श्रीमद्वाल्मीकीयरामायणम्बालकाण्डः
षट्चत्वारिंशः सर्गः
हतेषु तेषु पुत्रेषु दितिः परमदुःखिता ।
मारीचं काश्यपं राम भर्त्तारमिदमब्रवीत् ॥ 1.46.1 ॥
विष्णुपक्षविरोधे महानपि यत्नो विफलः स्यादित्याह षट्चत्वारिंशे–हतेष्वित्यादि । मारीचं मरीचिपुत्रम् ॥ 1.46.1 ॥
हतपुत्रास्मि भगवंस्तव पुत्रैर्महाबलैः ।
शक्रहन्तारमिच्छामि पुत्रं दीर्घतपोर्जितम् ॥ 1.46.2 ॥
हतेति । तपोर्जितं तपसा ऊर्जितं दृढम् । आर्षः सन्धिः ॥ 1.46.2 ॥
साहं तपश्चरिष्यामि गर्भं मे दातुमर्हसि ।
ईश्वरं शक्रहन्तारं त्वमनुज्ञातुमर्हसि ॥ 1.46.3 ॥
साहमिति । गर्भं पुत्रम् । ईश्वरं त्रैलोक्यनियन्तारम् । ईदृशमितिपाठे ऽप्ययमर्थो विवक्षितः । अनुज्ञातुम्, तप इति शेषः । भर्त्रनुज्ञां विना तपसि स्त्रिया अस्वातन्त्र्यादिति भावः ॥ 1.46.3 ॥
तस्यास्तद्वचनं श्रुत्वा मारीचः काश्यपस्तदा ।
प्रत्युवाच महातेजा दितिं परमदुःखिताम् ॥ 1.46.4 ॥
तस्या इति ॥ 1.46.4 ॥
एवं भवतु भद्रं ते शुचिर्भव तपोधने ।
जनयिष्यसि पुत्रं त्वं शक्रहन्तारमाहवे ॥ 1.46.5 ॥
एवमिति । शुचिर्भव, यावत् पुत्रोत्पत्तीति शेषः ॥ 1.46.5 ॥
पूर्णे वर्षसहस्रे तु शुचिर्यदि भविष्यसि ।
पुत्रं त्रैलोक्यभर्तारं मत्तस्त्वं जनयिष्यसि ॥ 1.46.6 ॥
पूर्ण इति । मत्तः मदनुग्रहादित्यर्थः ॥ 1.46.6 ॥
एवमुक्त्वा महातेजाः पाणिना स ममार्ज ताम् ।
समालभ्य ततः स्वस्तीत्युक्त्वा स तपसे ययौ ॥ 1.46.7 ॥
एवमिति । ममार्जेत्याश्वासनप्रकारः । ततः मार्जनानन्तरम् । उदरं समालभ्य स्वस्ति पुत्रोत्पत्तिरूपं शुभं भवत्वित्युक्त्वानुगृह्य स काश्यपस्तपसे ययौ ॥ 1.46.7 ॥
गते तस्मिन्नरश्रेष्ठ दितिः परमहर्षिता ।
कुशप्लवनमासाद्य तपस्तेपे सुदारुणम् ॥ 1.46.8 ॥
गत इति । कुशप्लवनं विशालायाः पूर्वस्थानम् ॥ 1.46.8 ॥
तपस्तस्यां हि कुर्वन्त्यां परिचर्यां चकार ह ।
सहस्राक्षो नरश्रेष्ठ परया गुणसम्पदा ॥ 1.46.9 ॥
तप इति । गुणसम्पदा विनयादिसमृद्ध्या ॥ 1.46.9 ॥
अग्निं कुशान् काष्ठमपः फलं मूलं तथैव च ।
न्यवेदयत् सहस्राक्षो यच्चान्यदपि काङ्क्षितम् ॥ 1.46.10 ॥
अग्निमिति । परिचर्याप्रकारः ॥ 1.46.10 ॥
गात्रसंवहनैश्चैव श्रमापनयनैस्तथा ।
शक्रः सर्वेषु कालेषु दितिं परिचचार ह ॥ 1.46.11 ॥
गात्रेति । मातृत्वात् गात्रसंवहनानि, श्रमापनयनैः व्यजनवीजनादिभिरिति शेषः ॥ 1.46.11 ॥
अथ वर्षसहस्रे तु दशोने रघुनन्दन ।
दितिः परमसम्प्रीता सहस्राक्षमथाब्रवीत् ॥ 1.46.12 ॥
अथेति । दशोने दशवर्षोने ॥ 1.46.12 ॥
याचितेन सुरश्रेष्ठ पित्रा तव महात्मना ।
वरो वर्षसहस्रान्ते मम दत्तः सुतं प्रति ॥ 1.46.13 ॥
याचितेनेति । शुश्रूषाकृतप्रीत्यतिशयाद्वैरं विस्मृतवतीति भावः ॥ 1.46.13 ॥
तपश्चरन्त्या वर्षाणि दश वीर्यवतां वर ।
अवशिष्टानि भद्रं ते भ्रातरं द्रक्ष्यसे ततः ॥ 1.46.14 ॥
तप इति । ततः दशवर्षान्ते ॥ 1.46.14 ॥
तमहं त्वत्कृते पुत्रं समाधास्ये जयोत्सुकम् ।
त्रैलोक्यविजयं पुत्रं सह भोक्ष्यसि विज्वरः ॥ 1.46.15 ॥
तमिति । समाधास्ये विगतवैरं भ्रातृस्नेहवन्तमेव करिष्यामीत्यर्थः । त्रैलोक्यविजयं त्वद्भ्रातृकृतमिति शेषः । अमोघभर्त्रनुग्रहेणाप्रतिबन्धसुतोत्पत्तिं मन्वाना ऋजुतया शुश्रूषाफलमुक्तवती ॥ 1.46.15 ॥
एवमुक्त्वा दितिः शक्रं प्राप्ते मध्यं दिवाकरे ।
निद्रयापहृता देवी पादौ कृत्वाथ शीर्षतः ॥ 1.46.16 ॥
एवमिति । मध्यं गगनमध्यम् । शीर्षतः शिरसि पादौ कृत्वा, स्थितेति शेषः । मध्याह्नशयनपरिग्रहप्रसङ्गाभावेनासन एवोपविशन्त्यास्तस्या निद्रापारवश्येन नम्रं शिरः पादयोः संसक्तमभवदित्यर्थः ॥ 1.46.16 ॥
दृष्ट्वा तामशुचिं शक्रः पादतः कृतमूर्द्धजाम् ।
शिरःस्थाने कृतौ पादौ जहास च मुमोद च ॥ 1.46.17 ॥
दृष्ट्वेति । पादतः कृतमूर्द्धजां पादौ कृत्वाथ शीर्षत इत्यस्य विवरणम्, अत एव अशुचिं तां
दृष्ट्वा शिरःस्थाने कृतौ पादौ शिरःस्पृष्टौ पादाविति मुमोद, तेन जहास च । यद्वा प्राप्ते मध्यं दिवाकर इत्यनेन दिवास्वापरूपाशौचं दर्शितम् । शीर्षतः शिरःस्थाने, शिरःस्थान इत्यनुवादात् । पादतः पादस्थाने । शयनपरिग्रहाभावे ऽपि कृष्णाजिनाद्यास्तरणे पादस्थाने शिरः शिरःस्थाने च पादौ कृत्वा सुप्तवतीत्यर्थः । पादोपधाने शीर्षं शीर्षोपधाने पादौ च कृत्वेत्यर्थः । रन्ध्रान्वेषणफलं जातमिति मोदः, वृथागर्वितेयमिति हासः ॥ 1.46.17 ॥
तस्याः शरीरविवरं विवेश च पुरन्दरः ।
गर्भं च सप्तधा राम बिभेद परमात्मवान् ॥ 1.46.18 ॥
तस्या इति । शरीरविवरं योनिविवरम् । आत्मवान् धैर्यवान् ॥ 1.46.18 ॥
भिद्यमानस्ततो गर्भो वज्रेण शतपर्वणा ।
रुरोद सुस्वरं राम ततो दितिरबुध्यत ॥ 1.46.19 ॥
भिद्यमान इति । शतपर्वणा शतकोटिना ॥ 1.46.19 ॥
मा रुदो मा रुदश्चेति गर्भं शक्रो ऽभ्यभाषत ।
बिभेद च महातेजा रुदन्तमपि वासवः ॥ 1.46.20 ॥
मा रुद इति । “रुदिर् अश्रुविमोचने” इत्यस्माल्लुङ् । माङ्योगादडभावः ॥ 1.46.20 ॥
न हन्तव्यो न हन्तव्य इत्येवं दितिरब्रवीत् ।
निष्पपात ततः शक्रो मातुर्वचनगौरवात् ॥ 1.46.21 ॥
न हन्तव्य इति । न हन्तव्यः । भेदने कृते ऽपि प्राणवियोजनं मा कुर्वित्यर्थः ॥ 1.46.21 ॥
प्राञ्जलिर्वज्रसहितो दितिं शक्रो ऽभ्यभाषत ।
अशुचिर्देवि सुप्तासि पादयोः कृतमूर्द्धजा ॥ 1.46.22 ॥
प्राञ्जलिरिति ॥ 1.46.22 ॥
तदन्तरमहं लब्ध्वा शक्रहन्तारमाहवे ।
अभिदं सप्तधा देवि तन्मे त्वं क्षन्तुमर्हसि ॥ 1.46.23 ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे षट्चत्वारिंशः सर्गः ॥ 46 ॥
तदिति । अन्तरमवकाशम् । क्षन्तुमर्हसि ‘स्वहिंसापरां गामपि हिंस्यात्’ इतिन्यायेन युक्तत्वादिति भावः ॥ 1.46.23 ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने षट्चत्वारिंशः सर्गः ॥ 46 ॥