श्रीमद्वाल्मीकीयरामायणम्बालकाण्डः
चतुःसप्ततितमः सर्गः
अथ रात्र्यां व्यतीतायां विश्वामित्रो महामुनिः ।
आपृष्ट्वा तौ च राजानौ जगामोत्तरपर्वतम् ॥ 1.74.1 ॥
अथायोध्याप्रस्थाने मध्येमार्गं जामदग्न्यागमनं चतुःसप्ततितमे–अथ रात्र्यामित्यादि । आपृष्ट्वा आपृच्छ्य उत्तरपर्वतं स्वावासं हिमवन्तम् ॥ 1.74.1 ॥
विश्वामित्रे गते राजा वैदेहं मिथिलाधिपम् ।
आपृष्ट्वाथ जगामाशु राजा दशरथः पुरीम् ॥ 1.74.2 ॥
गच्छन्तं तं तु राजानमन्वगच्छन्नराधिपः ॥ 1.74.3 ॥
अथ राजा विदेहानां ददौ कन्याधनं बहु ॥ 1.74.4 ॥
विश्वामित्र इति । आपृष्ट्वा जगामेति क्रियावृत्त्या राजपदावृत्तिः ॥ 1.74.24 ॥
गवां शतसहस्राणि बहूनि मिथिलेश्वरः ।
कम्बलानां च मुख्यानां क्षौमकोट्यम्बराणि च ॥ 1.74.5 ॥
कन्याधनमेव विवृणोति–गवामित्यादि । कम्बलानामित्यत्रापि शतसहस्राणीत्यनुषज्यते । क्षौमकोट्यम्बराणि क्षौमाश्च कोट्यम्बराणि चेति द्वन्द्वः । क्षौमानामपि बहुत्वमर्थसिद्धम्, क्षौमरूपकोट्यम्बराणीति वा, कोट्यम्बराणि उत्कृष्ट वस्त्राणीति वा ॥ 1.74.5 ॥
हस्त्यश्वरथपादातं दिव्यरूपं स्वलङ्कृतम् ।
ददौ कन्यापिता तासां दासीदासमनुत्तमम् ॥ 1.74.6 ॥
हस्तीत्यादिसेनाङ्गत्वादेकवद्भावः । कन्यापिता जनकः । गवाश्वादित्वाद्दासीदासमित्येकवद्भावः ॥ 1.74.6 ॥
हिरण्यस्य सुवर्णस्य मुक्तानां विद्रुमस्य च ।
ददौ परमसंहृष्टः कन्याधनमनुत्तमम् ॥ 1.74.7 ॥
दत्त्वा बहुधनं राजा समनुज्ञाप्य पार्थिवम् ।
प्रविवेश स्वनिलयं मिथिलां मिथिलेश्वरः ॥ 1.74.8 ॥
हिरण्यस्य रजतस्य शतमिति शेषः ॥ 1.74.7,8 ॥
राजाप्ययोध्याधिपतिस्सह पुत्रैर्महात्मभिः ।
ऋषीन् सर्वान् पुरस्कृत्य जगाम सबलानुगः ॥ 1.74.9 ॥
सबलानुगः बलैश्चतुरङ्गैः अनुगैः किङ्करैश्च सहितः ॥ 1.74.9 ॥
गच्छन्तं तं नरव्याघ्रं सर्षिसङ्घं सराघवम् ।
घोराः स्म पक्षिणो वाचो व्याहरन्ति ततस्ततः ।
भौमाश्चैव मृगाः सर्वे गच्छन्ति स्म प्रदक्षिणम् ॥ 1.74.10 ॥
तान् दृष्ट्वा राजशार्दूलो वसिष्ठं पर्यपृच्छत ॥ 1.74.11 ॥
नरव्याघ्रं प्रतीति शेषः । घोरा इत्यनेनाशुभसूचकत्वमुक्तम् । पक्षिणः वायसादयः । प्रदक्षिणमिति शुभसूचनम् । अन्तरिक्षे अशुभसूचनम्, भूमौ शुभसूचनमित्यर्थस्य द्योतनार्थं भौमा इति पदम् ॥ 1.74.10,11 ॥
असौम्याः पक्षिणो घोरा मृगाश्चापि प्रदक्षिणाः ।
किमिदं हृदयोत्कम्पि मनो मम विषीदति ॥ 1.74.12 ॥
राज्ञो दशरथस्यैतच्छ्रुत्वा वाक्यं महानृषिः ।
उवाच मधुरां वाणीं श्रूयतामस्य यत्फलम् ॥ 1.74.13 ॥
हृदयमुत्कम्पयितुं शीलमस्येति हृदयोत्कम्पि । इदं किं सुखोदर्कं दुःखोदर्कं वेति मनो विषीदति, शुभाशुभसूचनदर्शनेनोभयत्र निर्णयकारणाभावादिति भावः ॥ 1.74.12,13 ॥
उपस्थितं भयं घोरं दिव्यं पक्षिमुखाच्च्युतम् ।
मृगाः प्रशमयन्त्येते सन्तापस्त्यज्यतामयम् ॥ 1.74.14 ॥
पक्षिमुखाच्च्युतं पक्षिमुखेन सूचितमित्यर्थः । प्रशमयन्ति प्रशमं सूचयन्तीत्यर्थः ॥ 1.74.14 ॥
तेषां संवदतां तत्र वायुः प्रादुर्बभूव ह ।
कम्पयन् पृथिवीं सर्वां पातयंश्च द्रुमान् शुभान् ॥ 1.74.15 ॥
संवदतां संवदत्सु ॥ 1.74.15 ॥
तमसा संवृतः सूर्यः सर्वा न प्रबभुर्दिशः ।
भस्मना चावृतं सर्वं सम्मूढमिव तद्बलम् ॥ 1.74.16 ॥
वसिष्ठश्चर्षयश्चान्ये राजा च ससुतस्तदा ।
ससञ्ज्ञा इव तत्रासन् सर्वमन्यद्विचेतनम् ॥ 1.74.17 ॥
भस्मना चावृतमभूदिति शेषः ॥ 1.74.16,17 ॥
तस्मिंस्तमसि घोरे तु भस्मच्छन्नेव सा चमूः ।
ददर्श भीमसङ्काशं जटामण्डलधारिणम् ॥ 1.74.18 ॥
भार्गवं जामदग्न्यं तं राजराजविमर्दिनम् ।
कैलासमिव दुर्द्धर्षं कालाग्निमिव दुस्सहम् ॥ 1.74.19 ॥
ज्वलन्तमिव तेजोभिर्दुर्निरीक्षं पृथग्जनैः ।
स्कन्धे चासाद्य परशुं धनुर्विद्युद्गणोपमम् ।
प्रगृह्य शरमुख्यं च त्रिपुरघ्नं यथा शिवम् ॥ 1.74.20 ॥
जामदग्न्यमिति । अनन्तरापत्येति यञ्, गोत्रत्वारोपात् । जामदग्न्येयमिति पाठे– “इतश्चानिञः” इति बह्वच्त्वेप्यार्षत्वाढ्ढक् । पृथग्जनैः पामरैः विद्युद्गणोपममिति तेजस्वितायां दृष्टान्तः । त्रिपुरघ्नमिति तृन् । “अमनुष्यकर्तृके च” इति हन्तेष्टक् ॥ 1.74.1820 ॥
तं दृष्ट्वा भीमसङ्काशं ज्वलन्तमिव पावकम् ।
वसिष्ठप्रमुखा विप्रा जपहोमपरायणाः ॥ 1.74.21 ॥
होमः मानसः ॥ 1.74.21 ॥
सङ्गता मुनयः सर्वे सञ्जजल्पुरथो मिथः ।
कच्चित्पितृवधामर्षी क्षत्रं नोत्सादयिष्यति ॥ 1.74.22 ॥
पूर्वं क्षत्रवधं कृत्वा गतमन्युर्गतज्वरः ।
क्षत्रस्योत्सादनं भूयो न खल्वस्य चिकीर्षितम् ॥ 1.74.23 ॥
एवमुक्त्वार्घ्यमादाय भार्गवं भीमदर्शनम् ।
ऋषयो राम रामेति वचो मधुरमब्रुवन् ॥ 1.74.24 ॥
प्रतिगृह्य तु तां पूजामृषिदत्तां प्रतापवान् ।
रामं दाशरथिं रामो जामदग्न्यो ऽभ्यभाषत ॥ 1.74.25 ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुःसप्ततितमः सर्गः ॥ 74 ॥
कच्चिदिति । मनसो विमर्शे नोत्सादयिष्यतीत्यत्र हेतुमाहपूर्वमिति ॥ 1.74.2225 ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने चतुःसप्ततितमः सर्गः ॥ 74 ॥