००५ वसिष्ठकृतव्रतादेशः

श्रीमद्वाल्मीकीयरामायणम् अयोध्याकाण्डे
पञ्चमः सर्गः ।

दशरथोक्तो वसिष्ठो रामनिवेशनं प्राप्य ससीतं रामं वेदव्रताचरणं निवेद्य दशरथान्तिकं ययौ। सभ्याश्च वसिष्ठमभितस्थुः। वसिष्ठेन कृताभ्यनुज्ञो दशरथः सभाजनं विसृज्यान्तःपुरं प्रविवेश ।

सन्दिश्य रामं नृपतिः श्वोभाविन्यभिषेचने। पुरोहितं समाहूय वसिष्ठमिदमब्रवीत्॥2.5.1॥

अथोपवासस्य पुरोहितस्ङ्कल्पमन्त्रादिसाध्यत्वात्पुरोहितं संदिशति पञ्चमे—संदिश्येति। व्रतोपवासादिकं कुर्वित्यनुज्ञाप्य॥1॥

गच्छोपवासं काकुत्स्थं कारयाद्य तपोधन। श्रेयसे राज्यलाभाय वध्वा सहयतव्रत॥2.5.2॥

गच्छेति ।काक्त्स्थमुपवासं कारय “हृक्रोरन्यतरस्याम्” इति विकल्पेन काकुत्स्थशब्दस्य– कर्मसज्ञा॥2॥

तथेति च स राजानमुक्त्वा वेदविदां वरः। स्वयं वसिष्ठो भगवान्ययौ रामनिवेशनम्॥2.5.3॥

उपवासयितुं वीर मन्त्रविन्मन्त्रकोविदम्। ब्राह्मं रथवरं युक्तमास्थाय सुधृतव्रतः॥2.5.4॥

तथेतीति।ब्राह्मं ब्राह्मणवहनयोग्यंयुक्तं वाजिभिर्युक्तमास्थाय ययाविति पूर्वेण संबन्धः॥3,4॥

स रामभवनं प्राप्य पाण्डुराभ्रघनप्रभम्। तिस्रः कक्ष्या रथेनैव विवेश मुनिसत्तमः॥2.5.5॥

स इति । पाण्डुराभ्रघनप्रभं पाण्डुराभ्रमूर्तसदृशप्रभम्“घनो मेघे मूर्तिगणे त्रिषु मूर्ते निरन्तरे” इत्यमरः॥5॥

तमागतमृषिं रामस्त्वरन्निव ससंभ्रमम्। मानयिष्यन्समानार्हं निश्चक्राम निवेशनात्॥2.5.6॥

तमिति । त्वरन्निव इव शब्दो वाक्यालङ्कारे मानयिष्यन् माननाद्धेतोः “लक्षणहेत्वोः क्रियायाः” इति हेत्वर्थे श्तृप्रत्ययः॥6॥

अभ्येत्य त्वरमाणोऽथ रथाभ्याशं मनीषिणः। ततोऽवतारयामास परिगृह्यरथात्स्वयम्॥2.5.7॥

अभ्येत्येति । रथाभ्याशं रथसमीपम्॥7॥

स चैनं प्रश्रितं दृष्ट्वा सम्भाष्याभिप्रसाद्य च। प्रियार्हं हर्षयन्राममित्युवाचपुरोहितः॥2.5.8॥

स इति । प्रश्रितं विनीतम् ‘विनीतप्रश्रितौ’इत्यमरः ।संभाष्य कुशलप्रश्नं कृत्वा ‘सभाज्य’इतिपाठे कुशलप्रश्नाधीनप्रीतिं जनयित्वेत्यर्थः । सभाजप्रीतिसेवनयोरियस्माद्धातोरार्षो ल्यप् । प्रियार्हं प्रियकथनार्हम्॥8॥

प्रसन्नस्ते पिता राम यत्त्वं राज्यमवाप्स्यसि। उपवासं भवानद्य करोतु सह सीतया॥2.5.9॥

प्रातस्त्वामभिषिक्ता हि यौवराज्ये नराधिपः। पिता दशरथः प्रीत्या ययातिं नहुषो यथा॥2.5.10॥

इत्युक्त्वा स तदा राममुपवासं यतव्रतः। मन्त्रवत्कारयामास वैदेह्या सहितं शुचिः॥2.5.11॥

प्रसन्न इति ॥9–11॥

ततो यथावद्रामेण स राज्ञो गुरुरर्चितः। अभ्यनुज्ञाप्य काकुत्स्थं ययौ रामनिवेशनात्॥2.5.12॥

तत इति । काकुत्स्थमभ्यनुज्ञाप्य अश्रुयान्तं रामं निवर्तस्वेत्युक्त्वा ययौ निर्ययौ॥12॥

सुहृद्भिस्तत्र रामोपि सहासीनः प्रियंवदैः। सभाजितो विवेशाथ ताननुज्ञाप्य सर्वशः॥2.5.13॥

सुहृद्भिरित्यादि ॥13॥

हृष्टनारीनरयुतं रामवेश्म तदा बभौ। यथा मत्तद्विजगणं प्रफुल्लनलिनं सरः॥2.5.14॥

हृष्टेति ॥14॥ स राजभवनप्रख्यात्तस्माद्रामनिवेशनात्। निर्गत्य ददृशे मार्गे वसिष्ठो जनसंवृतम्॥2.5.15॥

स इति ॥15॥

वृन्दवृन्दैरयूध्यायां राजमार्गाः समन्ततः। बभूवुरभिसंबाधाः कुतूहलजनैर्वृताः॥2.5.16॥

वृन्दवृन्दैरिति । वृन्दानुबद्धानि वृन्दानि येषां ते वृन्दवृन्दाः तैः कुतूहलजनैः वृताः राजमार्गां अभिसम्बाधा निबिडा बभूवुरिति यिजना ‘वृन्दवृन्दम्’इतिपाठे वृन्दवृन्दं यथा भवति तथा स्थितैरिति शेषः॥16॥

जनवृन्दोर्मिसङ्घर्षहर्षस्वनवृतस्तदा । बभूव राजमार्गस्य सागरस्येव निःस्वनः॥2.5.17॥

जनवृन्देति । जनवृन्दान्येव ऊर्मयः तेषां सङ्घर्षः अन्योन्यघटनं हर्षः आनंदोद्रेकः ताभ्यां जनितः स्वनोस्यास्तीति स्वनवान् तस्य एतेन सागरोपमा समर्थिता॥17॥

सिक्तसंमृष्टरथ्या हि तथा च वनमालिनी। आसीदयोध्यातदहः समुच्छ्रितगृहध्वजा॥2.5.18॥

सिक्तेति । त्दहः तस्मिन्नहनि वनमालिनी अलङ्कारार्थं विरचितक्रमुककदल्यादिवनपङ्तियुक्तेति यावत् ॥18॥

तदा ह्ययोध्यानिलयः सस्त्रीबालाकुलो जनः। रामाभिषेकमाकाङ्क्षन्नाकाङ्क्षन्नुदयं रवेः॥19॥

तदेति ।सस्त्रीबालाबलः अबलाः बलरहिताः वृद्धा इति यावत् रामाभिषेकमाकाङ्क्षन्नाकाङ्क्षदुदयं रवेरिति रामाभिषेकार्थं उदयमाकाङ्क्षदित्यर्थः । श्वो रामाभिषेक इति वार्ता यदा समजनि तदाप्रभृति रामाभिषेकादरातिशयेन आहारनिद्रादिव्यापारान्विहाय परदिवससूर्योदयमाकाङ्क्षदिति भावः॥19॥

प्रजालङ्कारभूतं च जनस्यानन्दवर्धनम्। उत्सुकोभूज्जनो द्रष्टुं तमयोध्यामहोत्सवम्॥2.5.20॥

प्रजालङ्कारभूतमिति । प्रजालङ्कारभूतं प्रजालङ्करणहेतुभूतं प्रजालङ्करप्रचुरमिति॥20॥

एवं तज्जनसम्बाधं राजमार्गं पुरोहितः। व्यूहन्निव जनौघं तं शनै राजकुलं ययौ॥2.5.21॥

सिताभ्रशिखरप्रख्यं प्रासादमधिरुह्य च। समीयाय नरेन्द्रेण शक्रेणेव बृहस्पतिः॥2.5.22॥

एवमिति । राजमार्गं पश्यन्निति शेषः। तं जनौघं व्यूहन्निव रामाभिषेकजनितानन्दनिर्भरं जनौघं तत्र तत्र समूहीकुर्वन्निव शनैः राजकुलं राजगृहं ययौ॥21,22॥

तमागतमभिप्रेक्ष्य हित्वा राजासनं नृपः। पप्रच्छ स्वमतं तस्मै कृतमित्यभिवेदयत्॥2.5.23॥

तमिति । नृपो दशरथः राजासनं स्वाधिष्ठितं सिंहासनं हित्वा प्रत्युत्थायेत्यर्थः। पप्रच्छ किं रामस्योपवासः कारित इतीति शेषः । सः वसिष्ठस्तस्मै दशरथाय तत् उपवासकरणम्॥23॥

तेन चैव तदा तुल्यं सहासीनाः सभासदः। आसनेभ्यः समुत्तस्थुः पूजयन्तः पुरोहितम्॥2.5.24॥

गुरुणा त्वभ्यनुज्ञातो मनुजौघं विसृज्य तम्। विवेशान्तःपुरं राजा सिंहो गिरिगुहामिव॥2.5.25॥

तेनेति । तदा दशरथसमुत्थानकाले तुल्यं युगपत्॥24,25॥

तदग्र्यवेषप्रमदाजनाकुलं महेन्द्रवेश्मप्रतिमं निवेशनम्। व्यदीपयंश्चारु विवेश पार्थिवः शशीव तारागण संकुलं नभः॥2.5.26॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्येयोध्याकाण्डे पञ्चमः सर्गः ।

तदिति । विदीपयन् । तेजोविशेषेण द्योतयन्॥26॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्यानेयोध्याकाण्डव्याख्याने पञ्चमः सर्गः॥5॥