००५ वसिष्ठकृतव्रतादेशः

श्रीमद्वाल्मीकीयरामायणम् अयोध्याकाण्डे
पञ्चमः सर्गः ।

दशरथोक्तो वसिष्ठो रामनिवेशनं प्राप्य ससीतं रामं वेदव्रताचरणं निवेद्य दशरथान्तिकं ययौ। सभ्याश्च वसिष्ठमभितस्थुः। वसिष्ठेन कृताभ्यनुज्ञो दशरथः सभाजनं विसृज्यान्तःपुरं प्रविवेश ।

सन्दिश्य रामं नृपतिः श्वो-भाविन्य् अभिषेचने ।
पुरोहितं समाहूय वसिष्ठम् इदम् अब्रवीत् ॥ २.५.१ ॥

अथोपवासस्य पुरोहित-सङ्कल्प-मन्त्रादि-साध्यत्वात्
पुरोहितं संदिशति पञ्चमे— संदिश्येति
व्रतोपवासादिकं कुर्वित्य् अनुज्ञाप्य ॥ १ ॥

गच्छोपवासं काकुत्स्थं कारयाद्य तपोधन ।
श्रेयसे राज्य-लाभाय वध्वा सह यत-व्रतम् ॥ २.५.२ ॥

गच्छेति। काकुत्स्थम् उपवासं कारय।
“हृ-क्रोर् अन्यतरस्याम्” इति विकल्पेन काकुत्स्थ-शब्दस्य कर्म-संज्ञा ॥ २ ॥

तथेति च स राजानम् उक्त्वा वेद-विदां वरः ।
स्वयं वसिष्ठो भगवान् ययौ राम-निवेशनम् ॥ २.५.३ ॥ उपवासयितुं वीरं मन्त्र-विन् मन्त्र-कोविदम् ।
ब्राह्मं रथ-वरं युक्तम् आस्थाय सुधृत-व्रतः ॥ २.५.४ ॥

तथेतीति
ब्राह्मं—ब्राह्मण-वहन-योग्यम्।
युक्तं—वाजिभिर् युक्तम्। आस्थाय ययौ इति पूर्वेण संबन्धः ॥ ३, ४ ॥

स राम-भवनं प्राप्य पाण्डुराभ्र-घन-प्रभम् ।
तिस्रः कक्ष्या रथेनैव विवेश मुनि-सत्तमः ॥ २.५.५ ॥

इति। पाण्डुराभ्र-घन-प्रभं—पाण्डुराभ्र-मूर्ति-सदृश-प्रभम्। “घनो मेघे मूर्ति-गणे त्रिषु मूर्ते निरन्तरे” इत्य् अमरः ॥ ५ ॥

तम् आगतम् ऋषिं रामस् त्वरन्न् इव स-संभ्रमम् ।
मानयिष्यन् समानार्हं निश्चक्राम निवेशनात् ॥ २.५.६ ॥

तम् इति। त्वरन्न् इव—इव-शब्दो वाक्यालङ्कारे। मानयिष्यन्—माननाद् धेतोः। “लक्षण-हेत्वोः क्रियायाः” इति हेत्व्-अर्थे शतृ-प्रत्ययः ॥ ६ ॥

अभ्येत्य त्वरमाणोऽथ रथाभ्याशं मनीषिणः ।
ततोऽवतारयामास परिगृह्य रथात् स्वयम् ॥ २.५.७ ॥

अभ्येत्येतिरथाभ्याशं—रथ-समीपम् ॥ ७ ॥

स चैनं प्रश्रितं दृष्ट्वा सम्भाष्याभिप्रसाद्य च ।
प्रियार्हं हर्षयन् रामम् इत्य् उवाच पुरोहितः ॥ २.५.८ ॥

इति। प्रश्रितं—विनीतम्। ‘विनीत-प्रश्रितौ’ इत्य् अमरः। सम्भाष्य—कुशल-प्रश्नं कृत्वा। ‘सभाज्य’ इति पाठे कुशल-प्रश्नाधीन-प्रीतिं जनयित्वेत्य् अर्थः। ‘सभाज-प्रीति-सेवनयोः’ इत्य् अस्माद् धातोर् आर्षो ल्यप्। प्रियार्हं—प्रिय-कथनार्हम् ॥ ८ ॥

प्रसन्नस् ते पिता राम यत् त्वं राज्यम् अवाप्स्यसि ।
उपवासं भवान् अद्य करोतु सह सीतया ॥ २.५.९ ॥ प्रातस् त्वाम् अभिषेक्ता हि यौवराज्ये नराधिपः ।
पिता दशरथः प्रीत्या ययातिं नहुषो यथा ॥ २.५.१० ॥ इत्य् उक्त्वा स तदा रामम् उपवासं यत-व्रतः ।
मन्त्रवत् कारयामास वैदेह्या सहितं शुचिः ॥ २.५.११ ॥

प्रसन्न इति ॥ ९–११ ॥

ततो यथावद् रामेण स राज्ञो गुरुर् अर्चितः ।
अभ्यनुज्ञाप्य काकुत्स्थं ययौ राम-निवेशनात् ॥ २.५.१२ ॥

तत इति। काकुत्स्थम् अभ्यनुज्ञाप्य—अश्रुयान्तं रामं निवर्तस्वेत्य् उक्त्वा। ययौ—निर्ययौ ॥ १२ ॥

सुहृद्भिस् तत्र रामोऽपि सहासीनः प्रियंवदैः ।
सभाजितो विवेशाथ तान् अनुज्ञाप्य सर्वशः ॥ २.ई.१३ ॥

सुहृद्भिर् इत्यादि ॥ १३ ॥

हृष्ट-नारी-नर-युतं राम-वेश्म तदा बभौ ।
यथा मत्त-द्विज-गणं प्रफुल्ल-नलिनं सरः ॥ २.५.१४ ॥

हृष्टेति ॥ १४ ॥

स राज-भवन-प्रख्यात् तस्माद् राम-निवेशनात् ।
निर्गत्य ददृशे मार्गे वसिष्ठो जन-संवृतम् ॥ २.५.१५ ॥

इति ॥ १५ ॥

वृन्द-वृन्दैर् अयोध्यायां राज-मार्गाः समन्ततः ।
बभूवुर् अभिसंबाधाः कुतूहल-जनैर् वृताः ॥ २.५.१६ ॥

वृन्द-वृन्दैर् इति। वृन्दानुबद्धानि वृन्दानी येषां ते वृन्द-वृन्दाः, तैः कुतूहल-जनैः वृताः राज-मार्गाः अभिसम्बाधा निबिडा बभूवुर् इति योजना। ‘वृन्द-वृन्दम्’ इति पाठे वृन्द-वृन्दं यथा भवति तथा स्थितैर् इति शेषः ॥ १६ ॥

जन-वृन्दोर्मि-सङ्घर्ष-हर्ष-स्वन-वृतस् तदा ।
बभूव राज-मार्गस्य सागरस्येव निःस्वनः ॥ २.५.१७ ॥

जन-वृन्देति। जन-वृन्दान्य् एव ऊर्मयः, तेषां सङ्घर्षः—अन्योन्य-घटनं, हर्षः—आनन्दोद्रेकः, ताभ्यां जनितः स्वनोऽस्यास्तीति स्वनवान्, तस्य। एतेन सागरोपमा समर्थिता ॥ १७ ॥

सिक्त-संमृष्ट-रथ्या हि तथा च वन-मालिनी ।
आसीद् अयोध्या तद्-अहः समुच्छ्रित-गृह-ध्वजा ॥ २.५.१८ ॥

सिक्तेतितद्-अहः—तस्मिन्न् अहनि। वन-मालिनी—अलङ्कारार्थं विरचित-क्रमुक-कदल्यादि-वन-पङ्क्ति-युक्तेति यावत् ॥ १८ ॥

तदा ह्य् अयोध्या-निलयः स-स्त्री-बालाकुलो जनः ।
रामाभिषेकम् आकाङ्क्षन्न् आकाङ्क्षन्न् उदयम् रवेः ॥ १९ ॥

तदेतिस-स्त्री-बालाबलः—अबलाः बल-रहिताः वृद्धा इति यावत्। “रामाभिषेकम् आकाङ्क्षन्न् आकाङ्क्षद् उदयं रवेः” इति रामाभिषेकार्थम् उदयम् आकाङ्क्षद् इत्य् अर्थः। श्वो रामाभिषेक इति वार्ता यदा समजनि तदा प्रभृति रामाभिषेकादरातिशयेन आहार-निद्रादि-व्यापारान् विहाय पर-दिवस-सूर्योदयम् आकाङ्क्षद् इति भावः ॥ १९ ॥

प्रजालङ्कार-भूतं च जनस्यानन्द-वर्धनम् ।
उत्सुकोऽभूज् जनो द्रष्टुं तम् अयोध्या-महोत्सवम् ॥ २.५.२० ॥

प्रजालङ्कार-भूतम् इति। प्रजालङ्कार-भूतं—प्रजालङ्करण-हेतु-भूतं, प्रजालङ्कार-प्रचुरम् इति वा ॥ २० ॥

एवं तज्-जन-सम्बाधं राज-मार्गं पुरोहितः ।
व्यूहन्न् इव जनौघं तं शनै राज-कुलं ययौ ॥ २.५.२१ ॥ सिताभ्र-शिखर-प्रख्यं प्रासादम् अधिरुह्य च ।
समीयाय नरेन्द्रेण शक्रेणेव बृहस्पतिः ॥ २.५.२२ ॥

एवम् इति। राज-मार्गं पश्यन्न् इति शेषः। तं जनौघं व्यूहन्न् इव—रामाभिषेक-जनितानन्द-निर्भरं जनौघं तत्र तत्र समूहीकुर्वन्न् इव। शनै राज-कुलं—राज-गृहं ययौ ॥ २१, २२ ॥

तम् आगतम् अभिप्रेक्ष्य हित्वा राजासनं नृपः ।
पप्रच्छ स्व-मतं तस्मै कृतम् इत्य् अभिवेदयत् ॥ २.५.२३ ॥

तम् इति। नृपो दशरथः राजासनं—स्वाधिष्ठितं सिंहासनं हित्वा—प्रत्युत्थायेत्य् अर्थः। पप्रच्छ—किं रामस्योपवासः कारित इतीति शेषः। सः वसिष्ठस् तस्मै दशरथाय तत् उपवास-करणम् अभिवेदयत् ॥ २३ ॥

तेन चैव तदा तुल्यं सहासीनाः सभासदः ।
आसनेभ्यः समुत्तस्थुः पूजयन्तः पुरोहितम् ॥ २.५.२४ ॥ गुरुणा त्व् अभ्यनुज्ञातो मनुजौघं विसृज्य तम् ।
विवेशान्तःपुरं राजा सिंहो गिरि-गुहाम् इव ॥ २.५.२५ ॥

तेनेतितदा दशरथ-समुत्थान-काले तुल्यं—युगपत् ॥ २४, २५ ॥

तद् अग्र्य-वेष-प्रमदा-जनाकुलं महेन्द्र-वेश्म-प्रतिमं निवेशनम् ।
व्यदीपयंश् चारु विवेश पार्थिवः शशीव तारा-गण-संकुलं नभः ॥ २.५.२६ ॥

तत् इति। व्यदीपयन्। तेजो-विशेषेण द्योतयन् ॥ २६ ॥

इत्य् आर्षे श्रीमद्-रामायणे वाल्मीकीये आदि-काव्ये अयोध्या-काण्डे पञ्चमः सर्गः।

इति श्री-गोविन्द-राज-विरचिते श्री-रामायण-भूषणे पीताम्बराख्याने अयोध्या-काण्ड-व्याख्याने पञ्चमः सर्गः ॥ ५ ॥