिष्टोतुं प्रचक्रमे ॥ 2.4.45 ॥
स इति । अजज्ञिवान् अज्ञातवान् ॥ 2.4.45 ॥
ततः सूतो यथाकालं पार्थिवस्य निवेशने ।
सुमन्त्रः प्राञ्जलिर्भूत्वा तुष्टाव जगतीपतिम् ॥ 2.14.46 ॥
तत इति । यथाकालं प्रातःकालार्हम् ॥ 2.14.46 ॥
यथा नन्दति तेजस्वी सागरो भास्करोदये ।
प्रीतः प्रीतेन मनसा तथानन्दघनः स्वतः ॥ 2.14.47 ॥
इन्द्रमस्यां तु वेलायामभितुष्टाव मातलिः ।
सो ऽजयद्दानवान् सर्वांस्तथा त्वां बोधयाम्यहम् ॥ 2.14.48 ॥
यथेति । भास्करोदयेपि समुद्रवृद्धिरस्त्येव । यद्वा भासः करोतीति व्युत्पत्त्या भास्करश्चन्द्रः ॥ 2.14.4748 ॥
वेदाः सहाङ्गविद्याश्च यथा ह्यात्मभुवं विभुम् ।
ब्रह्माणं बोधयन्त्यद्य तथा त्वां बोधयाम्यहम् ॥ 2.14.49 ॥
वेदा इति । सहाङ्गविद्याः अङ्गभूतशिक्षादिविद्यासहिताः । ब्रह्माणं बोधयन्ति सृष्ट्युपयोगितत्तदर्थबोधं जनयन्ति । तथाह मनुः– “नाम रूपं च भूतानां कृत्यानां च प्रपञ्चनम् । वेदशब्देभ्य एवादौ देवादीनां चकार सः ॥” इति ॥ 2.14.49 ॥
आदित्यः सह चन्द्रेण यथा भूतधरां शुभाम् ।
बोधयत्यद्य पृथिवीं तथा त्वां बोधयाम्यहम् ॥ 2.14.50 ॥
आदित्य इति । भूतधरां सर्वप्राणिधरां पृथिवीं बोधयति विशेषणद्वारा पृथ्वीबोधनम्, अद्य बोधयामीत्यन्वयः ॥ 2.14.50 ॥
उत्तिष्ठाशु महाराज कृत कौतुकमङ्गलः ।
विराजमानो वपुषा मेरोरिव दिवाकरः ॥ 2.14.51 ॥
सोमसूर्यौ च काकुत्स्थ शिववैश्रवणावपि ।
वरुणश्चाग्निरिन्द्रश्च विजयं प्रदिशन्तु ते ॥ 2.14.52 ॥
उत्तिष्ठेति । कृतकौतुकमङ्गलः कृतं कौतुकहेतुभूतं मङ्गलाचरणं येन स तथोक्तः, सर्वानन्दोत्पादनाय कृतदेहालङ्कार इत्यर्थः । यद्वा कौतुकम् उत्सवः । कृतोत्सवार्थमङ्गलानुष्ठान इत्यर्थः । मेरोर्दिवाकर इव दिवाकरस्य प्रधानमेरोरुत्थानं मेरुसम्बद्धरथाक्षद्वारेति ज्ञेयम् ॥ 2.14.5152 ॥
गता भगवती रात्रिः कृतं कृत्यमिदं तव ।
बुध्यस्व नृपशार्दूल कुरु कार्यमनन्तरम् ॥ 2.14.53 ॥
गतेति । सर्वानन्दकररामाभिषेकमहोत्सवोपयुक्तत्वाद्रात्रिर्भगवतीति स्तूयते ॥ 2.14.53 ॥
उदतिष्ठत रामस्य समग्रमभिषेचनम् ।
पौरजानपदैश्चापि नैगमैश्च कृताञ्जलिः ॥ 2.14.54 ॥
स्वयं वसिष्ठो भगवान् ब्राह्मणैः सह तिष्ठति ।
क्षिप्रमाज्ञाप्यतां राजन् राघवस्याभिषेचनम् ॥ 2.14.55 ॥
यथा ह्यपालाः पशवो यथा सेना ह्यनायका ।
यथा चन्द्रं विना रात्रिर्यथा गावो विना वृषम् ॥ 2.14.56 ॥
एवं हि भवता राष्ट्रं यत्र राजा न दृश्यते ॥ 2.14.57 ॥
उदतिष्ठतेति । “उदो ऽनूर्ध्वकर्मणि” इत्यात्मनेपदम् । उपस्थितमित्यर्थः । अभिषेचनं अभिषेकसाधनम् । उपतिष्ठतीतिपाठान्तरम् ॥ 2.14.5457 ॥
इति तस्य वचः श्रुत्वा सान्त्वपूर्वमिवार्थवत् ।
अभ्यकीर्यत शोकेन भूय एव महीपतिः ॥ 2.14.58 ॥
इतीति । सान्त्वपूर्वं सामपूर्वं “साम सान्त्वम्” इत्यमरः । अर्थवदितिनिर्देशः । प्रातःकालप्रबोधस्य सर्वविजयहेतुत्वात् ॥ 2.14.58 ॥
ततः स राजा तं सूतं सन्नहर्षः सुतं प्रति ।
शोकरक्तेक्षणः श्रीमान् उद्वीक्ष्योवाच धार्मिकः ।
वाक्यैस्तु खलु मर्माणि मम भूयो निकृन्तसि ॥ 2.14.59 ॥
ततः स राजेत्यादि । सुतं प्रति सन्नहर्षः नष्टहर्षः । भूयो निकृन्तसि कैकेयीवाक्यकृत्तानि मर्माणि भूयोप्यनुचितकालस्तुतिभिर्निकृन्तसीत्यर्थः । अत्र इतिशब्दो ऽध्याहार्यः ॥ 2.14.59 ॥
सुमन्त्रः करुणं श्रुत्वा दृष्ट्वा दीनं च पार्थिवम् ।
प्रगृहीताञ्जलिः किञ्चित्तस्माद्देशादपाक्रमत् ॥ 2.14.60 ॥
करुणं दीनवाक्यम् ॥ 2.14.60 ॥
यदा वक्तुं स्वयं दैन्यान्न शशाक महीपतिः ।
तदा सुमन्त्रं मन्त्रज्ञा कैकेयी प्रत्युवाच ह ॥ 2.14.61 ॥
मन्त्रज्ञा राजनीत्यनुसारेण स्वकार्योचितविचारज्ञेत्यर्थः ॥ 2.14.61 ॥
सुमन्त्र राजा रजनीं रामहर्षसमुत्सुकः ।
प्रजागरपरिश्रान्तो निद्रावया वशमेयिवान् ॥ 2.14.62 ॥
तद्गच्छ त्वरितं सूत राजपुत्रं यशस्विनम् ।
राममानय भद्र ते नात्र कार्या विचारणा ॥ 2.14.63 ॥
सुमन्त्रेति । रजनीमिति अत्यन्तसंयोगे द्वितीया । प्रजागरो निद्राक्षयः । विचारणेत्यनन्तरमितिशब्दोध्याहर्तव्यः । इति प्रत्युवाचेत्यन्वयः ॥ 2.14.6263 ॥
स मन्यमानः कल्याणं हृदयेन ननन्द च ।
निर्जगाम च सम्प्रीत्या त्वरितो राजशासनात् ॥ 2.14.64 ॥
सुमन्त्रश्चिन्तयामास त्वरितं चोदितस्तया ।
व्यक्तं रामाभिषेकार्थमिहायास्यति धर्मवित् ॥ 2.14.65 ॥
इति सूतो मतिं कृत्वा हर्षेण महता वृतः ।
निर्जगाम महाबाहू राघवस्य दिदृक्षया ॥ 2.14.66 ॥
स इति । राजशासनादित्युक्तिः राजसम्मतमिति बुद्ध्या ॥ 2.14.6466 ॥
सागरह्रदसङ्काशात् सुमन्त्रो ऽन्तःपुराच्छुभात् ।
निष्क्रम्य जनसम्बाधं ददर्श द्वारमग्रतः ॥ 2.14.67 ॥
सागरह्रदयसङ्काशादिति । सागरह्रदः समुद्रान्तर्गतहृदः । पुरान्तर्वत्यन्तःपुरत्वात्समुद्रस्थह्रदौपम्यम् । जनसम्बाधं जनैर्निबिडम् ॥ 2.14.67 ॥
ततः पुरस्तात् सहसा विनिर्गतो महीपतीन् द्वारगतो विलोकयन् ।
ददर्श पौरान् विविधान् महाधनानुपस्थितान् द्वारमुपेत्य विष्ठितान् ॥ 2.14.68 ॥
तत इति । पुरस्तादग्रे महीपतीन् विलोकयन् पश्चात् पौरान् ददर्श । महाधनान् उपहारपाणीन् । उपस्थितान् उपस्थानं सदः कुर्वतः ॥ 2.14.68 ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे चतुर्दशः सर्गः ॥ 14 ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने चतुर्दशः सर्गः ॥ 14 ॥