श्रीमद्वाल्मीकीयरामायणम्बालकाण्डः
त्रिसप्ततितमः सर्गः
यस्मिंस्तु दवसे राजा चक्रे गोदानमुत्तमम् ।
तस्मिंस्तु दिवसे शूरो युधाजित् समुपेयिवान् ॥ 1.73.1 ॥
अथ सीताविवाहस्त्रिसप्ततितमे–यस्मिन्नित्यादि ॥ 1.73.1 ॥
पुत्रः केकय राजस्य साक्षाद्भरतमातुलः ।
दृष्ट्वा पृष्ट्वा च कुशलं राजानमिदमब्रवीत् ॥ 1.73.2 ॥
साक्षात्पदेन भिन्नोदरमातुलोप्यस्तीति गम्यते ॥ 1.73.2 ॥
केकयाधिपती राजा स्नेहात्कुशलमब्रवीत् ।
येषां कुशलकामो ऽसि तेषां सम्प्रत्यनामयम् ॥ 1.73.3 ॥
केकयाधिपतिः स्वपिता । अनामयं कुशलं विद्यत इति शेषः ॥ 1.73.3 ॥
स्वस्रीयं मम राजेन्द्र द्रष्टुकामो महीपतिः ।
तदर्थमुपयातो ऽहमयोध्यां रघुनन्दन ॥ 1.73.4 ॥
श्रुत्वा त्वहमयोध्यायां विवाहार्थं तवात्मजान् ।
मिथिलामुपयातांस्तु त्वया सह महीपते ।
त्वरयाभ्युपयातो ऽहं द्रष्टुकामः स्वसुः सुतम् ॥ 1.73.5 ॥
अथ राजा दशरथः प्रियातिथिमुपस्थितम् ।
दृष्ट्वा परमसत्कारैः पूजनार्हमपूजयत् ॥ 1.73.6 ॥
स्वसुरपत्यं स्वस्रीयः ॥ 1.73.46 ॥
ततस्तामुषितो रात्रिं सह पुत्रैर्महात्मभिः ।
प्रभाते पुनरुत्थाय कृत्वा कर्माणि कर्मवित् ।
ऋषींस्तदा पुरस्कृत्य यज्ञवाटमुपागमत् ॥ 1.73.7 ॥
यज्ञवाटं यज्ञवाटसमीपम् । अत्र यज्ञवाटशब्देनोत्सवशालोच्यते । पूर्वं यज्ञस्यान्त इत्युक्तत्वेन यज्ञस्य समाप्तत्वात् उत्तरसर्गे दशरथानुयानोक्तेश्च ॥ 1.73.7 ॥
युक्ते मुहूर्ते विजये सर्वाभरणभूषितैः ।
भ्रातृभिः सहितो रामः कृतकौतुकमङ्गलः ।
वसिष्ठं पुरतः कृत्वा महर्षीनपरानपि ॥ 1.73.8 ॥
वसिष्ठो भगवानेत्य वैदेहमिदमब्रवीत् ॥ 1.73.9 ॥
युक्ते विवाहानुरूपे । विजये विजयावहे न तु विजयाख्ये, तस्यापराह्णिकत्वात् । मुहूर्तशब्दस्य घटिकाद्वयपरत्वे विजयः पूर्वाह्ण एव भवति । पुरतः कृत्वा उपागमदिति शेषः । कृतकौतुकमङ्गलः कृतविवाहसूत्रबन्धनरूपमङ्गलाचारः । “कौतुकं विषयाभोगे हस्तसूत्रे” इत्यमरः ॥ 1.73.8,9 ॥
राजा दशरथो राजन् कृतकौतुकमङ्गलैः ।
पुत्रैर्नरवरश्रेष्ठ दातारमभिकाङ्क्षते ॥ 1.73.10 ॥
दातारमिति । त्वामिति शेषः ॥ 1.73.10 ॥
दातृप्रतिगृहीतृभ्यां सर्वार्थाः प्रभवन्ति हि ।
स्वधर्मं प्रतिपद्यस्व कृत्वा वैवाह्यमुत्तमम् ॥ 1.73.11 ॥
इत्युक्तः परमोदारो वसिष्ठेन महात्मना ।
प्रत्युवाच महातेजा वाक्यं परमधर्मवित् ॥ 1.73.12 ॥
दातृप्रतिगृहीतृभ्यामिति । योग इति शेषः । सर्वार्थाः दानप्रतिग्रहादयः । विवाह एव वैवाह्यं कृत्वा । स्वधर्मं प्रतिज्ञारूपम् ॥ 1.73.11,12 ॥
कः स्थितः प्रतिहारो मे कस्याज्ञा सम्प्रतीक्षते ।
स्वगृहे को विचारो ऽस्ति यथा राज्यमिदं तव ॥ 1.73.13 ॥
प्रतिहारः द्वारपालः । किमर्थं द्रुतमागमनं परिह्रियत इति भावः । यथेति । त्वदीयं राज्यमिव मदीयमपि राज्यं तवैव तथा च मद्गृहमात्रस्य स्वीयत्वे को विचार इत्यर्थः ॥ 1.73.13 ॥
कृतकौतुकसर्वस्वा वेदिमूलमुपागताः ।
मम कन्या मुनिश्रेष्ठ दीप्ता वह्नेरिवार्चिषः ॥ 1.73.14 ॥
कृतकौतुकसर्वस्वाः अनुष्ठितविवाहोपयोगि सर्वमङ्गलाचाराः ॥ 1.73.14 ॥
सज्जो ऽहं त्वत्प्रतीक्षो ऽस्मि वेद्यामस्यां प्रतिष्ठितः ।
अविघ्नं कुरु तां राजा किमर्थमवलम्बते ॥ 1.73.15 ॥
अविघ्नं अविलम्बम् । अवलम्बते विलम्बते ॥ 1.73.15 ॥
तद्वाक्यं जनकेनोक्तं श्रुत्वा दशरथस्तदा ।
प्रवेशयामास सुतान् सर्वानृषिगणानपि ॥ 1.73.16 ॥
श्रुत्वेति वसिष्ठप्रेरितपुरुषमुखादित्यर्थः ॥ 1.73.16 ॥
ततो राजा विदेहानां वसिष्ठमिदमब्रवीत् ।
कारयस्व ऋषे सर्वामृषिभिः सहधार्मिक ।
रामस्य लोकरामस्य क्रियां वैवाहिकीं प्रभो ॥ 1.73.17 ॥
तत इति । लोका रमन्ते ऽस्मिन्निति लोकरामः । तस्य ॥ 1.73.17 ॥
तथेत्युक्त्वा तु जनकं वसिष्ठो भगवानृषिः ।
विश्वामित्रं पुरस्कृत्य शतानन्दं च धार्मिकम् ॥ 1.73.18 ॥
प्रपामध्ये तु विधिवद्वेदिं कृत्वा महातपाः ।
अलञ्चकार तां वेदिं गन्धपुष्पैः समन्ततः ॥ 1.73.19 ॥
सुवर्णपालिकाभिश्च छिद्रकुम्भैश्च साङ्कुरैः ।
अङ्कुराढ्यैः शरावैश्च धूपपात्रैः सधूपकैः ॥ 1.73.20 ॥
शङ्खपात्रैः स्रुवैः स्रुग्भिः पात्रैरर्घ्याभिपूरितैः ।
लाजपूर्णेश्च पात्रीभिरक्षतैरभिसंस्कृतैः ॥ 1.73.21 ॥
तथेत्यादि । प्रपा पानीयशालिका । अभिनवनालिकेरादिपत्ररचितमण्डप इत्यर्थः । सुवर्णपालिकाभिः साङ्कुराभिरिति लिङ्गविपरिणामेनानुकृष्यते । छिद्रकुम्भैः करकैः । शङ्खपात्रैः शङ्खरूपपात्रैः । स्रुक्स्रुवौ आज्यहोमसाधनपात्रविशेषौ । अर्घ्याभिपूरितैः अर्घ्यार्थजलपूरितैः । लाजपूर्णैः पात्रैरित्यनुषज्यते । पात्रीभिः कार्यान्तरोपयुक्तपात्रान्तरैः । अभिसंस्कृतैः हरिद्रालेपनादिसंस्कारवद्भिः । अलञ्चकारेति पूर्वेणान्वयः ॥ 1.73.1821 ॥
दर्भैः समैः समास्तीर्य विधिवन्मन्त्रपूर्वकम् ।
अग्निमाधाय वेद्यां तु विधिमन्त्रपुरस्कृतम् ।
जुहावाग्नौ महातेजा वसिष्ठो भगवानृषिः ॥ 1.73.22 ॥
श्रीसीताविवाहमहोत्सवघट्टः
ततः सीतां समानीय सर्वाभरणभूषिताम् ।
समक्षमग्नेः संस्थाप्य राघवाभिमुखे तदा ।
अब्रवीज्जनको राजा कौसल्यानन्दवर्द्धनम् ॥ 1.73.23 ॥
समै समपरिमाणैः । अत्र पाणिग्रहणात्पूर्वं होमः आभ्युदयिकः ॥ 1.73.22,23 ॥
इयं सीता मम सुता सहधर्मचरी तव ।
प्रतीच्छ चैनां भद्रं ते पाणिं गृह्णीष्व पाणिना ॥ 1.73.24 ॥
अथ सौन्दर्याभिजात्यादिना सीतायाः प्रतिग्रहार्हतां वदन् प्रतिग्रहमनुजानाति इयमिति । इयम् अपरिच्छेद्य सौन्दर्यसौकुमार्यलावण्यादिकं प्रत्यक्षेण निर्दिशति । न केवलं प्रत्यक्षं सौन्दर्यादिकम् । प्रत्यक्षदृष्टमप्यनुमानेन बुभुत्समानस्यायोनिजत्वेनानुमेयं चेत्याह सीता । ‘सीता लाङ्गलपद्धतिः’ तज्जन्यतया तथा व्यपदेशः । इयं सीता या सिद्धाश्रमात्प्रभृति धनुर्भङ्गादिना कुतूहलगोचरतामासादिता सेयं सीता । यद्वा सीतादर्शनदशायां विद्युत्स्फुरणसमय इव क्वचिदप्यवयविप्रतिपत्त्यभावेन ससम्भ्रमं रामं प्रत्याह इयं सीतेति । यद्वा “प्रासादे सा पथि पथि च सा पृष्ठतः सा पुरः सा” इत्युक्तरीत्या अनवरतभावनाप्रकर्षेण सर्वत्र सीतायाः प्रतीयमानत्वादाह इयं सीतेति । यद्वा यथा राम आत्मानं मानुषं मन्यते, एवं सीतापि । अतो राघवत्वे भवत्सीतेत्याह इयं सीतेति । न केवलं सौन्दर्यमस्मदपेक्षितम्, किन्त्वाभिजात्यं चेत्यत्राह मम सुतेति ।
आचारप्रधानजनककुलजातायाः किं वक्तव्यमाभिजात्यमिति भावः । यद्वा मम सुता ‘महता तपसा राम’ इतिवत् तुभ्यं दातुं विरचितविविधव्रतोपवासादिकस्य मम कन्येत्यर्थः । अस्त्वियं सुन्दरी भोगार्था, धर्माचरणार्थमन्यया भवितव्यमिति मन्येतेत्यत्राह–सहधर्मचरी तवेति । भोगार्थेयमेव धर्माचरणार्थापीति भावः । समानो धर्मः सहधर्मः, तं चरतीति सहधर्मचरी । “दोषो यद्यपि तस्य स्यात् सतामेतदगर्हितम् ।” इति वक्तुस्तवानुरूपेयम् “न कश्चिन्नापराध्यति” इति वक्तीति भावः । एवं सौन्दर्याभिजात्यधर्माचरणशीलत्वादिमत्त्वे ऽपि त्वदनुमत्यभावान्नैनां प्रतिगृह्णामीत्यत्राहप्रतीच्छ चैनामिति । प्रतीच्छ गृहाण । सीतायाः रामाविनाभूततया तस्याः प्रदानानर्हत्वात् ददामीत्यनुक्तिः । भद्रं ते–स्वतःसिद्धायाः कस्त्वं दातुमिति रामः कुप्येदिति सान्त्वयति । यद्वा निरतिशयकन्यालक्षणशालिन्या अस्याः प्रतिग्रहे भवतः सर्वाणि मङ्गलानि भविष्यन्तीत्यर्थः । यद्वा अनुरूपवधूवरयोः संयोगे दृष्टिदोषो भविष्यतीति मङ्गलमाशास्ते भद्रं त इति । एवं मयानुज्ञाते गान्धर्वराक्षसाभ्यामुद्वहेदिति भीतः प्राह–पाणिं गृह्णीष्वेति । “यदि कामयेत स्त्रीरेव जनयेयमित्यङ्गुलीरेव गृह्णीयात्” इत्याद्युक्तकामव्यावृत्तये पाणिमित्युक्तम् । प्रणयधारायां पादग्रहणमस्तु, सम्प्रति पाणिं गृह्णीष्व पाणिनेति साहित्यकृतशोभाविशेषदर्शनाभिलाषेणोक्तम् । ब्राह्मणस्यैव पाणिग्रहणम्, क्षत्रियादेः शरादिग्रहणं विहितम् अतः कथमिदं सङ्गच्छत इति न शङ्कनीयम्, तस्यासवर्णविषयत्वात् । आह मनुः– “पाणिग्रहणसंस्कारः सवर्णासु प्रदृश्यते । असवर्णास्वयं ज्ञेयो विधिरुद्वाहकर्मणि । शरः क्षत्रियया ग्राह्यः प्रतोदो वैश्यकन्यया । वासोदशा शूद्रया तु वर्णोत्कृष्टस्य वेदने ॥” इति। अतः सर्ववर्णानामपि सवर्णासु पाणिग्रहोऽस्त्येव ॥ 1.73.24 ॥
पतिव्रता महाभागा छायेवानुगता सदा ।
इत्युक्त्वा प्राक्षिपद्राजा मन्त्रपूतं जलं तदा ॥ 1.73.25 ॥
पतिव्रतेत्यादि । भविष्यतीति शेषः, प्राक्षिपत् रामहस्त इति शेषः ॥ 1.73.25 ॥
साधु साध्विति देवानामृषीणां वदतां तदा ।
देवदुन्दुभिनिर्घोषः पुष्पवर्षो महानभूत् ॥ 1.73.26 ॥
एवं दत्त्वा तदा सीतां मन्त्रोदकपुरस्कृताम् ।
अब्रवीज्जनको राजा हर्षेणाभिपरिप्लुतः ॥ 1.73.27 ॥
शुभनिमित्तमाह–साध्विति । वदतां वदत्सु । पुष्पवर्षः पुष्पवर्षश्च ॥ 1.73.26,27 ॥
लक्ष्मणागच्छ भद्रं ते ऊर्मिलामुद्यतां मया ।
प्रतीच्छ पाणिं गृह्णीष्व माभूत्कालस्य पर्ययः ॥ 1.73.28 ॥
तमेवमुक्त्वा जनको भरतं चाभ्यभाषत ।
गृहाण पाणिं माण्डव्याः पाणिना रघुनन्दन ॥ 1.73.29 ॥
शत्रुघ्नं चापि धर्मात्मा अब्रवीज्जनकेश्वरः ।
श्रुतकीर्त्या महाबाहो पाणिं गृह्णीष्व पाणिना ॥ 1.73.30 ॥
पर्ययः विलम्ब इत्यर्थः । भिन्नमातृकत्वात् भरतात्पूर्वं लक्ष्मणविवाहो न दुष्यति । “पितृव्यपुत्रे सापत्ने परनारीसुतेषु वा । विवाहदानयज्ञादौ परिवेदो न दूषणम् ॥” इति स्मरणात् ॥ 1.73.2830 ॥
सर्वे भवन्तः सौम्याश्च सर्वे सुचरितव्रताः ।
पत्नीभिः सन्तु काकुत्स्था माभूत्कालस्य पर्ययः ॥ 1.73.31 ॥
जनकस्य वचः श्रुत्वा पाणीन् पाणिभिरस्पृशन् ।
चत्वारस्ते चतसृ़णां वसिष्ठस्य मते स्थिताः ॥ 1.73.32 ॥
पत्नीभिः सहिता इति शेषः । अत्रोदकप्रदानमर्थसिद्धम् । जनकेनानुज्ञामात्रं कृतम्, ज्येष्ठत्वात् । उदकप्रक्षेपणं तु माण्डवीश्रुतकीर्त्योः कुशध्वजेनैव । तदाह याज्ञवल्क्यः– “पिता पितामहो भ्राता सकुल्यो जननी तथा । कन्याप्रदः पूर्वनाशे प्रकृतिस्थः परः परः ॥” इति ॥ 1.73.31,32 ॥
अग्निं प्रदक्षिणीकृत्य वेदिं राजानमेव च ।
ऋषींश्चैव महात्मानः सभार्या रघुसत्तमाः ।
यथोक्तेन तदा चक्रुर्विवाहं विधिपूर्वकम् ॥ 1.73.33 ॥
अग्निमिति । अत्रैकस्यां वेदिकायां एकस्मिन्नेवाग्नौ वसिष्ठो जुहाव तेनैवमेकमग्निं सर्वे स्वस्वभार्यापाणीन् गृहीत्वा प्रदक्षिणीकृत्य चक्रुरित्युत्तरत्रान्वयः । राजानं जनकम्, यथोक्तेन शास्त्रोक्तप्रकारेण । विधिपूर्वकं कल्पसूत्रपूर्वकम् । विवाहं विवाहकर्म । तदा तस्मिन्काले । चक्रुः स्वसूत्रानुरोधेन प्रत्येकं पाणिग्रहणहोमं चक्रुरित्यर्थः । पूर्वं वसिष्ठेन होमवचनमाभ्युदयिककर्मपरम् । अग्निप्रतिष्ठापनपूर्वकं विवाहहोमो ऽत्रोच्यते । पाणिग्रहणानन्तरमग्निं ब्राह्मणान् दातारं जनकं च प्रदक्षिणीकृत्य स्वकल्पोक्तविधानेन प्रत्येकमग्निं प्रतिष्ठाप्य विवाहहोमांश्चक्रुरित्यर्थः ॥ 1.73.33 ॥
पुष्पवृष्टिर्महत्यासीदन्तरिक्षात्सुभास्वरा ।
दिव्यदुन्दुभिनिर्घोषैर्गीतवादित्रनिस्वनैः ॥ 1.73.34 ॥
सीताप्रदानकालिकशुभं निमित्तमुक्तम् । अथ सर्वसाधारण्येन विवाहकर्मकालिकशुभनिमित्तानि दर्शयति–पुष्पवृष्टिरिति ॥ 1.73.34 ॥
ननृतुश्चाप्सरस्सङ्घा गन्धर्वाश्च जगुः कलम् ।
विवाहे रघुमुख्यानां तदद्भुतमदृश्यत ॥ 1.73.35 ॥
तत् पुष्पवृष्ट्यादिकम् ॥ 1.73.35 ॥
ईदृशे वर्तमाने तु तूर्योद्घुष्टनिनादिते ।
त्रिरग्निं ते परिक्रम्य ऊहुर्भार्या महौजसः ॥ 1.73.36 ॥
अथ लाजहोमपूर्वकं स्वस्वाग्निप्रदक्षिणत्रयं दर्शयति–ईदृश इति । ईदृशे पूर्वोक्तरूपे । तूर्याणां नृत्यगीतवाद्यानाम् । उद्घुष्टेन उद्घोषणेन । निनादिते नादे प्रतिध्वनिरूपे वर्तमाने । अग्निं स्वस्वाग्निं । त्रिःपरिक्रम्य ऊहुः विवाहं निर्वर्तयामासुः ॥ 1.73.36 ॥
अथोपकार्यां जग्मुस्ते सभार्या रघुनन्दनाः ।
राजाप्यनुययौ पश्यन् सर्षिसङ्घः सबान्धवः ॥ 1.73.37 ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रिसप्ततितमः सर्गः ॥ 73 ॥
राजा दशरथः । पश्यन् सभार्यान् पुत्रानित्यर्थः ॥ 1.73.37 ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने त्रिसप्ततितमः सर्गः ॥ 73 ॥