श्रीमद्वाल्मीकीयरामायणम्बालकाण्डः
षट्पञ्चाशः सर्गः
एवमुक्तो वसिष्ठेन विश्वामित्रो महाबलः ।
आग्नेयमस्त्रमुत्क्षिप्य तिष्ठ तिष्ठेति चाब्रवीत् ॥ 1.56.1 ॥
अथ सर्वास्त्रबलसम्पूर्णक्षत्रवीर्यादपि ब्रह्मबलं बलीय इत्याह षट्पञ्चाशे–एवमुक्त इत्यादि । तिष्ठ तिष्ठेति भयजननार्थोक्तिः ॥ 1.56.1 ॥
ब्रह्मदण्डं समुत्क्षिप्य कालदण्डमिवापरम् ।
वसिष्ठो भगवान् क्रोधादिदं वचनमब्रवीत् ॥ 1.56.2 ॥
ब्रह्मदण्डमित्यादि त्रयोविंशतिः । ब्रह्मदण्डमिति । ब्रह्मदण्डं ब्राह्मणासाधारणं दण्डम् ॥ 1.56.2 ॥
क्षत्रबन्धो स्थितो ऽस्म्येष यद्वलं तद्विदर्शय ।
नाशयाम्यद्य ते दर्पं शस्त्रस्य तव गाधिज ॥ 1.56.3 ॥
क्व च ते क्षत्रियबलं क्व च ब्रह्मबलं महत् ।
पश्य ब्रह्मबलं दिव्यं मम क्षत्रियपांसन ॥ 1.56.4 ॥
तस्यास्त्रं गाधिपुत्रस्य घोरमाग्नेयमुद्यतम् ।
ब्रह्मदण्डेन तच्छान्तमग्नेर्वेग इवाम्भसा ॥ 1.56.5 ॥
वारुणं चैव रौद्रं च ऐन्द्रं पाशुपतं तथा ।
ऐषीकं चापि चिक्षेप कुपितो गाधिनन्दनः ॥ 1.56.6 ॥
मानवं मोहनं चैव गान्धर्वं स्वापनं तथा ।
जृम्भणं मादनं चैव सन्तापनविलापने ॥ 1.56.7 ॥
शोषणं दारणं चैव वज्रमस्त्रं सुदुर्जयम् ।
ब्रह्मपाशं कालपाशं वारुणं पाशमेव च ॥ 1.56.8 ॥
पैनाकास्त्रं च दयितं शुष्कार्द्रे अशनी उभे ।
दण्डास्त्रमथ पैशाचं क्रौञ्चमस्त्रं तथैव च ॥ 1.56.9 ॥
धर्मचक्रं कालचक्रं विष्णुचक्रं तथैवव च ।
वायव्यं मथनं चैव अस्त्रं हयशिरस्तथा ॥ 1.56.10 ॥
शक्तिद्वयं च चिक्षेप कङ्कालं मुसलं तथा ।
वैद्याधरं महास्त्रं च कालास्त्रमथ दारुणम् ॥ 1.56.11 ॥
त्रिशूलमस्त्रं घोरं च कापालमथ कङ्कणम् ।
एतान्यस्त्राणि चिक्षेप सर्वाणि रघुनन्दन ॥ 1.56.12 ॥
क्षत्रबन्धो क्षत्रियाधम ते दर्पं तव शस्त्रस्य दर्पं च नाशयामीत्यन्वयः । क्षत्रियपांसनेत्यनन्तरं वसिष्ठो ऽब्रवीदिति अनुकृष्यते ॥ 1.56.312 ॥
वसिष्ठे जपतां श्रेष्ठे तदद्भुतमिवाभवत् ॥ 1.56.13 ॥
वसिष्ठे जपतां श्रेष्ठ इत्यनेन जपवैभवमिदं ग्रसनमिति द्योतितम् । तत् अस्त्रक्षेपणम् । अद्भुतमिवाभवत् कार्यलेशस्याप्यदर्शनादिति भावः ॥ 1.56.13 ॥
तानि सर्वाणि दण्डेन ग्रसते ब्रह्मणः सुतः ॥ 1.56.14 ॥
तेषु शान्तेषु ब्रह्मास्त्रं क्षिप्तवान् गाधिनन्दनः ॥ 1.56.15 ॥
अद्भुतमेवाह–तानीति । ग्रसते अग्रसत ॥ 1.56.14,15 ॥
तदस्त्रमुद्यतं दृष्ट्वा देवाः साग्निपुरोगमाः ।
देवर्षयश्च सम्भ्रान्ता गन्धर्वाः समहोरगाः ॥ 1.56.16 ॥
सम्भ्रान्ता आसन्निति शेषः ॥ 1.56.16 ॥
त्रैलोक्यमासीत् सन्त्रस्तं ब्रह्मास्त्रे समुदीरिते ॥ 1.56.17 ॥
समुदीरिते प्रयुक्ते ॥ 1.56.17 ॥
तदप्यस्त्रं महाघोरं ब्राह्मं ब्राह्मेण तेजसा ।
वसिष्ठो ग्रसते सर्वं ब्रह्मदण्डेन राघव ॥ 1.56.18 ॥
ब्राह्मेण तेजसा ब्रह्मविद्याभ्यासजनिततेजसा । उपबृंहितेन ब्रह्मदण्डेनेत्यर्थः । अत्र ग्रासक्रियायां न दण्डस्यान्वयः । पुत्रैर्गर्दभी भारं वहतीतिवत् । अतो न वक्ष्यमाणेन विरोधः ॥ 1.56.18 ॥
ब्रह्मास्त्रं ग्रसमानस्य वसिष्ठस्य महात्मनः ।
त्रैलोक्यमोहनं रौद्रं रूपमासीत् सुदारुणम् ॥ 1.56.19 ॥
त्रैलोक्यस्य मोहनं भयान्मूर्च्छाजनकम् । रौद्रं स्मरणे ऽपि भयङ्करम् । सुदारुणं दुर्दर्शम् ॥ 1.56.19 ॥
रोमकूपेषु सर्वेषु वसिष्ठस्य महात्मनः ।
मरीच्य इव निष्पेतुरग्नेर्धूमाकुलार्चिषः ॥ 1.56.20 ॥
एतदेवाह–रोमेति । अग्नेरिव मरीच्यो विस्फुलिङ्गा निष्पेतुरिति योजना ॥ 1.56.20 ॥
प्राज्वलद् ब्रह्मदण्डश्च वसिष्ठस्य करोद्यतः ।
विधूम इव कालाग्निर्यमदण्ड इवापरः ॥ 1.56.21 ॥
दण्डश्च प्राज्वलत्, पूर्वास्त्रग्रासेनेति शेषः ॥ 1.56.21 ॥
ततो ऽस्तुवन् मुनिगणा वसिष्ठं जपतां वरम् ।
अमोघं ते बलं ब्रह्मन् तेजो धारय तेजसा ॥ 1.56.22 ॥
निगृहीतस्त्वया ब्रह्मन् विश्वामित्रो महातपाः ।
प्रसीद जपातां श्रेष्ठ लोकाः सन्तु गतव्यथाः ॥ 1.56.23 ॥
तेजः ब्रह्मास्त्रतेजः । तेजसा महिम्ना । धारय उपशमय ॥ 1.56.22,23 ॥
एवमुक्तो महातेजाः शमं चक्रे महातपाः ॥ 1.56.24 ॥
शमं कोपशान्तिम् ॥ 1.56.24 ॥
विश्वामित्रो ऽपि निकृतो विनिःश्वस्येदमब्रवीत् ॥ 1.56.25 ॥
निकृतः अपकृतः । तिरस्कृत इति यावत् ॥ 1.56.25 ॥
धिग्बलं क्षत्रियबलं ब्रह्मतेजोबलं बलम् ।
एकेन ब्रह्मदण्डेन सर्वास्त्राणि हतानि मे ॥ 1.56.26 ॥
धिगिति । क्षत्रियबलं बलं धिक् निन्द्यं बलमित्यर्थः । “धिगुपर्यादिषु” इति द्वितीया । ब्रह्मतेजसः ब्राह्मण्यरूपतेजसः बलं बलम्, तदेव प्रशस्तमितियावत् । सर्वास्त्राणि ब्रह्मास्त्रभिन्नानि ॥ 1.56.26 ॥
तदेतत् समवेक्ष्याहं प्रसन्नेन्द्रियमानसः ।
तपो महत् समास्थास्ये यद्वै ब्रह्मत्वकारणम् ॥ 1.56.27 ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे षट्पञ्चाशः सर्गः ॥ 56 ॥
ब्रह्मत्वकारणं ब्राह्मण्यापादकम् । प्रसन्नेन्द्रियमानसः परित्यक्तक्षत्ररोष इत्यर्थः ॥ 1.56.27 ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने षट्पञ्चाशः सर्गः ॥ 56 ॥