श्रीमद्वाल्मीकीयरामायणम् अयोध्याकाण्डे
एकादशः सर्गः
तं मन्मथशरैर्विद्धं कामवेगवशानुगम् ।
उवाच पृथिवीपालं कैकेयी दारुणं वचः ॥ 2.11.1 ॥
अथ ‘व्यवस्थाप्य महाराजं त्वमिमं वृणुया वरम्’ इति मन्थरयोपदिष्टमनुतिष्ठति–तमित्यादिना ॥ 2.11.1 ॥
नास्मि विप्रकृता देव केन चिन्नावमानिता ।
अभिप्रायस्तु मे कश्चित्तमिच्छामि त्वया कृतम् ॥ 2.11.2 ॥
नास्मीति । विप्रकृता रोगग्रस्ता । नार्थकामा ऽस्मीत्यपि द्रष्टव्यम् । निग्रहानुग्रहपक्षं मनसि कृत्वाह–अभिप्रायः अभिप्रेतोर्थः, अस्तीति शेषः । त्वया कृतं त्वया प्रतिश्रुतम् । तमिच्छामीति सम्बन्धः ॥ 2.11.2 ॥
प्रतिज्ञां प्रतिज्ञानीष्व यदि त्वं कर्तुमिच्छसि ।
अथ तद्व्याहरिष्यामि यदभिप्रार्थितं मया ॥ 2.11.3 ॥
प्रतिज्ञामिति । प्रतिज्ञां प्रतिजानीष्व शपथं कुर्वित्यर्थः ॥ 2.11.3 ॥
तामुवाच महातेजाः कैकेयीमीषदुत्स्मितः ।
कामी हस्तेन संगृह्य मूर्द्धजेषु शुचिस्मिताम् ॥ 2.11.4 ॥
तामिति । ईषदुत्स्मितः भवदाज्ञाकारिणि मयि किं शपथेनेति किञ्चिदुद्गतस्मितः । यद्वा अभिप्रेतकरणमीषत्करमित्युत्स्मितः । यद्वा शङ्कितरोगाद्यभावात् हस्तेन मूर्द्धजेषु संगृह्येति शिरो ऽङ्के कृत्वेति भावः । स्वाभिमुखीकरणाय वेणीमवलम्ब्येतिवार्थः ॥ 2.11.4 ॥
अवलिप्ते न जानासि त्वत्तः प्रियतमा मम ।
मनुजो मनुजव्याघ्राद्रामादन्यो न विद्यते ॥ 2.11.5 ॥
अवलिप्त इति । अवलिप्ते सौभाग्यगर्विते मम त्वत्तः प्रियतमा स्त्रीणां मध्ये त्वत्तः प्रियतमा नास्ति । रामादन्यो मनुजः प्रियतमो न विद्यते इति जानासीति सम्बन्धः ॥ 2.11.5 ॥
तेनाजय्येन मुख्येन राघवेण महात्मना ।
शपे ते जीवनार्हेण ब्रूहि यन्मनसेच्छसि ॥ 2.11.6 ॥
जीवनार्हेण जीवनादपि पूज्येन ॥ 2.11.6 ॥
यं मुहूर्त्तमपश्यंस्तु न जीवेयमहं ध्रुवम् ।
तेन रामेण कैकेयि शपे ते वचनक्रियाम् ॥ 2.11.7 ॥
अस्यैव विवरणम्–यमिति । ते वचनक्रियां तव वचनकरणं प्रतीति शेषः ॥ 2.11.7 ॥
आत्मना वात्मजैश्चान्यैर्वृणेयं मनुजर्षभम् ।
तेन रामेण कैकेयि शपे ते वचनक्रियाम् ॥ 2.11.8 ॥
आत्मनेति । आत्मना स्वदेहेन । आत्मजैः भरतादिभिः । अन्यैश्च प्रियबन्धुभिश्च । मूल्यभूतैरेतैर्यं रामं वृणे सर्वान् परित्यज्यापि राममेव परिगृह्णामीति भावः ॥ 2.11.8 ॥
भद्रे हृदयमप्येतदनुमृश्योद्धरस्व मे ।
एतत्समीक्ष्य कैकेयि ब्रूहि यत्साधुमन्यसे ॥ 2.11.9 ॥
भद्र इति । हे भद्रे मे हृदयं एतत् एतादृशमनुमृश्य शपथवचनानुसारित्वेन निर्धार्य उद्धरस्व उज्जीवय । एतत् वाङ्मनसयोरैकरूप्यम् । समीक्ष्य सम्यगालोच्य । यत्साधु इष्टं मन्यसे तद्ब्रूहि, त्वदभीष्टकरणमेव मज्जीवनम् । अन्यथा न जीवामीत्यर्थः ॥ 2.11.9 ॥
बलमात्मनि पश्यन्ती न मां शङ्कितुमर्हसि ।
करिष्यामि तव प्रीतिं सुकृतेनापि ते शपे ॥ 2.11.10 ॥
बलमिति । आत्मनि बलं त्वयि विद्यमानं दृष्टिचित्तापहारिसौभाग्यबलम् । ॥ 2.11.10 ॥
सा तदर्थमना देवी तमभिप्रायमागतम् ।
निर्माध्यस्थ्याच्च हर्षाच्च बभाषे दुःसहं वचः ॥ 2.11.11 ॥
सेति । तदर्थमनाः मन्थरोपदिष्टरामविवासनपूर्वकभरताभिषेकरूपार्थमनाः । अभिप्रायमागतं स्वाभिमतशपथं प्राप्तं निर्माध्यस्थ्यात् निर्गतमध्यस्थभावात्, पक्षपातादित्यर्थः ॥ 2.11.11 ॥
तेन वाक्येन संहृष्टा तमभिप्रायमागतम् ।
व्याजहार महाघोरमभ्यागतमिवान्तकम् ॥ 2.11.12 ॥
उक्तमर्थं सविशेषमाह–तेनेति । तेन वाक्येन शपथपूर्वकं त्वदभिमतं करिष्यामीत्युक्तदशरथवचनेन ॥ 2.11.12 ॥
यथा क्रमेण शपसि वरं मम ददासि च ।
तच्छृण्वन्तु त्रयस्त्रिंशद्देवाः साग्निपुरोगमाः ॥ 2.11.13 ॥
दशरथवाक्यं दृढीकर्तुं नरस्य धर्माधर्मसाक्षिभूता देवताः श्रावयति–यथा क्रमेणेति । क्रमेण प्रियपुत्रसुकृतक्रमेण । यथा शपसि वरं ददासि च तथा तच्छृण्वन्त्विति सम्बन्धः ॥ 2.11.13 ॥
चन्द्रादित्यौ नभश्चैव ग्रहा रात्र्यहनी दिशः ।
जगच्च पृथिवी चैव सगन्धर्वा सराक्षसा ॥ 2.11.14 ॥
निशाचराणि भूतानि गृहेषु गृहदेवताः ।
यानि चान्यानि भूतानि जानीयुर्भाषितं तव ॥ 2.11.15 ॥
सत्यसन्धो महातेजा धर्मज्ञः सुसमाहितः ।
वरं मम ददात्येष तन्मे श्रृण्वन्तु देवताः ॥ 2.11.16 ॥
चन्द्रादित्याविति । ग्रहाः नवग्रहाः । जगत् लोकः । “लोको विष्टपं भुवनं जगत्” इत्यमरः । लोकश्चात्र स्वर्ग एव ॥ 2.11.1416 ॥
इति देवी महेष्वासं परिगृह्याभिशस्य च ।
ततः परमुवाचेदं वरदं काममोहितम् ॥ 2.11.17 ॥
इतीति । परिगृह्य धर्मपाशेन संयम्य । अभिशस्य सर्वा देवताः साक्षित्वेन श्रृण्वन्त्वित्युद्घुष्य ॥ 2.11.17 ॥
स्मर राजन् पुरावृत्तं तस्मिन् दैवासुरे रणे ।
तत्र चाच्यावयच्छत्रुस्तव जीवितमन्तरा ॥ 2.11.18 ॥
स्मरेति । पूर्ववृत्तमेवाह तत्रेति । तत्र रात्रियुद्धे । अन्तरा मध्ये । तव जीवितम् अच्यावयत् अचालयत् । शस्त्रप्रहारादिना मूर्च्छां प्रापितवानित्यर्थः ॥ 2.11.18 ॥
तत्र चापि मया देव यत्त्वं समभिरक्षितः ।
जाग्रत्या यतमानायास्ततो मे प्राददा वरौ ॥ 2.11.19 ॥
तत्रेति । यतमानायाः सारथ्ये यत्नं कुर्वाणायाः ॥ 2.11.19 ॥
तौ तु दत्तौ वरौ देव निक्षेपौ मृगयाम्यहम् ।
तवैव पृथिवीपाल सकाशे सत्यसङ्गर ॥ 2.11.20 ॥
तौ त्विति । हे पृथवीपाल तव सकाशे एव निक्षेपौ निक्षेपत्वेन स्थापितौ । तौ तु वरौ तावेव वरौ । मृगयामि अन्वेषयामि, इच्छामीत्यर्थः ॥ 2.11.20 ॥
तत् प्रतिश्रुत्य धर्मेण न चेद्दास्यसि मे वरम् ।
अद्यैव हि प्रहास्यामि जीवितं त्वद्विमानिता ॥ 2.11.21 ॥
तदिति । वरमिति जात्येकवचनम् ॥ 2.11.21 ॥
वाङ्मात्रेण तदा राजा कैकेय्या स्ववशे कृतः ।
प्रचस्कन्द विनाशाय पाशं मृग इवात्मनः ॥ 2.11.22 ॥
वाङ्मात्रेणेति । वाङ्मात्रेण पूर्वदत्तवरस्मारकवचनमात्रेण । कैकेय्या स्ववशे कृतः राजा वाङ्मात्रेण मृगशब्दानुकारिणा लुब्धककथितेन । आत्मनो विनाशाय पाशं मृग इव वागुरां मृग इव धर्मपाशं प्रचस्कन्द गतवान् । “स्कन्दिर् गतिशोषणयोः” इति धातुः । वरप्रदानमङ्गीचकारेत्यर्थः । यद्वा वागुरां प्राप्तो मृग इव प्रचस्कन्द शोषणं प्राप्त इत्यर्थः ॥ 2.11.22 ॥
ततःपरमुवाचेदं वरदं काममोहितम् । वरौ यौ मे त्वया देव तदा दत्तौ महीपते ॥ 2.11.23 ॥
तत इत्यादि ॥ 2.11.23 ॥
तौ तावदहमद्यैव वक्ष्यामि शृणु मे वचः ॥ 2.11.24 ॥
ताविति । तौ वरौ वक्ष्यामितौ वरौ विभज्य प्रदातुं प्रकारं वक्ष्यामीत्यर्थः ॥ 2.11.24 ॥
अभिषेकसमारम्भो राघवस्योपकल्पितः ।
अनेनैवाभिषेकेण भरतो मे ऽभिषेच्यताम् ॥ 2.11.25 ॥
यो द्वितीयो वरो देव दत्तः प्रीतेन मे त्वया ।
तदा दैवासुरे युद्धे तस्य कालो ऽयमागतः ॥ 2.11.26 ॥
अभिषेकसमारम्भ इति । अभिषेकसमारम्भः अभिषेकसामग्री । य इति शेषः । अभिषेकेण अभिषेकसामग्र्या ॥ 2.11.2526 ॥
नव पञ्च च वर्षाणि दण्डकारण्यमाश्रितः ।
चीराजिनजटाधारी रामो भवतु तापसः ॥ 2.11.27 ॥
नवेति । चीरं वल्कलम् ॥ 2.11.27 ॥
भरतो भजतामद्य यौवराज्यमकण्टकम् ।
एष मे परमः कामो दत्तमेव वरं वृणे ॥ 2.11.28 ॥
अद्य चैव हि पश्येयं प्रयान्तं राघवं वनम् ॥ 2.11.29 ॥
विलम्बव्यावृत्त्यर्थमाह–भरत इत्यादिना । दत्तमेव, न तु नूतनं किञ्चिदर्थये ॥ 2.11.2829 ॥
स राजराजो भव सत्यसङ्गरः कुलं च शीलं च हि रक्ष जन्म च ।
परत्रवासे हि वदन्त्यनुत्तमं तपोधनाः सत्यवचो हितं नृणाम् ॥ 2.11.30 ॥
सत्यस्यावश्यकर्त्तव्यत्वमाह–स इति । राजराजः स त्वं सत्यसङ्गरः सत्यप्रतिज्ञः भव । तेन सत्यसङ्गरत्वेन कुलादित्रयं रक्ष । सत्यस्य रक्षकत्वमुपपादयति परत्रेति । नृणां हितं सत्यवचः । परत्रवासे स्वर्गलोकादिवासे । अनुत्तमं अत्यन्तोत्तमसाधनं वदन्ति ॥ 2.11.30 ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकादशः सर्गः ॥ 11 ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने श्रीमदयोध्याकाण्डव्याख्याने एकादशस्सर्गः ॥ 11 ॥