श्रीमद्वाल्मीकीयरामायणम् अयोध्याकाण्डे
नवमः सर्गः ।
मन्थरादुर्बोध्नेन विकृतहृदया कैकेयी रामनिर्वासनपूर्वकं भरताभिषेचनं प्रतिज्ञाय मन्थरां प्रत्येव तत्सिद्ध्युपायं पप्रच्छ । मन्थरा दैवासुरसङ्ग्राममुपन्यस्य तत्समये दशरथात्सम्पादितवरयो रामप्रवासनभरताभिषेचनसंसिद्धिं प्रदर्श्य तद्वरणे कैकेयीं चोदयामास । कैकेय्यपि मन्थरामभि -प्रशस्याभरणान्युन्मुच्य क्रोधागारक्षितिमधिशिश्ये । एवमुक्था तु कैकेयी क्रोधेन ज्वलितानना।
दीर्घमुष्णं विनिःश्वस्य मन्थरामिदमब्रवीत्॥2.9.1॥
अद्य राममितः क्षिप्रं वनं प्रस्थापयाम्यहम्। यौवराज्येन भरतं क्षिप्रमद्याभिषेचये॥2.9.2॥
अथ रामगुणज्ञापि कैकेयी कार्यपरैर्देवैः क्षुब्धहृदया सती मन्थरावचनमनुमोदितवतीत्याह—एवमित्यादि । कोपेन दास्यप्राप्तिश्रवणजकोपेन॥1,2॥
इदं त्विदानीं सम्पश्य केनोपयेन साधये। भरतः प्राप्नुयाद्राज्यं न तु रामः कथञ्चन॥2.9.3॥
मन्थराया अतिकुशलबुद्धियोगं दृष्ट्वा तामेवोपायं पृच्छति—इदमिति । इदं प्रस्तुतकार्योपयोगि साधनं सम्पश्य सञ्चिन्तय ॥3॥
एवमुक्ता तु सा देव्या मन्थरा पापदर्शिनी। रामार्थमुपहिंसन्ती कैकेयीमिदमब्रवीत्॥2.9.4॥
एवमिति । रामार्थं रामाभिषेकरूपप्रयोजनम् ॥4॥
हन्तेदानीं प्रपश्य त्वं कैकेयि श्रूयतां वचः। यथा ते भरतो राज्यं पुत्रः प्राप्स्यति केवलम्॥2.9.5॥
हन्तेति । हन्तशब्दो हर्षे वर्तते स्वाभिमतरामविवासनपूर्वकभरताभिषेकोपायप्रश्ननिबन्धनोऽत्र हर्षः वरस्मरणहेतुको वा । मे मत्तः केवलं राज्यं कृत्स्नं राज्यम् ‘निर्णीते केवलमिति त्रिलिङ्गं त्वेककृत्स्नयोः’इत्यमरः ॥5॥
किं न स्मरसि कैकेयि स्मरन्ती वा निगूहसे। यदुच्यमानमात्मार्थं मत्तस्त्वं श्रोतुमिच्छसि॥2.9.6॥
किमिति । हे कैकेयि ! त्वम्च्यमानं त्वया बहुशः कथ्यमानमात्मार्थमात्मप्रयोजनं मत्तः श्रोतुमिच्छसीति यत् अतस्तन्न स्मरसि किं, स्मरन्ती वा निगूहसे किमिति योजना ॥6॥
मयोच्यमानं यदि ते श्रोतुं छन्दो विलासिनि।श्रूयतामभिधास्यामि श्रुत्वा चैतद्विधीयताम्॥2.9.7॥
मयेति । छन्दः अभिलाषः ‘छन्दःपद्येऽभिलाषे च’इत्यमरः ॥7॥
श्रुत्वैवं वचनं तस्या मन्थरायास्तु कैकेयी। किञ्चिदुत्थाय शयनात्स्वास्तीर्णादिदमब्रवीत्॥2.9.8॥
श्रुत्वेति । किञ्चिदुत्थानमादरातिशयात् उत्थानहेतुर्न शय्यादोष इत्याशयेनाह—स्वास्तीर्णादिति॥8॥
कथयस्व ममोपायं केनोपायेन मन्थरे। भरतःप्राप्नुयाद्राज्यं न तु रामः कथञ्चन॥2.9.9॥
एवमुक्ता तदा देव्या मन्थरा पापदर्शिनी। रामार्थमुपहिंसन्ती कैकेयीमिदमब्रवीत्॥2.9.10॥
कथयेति । कथय त्वं ममोपायमित्यस्य विवरणं केनेत्यादि ॥9,10॥
पुरा दैवासुरेयुद्धे सह राजर्षिभिः पतिः। आगच्छत्त्वामुपादाय देवराजस्य साह्यकृत्॥2.9.11॥
दिशमास्थाय कैकेयि दक्षिणां दण्डकान्प्रति। वैजयन्तमिति ख्यातं पुरं यत्र तिमिध्वजः॥2.9.12॥
वरं स्मारयितुं पूर्वकथामाह—तवेत्यादि । श्लोकद्वयमेकान्वयम् । हे कैकेयि ! दैवासुरे देवासुर– सम्बन्धिनि युद्धे तव पतिः देवराजस्य साह्यकृत् साहाय्यकृत्सन् राजर्षिभिः स्वाश्रितैः सह त्वां चोपादायदण्डकान्प्रति दक्षिणां दिशमास्थाय प्राप्य यत्र तिमिध्वजो वर्तते तद्वैजयन्ताख्यं पुरमगच्छदिति सम्बन्धः ॥11,12॥
स शम्बर इति ख्यातः शतमायो महासुरः। ददौ शक्रस्य सण्ग़्ग्रामं देवसङ्घैरनिन्दितः॥2.9.13॥
कस्तिमिध्वजः स कीदृशः स कमपराधं कृतवानित्यत्राह—स इति । देवसङ्घैः अनिर्जितः देवसङ्घान्पराभूय शक्राय युद्धं ददावित्यर्थः ॥13॥
तस्मिन्महति सङ्ग्रामे पुरुषान्क्षतविक्षतान्। रात्रौ प्रसुप्तान्घ्नन्ति स्म तरसापास्य राक्षसाः॥2.9.14॥
तस्मिन्निति । क्षताः बाणशूलादिभिः सञ्जातव्रणाः विक्षताः खड्गपरशुपट्टिशादिभिर्विविधप्रहृताः तान् रात्रौ प्रसुप्तान् घ्नन्ति स्मेत्यभिधानात् पुरुषाणां क्षतविक्षतत्वं दिवायुद्धकृतमित्यव—गम्यते। राक्षसाः असुराः ॥14॥
तत्राकरोन्महायुद्धं राजा दशरथस्तदा। असुरैश्च महाबाहुः शस्त्रैश्च शकलीकृतः॥2.9.15॥
तत्रेति। तत्र प्रसुप्तप्रदेशेतदा रात्रौ ॥15॥
अपवाह्य त्वया देवि सङ्ग्रामान्नष्टचेतनः। तत्रापि विक्षतः शस्त्रैः पतिस्ते रक्षितस्त्वया॥2.9.16॥
अपवाह्येति । हे देवि ! नष्टचेतनः मूर्च्छितः ते पतिः त्वया सारथ्यं कुर्वाणया सङ्ग्रामादपवाह्य अन्यत्र नीत्वा रक्षितः शीतोपचारैराप्यायितः तत्र यत्रापवाहितस्तस्मिन्स्थले शस्त्रैर्विक्षतः पुनर्युद्धे शस्त्रैः विक्षतः सन् त्वया रक्षितः ततोपवाह्य रक्षित इति योजना ॥16॥
तुष्टेन तेन दत्तौ ते द्वौ वरौ शुभदर्शने। स त्वयोक्तः पतिर्देवि यदिच्छेयं तदा वरम्॥2.9.17॥
तुष्टेनेत्यर्धमेकं वाक्यम् । द्विधा रक्षणात् द्वौ वरौ दत्ताविति भावः ॥17॥
गृह्णीयां तु तदा भर्तस्तथेत्युक्तं महात्मना। अनभिज्ञा ह्यहं देवि त्वयैव कथितं पुरा॥2.9.18॥
स इतुइ । इच्छेयमित्यर्हार्थे लिङ् । तेन दशरथेन तत् वरं तथा इच्छया ददानीत्युक्तम् ॥18॥
कथैषा तव तु स्नेहान्मनसा धार्यते मया। रामाभिषेकसम्भारान्निगृह्य विनिवर्तय ॥2.9.19॥
कथमिदं त्वया ज्ञातमित्यत्राह—अनभिज्ञेति ॥19॥
तौ च याचस्व भर्तारं भरतस्याभिषेचनम्। प्रव्राजनं च रामस्य वर्षाणि च चतुर्दश॥2.9.20॥
रामाभिषेके इत्यादि । सार्धश्लोक एकान्वयःनिग्रह्य बलात्कृत्य भर्तारमिति शेषः, रामप्रव्राजनभरताभिषेचनरूपौ तौ वरौ याचस्व ॥20॥
चतुर्दश हि वर्षाणि रामे प्रव्राजते वनम्। प्रजाभावगतस्नेहः स्थिरः पुत्रो भविष्यति॥2.9.21॥
चतुर्दश संख्या किमर्थेत्यत्राह—चतुर्दशेति । प्रजाभावगतस्नेहः प्रजानां भावमभिप्रायं गतः प्राप्तः स्नेहो यस्य स तथोक्तः स्थिरः अप्रकम्प्यः॥21॥
क्रोधागारं प्रविशाद्य क्रुद्धेवाश्वपतेः सुते। शेष्वानन्तर्हितायां त्वं भूमौ मलिनवासिनी॥2.9.22॥
एवमुपायमुपदिश्य उपायप्रवर्तनप्रकारमाह—क्रोधेति । प्रणयकलहादिना क्रुद्धाः स्त्रियो यत्र वसन्ति तत् क्रोधागारमनन्तहितायामनासृतायाम्॥22॥
मा स्मैनं प्रत्युदीक्षेथा मा चैनमभिभाषथाः। रुदन्ती पार्थिवं दृष्ट्वा जगत्यां शोकलालसा॥2.9.23॥ मा स्मेति । तं दृष्ट्वा रुदन्ती शोकलालसा च सती एनं मा प्रत्युदीक्षेथाः मा चैनमभिभाषथा इत्यन्वयः । जगत्यां भूमौ शयानेति शेषः ॥23॥
दयिता त्वं सदा भर्तुरत्र मे नास्ति संशयः। त्वत्कृते च महाराजो विशेदपि हुताशनम् ॥2.9.24॥
न त्वां क्रोधयितुं शक्तो न क्रुद्धां प्रत्युदीक्षितुम्। तव प्रियार्थं राजा तु प्राणानपि परित्यजेत्॥2.9.25॥ एवंकरणे झटिति कार्यसिद्धिर्भविष्यतीत्याह—दयितेति । अत्र दयितात्वविषये त्वत्कृते त्वत्प्रीतिनिमित्तम्॥24,25॥
न ह्यतिक्रमितुं शक्तस्तव वाक्यं महीपतिः। मन्दस्वभावे बुध्यस्व सौभाग्यबलमात्मनः॥2.9.26॥
नेति । मन्दस्वभावे अलसस्वभावे सौभाग्यबलं सौन्दर्यबलम्॥26॥
मणिमुक्तासुवर्णानि रत्नानि विविधानि च। दद्याद्दशरथो राजा मा स्म तेषु मनः कृथाः॥2.9.27॥
वरदानव्यतिरिक्तं मण्यादिकं च स्वीकुर्वित्याह—मणीति । मणयः रत्नानि मुक्ताश्चेत्येकवद्भावः मणिमुक्तं रत्नानि श्रेष्ठवस्तूनि ‘रत्नं स्वजातौ श्रेष्ठेऽपि’इत्यमरः॥27॥
यौ तौ देवासुरे युद्धे वरौ दशरथो ददौ। तौ स्मारयमहाभागे सोऽर्थो न त्वा क्रमेदति॥2.9.28॥
यौ ताविति ।यत्तच्छब्दप्रयोगः प्रसिद्ध्यतिशयद्योतनार्थः तौ स्मारय दातव्यत्वेनेति शेषः।सोऽर्थः रामविवासनभरताभिषेकरूपार्थः नातिक्रमेत्सर्वथा सिद्ध्यत्येवेत्यर्थः राज्ञः सत्यप्रतिज्ञस्वादिति भावः॥28॥
यदा तु ते वरं दद्यात्स्वयमुत्थाप्य राघवः। व्यवस्थाप्य महाराजं त्वमिमं वृणुया वरम्॥2.9.29॥
रामप्रव्रजनं दूरं नव वर्षाणि पञ्च च। भरतः क्रियतां राजा पृथिव्यां पार्थिवर्षभ॥2.9.30॥
यदेति । राघवः दशरथः व्यवस्थाप्य सत्ये स्थापयित्वा ॥29,30॥
चतुर्दश हि वर्षाणि रामे प्रव्राजिते वनम्। रूढश्च कृतमूलश्च शेषं स्थास्यति ते सुतः॥2.9.31॥
चतुर्दशेति । रूढः प्रसिद्धः अभिवृद्धो वा कृतमूलः स्ववशीकृतमूलबल इत्यर्थः । शेषं चतुर्दशवर्षव्यतिरिक्तं पुरुषायुषशेषम्॥31॥
रामप्रव्राजनं चैव देवि याचस्व तं वरम्। एवं सेत्स्यन्ति पुत्रस्य सर्वार्थास्तव कामिनि॥2.9.32॥
रामप्रव्राजनमिति । रामप्रव्राजनं चेति चकारेण भरताभिषेकः समुच्चीयते॥32॥
एवं प्रव्राजितश्चैव रामोरामो भविष्यति। भरतश्च गतामित्रस्तव राजा भविष्यति॥2.9.33॥
एवमिति । रामोराम इत्यत्र अराम इति पदच्छेदः अरामो भविष्यति इदानीमेव प्रकृतिस्नेहपात्रं न भविष्यतीत्यर्थः । यद्वा रामो भविष्यति एक एव भविष्यतीत्यर्थः॥33॥
येन कालेन रामश्च वनात्प्रत्यागमिष्यति। अन्तर्बहिश्च पुत्रस्ते कृतमूलो भविष्यति॥2.9.34॥
येनेति । कृतमूलः रूढ्मूलः कृतमूल इत्यस्यैव विवरणं सङ्गृहीतेत्यर्थं सङ्गृहीतमनुष्यश्चेत्यत्र भविष्यतीत्यनुषज्यते सङ्गृहीताः अनुरञ्जिताः मनुष्याः पौरजानपदाः येन स तथोक्तः तत्र हेतुरात्मवानिति ॥34॥
सङ्गृहीतमनुष्यश्च सुहृद्भिः साकमात्मवान्। प्राप्तकालं नु मन्येहं राजानं वीतसाध्वसा॥2.9.35॥
प्राप्तकालमिति । प्राप्तकालमभिमतप्रार्थनोचितकालं वीतसाध्वसा विगतभया अमुं कालं प्राप्तकालं मन्ये तेन विनिवर्तयेति सम्बन्धः ॥35॥
रामाभिषेकसङ्कल्पान्निगृह्य विनिवर्तय। अनर्थमर्थरूपेण ग्राहिता सा ततस्तया॥2.9.36॥
हृष्टा प्रतीता कैकेयी मन्थरामिदमब्रवीत्। सा हि वक्येन कुब्जायाः किशोरीवोत्पथं गता॥2.9.37॥
अनर्थमिति ।अनर्थं विरुद्धार्थमर्थरूपेण अनुकूलार्थरूपेण ग्राहिता बोधिता तथैव प्रतीता ज्ञातवती अत एव हृष्टा सेति प्रतीतेत्यस्योपपादनमेतत् किशोरीवडवा उत्पथममार्गं परमदर्शना पुरेति शेषः ॥36,37॥
कैकेयी विस्मयं प्राप्य परं परमदर्शना। प्रज्ञां ते नावजानामि श्रेष्ठे श्रेष्ठाभिदायिनि॥2.9.38॥
पृथिव्यामासि कुब्जानामुत्तमा बुद्धिनिश्चये। त्वमेव तु ममार्थेषु नित्ययुक्ता हितैषिणी॥2.9.39॥
कुब्ज इति । नाभिजानामीति एतावत्कालमिति शेषः । पृथिव्यामिति । पृथिव्यां यावत्यः कुब्जाः सन्ति तासां सर्वासां मध्ये त्वमुत्तमा बुद्धिनिश्चये विषये अनेन कुब्जानां प्रायेण बुद्धितैक्ष्ण्यमस्तीति द्योतितम् । त्वमेवेति- सम्भवबुद्ध्येयमिति “शकि- लिङ्”॥38,39॥
नाहं समवबुध्येयं कुब्जे राज्ञश्चिकीर्षितम्। सन्ति दुःसंस्थिताः कुब्जे वक्राः परमपापिकाः॥2.9.40॥
सन्तीति । दुःसंस्थिताः दुःसन्निवेशाः ॥40॥
त्वं पद्ममिव वातेन सन्न्ता प्रियदर्शना। उरस्तेभिनिविष्टं वै यावधस्तात् त्स्कन्धात्समुन्नतम्॥2.9.41॥
उर इति । ते उरः अभिनिविष्टमभिनिवेशवत्सत् स्कन्धाभ्यां स्पर्धमानं सत् यावत् स्कन्धात्स्कन्धपर्यन्तं समुन्नतमित्युत्प्रेक्षा अधस्तात् उरसोधस्तात् स्थितं सुनाभं शोभननाभि योगविभागादच् उदरं उरसः सजातीयस्य उन्नतिं दृष्ट्वा लज्जितमिव शतं कृशम्॥41॥
अधस्ताच्चोदरं शान्तं सुनाभमिव लज्जितम्। प्रतिपूर्णं च जघनं सुपीनौ च पयोधरौ॥2.9.42॥
परिपूर्णमिति । परिपूर्णं पृथुलम् ॥42॥
विमलेन्दुसमं वक्रमहो राजसि मन्थरे। जघनं तव निमृष्टं रशनादामभूषितम्॥2.9.43॥
जघनमिति । उपन्यस्ते संश्लिष्टे सुसन्निवेशे वा आयतौ दीर्घौ ॥43॥
जङ्घे भृशमुपन्यस्ते पादौ च व्यायतावुभौ। त्वमायताभ्यां सक्थिभ्यां मन्थरे क्षौमवासिनि॥2.9.44॥
त्वमिति । सक्थिभ्यामूरुभ्यां ‘सक्थि क्लीबे पुमानूरुः’इत्यमरः । उपलक्षणे तृतीया ॥44॥
अग्रतो मम गच्छन्ती राजसेतीव शोभने। आसन्याः शम्बरे मायाः सहस्रमसुराधिपे॥2.9.45॥
आसन्निति । अन्याः लौकिक्यः मायाः ॥45॥
हृदये ते निविष्टास्ता भूयश्चान्याः सहस्रशः। तदेव स्थगु यद्दीर्घं रथघोणमिवायतम्॥2.9.46॥
मतयः क्षत्रविद्याश्च मायाश्चात्र वसन्ति ते। अत्र तेहं प्रमोक्ष्यामि मालां कुब्जे हिरण्मयीम्॥2.9.47॥
तवेति । स्थगु उरो निसृतोन्नतविकृतावयवविशेषः । रथघोणं नासिकाकाररथावयवविशेषः । ‘स्मृतिर्व्यतीतविषया मतिरागामिगोचरा । बुद्धिस्तात्कालिकी ज्ञेया प्रज्ञा त्रैकालिकी मता ’इत्युक्तविषयविभागेन मतेर्बाहुल्यम् । क्षत्रविद्याः राजनीतयः, मायाः विचित्रकुत्सितशक्तयः । अत्र स्थगुनि ॥46,47॥
अभिषिक्ते च भरते राघवे च वनं गते। जात्येन च सुवर्णेन सुनिष्टप्तेन सुन्दरि॥2.9.48॥
लब्धार्था च प्रतीता च लेपयिष्यामि ते स्थगु। जात्येनति । उत्तमस्वर्णजातौ भवं जात्यं दिगादित्वाद्यत् सुनिष्टप्तेन सुद्रुतेन सुवर्णेन लेपयिष्यामि सुवर्णकञ्चुकेनालङ्करिष्यामीत्यर्थः । यद्वा चन्दनसङ्घृष्टसुवर्णेन सह लेपयिष्यामीत्यर्थः । प्रतीता सन्तुष्टा ॥48,॥
मुखे च तिलकं चित्रं जातरूपमयं शुभम्॥2.9.49॥
कारयिष्यामि ते कुब्जे शुभान्याभरणानि च। परिधाय शुभे वस्त्रे देवतेव चरिष्यसि॥2.9.50॥
मुखे चेति । जातरूपमयं सुवर्णमयं चित्रं नानारत्नखचिततया नानावर्णं तिलकं तिलकाकारं भूषणम् ॥49,50॥
चन्द्रमाह्वयमानेन मुखेनाप्रतिमानना। गमिष्यसि गतिं मुख्यां गर्वयन्ती द्विषज्जने॥2.9.51॥
तवापि कुब्जाः कुब्जायाः सर्वाभरण्भूषिताः। पादौ परिचरिष्यन्ति यथईव त्वं सदा मम॥2.9.52॥
इति प्रशस्यमाना सा कैकेयीमिदमब्रवीत्। शयानां शयने शुभ्रे वेद्यामग्निशिखामिव॥2.9.53॥
चन्द्रमिति ।आह्वयमानेन स्पर्धमानेन “स्पर्धायामाङः”इत्यात्मनेपदं मुखेन हेतुना अप्रतिमानना अप्रतिद्वन्द्वमुखी द्विषज्जनं मत्सपत्नीजनं प्रति गर्वयन्ती गर्वं कुर्वन्ती गर्वशब्दात्तकरोतीतिण्यन्तात् शत्रादि स्वार्थे णिजित्येके । मुख्यां तृणीकृतसर्वजनां गतिं पादन्यासविशेषं गमिष्यसि करिष्यसि ओदनपाकं पचतीतिवन्निर्देशः॥51-53॥
गतोदके सेतुबन्धो न कल्याणि विधीयते। उत्तिष्ठ कुरु कल्याणं राजानमनुदर्शय॥2.9.54॥
गतोदक इति । हे कल्याणि! कुरु मदुक्तप्रकारमिति शेषः। यद्वा अनुदर्शय प्रतीक्षस्वेत्यर्थः॥54॥
तथा प्रोत्साहिता देवी गत्वा मन्थरया सह। क्रोधागारं विशालाक्षी सौभाग्यमदगर्विता॥2.9.55॥
अनेकशतसाहस्रं मुक्ताहारं वराङ्गना। अवमुच्य वरार्हाणि शुभान्याभरणानि च॥2.9.56॥
तदा हेमोपमा तत्र कुब्जावाक्यवशंगता। सम्विश्य भूमौ कैकेयी मन्थरामिदमब्रवीत्॥2.957॥
तथा प्रोत्साहितेत्यादिश्लोकत्रयमेकान्वयम्। अनेकशतसाहस्रं बहुमूल्यमिति यावत् “शतमानविंशतिक-इत्यादिना क्रीतार्थेण् ॥55–57॥
इह वा मां मृतां कुब्जे नृपायावेदयिष्यसि।वनं तु राघवे प्राप्ते भरतः प्राप्स्यते क्षितिम्॥2.9.58॥
सुवर्णेन न मे ह्यार्थो न रत्नैर्न च भोजनैः। एष मे जीवितस्यान्तो रामो यद्यभिषिच्यते॥2.9.59॥
इहेति । नृपाय मदुपेक्षकाय ॥58,59॥
अथो पुनस्तां महिषीं महीक्षितो वचोभिरत्यर्थमहापराक्रमैः। उवाच कुब्जा भरतस्य मातरं हितं वचो राममुपेत्य चाहितम्॥2.9.60॥
प्रपत्स्यते राज्यमिदं हि राघवो यदि ध्रुवं त्वं ससुता च तप्स्यसे। ततो हि कल्याणि यतस्व यत्तथा यथा सुतस्ते भरतोभिशेक्ष्यते॥2.9.61॥
कैकेयीनिश्चयं द्रढयति—अथो इति । राममुपेत्य चाहितम्॥60,61॥
तथातिविद्धा महिषीति कुब्जया समाहता वागिषुभिर्मुहुर्मुहुः। विधाय हस्तौ हृदयेतिविस्मिता शशंस कुब्जां कुपिता पुनः पुनः॥2.9.62॥
यमस्य वा मां विषयं गतामितो निशम्य कुब्जे प्रतिवेदयिष्यसि। वनं गते वा सुचिराय राघवे समृद्धकामो भरतो भविष्यति॥2.9.63॥
तथेति । अतिविद्धा अतिदुःखिता निधाय हस्तौ हृदय इति विस्मयाभिनयः अतिविस्मिता अतिस्निग्धा कथं मदनिष्टं करिष्यतीति कुपिता रामाभिषेकप्रवर्तकं भर्तारमुद्दिश्य कुपितेत्यर्थः॥62,63॥
अहं हि नैवास्तरणानि न स्रजो न चन्दनं नाञ्जनपानभोजनम्। न किञ्चिदिच्छामि न चेह जीवनं न चेदितो गच्छति राघवो वनम्॥2.9.64॥
अहमिति । इतो गच्छतीति वर्तमानसामीप्ये लट् ॥64॥
अथैवमुक्त्वा वचनं सुदारुणं निधाय सर्वाभरणानि भामिनी। असंस्कृतामास्तरणेन मेदिनीं तदाधिशिश्ये पतितेव किन्नरी॥2.9.65॥
अथेति । मेदिनीमधिशिश्ये ‘अधिशीङ्स्थासां कर्म’इति सप्तम्यर्थे द्वितीया॥65॥
उदीर्णसंरम्भतमोवृतानना तदावमुक्तोत्तममाल्यभूषणा। नरेन्द्रपत्नी विमना बभूव सा तमोवृता द्यौरिव मग्नतारका॥2.9.66॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकाण्डे नवमः सर्गः ॥ 9 ॥
उदीर्णेति । उदीर्णः उत्कटः संरम्भः कोपः स एव तमः तेन वृतानना विमला पूर्वं विमला तमोवृता नीलाभ्रयुक्ततमोवृता मग्नतारका अस्तमिततारका द्यौराकाशम्॥66॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्यानेऽयोध्याकाण्डव्याख्याने नवमः सर्गः॥