०५५ विश्वामित्रास्त्रमोक्षणम्

श्रीमद्वाल्मीकीयरामायणम्बालकाण्डः
पञ्चपञ्चाशः सर्गः

ततस्तानाकुलान् दृष्ट्वा विश्वामित्रास्त्रमोहितान् ।

वसिष्ठश्चोदयामास कामधुक्सृज योगतः ॥ 1.55.1 ॥

अथ पुनर्दिव्यास्त्रलाभपूर्वं विश्वामित्रेण वसिष्ठाश्रमसंरोधः पञ्चपञ्चाशे–ततस्तानित्यादि । हे कामधुक् योगतः योगमहिम्ना, तिरश्चो ऽपि ब्रह्मप्रसादाद्योगशक्तिरस्तीति ज्ञेयम् ॥ 1.55.1 ॥

तस्या हुम्भारवाज्जाताः काम्भोजा रविसन्निभाः ।

ऊधसस्त्वथ सञ्जाताः पप्लवाः शस्त्रपाणयः ॥ 1.55.2 ॥

तस्या इत्यादि चत्वारः । ऊधसः स्तनात् ॥ 1.55.2 ॥

योनिदेशाच्च यवनाःशकृद्देशाच्छकास्तथा ।

रोमकूपेषु च म्लेच्छा हारीतास्सकिरातकाः ॥ 1.55.3 ॥

तैस्तैर्निषूदितं सर्वं विश्वामित्रस्य तत्क्षणात् ।

सपदातिगजं साश्वं सरथं रघुनन्दन ॥ 1.55.4 ॥

हारीताः किरातजातिविशेषाः ॥ 1.55.3,4 ॥

दृष्ट्वा निषूदितं सैन्यं वसिष्ठेन महात्मना ।

विश्वामित्रसुतानां तु शतं नानाविधायुधम् ।

अभ्यधावत्सुसंक्रुद्धं वसिष्ठं जपतां वरम् ॥ 1.55.5 ॥

हुङ्कारेणैव तान् सर्वान् ददाह भगवानृषिः ॥ 1.55.6 ॥

दृष्ट्वेत्यादिषट् । वसिष्ठमभ्यधावत् तस्य सर्वविनाशमूलत्वात् इति भावः । जपतां वरम् इति हुङ्कारेण निरासे हेतुः ॥ 1.55.5,6 ॥

ते साश्वरथपादाता वसिष्ठेन महात्मना ।

भस्मीकृता मुहूर्तेन विश्वामित्रसुतास्तदा ॥ 1.55.7 ॥

दृष्ट्वा विनाशितान् पुत्रान् बलं च सुमहायशाः ।

सव्रीडश्चिन्तयाविष्टो विश्वामित्रो ऽभ्ावत्तदा ॥ 1.55.8 ॥

मुहूर्तेनेति मासेनानुवाको ऽधीत इतिवदुपसर्गे तृतीया ॥ 1.55.7,8 ॥

समुद्र इव निर्वेगो भग्नदंष्ट्र इवोरगः ।

उपरक्त इवादित्यः सद्यो निष्प्रभतां गतः ॥ 1.55.9 ॥

निर्वेगः युद्धप्रवृत्तिरहितः । उरग इव निःशक्तिरिति शेषः । उपरक्तः राहुग्रस्तः ॥ 1.55.9 ॥

हतपुत्रबलो दीनो लूनपक्ष इव द्विजः ।

हतदर्प्पो हतोत्साहो निर्वेदं समपद्यत ॥ 1.55.10 ॥

निर्वेदं दुःखम् ॥ 1.55.10 ॥

स पुत्रमेकं राज्याय पालयेति नियुज्य च ।

पृथिवीं क्षत्रधर्म्मेण वनमेवान्वपद्यत ॥ 1.55.11 ॥

स गत्वा हिमवत्पार्श्वं किन्नरोरगसेवितम् ।

महादेवप्रसादार्थं तपस्तेपे महातपाः ॥ 1.55.12 ॥

स इत्यादिचत्वारः । एकमवशिष्टमिति शेषः । राज्याय राज्यं कर्तुम् । पृथिवीं क्षत्रधर्म्येण पालयेत्यन्वयः ॥ 1.55.11,12 ॥

केनचित्त्वथ कालेन देवेशो वृषभध्वजः ।

दर्शयामास वरदो विश्वामित्रं महाबलम् ॥ 1.55.13 ॥

किमर्थं तप्यसे राजन् ब्रूहि यत्ते विवक्षितम् ।

वरदो ऽस्मि वरो यस्ते काङ्क्षितः सो ऽभिधीयताम् ॥ 1.55.14 ॥

दर्शयामास आत्मानमिति शेषः ॥ 1.55.13,14 ॥

एवमुक्तस्तु देवेन विश्वामित्रो महातपाः ।

प्रणिपत्य महादेवमिदं वचनमब्रवीत् ॥ 1.55.15 ॥

एवमित्यादिचत्वारः ॥ 1.55.15 ॥

यदि तुष्टो महादेव धनुर्वेदो ममानघ ।

साङ्गोपाङ्गोपनिषदः सरहस्यः प्रदीयताम् ॥ 1.55.16 ॥

यानि देवेषु चास्त्राणि दानवेषु महर्षिषु ।

गन्धर्वयक्षरक्षस्सु प्रतिभान्तु ममानघ ।

तव प्रसादाद्भवतु देवदेव ममेप्सितम् ॥ 1.55.17 ॥

एवमस्त्विति देवेशो वाक्यमुक्त्वा गतस्तदा ॥ 1.55.18 ॥

साङ्गोपाङ्गोपनिषद इत्यकारान्तत्वमार्षम् । अङ्गं सन्निपत्योपकारम् । उपाङ्गं आरादुपकारकम् । उपनिषत् रहस्यमन्त्रः । सरहस्यः उपदेशगम्यार्थसहितः । प्रतिभान्तु तानीति शेषः । ममेप्सितं अन्यदपीति शेषः ॥ 1.55.1618 ॥

प्राप्य चास्त्राणि राजर्षिर्विश्वामित्रो महाबलः ।

दर्पेण महतायुक्तो दर्पपूर्णो ऽभवत्तदा ॥ 1.55.19 ॥

विवर्द्धमानो वीर्येण समुद्र इव पर्वणि ।

हतमेव तदा मेने वसिष्ठमृषिसत्तमम् ॥ 1.55.20 ॥

प्राप्येत्यादिसप्त । दर्पपूर्ण इति क्षत्रियत्वादिदर्पयुक्तः । विशेषास्त्रलाभादिदानीं दर्पपूर्णो ऽभूदित्यर्थः ॥ 1.55.19,20 ॥

ततो गत्वाश्रमपदं मुमोचास्त्राणि पार्थिवः ।

यैस्तत्तपोवनं सर्वं निर्दग्धं चास्त्रतेजसा ॥ 1.55.21 ॥

यैरस्त्रैः । अस्त्रतेजसा स्वतेजसा ॥ 1.55.21 ॥

उदीर्यमाणमस्त्रं तद्विश्वामित्रस्यधीमतः ।

दृष्ट्वा विप्रद्रुता भीता मुनयः शतशो दिशः ॥ 1.55.22 ॥

उदीर्यमाणं प्रयुज्यमानम् ॥ 1.55.22 ॥

वसिष्ठस्य च ये शिष्यास्तथैव मृगपक्षिणः ।

विद्रवन्ति भयाद्भीता नानादिग्भ्यः सहस्रशः ॥ 1.55.23 ॥

वसिष्ठस्याश्रमपदं शून्यमासीन्महात्मनः ।

मुहूर्तमिव निःशब्दमासीदिरिणसन्निभम् ॥ 1.55.24 ॥

भयात् भयदादस्त्रात् । नानादिग्भ्यः इति व्यत्ययेन द्वितीयार्थे चतुर्थी । नानादिग्भ्यः स्वस्वस्थानेभ्य इति वा । आश्रमपदं वनम् । शून्यं निस्तरुगुल्मम् । इरिणम् ऊषरम् ॥ 1.55.23,24 ॥

वदतो वै वसिष्ठस्य माभैरिति मुहुर्मुहुः ।

नाशयाम्यद्य गाधेयं नीहारमिव भास्करः ॥ 1.55.25 ॥

वसिष्ठे रक्षके विद्यमाने कुतो विद्रवन्तीत्यत्राह–वदत इति । भावलक्षणे षष्ठी अनादरे वा । गाधेयं नाशयामि मा भैरिति वदतो वसिष्ठस्य वचनमनादृत्य विद्रवन्तीति पूर्वेणान्वयः ॥ 1.55.25 ॥

एवमुक्त्वा महातेजा वसिष्ठो जपतां वरः ।

विश्वामित्रं तदा वाक्यं सरोषमिदमब्रवीत् ॥ 1.55.26 ॥

एवमित्यादित्रयः । उक्त्वा स्वानिति शेषः ॥ 1.55.26 ॥

आश्रमं चिरसंवृद्धं यद्विनाशितवानसि ।

दुराचारो ऽसि तन्मूढ तस्मात्त्वं न भविष्यसि ॥ 1.55.27 ॥

इत्युक्त्वा परमक्रुद्धो दण्डमुद्यम्यसत्वरः ।

विधूममिव कालाग्निं यमदण्डमिवापरम् ॥ 1.55.28 ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे पञ्चपञ्चाशः सर्गः ॥ 55 ॥

न भविष्यसि न शिष्यसीति यावत् । उद्यम्य तस्थाविति शेषः ॥ 1.55.27,28 ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने पञ्चपञ्चाशः सर्गः ॥ 55 ॥