००३ अभिषेकसम्भारसङ्ग्रहणम्

श्रीमद्वाल्मीकीयरामायणम् अयोध्याकाण्डे
तृतीयः सर्गः

तेषामञ्जलिपद्मानि प्रगृहीतानि सर्वशः ।

प्रतिगृह्याब्रवीद्राजा तेभ्यः प्रियहितं वचः ॥ 2.3.1 ॥

एवं निश्चिताभिषेकस्य सम्भारसम्भरणप्रवृत्तिस्तृतीये–तेषामिति । प्रगृहीतानि प्रकर्षेण गृहीतानि शिरसि बद्धानीत्यर्थः । अञ्जलिरूपाणि पद्मानि अञ्जलिपद्मानि, जञ्जलीनां पद्ममुकुलाकारत्वादत्रत्यपद्मशब्दः पद्ममुकुलपरः । प्रतिगृह्य वीक्षणवचनप्रत्यञ्जलिभिर्यथायोगमञ्जलीनां प्रतिग्रहः ॥ 2.3.1 ॥

अहोस्मि परमप्रीतः प्रभावश्चातुलो मम ।

यन्मे ज्येष्ठं प्रियं पुत्रं यौवराज्यस्थमिच्छथ ॥ 2.3.2 ॥

अहो इति । अहोस्मीति सन्धिरार्षः ॥ 2.3.2 ॥

इति प्रत्यर्च्य तान् राजा ब्राह्मणानिदमब्रवीत् ।

वसिष्ठं वामदेवं च तेषामेवोपश्रृण्वताम् ॥ 2.3.3 ॥

इतीति । राजा दशरथः । इति पूर्वोक्तरीया । तान् प्रार्थनापरान् ब्राह्मणान् । अभ्यर्च्य मधुरवचनैः सम्मान्य । तेषामेवोपश्रृण्वतां तेषु उपश्रृण्वत्सु सत्स्वेव वसिष्ठं वामदेवं चेदमब्रवीत् ॥ 2.3.3 ॥

चैत्रः श्रीमानयं मासः पुण्यः पुष्पितकाननः ।

यौवराज्याय रामस्य सर्वमेवोपकल्प्यताम् ॥ 2.3.4 ॥

अभिषेकविषयनिरतिशयादरेण तदुचितकालं प्रशंसति–चैत्र इति । चैत्रः यथेतरेभ्यः प्रधानभूतो रामः तथा मासान्तरेभ्यो ऽयं मासः । श्रीमान् यथा सर्वसुखावहत्वाद्रामः सर्वेषां राजा तथा सर्वसुखकरत्वादसौ सर्वमासानां राजा । अयं मासः अभिषेकमनोरथसमय एव सन्निहितः । अयं मासः अवतारहेतुरेवाभिषेकहेतुः । पुण्यः रमणीयः पुण्यवर्द्धनो वा । पुष्पितकाननः अस्मत्प्रयत्नालंकृतनगरवैलक्षण्येन स्वयमेवालंकृतवनः । यद्वा रामस्य कनककिरीटधारणसमये स्वयं कुसुममुकुटधारी वनप्रदेशो जातः ॥ 2.3.4 ॥

राज्ञस्तूपरते वाक्ये जनघोषो महानभूत् ।

शनैस्तस्मिन् प्रशान्ते च जनघोषे जनाधिपः ।

वसिष्ठं मुनिशार्दूलं राजा वचनमब्रवीत् ॥ 2.3.5 ॥

राज्ञ इति । वसिष्ठशब्दो वामदेवस्याप्युपलक्षणपरः, वसिष्ठं वामदेवमिति द्वयोः प्रस्तुतत्वात् ‘एवं व्यादिश्य विप्रौ तौ’ इत्युपरिवक्ष्यमाणत्वाच्च प्राधान्याद्वसिष्ठस्योपादानम् । जनघोषः चिरप्रार्थितरामाभिषेकविषयोस्मन्मनोरथः फलित इत्येवंरूपः ॥ 2.3.5 ॥

अभिषेकाय रामस्य यत्कर्म सपरिच्छदम् ।

तदद्य भगवन् सर्वमाज्ञापयितुमर्हसि ॥ 2.3.6 ॥

अभिषेकायेति । सपरिच्छदं सोपकरणम् ॥ 2.3.6 ॥

तच्छ्रुत्वा भूमिपालस्य वसिष्ठो द्विजसत्तमः ।

आदिदेशाग्रतो राज्ञः स्थितान् युक्तान् कृताञ्जलीन् ॥ 2.3.7 ॥

तदिति । युक्तान् राजकार्यनियुक्तान् सुमन्त्रादीन् । अधिकारिण इति यावत् ॥ 2.3.7 ॥

सुवर्णादीनि रत्नानि बलीन् सर्वौषधीरपि ।

शुक्लमाल्यांश्च लाजांश्च पृथक् च मधुसर्पिषी ॥ 2.3.8 ॥

अहतानि च वासांसि रथं सर्वायुधान्यपि ।

चतुरङ्गबलं चैव गजं च शुभलक्षणम् ॥ 2.3.9 ॥

चामरव्यजने श्वेते ध्वजं छत्रं च पाण्डरम् ।

शतं च शातकुम्भानां कुम्भानामग्निवर्चसाम् ॥ 2.3.10 ॥

हिरण्यशृङ्गमृषभं समग्रं व्याघ्रचर्म च ।

उपस्थापयत प्रातरग्न्यागारं महीपतेः ॥ 2.3.11 ॥

यच्चान्यत्किञ्चिदेष्टव्यं तत्सर्वमुपकल्प्यताम् ॥ 2.3.12 ॥

सुवर्णादीनीति । बलीन् उपहारान् । “करोपहारयोः पुंसि बलिः” इत्यमरः । ओषधयः व्रीहिमुद्गादयः । शुक्लमाल्यांश्चेति लिङ्गव्यत्यय आर्षः । पृथक्पृथक् पात्रगृहीते मधुसर्पिषी क्षौद्र घृते । अहतानि “ईषद्धौतं नवं श्वेतं सदृशं यन्नधारितम् । अहतं तद्विजानीयाद्दैवे पित्र्ये च कर्मणि ॥” इत्युक्तजलप्रक्षालनादिगुणयुक्तानि। चामरव्यजने चामररूपव्यजने। शातकुम्भानां सौवर्णानाम्। हिरण्यश्रृङ्गं हिरण्यालंकृतश्रृङ्गम्। समग्रं सम्पूर्णावयवम्। उपस्थापयत प्रापयत। अग्न्यगारं अग्निहोत्रगृहम्। अन्यत् गन्धपुष्पादिकम्। एष्टव्यं अपेक्षणीयम् ॥ 2.3.812 ॥

अन्तःपुरस्य द्वाराणि सर्वस्य नगरस्य च ।

चन्दनस्रग्भिरर्च्यन्तां धूपैश्च घ्राणहारिभिः ॥ 2.3.13 ॥

अन्तःपुरेति । अन्तः पुरस्य राजगृहस्य सर्वस्य नगरस्य द्वाराणि सर्वाणि नगरद्वाराणीत्यर्थः । घ्राणहारिभिः घ्राणद्वारा पुरुषाकर्षकैः ॥ 2.3.13 ॥

प्रशस्तमन्नं गुणवद्दधिक्षीरोपसेचनम् ।

द्विजानां शतसाहस्रे यत्प्रकाममलं भवेत् ॥ 2.3.14 ॥

प्रशस्तमिति । सहस्रमेव साहस्रम् । शतसाहस्रशब्दोपरिमितवचनः । विषयसप्तमी । अलं पर्य्याप्तं “अलं भूषणपर्याप्तिशक्तिवारणवाचकम्” इत्यमरः । शतसाहस्रविषये प्रकामं अत्यर्थं, पर्याप्तं प्राशस्त्यादिगुणविशिष्टं यदन्नं भवेत्तत्सम्पाद्यतामित्यर्थः ॥ 2.3.14 ॥

सत्कृत्य द्विजमुख्यानां श्वः प्रभाते प्रदीयताम् ।

घृतं दधि च लाजाश्च दक्षिणाश्चापि पुष्कलाः ॥ 2.3.15 ॥

सत्कृत्येति । द्विजमुख्यानां द्विजमुख्येभ्यः सत्कृत्य दीयताम्, तदन्नमिति शेषः । पुष्कलाः सम्पूर्णाः ॥ 2.3.15 ॥

सूर्ये ऽभ्युदितमात्रे श्वो भविता स्वस्तिवाचनम् ।

ब्राह्मणाश्च निमन्त्र्यन्तां कल्प्यन्तामासनानि च ।

आबध्यन्तां पताकाश्च राजमार्गश्च सिच्यताम् ॥ 2.3.16 ॥

सूर्य इत्यादि । सूर्ये अभ्युदितमात्रे सूर्योदयानन्तरमेव श्वः परेद्युः । स्वस्ितवाचनं भविता तदर्थं ब्राह्मणाश्च निमन्त्र्यन्ताम् आहूयन्ताम् । आसनानि, तेषामिति शेषः । आबध्यन्तां प्रतिगृहमिति शेषः ॥ 2.3.16 ॥

सर्वे च तालावचरा गणिकाश्च स्वलंकृताः ।

कक्ष्यां द्वितीयामासाद्य तिष्ठन्तु नृपवेश्मनः ॥ 2.3.17 ॥

सर्व इति । तालैरवचरन्ति जीवन्तीति तालावचराः नर्तकादयः । कक्ष्यां द्वितीयामिति अन्तःकक्ष्यायामभिषेकप्रवृत्तेस्तत्र च ब्राह्मणैर्वस्तव्यत्वादिति भावः ॥ 2.3.17 ॥

देवायतनचैत्येषु सान्नभक्षाः सदक्षिणाः ।

उपस्थापयितव्याः स्युर्माल्ययोग्याः पृथक्पृथक् ॥ 2.3.18 ॥

देवायतनचैत्येषु देवगृहेषु चतुष्पथेषु चेत्यर्थः । अन्नभक्षैः सह वर्तन्त इति सान्नभक्षाः । अन्नमोदकहस्ता इति यावत् । माल्यप्रदानयोग्याः माल्ययोग्याः । मध्यमपदलोपिसमासः । माल्यार्थसाधनानि पृथक्पृथगिति, देवायतनचैत्ययोरिति शेषः । ब्राह्मणैर्देवताः पूजनीया इत्यर्थः ॥ 2.3.18 ॥

दीर्घासिबद्धा योधाश्च सन्नद्धा मृष्टवाससः ।

महाराजाङ्गणं सर्वे प्रविशन्तु महोदयम् ॥ 2.3.19 ॥

दीर्घासिबद्धा इति । दीर्घासिबद्धाः बद्धदीर्घासयः । “प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ भवतः” इति निष्ठायाः

परनिपातः । महानुदयो रामाभिषेकरूपाभ्युदयो यस्मिन् तं महोदयम् ॥ 2.3.19 ॥

एवं व्यादिश्य विप्रौ तौ क्रियास्तत्र सुनिष्ठितौ ।

चक्रतुश्चैव यच्छेषं पार्थिवाय निवेद्य च ॥ 2.3.20 ॥

एवमिति । विप्रौ वसिष्ठवामदेवौ । क्रियाः पुरोहितकर्त्तव्याः । तत्र राजगृहे । व्यादिश्य आज्ञाप्य । यच्छेषं दासीपरिजनाद्यानयनं तदपि पार्थिवाय राज्ञे निवेद्य चक्रतुः ॥ 2.3.20 ॥

कृतमित्येव चाब्रूतामभिगम्य जगत्पतिम् ।

यथोक्तवचनं प्रीतौ हर्षयुक्तौ द्विजर्षभौ ॥ 2.3.21 ॥

कृतमिति । अथ जगत्पतिं राजानमभिगम्य । यथोक्तवचनम् उक्तवचनमनतिक्रम्य कृतमिति प्रीतौ हर्षयुक्तौ । प्रीतिर्मनोगतो हर्षः, मानसप्रीतिजन्यरोमाञ्चादिशरीरविकारो हर्षः तद्युक्तौ । पूर्वश्लोके निवेद्येत्यनेन शेष सम्पादनविषयनिवेदनमुक्तम् । अब्रूतामिति पूर्वोक्तसकलसिद्धिविषयमिति न पुनरुक्तिः ॥ 2.3.21 ॥

ततः सुमन्त्रं द्युतिमान् राजा वचनमब्रवीत् ।

रामः कृतात्मा भवता शीघ्रमानीयतामिति ॥ 2.3.22 ॥

स तथेति प्रतिज्ञाय सुमन्त्रो राजशासनात् ।

रामं तत्रानयाञ्चक्रे रथेन रथिनां वरम् ॥ 2.3.23 ॥

तत इति । कृतात्मा सुशिक्षितबुद्धिः । शीघ्रागमनहेतुरयम् । “आत्मा जीवे धृतौ बुद्धौ” इत्यमरः ॥ 2.3.2223 ॥

अथ तत्र समासीनास्तदा दशरथं नृपम् ।

प्राच्योदीच्याः प्रतीच्याश्च दाक्षिणात्याश्च भूमिपाः ॥ 2.3.24 ॥

म्लेच्छाचार्याश्च ये चान्ये वनशैलान्तवासिनः ।

उपासाञ्चक्रिरे सर्वे तं देवा इव वासवम् ॥ 2.3.25 ॥

तेषां मध्ये स राजर्षिर्मरुतामिव वासवः ।

प्रासादस्थो रथगतं ददर्शायान्तमात्मजम् ॥ 2.3.26 ॥

अथेति । अथ सुमन्त्रनिर्गमनानन्तरम् । तत्र प्रासादे । समासीनाः सम्यगुपविष्टाः । प्राच्या इत्यादौ “द्युप्राग्–” इत्यादिना यदादयः शौषिका भवार्थाः । म्लेच्छाचार्याः म्लेच्छप्रभवः । अन्तशब्दः प्रदेशवाची । प्राच्येत्यादिना शैलान्तवासिन इत्यन्तेन मूलभृत्यश्रेणिसुहृद्द्विषदाटविकमिति षड्विधबलोपास्यत्वं सार्वभौमचिह्नमुक्तम् ॥ 2.3.2426 ॥

गन्धर्वराजप्रतिमं लोके विख्यातपौरुषम् ।

दीर्घबाहुं महासत्त्वं मत्तमातङ्गगामिनम् ॥ 2.3.27 ॥

चन्द्रकान्ताननं राममतीव प्रियदर्शनम् ।

रूपौदार्यगुणैः पुंसां दृष्टिचित्तापहारिणम् ॥ 2.3.28 ॥

धर्माभितप्ताः पर्जन्यं ह्लादयन्तमिव प्रजाः

न ततर्प समायान्तं पश्यमानो नराधिपः ॥ 2.3.29 ॥

गन्धर्वराजेत्यादि । गन्धर्वराजप्रतिमं भोगस्रोतःप्रावण्यवेषसौन्दर्येषु गन्धर्वराजौपम्यम् । न केवलं भोगधारारसिकत्वेन वीररसानभिज्ञत्वमित्याह लोके विख्यातपौरुषम् । पौरुषोपयुक्त संहननवत्त्वमाह दीर्घबाहुमिति । न केवलं शिरीषपुष्पसुकुमारबाहुत्वेनान्तःसारराहित्यमित्याह महासत्त्वमिति । तदनुगुणगतिविशेषमाह मत्तमातङ्गगामिनमिति । सगर्वसलीलगमनं मदालसगमनं वा विवक्षितम् । चन्द्रकान्ताननं चन्द्राननमित्युक्तेप्याह्लादकत्वादिसिद्धेर्निरतिशयाह्लादकत्वं द्योतयितुं कान्तशब्दः । चन्द्रात्कान्ताननमिति विग्रहः । अनेनावयवशोभावत्त्वमुक्तम् । रामं विग्रहगुणैः स्वरूपगुणैश्च रमयन्तम् । समुदायशोभावत्त्वमाह अतीवप्रियदर्शनमिति । निरन्तरदर्शनेपि प्रतिक्षणं नवनवीभूतदर्शनम् । रूपौदार्यगुणैः रूपं विग्रहः, औदार्यं अनुभवितृभ्योनुभवदानम् । “य आत्मदा बलदा” इतिश्रुतेः । गुण्यते सदानुसन्धीयत इति गुणः । “गुणस्त्वावृत्तिशब्दादिज्येन्द्रियामुख्यतन्तुषु” इति निघण्टुः । तेन सदानुसन्धीयमानं सौशील्यमुच्यते । अहो महानयमस्मादृशेषु क्षुद्रेष्वप्यतिसंश्लेषेण वर्तत इति सर्वदानुसन्धीयमानत्वात् । पुंसामिति कठिनचित्तानामपि किमुत स्त्रीणामिति भावः । यद्वा पुंशब्देन स्त्रीपुंससाधारणमात्ममात्रमुच्यते “पुमानेको व्यवस्थितः” इति श्रीविष्णुपुराणे प्रयोगात् । तेन सुरनरतिर्यगादिभेदभिन्नानां स्त्रीपुन्नपुंसकभेदभिन्नानां सर्वेषां दृष्टिचित्तापहार उक्तः । वक्ष्यति रामविरहे स्थावरजङ्गमवस्तुमात्रं परिम्लानमिति । यद्वा पुंसामपि रामं पश्यतां स्त्रीभूत्वाहममुमनुभवेयमित्यभिलाषो भवति । यथाहुः– “पाञ्चाल्याः पद्मपत्राक्ष्याः स्त्रायन्त्या जघनं घनम् । याः स्त्रियो दृष्टवत्यस्ताः पुम्भावं मनसा ययुः ॥” इति। पश्यमान इति निर्निमेषदर्शनमुक्तम्। न ततर्पेति प्रतिक्षणमनुभवेपि नवनवप्रेमास्पदतया न तृप्तिरभूदित्यर्थः ॥ 2.3.2729 ॥

अवतार्य सुमन्त्रस्तं राघवं स्यन्दनोत्तमात् ।

पितुः समीपं गच्छन्तं प्राञ्जलिः पृष्ठतो ऽन्वगात् ॥ 2.3.30 ॥

स तं कैलासशृङ्गाभं प्रासादं नरपुङ्गवः ।

आरुरोह नृपं द्रष्टुं सह सूतेन राघवः ॥ 2.3.31 ॥

अवतार्येति । अवतारणं हस्तप्रदानादिना ॥ 2.3.3031 ॥

स प्राञ्जलिरभिप्रेत्य प्रणतः पितुरन्तिके ।

नाम स्वं श्रावयन् रामो ववन्दे चरणौ पितुः ॥ 2.3.32 ॥

स प्राञ्जलिरिति । अभिप्रेत्य प्राप्य । प्रणतः “दण्डवत् प्रणमेद्भूमावुपेत्य गुरुमन्वहम्” इत्युक्तप्रक्रियया दण्डवत्प्रणत इत्यर्थः । स्वं नाम श्रावयन् “शर्मेति ब्राह्मणस्योक्तं वर्मेति क्षत्रियस्य च” इतिवचनाद्रामवर्मा ऽहमस्मि भो इति श्रावयन्नित्यर्थः ॥ 2.3.32 ॥

तं दृष्ट्वा प्रणतं पार्श्वे कृताञ्जलिपुटं नृपः ।

गृह्याञ्जलौ समाकृष्य सस्वजे प्रियमात्मजम् ॥ 2.3.33 ॥

अञ्जलौ गृह्य अञ्जलिं प्रगृह्य “सक्थिनि कर्णे वा गृहीत्वा” इति महाभाष्यकारवचनात् । अञ्जलाविति कर्मणि सप्तमी ॥ 2.3.33 ॥

तस्मै चाभ्युदितं सम्यङ्मणिकाञ्चनभूषितम् ।

दिदेश राजा रुचिरं रामाय परमासनम् ॥ 2.3.34 ॥

तस्मै इति । अभ्युदितम् उन्नतम् ॥ 2.3.34 ॥

तदासनवरं प्राप्य व्यदीपयत राघवः ।

स्वयैव प्रभया मेरुमुदये विमलो रविः ॥ 2.3.35 ॥

तदिति । आसनवरं प्राप्य तदासनं स्वयैव प्रभया व्यदीपयत् । विमलो रविरुदये मेरुं प्राप्येव । सूर्यस्य प्रधानमेरुप्राप्तेः साक्षादभावात् अत्र मेरुशब्देनास्ताद्रिसमीपवर्ती सावर्णिमेरुरुच्यते । उदयश्चोत्तरवर्षस्थितसिद्धपुरवासिजनापेक्षया । इयमुदयास्तमयव्यवस्था सूर्यसिद्धान्ते आर्यभट्टे च प्रसिद्धा– “भूवृत्तपादे पूर्वस्यां यवकोटीति विश्रुता । भद्राश्ववर्षे नगरी स्वर्णप्राकारतोरणा ॥ याम्यायां भारते वर्षे लङ्का तद्वन्महापुरी । पश्चिमे केतुमालाख्ये रोमकेति च कीर्त्तिता । उदक्सिद्धपुरी नाम कुरुवर्षे प्रतिष्ठिता ॥ उदयो यो लङ्कायां सो ऽस्तमयः सवितुरेव सिद्धपुरे । मध्याह्ने यवकोट्यां रोमकविषये अर्धरात्रं स्यात् ॥ भारतादिषु वर्षेषु तद्वदेव परिभ्रमन् । मध्योदयार्द्धरात्रांस्तु कालान् कुर्यात्प्रदक्षिणम् ॥” इति ॥ 2.3.35 ॥

तेन विभ्राजता तत्र सा सभाभिव्यरोचत ।

विमलग्रहनक्षत्र शारदी द्यौरिवेन्दुना ॥ 2.3.36 ॥

तेनेति । विभ्राजता प्रकाशमानेन । विमलग्रहनक्षत्रेति दृष्टान्तबलेन दशरथवसिष्ठादिभिरीषत्प्रकाशितत्वमवगम्यते ॥ 2.3.36 ॥

तं पश्यमानो नृपतिस्तुतोष प्रियमात्मजम् ।

अलंकृतमिवात्मानमादर्शतलसंस्थितम् ॥ 2.3.37 ॥

तमिति । पश्यमानः पश्यन् । आदर्शतलसंस्थितमित्यनेन रामस्य मुखनासिकाचरणादिसर्वावयवेन पितृसरूपत्वमावेदितम् ॥ 2.3.37 ॥

स तं सस्मितमाभाष्य पुत्रं पुत्रवतां वरः ।

उवाचेदं वचो राजा देवेन्द्रमिव काश्यपः ॥ 2.3.38 ॥

स इति । सस्मितमिति क्रियाविशेषणम् । आभाष्य रामेति सम्बोध्य ॥ 2.3.38 ॥

जेष्ठायामसि मे पत्न्यां सदृश्यां सदृशः सुतः ।

उत्पन्नस्त्वं गुणश्रेष्ठो मम रामात्मजः प्रियः ॥ 2.3.39 ॥

रामस्यैव राज्याभिषेकार्हतामभिव्यञ्जयन्नाहज्येष्ठायामिति । आत्मजस्सुत औरसस्सुतः ॥ 2.3.39 ॥

यतस्त्वया प्रजाश्चेमाः स्वगुणैरनुरञ्जिताः ।

तस्मात्त्वं पुष्ययोगेन यौवराज्यमवाप्नुहि ॥ 2.3.40 ॥

यत इति । पुष्ययोगेनेति “प्रकृत्यादिभ्य उपसङ्ख्यानम्” इति तृतीया । पुष्येण चन्द्रमसो योगः पुष्ययोगः । तदुपलक्षितकाल इत्यर्थः । पुष्यनक्षत्रयुक्ते दिवस इत्यर्थः ॥ 2.3.40 ॥

कामतस्त्वं प्रकृत्यैव विनीतो गुणवानसि ।

गुणवत्यपि तु स्नेहात्पुत्र वक्ष्यामि ते हितम् ॥ 2.3.41 ॥

कामत इति । कामतः प्रकामं गुणवति, त्वयीति शेषः । यद्यपि भवान् सर्वगुणसम्पन्नस्तथापि पुत्रस्रेहाद्रवते किञ्चिदुपदिशामीत्यर्थः ॥ 2.3.41 ॥

भूयो विनयमास्थाय भव नित्यं जितेन्द्रियः ।

कामक्रोधसमुत्थानि त्यजेथा व्यसनानि च ॥ 2.3.42 ॥

भूय इति । भूयो नियमं सातिशयविनयम् । कामक्रोधसमुत्थानि व्यसनानि “स्त्री द्यूतमृगयामद्यवाक्पारुष्योग्रदण्डताः । अर्थसन्दूषणं चेति राज्ञां व्यसनसप्तकम् ॥” इत्युक्तानि व्यसनानि। अर्थसन्दूषणं पित्रादिसञ्चितार्थस्य नाशनम्। यद्वा “मृगयाक्षो दिवास्वापः परिवादः स्त्रियो मदः। तौर्यत्रिकं वृथाध्वा च कामजो दशको गुणः ॥” इत्येतानि कामजानि “पैशुन्यं साहसं द्रोह ईर्ष्यासूयार्थदूषणम् । वाक्दण्डयोश्च पारुष्यं क्रोधजोपि गुणो ऽष्टकः ॥” इत्युक्तानि क्रोधजानि च व्यसनानि ॥ 2.3.42 ॥

परोक्षया वर्त्तमानो वृत्त्या प्रत्यक्षया तथा ।

अमात्य प्रभृतीः सर्वाः प्रकृतीश्चानुरञ्जय ॥ 2.3.43 ॥

परोक्षयेति । अप्रत्यक्षया वृत्त्या तक्षप्रभृतिकर्मान्तिकानां परोक्षो भूत्वाधिकृतमुखेन यत्कार्याणि संविधत्ते सा परोक्षवृत्तिः । अव्यवधानेनामात्यादीन् यया वृत्त्यानुगृह्णाति सा प्रत्यक्षवृत्तिः, ताभ्यां वर्तमानः सन् अमात्यप्रभृतीः सर्वाः प्रकृतीश्चानुरञ्जयेतिसम्बन्धः । यद्वा परोक्षया चारमुखतः परोक्षानुभवसिद्धया वृत्त्या स्वपरराष्ट्रवृत्तान्तविचारेण सह वर्तमानो भव, तथा प्रत्यक्षया नित्यं यथाकालमास्थानमास्थाय स्वानुभवसिद्धयथोक्तवृत्तान्तविचारो भव, अमात्यप्रभृतीः सर्वाः प्रकृतीः अमात्यसेनानीपुररक्षिणः पौरजानपदाः सर्वप्रजाश्चानुरञ्जय ॥ 2.3.43 ॥

कोष्ठागारायुधागारैः कृत्वा सन्निचयान् बहून् ।

तुष्टानुरक्तप्रकृतिर्यः पालयति मेदिनीम् ॥ 2.3.44 ॥

तस्य नन्दन्ति मित्राणि लब्ध्वामृतमिवामराः ।

तस्मात्त्वमपि चात्मानं नियम्यैवं समाचर ॥ 2.3.45 ॥

कोष्ठागारेत्यादिश्लोकद्वयमेकान्वयम् । कोष्ठागाराणि अयुतनियुतादिसङ्ख्यधान्यराशिग्राहीणि कोष्ठरूपतया निर्मितान्यगाराणि । आयुधागाराणि समग्रनिजबलापेक्षिताष्टादशविधायुधप्रतिष्ठागाराणि । तैः सह सन्निचयान् निचीयन्ते एष्विति निचयाः । नवरत्नहेमरजतवस्त्राभरणादिसम्पूर्णास्तत्तत्कोशाः तान् । तुष्टानुरक्तप्रकृतिरिति उक्तनिचयबलादिति शेषःः । मित्राणि सामन्ताः । आत्मानं मनः ॥ 2.3.4445 ॥

तच्छ्रुत्वा सुहृदस्तस्य रामस्य प्रियकारिणः ।

त्वरिताः शीघ्रमभ्येत्य कौसल्यायै न्यवेदयन् ॥ 2.3.46 ॥

तदिति । तत् रामाभिषेकप्रस्तावनम् ॥ 2.3.46 ॥

सा हिरण्यं च गाश्चैव रत्नानि विविधानि च ।

व्यादिदेश प्रियाख्येभ्यः कौसल्या प्रमदोत्तमा ॥ 2.3.47 ॥

सेति । प्रियाख्येभ्यः प्रियं रामाभिषेकमाचक्षत इति प्रियाख्याः । “चक्षिङः ख्याञ्” इति ख्याञादेशः ॥ 2.3.47 ॥

अथाभिवाद्य राजानं रथमारुह्य राघवः ।

ययौ स्वं द्युतिमद्वेश्म जनौधैः प्रतिपूजितः ॥ 2.3.48 ॥

अथेति ॥ 2.3.48 ॥

ते चापि पौरा नृपतेर्वचस्तच्छ्रुत्वा तदालाभमिवेष्टमाशु ।

नरेन्द्रमामन्त्र्य गृहाणि गत्वा देवान् समानर्चुरभिप्रहृष्टाः ॥ 2.3.49 ॥

त इति । आनर्चुः रामाभिषेकविघ्नवारणाय ॥ 2.3.49 ॥

इत्यार्षे0 श्रीरामायणे श्रीमदयोध्याकाण्डे तृतीयः सर्गः ॥ 3 ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने तृतीयः सर्गः ॥ 3 ॥