०४४ सगर-पुत्र-स्वर्गतिः

श्रीमद्वाल्मीकीयरामायणम्बालकाण्डः
चतुश्चत्वारिंशः सर्गः

स गत्वा सागरं राजा गङ्गयानुगतस्तदा ।

प्रविवेश तलं भूमेर्यत्र ते भस्मसात्कृताः ॥ 1.44.1 ॥

पूर्वसर्गान्ते सङ्ग्रहेणोक्तं विस्तृणीते चतुश्चत्वारिंशे–स गत्वेत्यादि । भूमेस्तलं पातालम् । भस्मसात्कृताः सर्वात्मना भस्मस्वभावापत्तये सम्पादिताः । “विभाषासाति कार्त्स्न्ये” इतिसातिः ॥ 1.44.1 ॥

भस्मन्यथाप्लुते राम गङ्गायाः सलिलेन वै ।

सर्वलोकप्रभुर्ब्रह्मा राजानमिदमब्रवीत् ॥ 1.44.2 ॥

भस्मनीति । स्पष्टम् ॥ 1.44.2 ॥

तारिता नरशार्दूल दिवं याताश्च देववत् ।

षष्टिः पुत्रसहस्राणि सगरस्य महात्मनः ॥ 1.44.3 ॥

तारिता इति । तारिताः प्रेतभावान्मोचिताः ॥ 1.44.3 ॥

सागरस्य जलं लोके यावत् स्थास्यति पार्थिव ।

सगरस्यात्मजा स्तावत् स्वर्गे स्थास्यन्ति देववत् ॥ 1.44.4 ॥

स्वर्गप्राप्तेर्विशेषञ्चाह–सागरस्येति ॥ 1.44.4 ॥

इयं हि दुहिता ज्येष्ठा तव गङ्गा भविष्यति ।

त्वत्कृतेन च नाम्नाथ लोके स्थास्यति विश्रुता ॥ 1.44.5 ॥

इयं चेति । त्वत्कृतेन नाम्नालोके विश्रुता ॥ 1.44.5 ॥

गङ्गा त्रिपथगा राजन् दिव्या भागीरथीति च ।

त्रीन् पथो भावयन्तीति ततस्त्रिपथगा स्मृता ॥ 1.44.6 ॥

तदेव नामद्वयं दर्शयन् त्रिपथगाशब्दं व्युत्पादयति–गङ्गेति ॥ 1.44.6 ॥

पितामहानां सर्वेषां त्वमत्र मनुजाधिप ।

कुरुष्व सलिलं राजन् प्रतिज्ञामपवर्जय ॥ 1.44.7 ॥

पितामहानामिति । प्रतिज्ञां गङ्गासलिलप्रदानेन सागरान् तारयिष्यामीति प्रतिज्ञाम् । अपवर्जय समापय ॥ 1.44.7 ॥

पूर्वकेण हि ते राजंस्तेनातियशसा तदा ।

धर्मिणां प्रवरेणापि नैष प्राप्तो मनोरथः ॥ 1.44.8 ॥

पूर्वकेणेति । पूर्वकेण सगरेण ॥ 1.44.8 ॥

तथैवांशुमता तात लोके ऽप्रतिमतेजसा ।

गङ्गां प्रार्थयता नेतुं प्रतिज्ञा नापवर्जिता ॥ 1.44.9 ॥

तथेति । नापवर्जिता न समापिता ॥ 1.44.9 ॥

राजर्षिणा गुणवता महर्षिसमतेजसा ।

मत्तुल्यतपसा चैव क्षत्रधर्मस्थितेन च ॥ 1.44.10 ॥

दिलीपेन महाभाग तव पित्रातितेजसा ।

पुनर्न शङ्किता नेतुं गङ्गां प्रार्थयतानघ ॥ 1.44.11 ॥

राजर्षिणेति श्लोकद्वयम् । गङ्गां प्रार्थयतापि सा पुनर्नेतुं न शङ्किता, न विचारितेत्यर्थः ॥ 1.44.10,11 ॥

सा त्वया समतिक्रान्ता प्रतिज्ञा पुरुषर्षभ ।

प्राप्तो ऽसि परमं लोके यशः परमसम्मतम् ॥ 1.44.12 ॥

सेति । समतिक्रान्ता निस्तीर्णा ॥ 1.44.12 ॥

यच्च गङ्गावतरणं त्वया कृतमरिन्दम ।

अनेन च भवान् प्राप्तो धर्मस्यायतनं महत् ॥ 1.44.13 ॥

यच्चेति । आयतनं प्रतिष्ठाम् ॥ 1.44.13 ॥

प्लावयस्व त्वमात्मानं नरोत्तम सदोचिते ।

सलिले पुरुषव्याघ्र शुचिः पुण्यफलो भव ॥ 1.44.14 ॥

प्लावयस्वेति । प्लावयस्व स्नानं कुर्वित्यर्थः । सदोचिते सदा स्नानयोग्ये । अन्यासामेव हि नदीनां रजोदोष इति भावः ॥ 1.44.14 ॥

पितामहानां सर्वेषां कुरुष्व सलिलक्रियाम् ।

स्वस्ति ते ऽस्तु गमिष्यामि स्वं लोकं गम्यतां नृप ॥ 1.44.15 ॥

पितामहानामिति । गम्यतां त्वयापीति शेषः ॥ 1.44.15 ॥

इत्येवमुक्त्वा देवेशः सर्वलोकपितामहः ।

यथागतं तथागच्छद्देवलोकं महायशाः ॥ 1.44.16 ॥

इतीति । यथागतं तथागच्छत् एक एवेत्यर्थः ॥ 1.44.16 ॥

भगीरथो ऽपि राजर्षिः कृत्वा सलिलमुत्तमम् ।

यथाक्रमं यथान्यायं सागराणां महायशाः ॥ 1.44.17 ॥

कृतोदकः शुची राजा स्वपुरं प्रविवेश ह ।

समृद्धार्थो नरश्रेष्ठ स्वराज्यं प्रशशास ह ॥ 1.44.18 ॥

भगीरथ इति श्लोकद्वयम् । यथाक्रमं कृतोदकः, अन्येषामपीति शेषः । प्रशशास ह प्रशशास चेत्यर्थः ॥ 1.44.17,18 ॥

प्रमुमोद च लोकस्तं नृपमासाद्य राघव ।

नष्टशोकः समृद्धार्थो बभूव विगतज्वरः ॥ 1.44.19 ॥

प्रमुमोदेति । विगतज्वरः निरामय इत्यर्थः ॥ 1.44.19 ॥

एष ते राम गङ्गाया विस्तरो ऽभिहितो मया ।

स्वस्ति प्राप्नुहि भद्रं ते सन्ध्याकालो ऽतिवर्तते ॥ 1.44.20 ॥

उपसंहरति–एष इति । भद्रं तेस्त्विति वचनपरिपाटी । सन्ध्याकालो ऽतिवर्तते, इतः परं न प्रष्टव्यमिति भावः ॥ 1.44.20 ॥

धन्यं यशस्यमायुष्यं पुत्र्यं स्वग्र्यमतीव च ।

यः श्रावयति विप्रेषु क्षत्रियेष्िवतरेषु च ।

प्रीयन्ते पितरस्तस्य प्रीयन्ते दैवतानि च ॥ 1.44.21 ॥

अथ गङ्गावतारश्रावणफलमाह–धन्यमिति । धनादिप्रदमित्यर्थः । सर्वत्र साधुत्वार्थे यत्प्रत्ययः । इदमाख्यानमित्यनुषज्यजे । अर्धत्रयम् ॥ 1.44.21 ॥

इदमाख्यानमव्यग्रो गङ्गावतरणं शुभम् ।

यः शृणोति च काकुत्स्थ सर्वान् कामानवाप्नुयात् ।

सर्वे पापाः प्रणश्यन्ति आयुः कीर्तिश्च वर्द्धते ॥ 1.44.22 ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुश्चत्वारिंशः सर्गः ॥ 44 ॥

श्रावयितुः फलमुक्तम्, सम्प्रति श्रोतुः फलमुच्यते इदमिति । गङ्गावतरणं गङ्गावतरणाख्यम् । अर्द्धत्रयम् ॥ 1.44.22 ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने चतुश्चत्वारिंशः सर्गः ॥ 44 ॥