+१ बालकाण्डम्

श्रीमद्वाल्मीकीयरामायणम् ॥

श्रीसीतालक्ष्मणहनुमत्-समेत-श्रीरामचन्द्रपरब्रह्मणे नमः ॥ ॥

श्लोकसहितव्याख्यानम् ॥

श्रीमते रामानुजाय नमः ॥
आचार्यं शठकोपदेशिकमथ प्राचार्यपारम्परीं
श्रीमल्-लक्ष्मणयोगिवर्य्य-यमुना-वास्तव्य-नाथादिकान् ।
वाल्मीकिं सह नारदेन मुनिना वाग्-देवता-वल्लभं
सीता-लक्ष्मण-वायु-सूनु-सहितं श्रीरामचन्द्रं भजे ॥ १ ॥

श्रीमत्यञ्जनभूधरस्य शिखरे श्रीमारुतेः सन्निधावग्रे वेङ्कटनायकस्य सदनद्वारे यतिक्ष्माभृतः । नानादेशसमागतैर्बुधगणै रामायणव्याक्रियां विस्तीर्णां रचयेति सादरमहं स्वप्ने ऽस्मि सञ्चोदितः ॥ २ ॥

क्वाहं मन्दमतिर्गभीरहृदयं रामायणं तत्क्व च व्याख्याने ऽस्य परिभ्रमन्नहमहो हासास्पदं धीमताम् । को भारो ऽत्र मम स्वयं कुलगुरुः कोदण्डपाणिः कृपाकूपारो रचयत्यदः सपदि मज्जिह्वाग्रसिंहासनः ॥ ३ ॥

वैयर्थ्यं पुनरुक्ततामनुचितारम्भं विरोधं मिथो ऽसाधुत्वं च पदप्रबन्धरचनावाक्येषु निःशेषयन् । स्वारस्यं च पदे पदे प्रकटयन् रामायणस्य स्वयं व्याख्यामेष तनोति सज्जनमुदे गोविन्दराजाह्वयः ॥ ४ ॥

पूर्वाचार्य्यकृतप्रबन्धजलधेस्तात्पर्यरत्नावलीर्ग्राहं ग्राहमहं शठारिगुरुणा सन्दर्शितेनाध्वना । अन्यव्याकृतिजातरूपशकलैरायोज्य सज्जीकृतैः श्रीरामायणभूषणं विरचये पश्यन्तु निर्मत्सराः ॥ ५ ॥

सुस्पष्टमष्टादशकृत्य एत्य श्रीशैलपूर्णाद्यतिशेखरो ऽयम् । शुश्राव रामायणसम्प्रदायं वक्ष्ये तमाचार्यपरम्परात्तम् ॥ ६ ॥

क्वचित् पदार्थं क्वचिदन्वयार्थं क्वचित्पदच्छेदसमर्थनानि । क्वचित्क्वचिद्गाढनिगूढभावं वक्ष्ये यथापेक्षमवेक्षणीयम् ॥ ७ ॥

अवतारिका

श्रियःपतिरवाप्तसमस्तकामः समस्तकल्याणगुणात्मकः सर्वेश्वरः “वैकुण्ठे तु परे लोके श्रिया सार्द्धं जगत्पतिः । आस्ते विष्णुरचिन्त्यात्मा भक्तैर्भागवतैः सह ॥ " इत्युक्तरीत्या श्रीवैकुण्ठाख्ये दिव्यलोके श्रीमहामणिमण्डपे श्रीभूमिनीलाभिः सह रत्नसिंहासनमध्यासीनो नित्यैर्मुक्तैश्च निरन्तरपरिचर्यमाणचरणनलिनोऽपि तद्वदेव स्वचरणयुगलपरिचरणार्हानपि तद्धीनान् प्रलये प्रकृतिविलीनान् मधूच्छिष्टमग्नहेमकणसदृक्षान् क्षीणज्ञानान् जीवानवलोक्य “एवं संसृतिचक्रस्थे भ्राम्यमाणे स्वकर्मभिः। जीवे दुःखाकुले विष्णोः कृपा काप्युपजायते ॥ " इत्युक्तरीत्या दयमानमनाः “विचित्रा देहसम्पत्तिरीश्वराय निवेदितुम् । पूर्वमेव कृता ब्रह्मन् हस्तपादादिसंयुता ॥ " इत्युक्तप्रकारेण महदादिसृष्टिक्रमेण तेषां स्वचरणकमलसमाश्रयणोचितानि करणकलेवराणि दत्त्वा नदीतरणाय दत्तैः प्लवैर्नदीरयानुसारेण सागरमवगाहमानेष्विव तेषु तैर्विषयान्तरप्रवणेषु तेषां सदसद्विवेचनाय ऽशासनाच्छास्त्रम्ऽ इत्युक्तरीत्या स्वशासनरूपं वेदाख्यं शास्त्रं प्रवर्त्यापि तस्मिन्नप्रतिपत्तिविप्रतिपत्त्यन्यथाप्रतिपत्तिभिस्तैरनादृते स्वशासनातिलङ्घिनं जनपदं स्वयमेव साधयितुमभियियासुरिव वसुधाधिपतिः स्वाचारमुखेन तान् शिक्षयितुं रामादिरूपेण चतुर्द्धावतितीर्षुरन्तराऽमरगणैः सद्रुहिणैरभ्यर्थितः स्वाराधकस्य दशरथस्य मनोरथमपि पूरयितुं चतुर्द्धावततार । तत्र रामरूपेणावतीर्य रावणं निहत्य पितृवचनपरिपालनादिसामान्य धर्ममन्वतिष्ठत्, लक्ष्मणरूपेण रावणिं निरस्य भगवच्छेषत्वरूपं विशेषधर्मम्, भरतरूपेण गन्धर्वान्निर्वास्य भगवत्पारतन्त्र्यरूपम्, शत्रुघ्नरूपेण लवणासुरं ध्वंसयित्वा भागवतशेषत्वम् । तानिमान् धर्मान् तानीमानि चापदानानि तत्कालमात्रपर्यवसितानि भविष्यन्तीति मन्वानः सर्वलोकहितपरः पितामहो भगवान् ब्रह्मा रामचरित्रपवित्रितं शतकोटिप्रविस्तरं प्रबन्धं निर्माय तं नारदादीनध्याप्य भूलोके ऽपि सन्ततराममन्त्रानुसन्धानसन्धुक्षितहृदयवाल्मीकिमुखेन सङ्ग्रहेण प्रवर्त्तयितुं नारदं प्रेषयामास । तदुक्तं मात्स्ये “वाल्मीकिना च यत्प्रोक्तं रामोपाख्यानमुत्तमम् । ब्रह्मणा चोदितं तच्च शतकोटिप्रविस्तरम् । आहृत्य नारदेनैव वाल्मीकाय निवेदितम् ॥ " इति।

वाल्मीकिरपि निखिलवेदान्तविदितपरतत्त्वनिर्दिधारयिषया यदृच्छयोपगतं नारदं पृष्ट्वावगतपरतत्त्वस्वरूपः तदनु प्रसन्नेन विधिना दत्तसकलसाक्षात्कारप्रबन्धनिर्माणशक्तिर्वेदोपबृंहणमारभमाणः तस्यार्थप्रधानसुहृत्सम्मितेतिहासतां व्यङ्ग्यप्रधानकान्तासम्मितकाव्यतां च पुरस्कुर्वन् “काव्यालापांश्च वर्जयेत्” इति निषेधस्यासत्काव्यविषयतां च निर्धारयन् स्वग्रन्थे प्रेक्षावतां प्रवृत्त्यर्थं तदङ्गानि दर्शयति प्रथमतश्चतुःसर्ग्या।