श्रीमद्वाल्मीकीयरामायणम्बालकाण्डः
ऽष्टचत्वारिंशः सर्गः
पृष्ट्वा तु कुशलं तत्र परस्परसमागमे ।
कथान्ते सुमतिर्वाक्यं व्याजहार महामुनिम् ॥ 1.48.1 ॥
अथ रामस्य परमपावनत्वं दर्शयत्यष्टचत्वारिंशे–पृष्ट्वा त्वित्यादि । परस्परेत्यविभक्तिकनिर्देशः । परस्परं कुशलं पृष्ट्वा कथान्ते तदुत्तरान्ते इति योजना ॥ 1.48.1 ॥
इमौ कुमारौ भद्रं ते देवतुल्यपराक्रमौ ।
गजसिंहगती वीरौ शार्दूलवृषभोपमौ ॥ 1.48.2 ॥
पद्मपत्रविशालाक्षौ ख्ाड्गतूणीधनुर्द्धरौ ।
अश्विनाविव रूपेण समुपस्थितयौवनौ ॥ 1.48.3 ॥
यदृच्छयैव गां प्राप्तौ देवलोकादिवामरौ ।
कथं पद्भ्यामिह प्राप्तौ किमर्थं कस्य वा मुने ॥ 1.48.4 ॥
भूषयन्ताविमं देशं चन्द्रसूर्याविवाम्बरम् ।
परस्परस्य सदृशौ प्रमाणेङ्गितचेष्टितैः ॥ 1.48.5 ॥
किमर्थं च नरश्रेष्ठौ सम्प्राप्तौ दुर्गमे पथि ।
वरायुधधरौ वीरौ श्रोतुमिच्छामि तत्त्वतः ॥ 1.48.6 ॥
इमावित्यादिपञ्चश्लोकी । इमौ कुमारौ को ऽयं कुमारभाव इति विस्मयते । दृष्टिदोषो माभूदित्याह–भद्रं त इति । देवतुल्यपराक्रमौ संस्थानविशेषदर्शनेन नूनमेतौ विष्णुतुत्यपराक्रमाविति मन्यामहे । गजसिंहगती वीरौ शार्दूलवृषभोपमौ । चतुर्गतित्वमुच्यते, गाम्भीर्यगमने गजतुल्यौ, पराभिभवनार्हगमने सिंहतुल्यौ, भयङ्करगमने शार्दूलतुल्यौ, सगर्वगमने वृषभसदृशावित्यर्थः । विशेषेण रावयतः शत्रूनिति वीरौ, अनुभवितृ़णां विरोधिनिवर्तकावित्यर्थः । पद्मपत्रविशालाक्षौ द्रष्टृ़णामाकर्षकावयवविशेषौ । नयनसौन्दर्यं हि लावण्यपरमकाष्ठा । खड्गतूणीधनुर्धराविति आभरणकोटौ आयुधकोटौ च एषामन्तर्भावः । अश्विनाविव रूपेण–रूपवत्सु अश्विनौ प्रसिद्धौ । रूपेणासाधारणधर्मेण ताविवस्थितौ । समुपस्थितयौवनौ रूपानुरूपं प्रादुर्भवद्यौवनौ । यदृच्छयैव भाग्यवशादेव । देवलोकाद् गां भुवं प्राप्तौ अमरौ कौचिद्देवविशेषाविव स्थितौ, तेजसा देवकुमारतुल्यावित्यर्थः । एतत्तेजोविशेषविलोकनेनैतौ मर्त्यावपि अमर्त्याविति प्रतिभातीति भावः । कथं पद्भ्याम् इह प्राप्तौ अतीव कोमलाभ्यां पद्भ्यामिह दुर्गमे पथि कथं प्राप्तावित्युदरं परिस्पृशति । किमर्थम् एतद्रूपदर्शनेनैवावाप्तसमस्तकामाविति निश्चिनुमः, कस्य वा पुत्रावित्यर्थः । यद्वा कस्य पुरुषस्य कतमप्रयोजनाय इह प्राप्तावित्यर्थः । मुने सर्वज्ञो भवान् इममर्थं जानात्येवेत्यर्थः । चन्द्रसूर्यावम्बरमिव इमं देशं भूषयन्तौ शैत्यप्रतापाभ्यामुभावपि चन्द्रसूर्यतुल्यौ । अयं लोको विष्णुपदमासीदिति भावः । भूषयन्तौ निजतेजसेति भावः । प्रमाणं शरीरौन्नत्यादि, इङ्गितं अन्तर्गतभावसूचकस्मितादि, चेष्टितं गमनभाषणविलोकनादि एतैः परस्परसदृशौ तुल्यपुरुषान्तराभावात् । नरश्रेष्ठावपि दुर्गमे पथि किमर्थं सम्प्राप्तौ । पूर्वं पद्भ्यां कथं प्राप्तावित्युक्तम्, सम्प्रति दुर्गमं वनं किमर्थं प्राप्तावित्युच्यते । वरायुधधरौ आयुधश्रेष्ठधनुरादिधरौ, पूर्वमाभरणान्वयेन खड्गादिकमुक्तम् । इदानीं तान्येवायुधतयोच्यन्ते । यद्वा पूर्वोक्तानां वरायुधत्वमुच्यते । वीरौ वीर्ययुक्तौ । पूर्वं वीरशब्दो ऽन्यथा व्याख्यातः । श्रोतुमिछामि तत्त्वतः, यद्यपि राजपुत्रौ कस्यचिद्विघ्नस्य शान्तये आगताविति सामान्यतो जानामि तथापि विशेषतो ज्ञातुमिच्छामीत्यर्थः ॥ 1.48.26 ॥
तस्य तद्वचनं श्रुत्वा यथावृत्तं न्यवेदयत् ।
सिद्धाश्रमनिवासं च राक्षसानां वधं तथा ॥ 1.48.7 ॥
तस्येति । स्वस्य सिद्धाश्रमनिवासं तत्र स्वयज्ञविघ्नकरराक्षसानामेताभ्यां वधम्, चकारादिमौ दशरथकुमारौ हरधनुर्दर्शनाय मिथिलां गच्छत इत्येतत्समुच्चीयते । एतत्सर्वं यथावृत्तमब्रवीदिति योजना ॥ 1.48.7 ॥
विश्वामित्रवचः श्रुत्वा राजा परमहर्षितः ।
अतिथी परमौ प्राप्तौ पुत्रौ दशरथस्य तौ ।
पूजयामास विधिवत् सत्कारार्हौ महाबलौ ॥ 1.48.8 ॥
विश्वामित्रेति सार्द्धश्लोकः ॥ 1.48.8 ॥
ततः परमसत्कारं सुमतेः प्राप्य राघवौ ।
उष्य तत्र निशामेकां जग्मतुर्मिथिलां ततः ॥ 1.48.9 ॥
तत इति । उष्य उषित्वा । ततः प्रातःकाले । मिथिलां प्रति इति शेषः ॥ 1.48.9 ॥
तान् दृष्ट्वा मुनयः सर्वे जनकस्य पुरीं शुभाम् ।
साधु साध्विति शंसन्तो मिथिलां समपूजयन् ॥ 1.48.10 ॥
तानिति । तान् मिथिलां प्रति प्रस्थितान् रामादीन् । पूजाप्रकारः साधु साध्विति ॥ 1.48.10 ॥
मिथिलोपवने तत्र आश्रमं दृश्य राघवः ।
पुराणं निर्जनं रम्यं पप्रच्छ मुनिपुङ्गवम् ॥ 1.48.11 ॥
मिथिलेति । मिथिलाया उप समीपे वर्तमानं वनं मिथिलोपवनं तस्मिन् । शून्यम्(?) उटजसंस्थानरहितम् । दृश्य दृष्ट्वा ॥ 1.48.11 ॥
श्रीमदाश्रमसङ्काशं किं न्विदं मुनिवर्ज्जितम् ।
श्रोतुमिच्छामि भगवन् कस्यायं पूर्व आश्रमः ॥ 1.48.12 ॥
श्रीमदिति । आश्रमसङ्काशम् आश्रमवद्भासमानम् । किन्विदमित्यस्य विवरणं कस्यायमिति ॥ 1.48.12 ॥
तच्छ्रुत्वा राघवेणोक्तं वाक्यं वाक्यविशारदः ।
प्रत्युवाच महातेजा विश्वामित्रो महामुनिः ॥ 1.48.13 ॥
तदिति ॥ 1.48.13 ॥
हन्त ते कथयिष्यामि शृणु तत्त्वेन राघव ।
यस्यैतदाश्रमपदं शप्तं कोपान्महात्मना ॥ 1.48.14 ॥
हन्तेति । अहल्यानुग्रहहेतुकालस्मृतिजसन्तोषे हन्तेति । महात्मना कोपाच्छप्तं प्राप्तशापम् । इदमाश्रमपदं यस्य भवति तं कथयिष्यामि तत्त्वेन शृणु ॥ 1.48.14 ॥
गौतमस्य नरश्रेष्ठ पूर्वमासीन्महात्मनः ।
आश्रमो दिव्यसङ्काशः सुरैरपि सुपूजितः ॥ 1.48.15 ॥
गौतमस्येति । दिव्यसङ्काशः दिव्यत्वेन भासमानः ॥ 1.48.15 ॥
स चेह तप आतिष्ठदहल्यासहितः पूरा ।
वर्षपूगाननेकांश्च राजपुत्र महायशः ॥ 1.48.16 ॥
स चेति । वर्षपूगान् वर्षसमूहान् ॥ 1.48.16 ॥
तस्यान्तरं विदित्वा तु सहस्राक्षः शचीपतिः ।
मुनिवेषधरो ऽहल्यामिदं वचनमब्रवीत् ॥ 1.48.17 ॥
तस्येति । अन्तरं मुनिरहितकालम् । मुनिवेषधरः गौतमवेषधरः ॥ 1.48.17 ॥
ऋतुकालं प्रतीक्षन्ते नार्थिनः सुसमाहिते ।
सङ्गमं त्वहमिच्छामि त्वया सह सुमध्यमे ॥ 1.48.18 ॥
ऋत्विति । ऋतुकालं “षोडशर्तुर्निशास्त्रीणाम्” इत्युक्तकालम् । अर्थिनः कामाद्भोगार्थिनः । अनृतुकालत्वान्नायमवसर इत्यहल्यया प्रतिषिद्धमित्यवगम्यते । सुसमाहिते सम्यक् ब्रह्मणा निर्मिते अतिसुन्दरीत्यर्थः ॥ 1.48.18 ॥
मुनिवेषं सहस्राक्षं विज्ञाय रघुनन्दन ।
मतिं चकार दुर्मेधा देवराजकुतूहलात् ॥ 1.48.19 ॥
मुनीति । सहस्राक्षं विज्ञाय कदाचिदपि मुनिनैवमर्थनाभावादन्यस्यात्र प्रवेष्टुमशक्तेरिन्द्रस्यैवात्मनि बहुकालमभिलाषश्रवणाच्चेति भावः ॥ 1.48.19 ॥
अथाब्रवीत्सुरश्रेष्ठं कृतार्थेनान्तरात्मना ।
कृतार्थास्मि सुरश्रेष्ठ गच्छ शीघ्रमितः प्रभो ॥ 1.48.20 ॥
अथेति । कृतार्थेन सन्तुष्टेनेत्यर्थः । अन्तरात्मना मनसा उपलक्षिता ॥ 1.48.20 ॥
आत्मानं मां च देवेश सर्वदा रक्ष मानद ।
इन्द्रस्तु प्रहसन् वाक्यमहल्यामिदमब्रवीत् ॥ 1.48.21 ॥
आत्मानमिति । रक्ष अप्रकाशगमनादिति भावः ॥ 1.48.21 ॥
सुश्रोणि परितुष्टो ऽस्मि गमिष्यामि यथागतम् ॥ 1.48.22 ॥
सुश्रोणीत्यर्द्धम् ॥ 1.48.22 ॥
एवं सङ्गम्य तु तया निश्चक्रामोटजात्ततः ।
स सम्भ्रमात्त्वरन् राम शङ्कितो गौतमं प्रति ॥ 1.48.23 ॥
एवमिति । सः इन्द्रः सम्भ्रमात् भयात् “सम्भ्रमो ह्यादरे भये” इति निघण्टुः । शङ्कितः शङ्कावान् ॥ 1.48.23 ॥
गौतमं स ददर्शाथ प्रविशन्तं महामुनिम् ।
देवदानवदुर्द्धर्षं तपोबलसमन्वितम् ॥ 1.48.24 ॥
तीर्थोदकपरिक्लिन्नं दीप्यमानमिवानलम् ।
गृहीतसमिधं तत्र सकुशं मुनिपुङ्गवम् ॥ 1.48.25 ॥
गौतममिति श्लोकद्वयम् । अथ उटजान्निष्क्रमणकाल एव । परिक्लिन्नं स्नात्वागतमित्यर्थः । तत्र आश्रमे ॥ 1.48.24,25 ॥
दृष्ट्वा सुरपतिस्त्रस्तो विवर्णवदनो ऽभवत् ॥ 1.48.26 ॥
दृष्ट्वेत्यर्द्धम् । विवर्णवदनः शुष्कमुखः ॥ 1.48.26 ॥
अथ दृष्ट्वा सहस्राक्षं मुनिवेषधरं मुनिः ।
दुर्वृत्तं वृत्तसम्पन्नो रोषाद्वचनमब्रवीत् ॥ 1.48.27 ॥
अथेति । मुनिवेषधरं स्ववेषधरम् ॥ 1.48.27 ॥
मम रूपं समास्थाय कृतवानसि दुर्मते ।
अकर्तव्यमिदं तस्माद्विफलस्त्वं भविष्यसि ॥ 1.48.28 ॥
ममेति । स्वभार्यासङ्गमस्य दुःशीलत्वेनावाच्यत्वादिदमित्याहविफलः विगतवृषणः । “लाभनिष्पत्तिभोगेषु बीजे फाले धने फलम्” इति निघण्टुः ॥ 1.48.28 ॥
गौतमेनैवमुक्तस्य सरोषेण महात्मना ।
पेततुर्वृषणौ भूमौ सहस्राक्षस्य तत्क्षणात् ॥ 1.48.29 ॥
गौतमेनेति ॥ 1.48.29 ॥
तथा शप्त्वा स वै शक्रमहल्यामपि शप्तवान् ।
इह वर्षसहस्राणि बहूनि त्वं निवत्स्यसि ॥ 1.48.30 ॥
तथेति ॥ 1.48.30 ॥
वायुभक्षा निराहारा तप्यन्ती भस्मशायिनी ।
अदृश्या सर्वभूतानामाश्रमे ऽस्मिन्निवत्स्यसि ॥ 1.48.31 ॥
कथं निवासमात्रस्य शापत्वमिति तद्विवृणोति–वायुभक्षेति । निराहारा अन्नपानादिरहिता । तप्यन्ती तप्यमाना । भस्मशायिनी भस्मशयना । अत्र बुद्धिपूर्वकव्यभिचारस्य विधीयमानं प्रायश्चितं शापापदेशेनोच्यते । एवं व्यक्ततया वाल्मीकिवचने स्थिते शैली भवेति शापो रामपादस्पर्शात् शिलात्वमुक्तिरिति पुराणकथा कल्पान्तरवृत्तमनुसृत्येतिबोध्यम् ॥ 1.48.31 ॥
यदा चैतद्वनं घोरं रामो दशरथात्मजः ।
आगमिष्यति दुर्द्धर्षस्तदा पूता भविष्यसि ॥ 1.48.32 ॥
यदेति । पूता भविष्यसि, तत्पादपरागस्पर्शादिति भावः । एतेन बहुवर्षप्रायश्चित्तकरणमपि भगवत्पादरेणुस्पर्शस्य कलां नार्हतीत्युक्तम् ॥ 1.48.32 ॥
तस्यातिथ्येन दुर्वृत्ते लोभमोहविवर्जिता ।
मत्सकाशे मुदा युक्ता स्वं वपुर्धारयिष्यसि ॥ 1.48.33 ॥
पूतत्वे ऽपि पूर्वरूपप्राप्तिस्तत्पादपूजां विना न सम्भवतीत्याह–तस्येति । मत्सकाशे मत्समीपे, स्थितेति शेषः । स्वं वपुः दृश्यं वपुः । केचिदिदं श्लोकद्वयं प्रक्षिप्तमित्याहुः । तन्न, ‘स्मरन्ती गौतमवचः’ इत्याद्युत्तरसर्गवचनविरोधात् ॥ 1.48.33 ॥
एवमुक्त्वा महातेजा गौतमो दुष्टचारिणीम् ।
इममाश्रममुत्सृज्य सिद्धचारणसेविते ।
हिमवच्छिखरे रम्ये तपस्तेपे महातपाः ॥ 1.48.34 ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे अष्टचत्वारिंशः सर्गः ॥ 48 ॥
एवमिति सार्द्धश्लोकः । तपस्तेपे तच्छापकृतपापप्रायश्चित्तार्थम् ॥ 1.48.34 ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने ऽष्टचत्वारिंशः सर्गः ॥ 48 ॥