श्रीमद्वाल्मीकीयरामायणम्बालकाण्डः
द्विचत्वारिंशः सर्गः
कालधर्मं गते राम सगरे प्रकृतीजनाः ।
राजानं रोचयामासुरंशुमन्तं सुधार्मिकम् ॥ 1.42.1 ॥
अथ गङ्गायास्त्रिपथगमनहेतुप्रश्नस्य पूर्वप्रकृतस्य साक्षादुत्तरमाह–कालधर्ममित्यादि ।जातमात्रस्य कालेनावश्यं प्राप्तव्यो धर्मः कालधर्मः, मरणमिति यावत् । प्रकृतीजना इत्यत्र दीर्घश्छान्दसः । अमात्यवर्गाः । “प्रकृतिः सहजे योनावमात्ये परमात्मनि” इति वैजयन्ती । रोचयामासुः न्यायप्राप्तत्वादैच्छन् ॥ 1.42.1 ॥
स राजा सुमहानसीदंशुमान् रघुनन्दन ।
तस्य पुत्रो महानासीद्दिलीप इति विश्रुतः ॥ 1.42.2 ॥
स इति । सः सुमहान् राजासीदित्यन्वयः ॥ 1.42.2 ॥
तस्मिन् राज्यं समावेश्य दिलीपे रघुनन्दन ।
हिमवच्छिखरे पुण्ये तपस्तेपे सुदारुणम् ॥ 1.42.3 ॥
तस्मिन्निति । तेपे गङ्गावतारणायेति शेषः ॥ 1.42.3 ॥
द्वात्रिंशच्च सहस्राणि वर्षाणि सुमहायशाः ।
तपोवनं गतो राम स्वर्गं लेभे तपोधनः ॥ 1.42.4 ॥
द्वात्रिंशदिति । स्वर्गं लेभे न तु गङ्गाम् ॥ 1.42.4 ॥
दिलीपस्तु महातेजाः श्रुत्वा पैतामहं वधम् ।
दुःखोपहतया बुद्ध्या निश्चयं नाध्यगच्छत ॥ 1.42.5 ॥
दिलीप इति । वधम् अपमृत्युम् । दुःखोपहतया पित्रा दुश्चरे तपसि कृते ऽपि तेषां गतिर्नाभूदित्येवंरूपया । नाध्यगच्छत नाध्यगच्छत् ॥ 1.42.5 ॥
कथं गङ्गावतरणं कथं तेषां जलक्रिया ।
तारयेयं कथं चैनानिति चिन्तापरो ऽभवत् ॥ 1.42.6 ॥
निश्चयानधिगममेवाह–कथमित्यादिना ॥ 1.42.6 ॥
तस्य चिन्तयतो नित्यं धर्मेण विदितात्मनः ।
पुत्रो भगीरथो नाम जज्ञे परमधार्मिकः ॥ 1.42.7 ॥
तस्येति । धर्मेण प्रयोजकेन चिन्तयतः ॥ 1.42.7 ॥
दिलीपस्तु महातेजा यज्ञैर्बहुभिरिष्टवान् ।
त्रिंशद्वर्षसहस्राणि राजा राज्यमकारयत् ॥ 1.42.8 ॥
दिलीप इति । अकारयत् अकरोत् ॥ 1.42.8 ॥
अगत्वा निश्चयं राजा तेषामुद्धरणं प्रति ।
व्याधिना नरशार्दूल कालधर्ममुपेयिवान् ॥ 1.42.9 ॥
अगत्वेति । अपेयिवान् ययौ ॥ 1.42.9 ॥
इन्द्रलोकं गतो राजा स्वार्जितेनैव कर्मणा ।
राज्ये भगीरथं पुत्रमभिषिच्य नरर्षभः ॥ 1.42.10 ॥
इन्द्रेति । अभिषिच्य इन्द्रलोकं गतः ॥ 1.42.10 ॥
भगीरथस्तु राजर्षिर्धार्मिको रघुनन्दन ।
अनपत्यो महातेजाः प्रजाकामः स चाप्रजः ॥ 1.42.11 ॥
मन्त्रिष्वाधाय तद्राज्यं गङ्गावतरणे रतः ॥ 1.42.12 ॥
भगीरथ इति । अनपत्यः अत एव प्रजाकामो ऽभूत् । स चाप्रज इत्युत्तरशेषः ॥ 1.42.11,12 ॥
स तपो दीर्घमातिष्ठद्गोकर्णे रघुनन्दन ।
ऊर्ध्वबाहुः पञ्चतपा मासाहारो जितेन्द्रियः ॥ 1.42.13 ॥
स इति । गोकर्णे हिमवत्पादविशेषे । पञ्चाग्नयः चतुर्षु पाश्वेष्वग्नय उपरि सूर्यश्च, तेषां मध्ये तपो यस्य सः पञ्चतपाः । मासस्य सकृदाहारो यस्य सः मासाहारः । उभयत्र मध्यमपदलोपी समासः । पृषोदरादित्वात्साधुत्वम् ॥ 1.42.13 ॥
तस्य वर्षसहस्राणि घोरे तपसि तिष्ठतः ।
अतीतानि महाबाहो तस्य राज्ञो महात्मनः ॥ 1.42.14 ॥
तस्येति । तस्य राज्ञो महात्मन इत्युत्तरशेषः ॥ 1.42.14 ॥
सुप्रीतो भगवान् ब्रह्मा प्रजानां पतिरीश्वरः ॥ 1.42.15 ॥
सुप्रीत इत्यर्द्धम् ॥ 1.42.15 ॥
ततः सुरगुणैः सार्द्धमुपागम्य पितामहः ।
भगीरथं महात्मानं तप्यमानमथाब्रवीत् ॥ 1.42.16 ॥
तत इति । अथ उपगमनानन्तरम् ॥ 1.42.16 ॥
भगीरथ महाभाग प्रीतस्ते ऽहं जनेश्वर ।
तपसा च सुतप्तेन वरं वरय सुव्रत ॥ 1.42.17 ॥
भगीरथेति । ते तपसा प्रीतः ॥ 1.42.17 ॥
तमुवाच महातेजाः सर्वलोकपितामहम् ।
भगीरथो महाभागः कृताञ्जलिरुपस्थितः ॥ 1.42.18 ॥
तमिति । महातेजाः तपःकृतनिरवधिकतेजाः ॥ 1.42.18 ॥
यदि मे भगवन् प्रीतो यद्यस्ति तपसः फलम् ।
सगरस्यात्मजाः सर्वे मत्तस्सलिलमाप्नुयुः ॥ 1.42.19 ॥
यदीति । मे तपस इत्यन्वयः ॥ 1.42.19 ॥
गङ्गायाः सलिलक्लिन्ने भस्मन्येषां महात्मनाम् ।
स्वर्गं गच्छेयुरत्यन्तं सर्वे मे प्रपितामहाः ॥ 1.42.20 ॥
न केवलं सलिलाप्तिरन्यच्चेत्याह–गङ्गाया इति । अत्यन्तम् अक्षय्यम् ॥ 1.42.20 ॥
देया च सन्ततिर्देव नावसीदेत्कुलं च नः ।
इक्ष्वाकूणां कुले देव एष मे ऽस्तु वरः परः ॥ 1.42.21 ॥
दया चेति । इक्ष्वाकूणां कुले जातस्य मे सन्ततिर्देया, यया नः कुलं नावसीदेत् । एष वरः परः द्वितीयो वरो ऽस्त्वित्यन्वयः । तपसे निर्गमदशायामपि हि प्रजाकाम इत्युक्तम् ॥ 1.42.21 ॥
उक्तवाक्यं तु राजानं सर्वलोकपितामहः ।
प्रत्युवाच शुभां वाणीं मधुरां मधुराक्षराम् ॥ 1.42.22 ॥
उक्तेति । शुभां शुभहेतुम् । मधुराम् अर्थतो मनोज्ञाम् ॥ 1.42.22 ॥
मनोरथो महानेष भगीरथ महारथ ।
एवं भवतु भद्रं ते इक्ष्वाकुकुलवर्द्धन ॥ 1.42.23 ॥
मनोरथ इति । मनोरथः, तावकः इति शेषः ॥ 1.42.23 ॥
इयं हैमवती गङ्गा ज्येष्ठा हिमवतः सुता ।
तां वै धारयितुं शक्तो हरस्तत्र नियुज्यताम् ॥ 1.42.24 ॥
इयमिति । इयं सन्निहिता । हैमवती हिमवत्सन्निहिता । धारयितुं शक्तः हरः तत्र धारणे नियुज्यतां प्रार्थ्यताम् ॥ 1.42.24 ॥
गङ्गायाः पतनं राजन् पृथिवी न सहिष्यति ।
तां वै धारयितुं वीर नान्यं पश्यामि शूलिनः ॥ 1.42.25 ॥
गङ्गाया इति । धारयितुम्, शक्तमिति शेषः ॥ 1.42.25 ॥
तमेवमुक्त्वा राजानं गङ्गां चाभाष्य लोककृत् ।
जगाम त्रिदिवं देवस्सह देवैर्मरुद्गणैः ॥ 1.42.26 ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे द्विचत्वारिंशः सर्गः ॥ 42 ॥
तमिति । आभाष्य ‘वत्से राजानं यथाकालमनुगृहाण’ इत्युक्त्वेति यावत् । मरुद्गणैः वायुगणैः ॥ 1.42.26 ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिञ्जीराख्याने बालकाण्डव्याख्याने द्विचत्वारिंशः सर्गः ॥ 42 ॥