०६५ विश्वामित्र-ब्रह्मर्षित्व-प्राप्तिः

श्रीमद्वाल्मीकीयरामायणम्बालकाण्डः
पञ्चषष्टितमः सर्गः

अथ हैमवतीं राम दिशं त्यक्त्वा महामुनिः ।

पूर्वां दिशमनुप्राप्य तपस्तेपे सुदारुणम् ॥ 1.65.1 ॥

अथ विश्वामित्रस्य ब्रह्मर्षित्वप्राप्तिः पञ्चषष्टितमे–अथ हैमवतीमित्यादि ॥ 1.65.1 ॥

मौनं वर्षसहस्रस्य कृत्वा व्रतमनुत्तमम् ।

चकाराप्रतिमं राम तपः परमदुष्करम् ॥ 1.65.2 ॥

वर्षसहस्रस्य वर्षसहस्रसम्बन्धि, तत्साध्यमित्यर्थः । मौनव्रतं मौनरूपं व्रतम् । कृत्वा सङ्कल्प्येत्यर्थः ॥ 1.65.2 ॥

पूर्णे वर्षसहस्रे तु काष्ठभूतं महामुनिम् ।

विघ्नैर्बहुभि राधूतं क्रोधो नान्तरमाविशत् ॥ 1.65.3 ॥

स कृत्वा निश्चयं राम तप आतिष्ठदव्ययम् ॥ 1.65.4 ॥

काष्ठभूतं काष्ठवदवस्थितम् ॥ आधूतं आकुलीकृतमपि । आन्तरं अन्तरवन्तम्, दृढान्तःकरणवन्तमिति यावत् । यद्वा तं प्रति क्रोधः अन्तरं अवकाशं नाविशत् ॥ 1.65.3,4 ॥

तस्य वर्षसहस्रस्य व्रते पूर्णे महाव्रतः ।

भोक्तुमारब्धवानन्नं तस्मिन् काले रघूत्तम ।

इन्द्रो द्विजातिर्भूत्वा तं सिद्धमन्नमयाचत ॥ 1.65.5 ॥

तस्य पूर्वसङ्कल्पितस्य । वर्षसहस्रस्य सम्बन्धिनि व्रते पूर्णे । तस्मिन् काले पारणकाले । सिद्धं पक्वम् । याचिर्द्विकर्मकः ॥ 1.65.5 ॥

तस्मै दत्त्वा तदा सिद्धं सर्वं विप्राय निश्चितः ।

निःशेषिते ऽन्ने भगवानभुक्त्वैव महातपाः ।

न किञ्चिदवदद्विप्रं मौनव्रतमुपस्थितः ॥ 1.65.6 ॥

अथ वर्षसहस्रं वै नोच्छ्वसन् मुनिपुङ्गवः ॥ 1.65.7 ॥

निश्चितः तपःसिद्धये सर्वथैवान्नं दातव्यमिति निश्चयवानित्यर्थः । निश्चितः अशङ्कित इति वा । निःशेषित इत्यनेन सर्वमन्नमिन्द्रेण याचितमिति गम्यते । अभुक्त्वेति पुनः पाकार्हतण्डुलासम्पादनादिति भावः ॥ 1.65.6,7 ॥

तस्यानुच्छ्वसमानस्य मूर्ध्नि धूमो व्यजायत ।

त्रैलोक्यं येन सम्भ्रान्तमादीपितमिवाभवत् ॥ 1.65.8 ॥

आदीपितं तापितम् ॥ 1.65.8 ॥

ततो देवास्सगन्धर्वाः पन्नगासुरराक्षसाः ।

मोहितास्तेजसा तस्य तपसा मन्दरश्मयः ।

कश्मलोपहताः सर्वे पितामहमथाब्रुवन् ॥ 1.65.9 ॥

तत इत्यादि । तपसा तेजसा तपोरूपाग्निना । मोहिता मूर्च्छिताः । कश्मलोपहताः दुःखोपहताः ॥ 1.65.9 ॥

बहुभिः कारणैर्देव विश्वामित्रो महामुनिः ।

लोभितः क्रोधितश्चैव तपसा चाभिवर्द्धते ।

न ह्यस्य वृजिनं किञ्चिद्दृश्यते सूक्ष्ममप्यथ ॥ 1.65.10 ॥

लोभितः लोभकारणैः रम्भादर्शनादिभिः प्रलोभितः । क्रोधितः क्रोधकारणैर्वर्षसहस्रान्तसिद्धकृत्स्नान्नयाचनादिभिः क्रोधितः । वृजिनं पापं रागद्वेषादिलक्षण्ाम् । सूक्ष्मं स्वल्पम् ॥ 1.65.10 ॥

न दीयते यदि त्वस्य मनसा यदभीप्सितम् ।

विनाशयति त्रैलोक्यं तपसा सचराचरम् ॥ 1.65.11 ॥

विनाशयति विनाशयेत् । असाविति शेषः ॥ 1.65.11 ॥

व्याकुलाश्च दिशः सर्वा न च किञ्चित्प्रकाशते ।

सागराः क्षुभिताः सर्वे विशीर्यन्ते च पर्वताः ॥ 1.65.12 ॥

प्रकम्पते च पृथिवी वायुर्वाति भृशाकुलः ।

ब्रह्मन्न प्रतिजानीमो नास्तिको जायते जनः ॥ 1.65.13 ॥

व्याकुला इत्यादि । न प्रतिजानीमः प्रतिक्रियामिति शेषः । नास्तिको जायत इति उक्तसङ्क्षोभवशान्नास्तिक इव कर्मानुष्ठानशून्यो जायत इत्यर्थः ॥ 1.65.12,13 ॥

सम्मूढमिव त्रैलोक्यं सम्प्रक्षुभितमानसम् ।

भास्करो निष्प्रभश्चैव महर्षेस्तस्य तेजसा ॥ 1.65.14 ॥

उक्तार्थानुवादपूर्वकमनुष्ठेयांश उच्यते सम्मूढमिवेत्यादि ॥ 1.65.14 ॥

बुद्धिं न कुरुते यावन्नाशे देव महामुनिः ।

तावत्प्रसाद्यो भगवानग्निरूपो महाद्युतिः ॥ 1.65.15 ॥

बुद्धिमिति । हे देव ब्रह्मन् । अतःपरं विश्वामित्रः नाशे जगत्क्षये यावत् बुद्धिं न कुरुते तावत्प्रसाद्यः अनुग्राह्यः ॥ 1.65.15 ॥

कालाग्निना यथा पूर्वं त्रैलाक्यं दह्यते ऽखिलम् ।

देवराज्यं चिकीर्षेत दीयतामस्य यन्मतम् ॥ 1.65.16 ॥

कालाग्निनेति । पूर्वं प्रलयकाले । कालाग्निना त्रैलोक्यं यथा अदह्यत तथैव त्रैलोक्यमनेन दह्यते धक्ष्यते । अयं देवराज्यं चिकीर्षेतापि अतः अस्य यत् ब्रह्मर्षित्वं मतम्, तद्दीयतामित्यर्थः ॥ 1.65.16 ॥

ततः सुरगणाः सर्वे पितामहपुरोगमाः ।

विश्वामित्रं महात्मानं वाक्यं मधुरमब्रुवन् ।

ब्रह्मर्षे स्वागतं ते ऽस्तु तपसा स्म सुतोषिताः ॥ 1.65.17 ॥

तत इत्यादि । ततः देवविज्ञापनानन्तरम् ॥ 1.65.17 ॥

ब्राह्मण्यं तपसोग्रेण प्राप्तवानसि कौशिक ।

दीर्घमायुश्च ते ब्रह्मन् ददामि समरुद्गणः ।

स्वस्ति प्राप्नुहि भद्रं ते गच्छ सौम्य यथासुखम् ॥ 1.65.18 ॥

पितामहवचः श्रुत्वा सर्वेषां च दिवौकसाम् ।

कृत्वा प्रणामं मुदितो व्याजहार महामुनिः ॥ 1.65.19 ॥

ब्राह्मण्यमित्यादि । ब्रह्मवचनं प्राधान्येन ॥ 1.65.18,19 ॥

ब्राह्मण्यं यदि मे प्राप्तं दीर्घमायुस्तथैव च ।

ओङ्कारश्च वषट्कारो वेदाश्च वरयन्तु माम् ॥ 1.65.20 ॥

वरयन्तु अध्यापनयाजनार्हा भवन्तु इत्यर्थः ॥ 1.65.20 ॥

क्षत्रवेदविदां श्रेष्ठो ब्रह्मवेदविदामपि ।

ब्रह्मपुत्रो वसिष्ठो मामेवं वदतु देवताः ।

यद्ययं परमः कामः कृतो यान्तु सुरर्षभाः ॥ 1.65.21 ॥

ततः प्रसादितो देवैर्वसिष्ठो जपतां वरः ।

सख्यं चकार ब्रह्मर्षिरेवमस्त्विति चाब्रवीत् ॥ 1.65.22 ॥

ब्रह्मानुग्रहे ऽपि सजातीयपरिग्रहार्थमाह–क्षत्रेति । क्षत्रवेदाः क्षत्रियाणां शान्ति पुष्ट्यादिप्रयोजना आथर्वणवेदाः । तद्विदां श्रेष्ठः सूर्यवंशानादिपुरोहितत्वादिति भावः । ब्रह्मवेदाः ब्रह्मप्रतिपादका वेदाः, वेदान्ता इत्यर्थः । यद्वा ब्राह्मणमात्रप्रवचनार्हा वेदास्त्रयीरूपाः । एवं वदतु ब्रह्मर्षिरिति वदतु । यदीति । अयं कामः वसिष्ठमुखेन ब्रह्मर्षित्ववादरूपः कामः । यदि कृतः तदैव मद्विषये कृतकृत्या यान्तु नान्यथेत्यर्थः ॥ 1.65.21,22 ॥

ब्रह्मर्षिस्त्वं न सन्देहः सर्वं सम्पत्स्यते तव ।

इत्युक्त्वा देवताश्चापि सर्वा जग्मुर्यथागतम् ॥ 1.65.23 ॥

एवमस्त्वित्यस्य विवरणम्–ब्रह्मर्षिस्त्वमिति । सर्वं ब्राह्मण्यं त्वद्वृतयाजनाध्यापनादिकं च ॥ 1.65.23 ॥

एवं त्वनेन ब्राह्मण्यं प्राप्तं राम महात्मना ।

एष राम मुनिश्रेष्ठ एष विग्रहवांस्तपः ।

एष धर्मपरो नित्यं वीर्यस्यैष परायणम् ॥ 1.65.24 ॥

एवमुक्त्वा महातेजा विरराम द्विजोत्तमः ॥ 1.65.25 ॥

शतानन्दवचः श्रुत्वा रामलक्ष्मणसन्निधौ ।

जनकः प्राञ्जलिर्वाक्यमुवाच कुशिकात्मजम् ॥ 1.65.26 ॥

धन्यो ऽस्म्यनुगृहीतो ऽस्मि यस्य मे मुनिपुङ्गव ।

यज्ञं काकुत्स्थसहितः प्राप्तवानसि धार्मिक ॥ 1.65.27 ॥

पावितो ऽहं त्वया ब्रह्मन् दर्शनेन महामुने ।

गुणा बहुविधाः प्राप्तास्तव सन्दर्शनान्मया ॥ 1.65.28 ॥

विस्तरेण च ते ब्रह्मन् कीर्त्यमानं महत्तपः ।

श्रुतं मया महातेजो रामेण च महात्मना ॥ 1.65.29 ॥

अथ शतानन्दवचनम्–एवमित्यादि । तप इत्यकारान्तपुँलिङ्गत्वमार्षम् ॥ 1.65.2429 ॥

सदस्यैः प्राप्य च सदः श्रुतास्ते बहवो गुणाः ॥ 1.65.30 ॥

सदस्यैरिति । सदः प्राप्य स्थितैः सदस्यैः ॥ 1.65.30 ॥

अप्रमेयं तपस्तुभ्यमप्रमेयं च ते बलम् ।

अप्रमेया गुणाश्चैव नित्यं ते कुशिकात्मज ॥ 1.65.31 ॥

अप्रमेयाः इयत्तया ज्ञातुमशक्याः ॥ 1.65.31 ॥

तृप्तिराश्चर्यभूतानां कथानां नास्ति मे विभो ।

कर्मकालो मुनिश्रेष्ठ लम्बते रविमण्डलम् ॥ 1.65.32 ॥

श्वःप्रभाते महातेजो द्रष्टुमर्हसि मां पुनः ।

स्वागतं तपतां श्रेष्ठ मामनुज्ञातुमर्हसि ॥ 1.65.33 ॥

एवमुक्तो मुनिवरः प्रशस्य पुरुषर्षभम् ।

विससर्जाशु जनकं प्रीतं प्रीतमनास्तदा ॥ 1.65.34 ॥

एवमुक्त्वा मुनिश्रेष्ठं वैदेहो मिथिलाधिपः ।

प्रदक्षिणं चकाराशु सोपाध्यायः सबान्धवः ॥ 1.65.35 ॥

कथानामिति “पुरणगुण–” इति तृतीयार्थे षष्ठी । तृप्तिः अलम्बुद्धिः । स्वागतमिति । त्वदागमनं शुभकृज्जातमित्यर्थः ॥ 1.65.3235 ॥

विश्वामित्रो ऽपि धर्मात्मा सरामः सहलक्ष्मणः ।

स्ववाटमभिचक्राम पूज्यमानो महर्षिभिः ॥ 1.65.36 ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे पञ्चषष्टितमः सर्गः ॥ 65 ॥

स्ववाटम् स्वनिवेशम् ॥ 1.65.36 ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने पञ्चषष्टितमः सर्गः ॥ 65 ॥