श्रीमद्वाल्मीकीयरामायणम्बालकाण्डः
षट्सप्ततितमः सर्गः
श्रुत्वा तज्जामदग्न्यस्य वाक्यं दाशरथिस्तदा ।
गौरवाद्यन्त्रितकथः पितू राममथाब्रवीत् ॥ 1.76.1 ॥
अथ जामदग्न्यगर्वनिर्वापणं षट्सप्ततितमे–श्रुत्वेत्यादि । पितुर्गौरवादिति पितुः सन्निधिगौरवादित्यर्थः । यन्त्रिता नियमिता कथा उच्चैः कथनं येन स तथा ॥ 1.76.1 ॥
श्रुतवानस्मि यत्कर्म कृतवानसि भार्गव ।
अनुरुन्ध्यामहे ब्रह्मन् पितुरानृण्यमास्थितः ॥ 1.76.2 ॥
श्रुतवानिति । पितुरानृण्यं पितृघातिक्षत्रवधेन पितृवैरशुद्धिमास्थितः सन् यत्कर्म त्रिःसप्तकृत्वः क्षत्रवधरूपं कृतवानसि तच्छ्रुतवानस्मि । तदनुरुन्ध्यामहे अनुरुन्ध्मः । अवश्यं शूरेण वैरशुद्धेः कर्तव्यत्वात् । कर्तरि यगार्षः ॥ 1.76.2 ॥
वीर्यहीनमिवाशक्तं क्षत्रधर्मेण भार्गव ।
अवजानासि मे तेजः पश्य मे ऽद्य पराक्रमम् ॥ 1.76.3 ॥
इत्युक्त्वा राघवः क्रुद्धो भार्गवस्य शरासनम् ।
शरं च प्रति जग्राह हस्ताल्लघुपराक्रमः ॥ 1.76.4 ॥
आरोप्य स धनू रामश्शरं सज्यं चकार ह ।
जामदग्न्यं ततो रामं रामः क्रुद्धो ऽब्रवीद्वचः ॥ 1.76.5 ॥
वीर्येति । वीर्यहीनम् । अत एव क्षत्रधर्मेण प्राप्तधनुर्ग्रहणयुद्धादौ अशक्तमिव मन्यमानो यन्माम् अवजानासि ‘क्षत्रधर्मं पुरस्कृत्य’ इत्यादिना अवमानं कृतवानसि तन्नानुरुन्ध्यामहे । “अस्मदो द्वयोश्च” इति चकारादेकस्मिन् बहुवचनम् । अतः तेजःपरपरिभावासहनं पराक्रमम्, स्वशक्त्या पराभिभवनं च पश्य ॥ 1.76.35 ॥
ब्राह्मणो ऽसीति पूज्यो मे विश्वामित्रकृतेन च ।
तस्माच्छक्तो न ते राम मोक्तुं प्राणहरं शरम् ॥ 1.76.6 ॥
विश्वामित्रकृतेन विश्वामित्रकृतस्नेहेन । विश्वामित्रभगिन्यां सत्यवत्यामृचीकाज्जातो जमदग्निः तस्य पुत्रः परशुराम इति विश्वामित्रसम्बन्धेनेत्यर्थः ॥ 1.76.6 ॥
इमां पादगतिं राम तपोबलसमार्जितान् ।
लोकानप्रतिमान् वा ते हनिष्यामि यदिच्छसि ॥ 1.76.7 ॥
ते तुभ्यम् । पादयोर्गतिं गमनम् । लोकान् लोकप्राप्तिम् । यदिच्छसि अनयोर्मध्ये यदिच्छसि तद्वदेत्यर्थः । यदीच्छसीति पाठो युक्तः । उभयथा प्रतिबद्धः क्वचित्तिष्ठेन्न लोकं पीडयेदिति रामस्य हृदयम् ॥ 1.76.7 ॥
न ह्ययं वैष्णवो दिव्यः शरः परपुरञ्जयः ।
मोघः पतति वीर्येण बलदर्पविनाशनः ॥ 1.76.8 ॥
वीर्येण स्वशक्त्या मोधो न पतति लक्ष्यमभित्वा न तूष्णीं पततीत्यर्थः ॥ 1.76.8 ॥
वरायुधधरं रामं द्रष्टुं सर्षिगणाः सुराः ।
पितामहं पुरस्कृत्य समेतास्तत्र सङ्घशः ॥ 1.76.9 ॥
गन्धर्वाप्सरसश्चैव सिद्धचारणकिन्नराः ।
यक्षराक्षसनागाश्च तद्द्रष्टुं महदद्भुतम् ॥ 1.76.10 ॥
वरायुधेत्यादि । रामं तन्महदद्भुतं कर्म च द्रष्टुं समेता इत्यन्वयः ॥ 1.76.9,10 ॥
जडीकृते तदा लोके रामे वरधनुर्द्धरे ।
निर्वीर्यो जामदग्न्यो ऽसौ रामो राममुदैक्षत ॥ 1.76.11 ॥
जडीकृत इति । लोके जने जडीकृते स्तब्धे । निर्वीर्यः निर्गतवैष्णवतेजाः । तथा च पुराणान्तरम्– “ततः परशुरामस्य देहान्निर्गत्य वैष्णवम् । पश्यतां सर्वदेवानां तेजो राममुपाविशत् ॥”
इति उदैक्षत विस्मित इति शेषः ॥ 1.76.11 ॥
तेजो ऽभिहतवीर्यत्वाज्जामदग्न्यो जडीकृतः ।
रामं कमलपत्राक्षं मन्दं मन्दमुवाच ह ॥ 1.76.12 ॥
उवाच प्रश्नोत्तरमिति शेषः ॥ 1.76.12 ॥
काश्यपाय मया दत्ता यदा पूर्वं वसुन्धरा ।
विषये मे न वस्तव्यमिति मां काश्यपो ऽब्रवीत् ॥ 1.76.13 ॥
सो ऽहं गुरुवचः कुर्वन् पृथिव्यां न वसे निशाम् ।
कृता प्रतिज्ञा काकुत्स्थ कृता भूः काश्यपस्य हि ॥ 1.76.14 ॥
काश्यपायेत्यादि । यदाब्रवीत्तदाप्रभृति न वस इत्यन्वयः । गुरुवचः काश्यपवचः । कुर्वन् परिपालयन् । कुत इत्यत्राह कृतेति । हिशब्दः प्रसिद्धौ । यतः सर्वप्रसिद्धतया भूः काश्यपस्य स्वत्वेन कृता त्वद्विषये न वत्स्यामीति प्रतिज्ञा च कृता, तस्मादित्यर्थः ॥ 1.76.13,14 ॥
तदिमां त्वं गतिं वीर हन्तुं नार्हसि राघव ।
मनोजवं गमिष्यामि महेन्द्रं पर्वतोत्तमम् ॥ 1.76.15 ॥
तदिमामिति । गतिः गमनम् ॥ 1.76.15 ॥
लोकास्त्वप्रतिमा राम निर्जितास्तपसा मया ।
जहि तान् शरमुख्येन माभूत्कालस्य पर्ययः ॥ 1.76.16 ॥
लोकहननं नाम लोकदानप्रतिबन्धः । मूर्तस्य वा अमूर्तस्य वा कार्यस्य प्रतिहननमेव रामशरस्यापेक्षितमिति भावः ॥ 1.76.16 ॥
अक्षयं मधुहन्तारं जानामि त्वां सुरोत्तमम् ।
धनुषो ऽस्य परामर्शात् स्वस्ति ते ऽस्तु परन्तप ॥ 1.76.17 ॥
एते सुरगणाः सर्वे निरीक्षन्ते समागताः ।
त्वामप्रतिमकर्माणमप्रतिद्वन्द्वमाहवे ॥ 1.76.18 ॥
अक्षयमिति । अक्षयं निर्विकारम् । मधुहन्तारं विरोधिनिरसनशीलम् । अनेन “न ब्रह्मा नेशानः” इति महोपनिषदुपबृंहिता । परामर्शात् ग्रहणात् ॥ 1.76.17,18 ॥
न चेयं मम काकुत्स्थ व्रीडा भवितुमर्हति ।
त्वया त्रैलोक्यनाथेन यदहं विमुखीकृतः ॥ 1.76.19 ॥
इयं त्वया विमुखीकृतिः । व्रीडा लज्जा ॥ 1.76.19 ॥
शरमप्रतिमं राम मोक्तुमर्हसि सुव्रत ।
शरमोक्षे गमिष्यामि महेन्द्रं पर्वतोत्तमम् ॥ 1.76.20 ॥
तथा ब्रुवति रामे तु जामदग्न्ये प्रतापवान् ।
रामो दाशरथिः श्रीमांश्चिक्षेप शरमुत्तमम् ॥ 1.76.21 ॥
शरमोक्षे सति । अहं दृष्टशरलक्ष्यस्वार्जितलोकगतिः ॥ 1.76.20,21 ॥
स हतान् दृश्य रामेण स्वान् लोकान् तपसार्जितान् ।
जामदग्न्यो जगामाशु महेन्द्रं पर्वतोत्तमम् ॥ 1.76.22 ॥
ततो वितिमिराः सर्वा दिशश्चोपदिशस्तथा ।
सुराः सर्षिगणा रामं प्रशशंसुरुदायुधम् ॥ 1.76.23 ॥
दृश्य दृष्ट्वा । लोकान् हतान् लोकप्राप्तिहेतुकर्माणि विफलीकृतानीत्यर्थः ॥ 1.76.22,23 ॥
रामं दाशरथिं रामो जामदग्न्यः प्रशस्य च ।
ततः प्रदक्षिणं कृत्वा जगामात्मगतिं प्रभुः ॥ 1.76.24 ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे षट्सप्ततितमः सर्गः ॥ 76 ॥
आत्मगतिम् स्वस्थानम् ॥ 1.76.24 ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने षट्सप्ततितमः सर्गः ॥ 76 ॥