०७१ जनककुलवर्णनम्

श्रीमद्वाल्मीकीयरामायणम्बालकाण्डः
एकसप्ततितमः सर्गः

एवं ब्रुवाणं जनकः प्रत्युवाच कृताञ्जलिः ।

श्रोतुमर्हसि भद्रं ते कुलं नः परिकीर्तितम् ॥ 1.71.1 ॥

प्रदाने हि मुनिश्रेष्ठ कुलं निरवशेषतः ।

वक्तव्यं कुलजातेन तन्निबोध महामुने ॥ 1.71.2 ॥

एवं वसिष्ठेन वरवंशकीर्तनपूर्वकं वधूवरणे कृते जनकः स्ववंशविशुद्धताज्ञापनपूर्वकं कन्याप्रदानं प्रतिजानीते एकसप्ततितमे– एवं ब्रुवाणमित्यादि ॥ 1.71.1,2 ॥

राजाभूत् त्रिषु लोकेषु विश्रुतः स्वेन कर्मणा ।

निमिः परमधर्मात्मा सर्वसत्त्ववतां वरः ॥ 1.71.3 ॥

सत्त्ववतां बलवताम् ॥ 1.71.3 ॥

तस्य पुत्रो मिथिर्नाम मिथिला येन निर्मिता ।

प्रथमो जनको नाम जनकादप्युदावसुः ॥ 1.71.4 ॥

उदावसोस्तु धर्मात्मा जातो वै नन्दिवर्द्धनः ।

नन्दिवर्द्धनपुत्रस्तु सुकेतुर्नाम नामतः ॥ 1.71.5 ॥

सुकेतोरपि धर्मात्मा देवरातो महाबलः ।

देवरातस्य राजर्षेर्बृहद्रथ इति स्मृतः ॥ 1.71.6 ॥

प्रथम इति । मिथिमारभ्यास्माकं जनकसञ्ज्ञेति भावः ॥ 1.71.46 ॥

बृहद्रथस्य शूरो ऽभून्महावीरः प्रतापवान् ।

महावीरस्य धृतिमान् सुधृतिः सत्यविक्रमः ॥ 1.71.7 ॥

सुधृतेरपि धर्मात्मा दृष्टकेतुः सुधार्मिकः ।

दृष्टकेतोस्तु राजर्षेर्हर्यश्व इति विश्रुतः ॥ 1.71.8 ॥

हर्यश्वस्य मरुः पुत्रो मरोः पुत्रः प्रतिन्धकः ।

प्रतिन्धकस्य धर्मात्मा राजा कीर्तिरथः सुतः ॥ 1.71.9 ॥

पुत्रः कीर्तिरथस्यापि देवमीढ इति स्मृतः ।

देवमीढस्य विबुधो विबुधस्य महीध्रकः ॥ 1.71.10 ॥

महीध्रकसुतो राजा कीर्तिरातो महाबलः ।

कीर्तिरातस्य राजर्षेर्महारोमा व्यजायत ॥ 1.71.11 ॥

महारोम्णस्तु धर्मात्मा स्वर्णरोमा व्यजायत ।

स्वर्णरोम्णस्तु राजर्षेर्ह्रस्वरोमा व्यजायत ॥ 1.71.12 ॥

तस्य पुत्रद्वयं जज्ञे धर्मज्ञस्य महात्मनः ।

ज्येष्ठो ऽहमनुजो भ्राता मम वीरः कुशध्वजः ॥ 1.71.13 ॥

सुधृतिरित्यन्वर्थसञ्ज्ञाज्ञापनार्थं विशेषणद्वयम् ॥ 1.71.713 ॥

मां तु ज्येष्ठं पिता राज्ये सो ऽभिषिच्य नराधिपः ।

कुशध्वजं समावेश्य भारं मयि वनं गतः ॥ 1.71.14 ॥

भारं भरणीयम्, पोषणीयमिति यावत् ॥ 1.71.14 ॥

वृद्धे पितरि स्वर्याते धर्मेण धुरमावहम् ।

भ्रातरं देवसङ्काशं स्नेहात्पश्यन् कुशध्वजम् ॥ 1.71.15 ॥

धुरं राज्यभारम् ॥ 1.71.15 ॥

कस्य चित्त्वथ कालस्य साङ्काश्यादगमत् पुरात् ।

सुधन्वा वीर्यवान् राजा मिथिलामवरोधकः ॥ 1.71.16 ॥

स च मे प्रेषयामास शैवं धनुरनुत्तमम् ।

सीता कन्या च पद्माक्षी मह्यं वै दीयतामिति ॥ 1.71.17 ॥

कस्यचित्कालस्य कस्मिंश्चित्काले गते । अवरोधकः अवरोद्धुमित्यर्थः । “तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्” इति ण्वुल् ॥ 1.71.16,17 ॥

तस्या ऽप्रदानाद्ब्रह्मर्षे युद्धमासीन्मया सह ।

स हतो ऽभिमुखो राजा सुधन्वा तु मया रणे ॥ 1.71.18 ॥

निहत्य तं मुनिश्रेष्ठ सुधन्वानं नराधिपम् ।

साङ्काश्ये भ्रातरं वीरमभ्यषिञ्चं कुशध्वजम् ॥ 1.71.19 ॥

तस्य सुधन्वनः । अप्रदानात् सीताधनुषोरप्रदानात् ॥ 1.71.18,19 ॥

कनीयानेष मे भ्राता अहं ज्येष्ठो महामुने ।

ददामि परमप्रीतो वध्वौ ते मुनिपुङ्गव ॥ 1.71.20 ॥

ते वध्वौ ददामि स्नुषात्वेन ददामि । वसिष्ठेन वरणात्ते ददामीत्युक्तम् ॥ 1.71.20 ॥

सीतां रामाय भद्रं ते ऊर्मिलां लक्ष्मणाय च ॥ 1.71.21 ॥

वध्वावित्युक्तं व्यवस्थया दर्शयति–सीतामित्यर्द्धेन ॥ 1.71.21 ॥

वीर्यशुल्कां मम सुतां सीतां सुरसुतोपमाम् ।

द्वितीयामूर्मिलां चैव त्रिर्ददामि न संशयः ॥ 1.71.22 ॥

उक्तमर्थं सनिमित्तमुपपादयतिवीर्येति । वीर्यशुल्कामित्येतदूर्मिलाया अपि विशेषणम् । यद्यपि रामेणैव धनुर्भङ्गः कृतः तथापि तादृशशक्तेर्लक्ष्मणे ऽपि दर्शनात्तद्वीर्यमेव ऊर्मिलाया अपि शुल्कमित्यर्थः । ऊर्मिला जनकस्यौरसपुत्री । त्रिः त्रिवारं त्रिभिः करणैर्वा ॥ 1.71.22 ॥

रामलक्ष्मणयो राजन् गोदानं कारयस्व ह ।

पितृकार्यं च भद्रं ते ततो वैवाहिकं कुरु ॥ 1.71.23 ॥

गोदानं नाम, विवाहपूर्वसमयनियतं किञ्चित्कर्म । गावः केशाः दोःपादमूलरोमाणि च यत्र खण्यन्ते तदेतद्गोदानं नाम समावर्तनाख्यं कर्मेत्याहुः । वैवाहिकं पितृकार्यं नान्दीश्राद्धम् ॥ 1.71.23 ॥

मघा ह्यद्य महाबाहो तृतीये दिवसे विभो ।

फल्गुन्यामुत्तरे राजंस्तस्मिन् वैवाहिकं कुरु ।

रामलक्ष्मणयो राजन् दानं कार्यं सुखोदयम् ॥ 1.71.24 ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकसप्ततितमः सर्गः ॥ 71 ॥

तृतीये भाविनि फल्गुन्यां फल्गुन्याख्ये । उत्तरे उत्तरनक्षत्रे । वैवाहिकं विवाहप्रयोजनम् । “तदस्य प्रयोजनम्” इति ठक् । दानं गोभूतिलहिरण्यादिदानम् । सुखोदयं सुखोदर्कम्, वधूवरयोरतिशयावहमित्यर्थः । कार्यमिति सामान्योक्त्या मयापि कन्यार्थं क्रियत इति सूचितम् । कन्यादाने उत्तरफल्गुन्याः प्रशस्तत्वमुक्तं ज्यौतिषे “त्रीण्युत्तराण्यपि तथार्कमघानुराधामूलान्त्यसोमकमलोद्भवभान्युडूनि” इति ॥ 1.71.24 ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने एकसप्ततितमः सर्गः ॥ 71 ॥