०६३ विश्वामित्रतपोनाशः

श्रीमद्वाल्मीकीयरामायणम्बालकाण्डः
त्रिषष्टितमः सर्गः

पूर्णे वर्षसहस्रे तु व्रतस्नातं महामुनिम् ।

अभ्यागच्छन् सुराः सर्वे तपःफलचिकीर्षवः ॥ 1.63.1 ॥

पुत्रविषयक्रूरशापदानेन क्रोधनिर्जयाभावान्न ब्रह्मर्षित्वसिद्धिरित्याह त्रिषष्टितमे–पूर्ण इत्यादि । व्रतस्नातं व्रतान्ते स्नातम्, समाप्तपुरश्चरणमिति यावत् । तपःफलचिकीर्षवः तपःफलं दातुमिच्छवः ॥ 1.63.1 ॥

अब्रवीत् सुमहातेजा ब्रह्मा सुरुचिरं वचः ।

ऋषिस्त्वमसि भद्रं ते स्वार्जितैः कर्मभिः शुभैः ॥ 1.63.2 ॥

अब्रवीदिति । ऋषिस्त्वमसि पूर्वतपसा राजर्षिरसि इदानीमृषिरेवासि, अनेन राजपदाप्रयोगेण क्षत्रियत्वविश्लेषः कियान् कृत इति गम्यते ॥ 1.63.2 ॥

तमेवमुक्त्वा देवेशस्त्रिदिवं पुनरभ्यगात् ॥ 1.63.3 ॥

विश्वामित्रो महातेजा भूयस्तेपे महत्तपः ॥ 1.63.4 ॥

विश्वामित्रो महातेजा भूयस्तेपे महत्तप इति । अत्र गायत्रीतृतीयाक्षरम् ॥ 1.63.3,4 ॥

ततः कालेन महता मेनका परमाप्सराः ।

पुष्करेषु नरश्रेष्ठस्नातुं समुपचक्रमे ॥ 1.63.5 ॥

अथास्य जितेन्द्रियत्वाभावख्यापनाय कथान्तरं प्रस्तौति–ततः कालेनेत्यादि । अप्सरश्शब्द एकवचनान्तोप्यस्ति । देवप्रेषितेति सिद्धम् ॥ 1.63.5 ॥

तां ददर्श महातेजा मेनकां कुशिकात्मजः ।

रूपेणाप्रतिमां तत्र विद्युतं जलदे यथा ॥ 1.63.6 ॥

दृष्ट्वा कन्दर्पवशगो मुनिस्तामिदमब्रवीत् ॥ 1.63.7 ॥

तामिति । तत्र सरसि स्नान्ती मेनका जलदमण्डलमध्यवर्तिनी विद्युदिव स्थितेति भावः ॥

1.63.6,7 ॥

अप्सरः स्वागतं ते ऽस्तु वस चेह ममाश्रमे ।

अनुगृह्णीष्व भद्रं ते मदनेन सुमोहितम् ॥ 1.63.8 ॥

इत्युक्ता सा वरारोहा तत्र वासमथाकरोत् ॥ 1.63.9 ॥

अनुगृह्णीष्व मत्कामतापं शमयेत्यर्थः ॥ 1.63.8,9 ॥

तस्यां वसन्त्यां वर्षाणि पञ्चपञ्च च राघव ।

विश्वामित्राश्रमे राम सुखेन व्यतिचक्रमुः ॥ 1.63.10 ॥

तस्यामिति । पञ्चपञ्चचेति दशेत्यर्थः । सुखेन वसन्त्यामित्यन्वयः ॥ 1.63.10 ॥

अथ काले गते तस्मिन् विश्वामित्रो महामुनिः ।

सव्रीड इव संवृत्तश्चिन्ताशोकपरायणः ॥ 1.63.11 ॥

अथेति । सव्रीड इवेत्यत्र इवशब्दो वाक्यालङ्कारे ॥ 1.63.11 ॥

बुद्धिर्मुनेः समुत्पन्ना सामर्षा रघुनन्दन ।

सर्वं सुराणां कर्मैतत्तपोपहरणं महत् ॥ 1.63.12 ॥

अहोरात्रापदेशेन गताः संवत्सरा दश ।

काममोहाभिभूतस्य विघ्नो ऽयं प्रत्युपस्थितः ॥ 1.63.13 ॥

बुद्धिरित्यादि द्विकम् । अहोरात्रापदेशेन अहोरात्रतुल्यतया । अन्ते इतिकरणमध्याहार्यम् । इति बुद्धिरुत्पन्नेत्यन्वयः ॥ 1.63.12,13 ॥

विनिश्वसन् मुनिवरः पश्चात्तापेन दुःखितः ।

भीतामप्सरसं दृष्ट्वा वेपन्तीं प्राञ्जलिं स्थिताम् ॥ 1.63.14 ॥

मेनकां मधुरैर्वाक्यैर्विसृज्य कुशिकात्मजः ।

उत्तरं पर्वतं राम विश्वामित्रो जगाम ह ॥ 1.63.15 ॥

विनिश्वसन्नित्यादि द्विकम् । वेपन्तीं वेपमानाम् । मधुरैः त्वया किं कृतम् ? कामपरतन्त्रस्य ममैवापराधो ऽयमित्येवंरूपैरित्यर्थः । उत्तरं पर्वतं हिमवन्तम् ॥ 1.63.14,15 ॥

स कृत्वा नैष्ठिकीं बुद्धिं जेतुकामो महायशाः ।

कौशिकीतीरमासाद्य तपस्तेपे सुदारुणम् ॥ 1.63.16 ॥

तस्य वर्षसहस्रं तु घोरं तप उपासतः ।

उत्तरे पर्वते राम देवतानामभूद्भयम् ॥ 1.63.17 ॥

आमन्त्रयन् समागम्य सर्वे सर्षिगणाः सुराः ।

महर्षिशब्दं लभतां साध्वयं कुशिकात्मजः ॥ 1.63.18 ॥

देवतानां वचः श्रुत्वा सर्वलोकपितामहः ।

अब्रवीन्मधुरं वाक्यं विश्वामित्रं तपोधनम् ॥ 1.63.19 ॥

स इति । नैष्ठिकीं व्रतसमापनपर्यन्ताम् । जेतुकामः इन्द्रियाणीति शेषः ॥ 1.63.1619 ॥

महर्षे स्वागतं वत्स तपसोग्रेण तोषितः ।

महत्त्वमृषिमुख्यत्वं ददामि तव कौशिक ॥ 1.63.20 ॥

ब्रह्मणस्स वचः श्रुत्वा सर्वलोकेश्वरस्य ह ।

न विषण्णो न सन्तुष्टो विश्वामित्रस्तपोधनः ॥ 1.63.21 ॥

प्राञ्जलिः प्रणतो भूत्वा सर्वलोकपितामहम् ।

प्रत्युवाच ततो वाचं विश्वामित्रो महामुनिः ॥ 1.63.22 ॥

महत्त्वमित्यस्य विवरणम्–ऋषिमुख्यत्वमिति ॥ 1.63.2022 ॥

महर्षिशब्दमतुलं स्वार्जितैः कर्मभिः शुभैः ।

यदि मे भगवानाह ततो ऽहं विजितेन्द्रियः ॥ 1.63.23 ॥

ततो ऽहं विजितेन्द्रियः यदि महर्षित्वं भवता दत्तं ततो ऽहं विजितेन्द्रियश्चास्मीत्यर्थः ॥ 1.63.23 ॥

तमुवाच ततो ब्रह्मा न तावत्त्वं जितेन्द्रियः ।

यतस्व मुनिशार्दूल इत्युक्त्वा त्रिदिवं गतः ॥ 1.63.24 ॥

विप्रस्िथतेषु देवेषु विश्वामित्रो महामुनिः ।

ऊर्द्ध्वबाहुर्निरालम्बो वायुभक्षस्तपश्चरन् ॥ 1.63.25 ॥

न तावत्त्वं जितेन्द्रियः विकारहेतुसन्निधानेपि यावन्न विकरोषि तावन्तं कालं तव जितेन्द्रियत्वं नास्तीत्यर्थः ॥ 1.63.24,25 ॥

घर्मे पञ्चतपा भूत्वा वर्षास्वाकाशसंश्रयः ।

शिशिरे सलिलस्थायी रात्र्यहानि तपोधनः ॥ 1.63.26 ॥

एवं वर्षसहस्रं हि तपो घोरमुपागमत् ॥ 1.63.27 ॥

आकाशसंश्रयः वर्षावरणरहितदेशस्थः ॥ 1.63.26,27 ॥

तस्मिन् सन्तप्यमाने तु विश्वामित्रे महामुनौ ।

सम्भ्रमः सुमहानासीत् सुराणां वासवस्य च ॥ 1.63.28 ॥

सम्भ्रमः किमस्मत्पदं काङ्क्षत इति अस्थाने भयशङ्का ॥ 1.63.28 ॥

रम्भामप्सरसं शक्रस्सह सर्वैर्मरुद्गणैः ।

उवाचात्महितं वाक्यमहितं कौशिकस्य च ॥ 1.63.29 ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रिषष्टितमः सर्गः ॥ 63 ॥

अहितं कौशिकस्य चेत्यनेन तद्विषयवैरनिर्यातनार्थं च रम्भाप्रेरणमित्यपि गम्यते ॥ 1.63.29 ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने त्रिषष्टितमः सर्गः ॥ 63 ॥