श्रीमद्वाल्मीकीयरामायणम्बालकाण्डः
सप्तपञ्चाशः सर्गः
ततः सन्तप्तहृदयः स्मरन् निग्रहमात्मनः ।
विनिःश्वस्य विनिःश्वस्य कृतवैरो महात्मना ॥ 1.57.1 ॥
स दक्षिणां दिशं गत्वा महिष्या सह राघव ।
तताप परमं घोरं विश्वामित्रो महत्तपः ॥ 1.57.2 ॥
एवं पशुपतिवितीर्णसरहस्यसर्वास्त्रवैघट्यदर्शनेनरुद्रस्यापरत्वमुपपादितम् । अथ पूर्वप्रस्तुतब्राह्मण्यस्यात्यन्तदुर्लभत्वं दर्शयति नवभिः सर्गैः । तत्र त्रिशङ्कुशरणागत्यनुगुणशक्तिमत्त्वं दर्शयति सप्तपञ्चाशे–ततः सन्तप्तहृदय इत्यादि, श्लोकद्वयमेकान्वयम् । महात्मना वसिष्ठेन । कृतवैरः
अनेनास्य तपोनाशमूलं दर्शितम् । ब्रह्मविदपचारो हि सर्वश्रेयोविनाशकः । दक्षिणां शरावत्यपेक्षया । महिष्येत्यनेन भावियाजकत्वानुगुणगार्हस्थ्यं दर्शितम् । महत्तपः परमं यथा तथा ततापेत्यन्वयः ॥ 1.57.1,2 ॥
अथास्य जज्ञिरे पुत्राः सत्यधर्मपरायणाः ।
हविष्यन्दो मधुष्यन्दो दृढनेत्रो महारथः ॥ 1.57.3 ॥
कामक्रोधाद्यनुवृत्तिं दर्शयति–अथेति ॥ 1.57.3 ॥
पूर्णे वर्षसहस्रे तु ब्रह्मा लोकपितामहः ।
अब्रवीन्मधुरं वाक्यं विश्वामित्रं तपोधनम् ॥ 1.57.4 ॥
अत एव तपसो मन्दफलत्वं दर्शयति–पूर्ण इति ॥ 1.57.4 ॥
जिता राजर्षिलोकास्ते तपसा कुशिकात्मज ।
अनेन तपसा त्वां तु राजर्षिरिति विद्महे ॥ 1.57.5 ॥
जिता इति । विद्महे आर्षमात्मनेपदम् ॥ 1.57.5 ॥
एवमुक्त्वा महातेजा जगाम सह दैवतैः ।
त्रिविष्टपं ब्रह्मलोकं लोकानां परमेश्वरः ॥ 1.57.6 ॥
एवमित्यादि चत्वारः । ब्रह्मा ब्रह्मलोकं जगाम, त्रिविष्टपं देवा जग्मुरित्यर्थः ॥ 1.57.6 ॥
विश्वामित्रोपि तच्छ्रुत्वा ह्रिया किञ्चिदवाङ्मुखः ।
दुःखेन महताविष्टः समन्युरिदमब्रवीत् ॥ 1.57.7 ॥
समन्युः सदैन्यः “मन्युर्दैन्ये क्रतौ क्रुधि” इत्यमरः ॥ 1.57.7 ॥
तपश्च सुमहत्तप्तं राजर्षिरिति मां विदुः ।
देवाः सर्षिगणाः सर्वे नास्ति मन्ये तपःफलम् ॥ 1.57.8 ॥
नास्ति मन्ये तपःफलम् । एतन्मात्रं मत्तपः फलं न भवति, ब्राह्मण्यस्यैव मदभिमतत्वादिति भावः ॥ 1.57.8 ॥
एवं निश्चित्य मनसा भूय एव महातपाः ।
तपश्चकार काकुत्स्थ परमं परमात्मवान् ॥ 1.57.9 ॥
परमं तपः पूर्वकृततपसोप्यतिशयितं तपः । परमात्मवान् अतिशयितयत्नवान् ॥ 1.57.9 ॥
एतस्मिन्नेव काले तु सत्यवादी जितेन्द्रियः ।
त्रिशङ्कुरिति विख्यात इक्ष्वाकुकुलवर्द्धनः ॥ 1.57.10 ॥
एतस्मिन्निति । विख्यातः, अभूदिति शेषः ॥ 1.57.10 ॥
तस्य बुद्धिः समुत्पन्ना यजेयमिति राघव ।
गच्छेयं सशरीरेण देवानां परमां गतिम् ॥ 1.57.11 ॥
तस्येति । सशरीरेण, आत्मनेति शेषः । परमां गतिं स्वर्गमिति यावत् ॥ 1.57.11 ॥
स वसिष्ठं समाहूय कथयामास चिन्तितम् ।
अशक्यमिति चाप्युक्तो वसिष्ठेन महात्मना ॥ 1.57.12 ॥
स इति । चिन्तितम् सशरीरस्वर्गसाधनयज्ञमित्यर्थः । अशक्यं सशरीरस्वर्गसाधनयज्ञकरणमिति शेषः । अशक्यत्वं च न ऋषेरसामर्थ्यात्, नापि तादृशकर्मविधानाभावात्, “सशरीर एव स्वर्गं लोकमेति” इति श्रुतेः । किन्तु त्रिशङ्कोस्तादृशस्वर्गप्राप्तिर्नास्तीति पूर्वकल्पवृत्ततज्ज्ञानादिति मन्तव्यम् । उक्तः अभूदिति शेषः ॥ 1.57.12 ॥
प्रत्याख्यातो वसिष्ठेन स ययौ दक्षिणां दिशम् ।
ततस्तत्कर्मसिद्ध्यर्थं पुत्रांस्तस्य गतो नृपः ॥ 1.57.13 ॥
प्रत्याख्यात इति । तत्कर्मसिद्ध्यर्थं सशरीरस्वर्गसाधनकर्मसिद्ध्यर्थम् ॥ 1.57.13 ॥
वासिष्ठा दीर्घतपसस्तपो यत्र हि तेपिरे ।
त्रिशङ्कुः सुमहातेजाः शतं परमभास्वरम् ।
वसिष्ठपुत्रान् ददृशे तप्यमानान् यशस्विनः ॥ 1.57.14 ॥
वासिष्ठा इति सार्धः । यत्र तेपिरे तत्र गत्वेति शेषः । शतं वासिष्ठानिति बह्वर्थे शतमिति निपातनात् सामानाधिकरण्यम् ॥ 1.57.14 ॥
सो ऽभिगम्य महात्मानः सर्वानेव गुरोः सुतान् ।
अभिवाद्यानुपूर्व्येण ह्रिया किञ्चिदवाङ्मुखः ।
अब्रवीत्सुमहात्मानः सर्वानेव कृताञ्जलिः ॥ 1.57.15 ॥
स इति सार्द्धः । ह्रिया वसिष्ठप्रत्याख्यानकृतया । महात्मानः सुमहात्मान इति व्यत्ययेन प्रथमा ॥ 1.57.15 ॥
शरणं वः प्रपद्ये ऽहं शरण्यान् शरणागतः ।
प्रत्याख्यातो ऽस्मि भद्रं वो वसिष्ठेन महात्मना ॥ 1.57.16 ॥
शरणमिति । शरणं रक्षितारम् आगतः “शरणं गृहरक्षित्रोः” इति वचनात् । रक्षित्रपेक्षया आगतो ऽहम् । शरण्यान् शरणसमर्थान् । शरणं प्रपद्ये रक्षितृ़न् प्राप्नोमीत्यर्थः । यद्वा शरणागतः प्रत्याख्यात इत्युत्तरेणान्वयः । तर्ह्याचार्य एव गन्तव्य इत्यत्राह प्रत्याख्यात इति ॥ 1.57.16 ॥
यष्टुकामो महायज्ञं तदनुज्ञातुमर्हथ ।
गुरुपुत्रानहं सर्वान्नमस्कृत्य प्रसादये ॥ 1.57.17 ॥
किमर्थं शरणागतिस्तत्राह–यष्टुकाम इति । तत् यज्ञानुष्ठानम् ॥ 1.57.17 ॥
शिरसा प्रणतो याचे ब्राह्मणांस्तपसि स्थितान् ।
ते मां भवन्तः सिद्ध्यर्थं याजयन्तु समाहिताः ।
सशरीरो यथाहं हि देवलोकमवाप्नुयाम् ॥ 1.57.18 ॥
शिरसेति सार्द्धः । ब्राह्मणान् ब्रह्मविदः । समाहिताः अवहिताः ॥ 1.57.18 ॥
प्रत्याख्यातो वसिष्ठेन गतिमन्यां तपोधनाः ।
गुरुपुत्रानृते सर्वान्नाहं पश्यामि काञ्चन ॥ 1.57.19 ॥
प्रत्याख्यात इति । गुरुपुत्रानृते अन्यां काञ्चन गतिं यजनोपायं न पश्यामीत्यन्वयः ॥ 1.57.19 ॥
इक्ष्वाकूणां हि सर्वेषां पुरोधाः परमा गतिः ।
पुरोधसस्तु विद्वांसस्तारयन्ति सदा नृपान् ॥ 1.57.20 ॥
इक्ष्वाकूणामिति । पुरोधाः पुरोहितः वसिष्ठः ॥ 1.57.20 ॥
तस्मादनन्तरं सर्वे भवन्तो दैवतं मम ॥ 1.57.21 ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्तपञ्चाशः सर्गः ॥ 57 ॥
तस्मादित्यर्द्धम् । तस्मात् वसिष्ठात् । अनन्तरं पश्चात् । तस्यारक्षकत्वे भवन्त एव रक्षका इति भावः ॥ 1.57.21 ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने सप्तपञ्चाशः सर्गः ॥ 57 ॥