श्रीमद्वाल्मीकीयरामायणम्बालकाण्डः
एकोनषष्टितमः सर्गः
उक्तवाक्यं तु राजानं कृपया कुशिकात्मजः ।
अब्रवीन्मधुरं वाक्यं साक्षाच्चण्डालरूपिणम् ॥ 1.59.1 ॥
जातिचण्डालस्य कदाचित्तद्भावनिवृत्तिरस्ति, नतु कर्मचण्डालस्येत्याह एकोनषष्टितमे उक्तवाक्यमित्यादि । साक्षाच्चण्डालरूपिणं चण्डालचिह्नधारित्वान्न शास्त्रगम्यचण्डालभाव इत्यर्थः ॥ 1.59.1 ॥
ऐष्वाक स्वागतं वत्स जानामि त्वां सुधार्मिकम् ।
शरणं ते भविष्यामि मा भैषीर्नृपपुङ्गव ॥ 1.59.2 ॥
अहमामन्त्रये सर्वान् महर्षीन् पुण्यकर्मणः ।
यज्ञसाह्यकरान् राजंस्ततो यक्ष्यसि निर्वृतः ॥ 1.59.3 ॥
गुरुशापकृतं रूपं यदिदं त्वयि वर्तते ।
अनेन सह रूपेण सशरीरो गमिष्यसि ॥ 1.59.4 ॥
हस्तप्राप्तमहं मन्ये स्वर्गं तव नराधिप ।
यस्त्वं कौशिकमागम्य शरण्यं शरणागतः ॥ 1.59.5 ॥
ऐक्ष्वाकेत्यादि चत्वारः । यज्ञसाह्यकरान् यज्ञसहायकरान् । गमिष्यसि स्वर्गमिति शेषः । अनेनेत्यनेन ऋषिशापकृतरूपस्य ब्रह्मणाप्यवार्यत्वेन जातिचण्डालताभावेन मत्तपोमहिमोपबृंहितयज्ञेन सशरीरः स्वर्गं गमिष्यसीति भावः । हस्तप्राप्तम् अनायासेन सद्योलब्धम् । तत्र हेतुः यस्त्वमिति ॥ 1.59.25 ॥
एवमुक्त्वा महातेजाः पुत्रान् परमधार्मिकान् ।
व्यादिदेश महाप्राज्ञान् यज्ञसम्भारकारणात् ।
सर्वान् शिष्यान् समाहूय वाक्यमेतदुवाच ह ॥ 1.59.6 ॥
एवमिति सार्द्धः । शिष्यान् भृत्यान् ॥ 1.59.6 ॥
सर्वानृषिगणान् वत्सा आनयध्वं ममाज्ञया ।
सशिष्यसुहृदश्चैव सर्त्विजः सबहुश्रुतान् ॥ 1.59.7 ॥
सर्वानिति । सुहृदः मत्सुहृदः शोभनहृदयान्वा ॥ 1.59.7 ॥
यदन्यो वचनं ब्रूयान्मद्वाक्यबलचोदितः ।
तत्सर्वमखिलेनोक्तं ममाख्येयमनादृतम् ॥ 1.59.8 ॥
यदन्य इति । मद्वाक्यबलेन चोदितः आहूतः यः कश्चनान्यः अनाहृतमुपेक्षारूपं चण्डालं याजयतीति निन्दारूपं वा, यद्वाक्यं ब्रूयात् तेनोक्तं तत्सर्वमखिलेन ममाख्येयम् ॥ 1.59.8 ॥
तस्य तद्वचनं श्रुत्वा दिशो जग्मुस्तदाज्ञया ।
आजग्मुरथ देशेभ्यः सर्वेभ्यो ब्रह्मवादिनः ॥ 1.59.9 ॥
ते च शिष्याः समागम्य मुनिं ज्वलिततेजसम् ।
ऊचुश्च वचनं सर्वे सर्वेषां ब्रह्मवादिनाम् ॥ 1.59.10 ॥
तस्येति द्वौ । ब्रह्मवादिनः शिष्याः । ब्रह्मवादिनां वचनमित्यन्वयः ॥ 1.59.9,10 ॥
श्रुत्वा ते वचनं सर्वे समायान्ति द्विजातयः ।
सर्वदेशेषु चागच्छन् वर्जयित्वा महोदयम् ॥ 1.59.11 ॥
यदनादरवचनं मुनीनां तदपि वक्तव्यमित्युक्तत्वात्तदपि वदन्ति–श्रुत्वेत्यादिषट् । सर्वदेशेषु स्थिता इति शेषः । महोदयमिति तदाख्यम् ऋषिमित्यर्थः । वासिष्ठशतं च वर्जयित्वेति द्रष्टव्यम् ॥ 1.59.11 ॥
वासिष्ठं तच्छतं सर्वं क्रोधपर्याकुलाक्षरम् ।
यदाह वचनं सर्वं शृणु त्वं मुनिपुङ्गव ॥ 1.59.12 ॥
वासिष्ठं यदाहेत्यत्र महोदयश्चेत्यपि बोद्ध्यम् । उपसंहारे तथा दर्शनात् ॥ 1.59.12 ॥
क्षत्रियो याजको यस्य चण्डालस्य विशेषतः ।
कथं सदसि भोक्तारो हविस्तस्य सुरर्षयः ॥ 1.59.13 ॥
क्षत्रियो याजको यस्येति । विप्रस्यैव याजनाधिकारात् चण्डालस्य याज्यत्वानधिकारात् तस्य सदसि देवताः कथं हविर्भोक्तारः । लुट् । ऋषयश्च कथमिष्टशिष्टभोक्तार इति भावः ॥ 1.59.13 ॥
ब्राह्मणा वा महात्मानो भुक्त्वा चण्डालभोजनम् ।
कथं स्वर्गं गमिष्यन्ति विश्वामित्रेण पालिताः ॥ 1.59.14 ॥
एतद्वचननैष्ठुर्यमूचुः संरक्तलोचनाः ।
वासिष्ठा मुनिशार्दूल सर्वे ते समहोदयाः ॥ 1.59.15 ॥
तेषां तद्वचनं श्रुत्वा सर्वेषां मुनिपुङ्गवः ।
क्रोधसंरक्तनयनः सरोषमिदमब्रवीत् ॥ 1.59.16 ॥
पालिता इति क्षेपोक्तिः । अयाज्ययाजयितारः ऋषयः कथं स्वर्गं गमिष्यन्तीति भावः ॥ 1.59.1416 ॥
ये दूषयन्त्यदुष्टं मां तप उग्रं समास्थितम् ।
भस्मीभूता दुरात्मानो भविष्यन्ति न संशयः ॥ 1.59.17 ॥
य इति । ‘तेषां तेजोविशेषेण प्रत्यवायो न विद्यते’ इति न्यायेन चण्डालयाजनमपि जीर्यतीत्यविज्ञाय ये दूषयन्ति ते भस्मीभूता भविष्यन्तीत्यर्थः ॥ 1.59.17 ॥
अद्य ते कालपाशेन नीता वैवस्वतक्षयम् ।
सप्तजातिशतान्येव मृतपाः सन्तु सर्वशः ॥ 1.59.18 ॥
श्वमांसनियताहारा मुष्टिका नाम निर्घृणाः ।
विकृताश्च विरूपाश्च लोकाननुचरन्त्विमान् ॥ 1.59.19 ॥
महोदयश्चदुर्बुद्धिर्मामदूष्यं ह्यदूषयत् ।
दूषितः सर्वलोकेषु निषादत्वं गमिष्यति ॥ 1.59.20 ॥
अद्येत्यादिपञ्च । क्षयं गृहम् । सप्तजातिशतानि सप्तजन्मशतानि । मृतपाः शवभक्षकाः । मुष्टिकाः हीनजातिविशेषाः । विकृताः विकृतवचन व्यापारादयः । विरूपाः विकृतवेषाः । अदूष्यम् उक्तन्यायेनेति भावः । महोदयश्चेत्यनेन पूर्वं शप्ता वसिष्ठपुत्रा एवेति गम्यते ॥ 1.59.1820 ॥
प्राणातिपातनिरतो निरनुक्रोशतां गतः ।
दीर्घकालं मम क्रोधाद्दुर्गतिं वर्तयिष्यति ॥ 1.59.21 ॥
एतावदुक्त्वा वचनं विश्वामित्रो महातपाः ।
विरराम महातेजा ऋषिमध्ये महामुनिः ॥ 1.59.22 ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकोनषष्टितमः सर्गः ॥ 59 ॥
प्राणातिपातः बलात्प्राणनाशनम् । निरनुक्रोशतां निर्घृणताम् । वर्तयिष्यति प्राप्स्यति । ननूग्रतपस्वित्वेपि क्षत्रियस्य चण्डालयाजनं सर्वथा अन्याय्यमेवेति कथं यथार्थवादिषु शापप्रवृत्तिरितिचेत्, अत्रोत्तरम्–वसिष्ठवैरनिर्यातनकामस्य विश्वामित्रस्य तपःफलमिदमिति ॥ 1.59.21,22 ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने एकोनषष्टितमः सर्गः ॥ 59 ॥