श्रीमद्वाल्मीकीयरामायणम्बालकाण्डः
चतुस्त्रिंशः सर्गः
कृतोद्वाहे गते तस्मिन् ब्रह्मदत्ते च राघव ।
अपुत्रः पुत्रलाभाय पौत्रीमिष्टिमकल्पयत् ॥ 1.34.1 ॥
एवं प्रासङ्गिकं परिसमाप्य प्रकृतकथाशेषमाह चतुस्त्रिंशे कृतोद्वाह इत्यादि । अपुत्रः कुशनाभः । पुत्रायेयं पौत्री ताम् ॥ 1.34.1 ॥
इष्ट्यां च वर्तमानायां कुशनाभं महीपतिम् ।
उवाच परमोदारः कुशो ब्रह्मसुतस्तदा ॥ 1.34.2 ॥
इष्ट्यामिति । कुशः कुशनाभपिता ॥ 1.34.2 ॥
पुत्र ते सदृशः पुत्रो भविष्यति सुधार्मिकः ।
गाधिं प्राप्स्यसि तेन त्वं कीर्तिं लोके च शाश्वतीम् ॥ 1.34.3 ॥
पुत्रेति । सदृशः, गुणैरिति शेषः । स पुत्रः किन्नामकः ? तत्राह गाधिमिति । गाधिनामानं पुत्रं प्राप्स्यसे, तेन गाधिना । शश्वद्भवा शाश्वती । भवार्थे अण् । बहिषष्टिलोपवचनादव्ययानां भमात्रे टिलोपः क्वाचित्कः । अत्र न ततो ङीप् । ताम् ॥ 1.34.3 ॥
एवमुक्त्वा कुशो राम कुशनाभं महीपतिम् ।
जगामाकाशमाविश्य ब्रह्मलोकं सनातनम् ॥ 1.34.4 ॥
एवमिति । अनेन सदा ब्रह्मलोकवासी कुशः पुत्रानुग्रहार्थं भुवमागत इत्यवगम्यते । सनातनं नित्यम् ॥ 1.34.4 ॥
कस्यचित्त्वथ कालस्य कुशनाभस्य धीमतः ।
यज्ञे परमधर्मिष्ठो गाधिरित्येव नामतः ॥ 1.34.5 ॥
कस्यचिदिति । कस्यचित्कालस्य कस्मिंश्चित्काले गते सति । गाधिरित्येव यथा पित्रोक्तं तथैवेत्यर्थः । जज्ञे घृताच्यां भार्यायाम् ॥ 1.34.5 ॥
स पिता मम काकुत्स्थ गाधिः परमधार्मिकः ।
कुशवंशप्रसूतो ऽस्मि कौशिको रघुनन्दन ॥ 1.34.6 ॥
स इति । यतः कुशवंशप्रसूतो ऽस्मि अतः कौशिकसञ्ज्ञो ऽस्मि । कुशशब्दात् गोत्रापत्ये ठक् ॥ 1.34.6 ॥
पूर्वजा भगिनी चापि मम राघव सुव्रता ।
नाम्ना सत्यवती नाम ऋचीके प्रतिपादिता ॥ 1.34.7 ॥
पूर्वजेति । पूर्वजा ज्येष्ठा । ऋचीके ऋचीकाख्यमुनय इत्यर्थः ॥ 1.34.7 ॥
सशरीरा गता स्वर्गं भर्तारमनुवर्तिनी ।
कौशिकी परमोदारा प्रवृत्ता च महानदी ॥ 1.34.8 ॥
सशरीरेति । भर्त्तारमनुवर्तिनी भर्त्रनुवर्तनधर्मप्रभावादिति भावः । न केवलं स्वर्गगमनमस्याः, महानदीत्वं च जातमित्याह कौशिकीति ॥ 1.34.8 ॥
दिव्या पुण्योदका रम्या हिमवन्तमुपाश्रिता ।
लोकस्य हितकामार्थं प्रवृत्ता भ्ागिनी मम ॥ 1.34.9 ॥
दिव्येति । दिव्या श्लाघ्या । हितमामुष्मिकम्, कामः ऐहिकम् तदुभयार्थं प्रवृत्ता । नदीरूपेण स्वर्गाद्धिमवन्तमुपाश्रितेत्यर्थः ॥ 1.34.9 ॥
ततो ऽहं हिमवत्पार्श्वे वसामि निरतः सुखम् ।
भगिन्यां स्नेहसंयुक्तः कौशिक्यां रघुनन्दन ॥ 1.34.10 ॥
तत इति । यतो हिमवन्तमाश्रिता तत इत्यर्थः ॥ 1.34.10 ॥
सा तु सत्यवती पुण्या सत्ये धर्मे प्रतिष्ठिता ।
पतिव्रता महाभागा कौशिकी सरितां वरा ॥ 1.34.11 ॥
सत्यवतीनामनिमित्तमाह सा त्विति ॥ 1.34.11 ॥
अहं हि नियमाद्राम हित्वा तां समुपागतः ।
सिद्धाश्रममनुप्राप्य सिद्धो ऽस्मि तव तेजसा ॥ 1.34.12 ॥
एवम्भूतस्य सिद्धाश्रमागमननिमित्तमाह अहं हीति । नियमात् यागनियमाद्धेतोः । समुपागतः सिद्धाश्रममितिशेष्ाः ॥ 1.34.12 ॥
एषा राम ममोत्पत्तिः स्वस्य वंशस्य कीर्तिता ।
देशस्य च महाबाहो यन्मां त्वं परिपृच्छसि ॥ 1.34.13 ॥
एषेति । मम स्वस्य वंशस्य चोत्पत्तिः प्रसङ्गात्कीर्तिता, यत्त्वया पृष्टं तत् । देशस्य गिरिव्रजदेशस्य वैभवं चोक्तम् ॥ 1.34.13 ॥
गतो ऽर्द्धरात्रः काकुत्स्थ कथाः कथयतो मम ।
निद्रामभ्येहि भद्रं ते मा भूद्विघ्नो ऽध्वनीह नः ॥ 1.34.14 ॥
इतःपरं न प्रष्टव्यमित्याशयेनाह गत इति । अर्द्धो रात्रेरर्द्धरात्रः । अनपुंसकत्वेपि “अर्द्धं नपुंसकम्” इत्यार्षः समासः । “अहः सर्व ” इत्यादिना समासान्तो ऽच् । “रात्राह्न ” इति पुँल्लिङ्गता । अत्रार्द्धशब्दों ऽशवाची । उक्तं हि “भित्तं शकलखण्डे वा पुंस्यर्द्धो ऽर्द्धं समें ऽशके” इति । यावति रात्रिभागे निद्रा निषिद्धा तावान् गत इत्यर्थः । जागरणे को दोष इत्यत्राह माभूदिति । श्वो गन्तव्याध्वनि निद्राभावप्रयुक्तालस्यकृतविघ्नो माभूदित्यर्थः । मम कथाः कथयतः । मयि कथां कथयति ॥ 1.34.14 ॥
निष्पन्दास्तरवः सर्वे निलीना मृगपक्षिणः ।
नैशेन तमसा व्याप्ता दिशश्च रघुनन्दन ॥ 1.34.15 ॥
शनैर्वियुज्यते सन्ध्या नभो नेत्रैरिवावृतम् ।
नक्षत्रतारागहनं ज्योतिर्भिरवभासते ॥ 1.34.16 ॥
उत्तिष्ठति च शीतांशुः शशी लोकतमोनुदः ।
ह्लादयन् प्राणिनां लोके मनांसि प्रभया विभो ॥ 1.34.17 ॥
नैशानि सर्वभूतानि प्रचरन्ति ततस्ततः ।
यक्षराक्षससङ्घाश्च रौद्राश्च पिशिताशनाः ॥ 1.34.18 ॥
अथ निशामुखं वर्णयति चतुर्भिः निष्पन्दा इत्यादि । विष्पन्दाः पक्षिसञ्चाराभावादिति भावः । निलीनाः निद्रां प्राप्ता इत्यर्थः । नैशेन सन्ध्यातिरिक्तकालिकेन । सन्ध्या वियुज्यते वियुक्ता । वर्तमानसामीप्ये लट् । नक्षत्रैः अश्विन्यादिभिः, ताराभिः केवलनक्षत्रैश्च गहनं व्याप्तम् । नभः ज्योतिर्भिः ज्योतिष्मद्भिर्नेत्रैरावृतमिवावभासते । उत्तिष्ठतीति “उदोनूर्ध्वकर्मणि” इति परस्मैपदम् । तमो नुदतीति तमोनुदः “इगुपधलक्षणः कः” । निशायां प्रभवन्ति नैशानि । “प्रभवति” इत्यण् । भूतानि उलूकादयः । ततस्ततः तत्र तत्र । पौर्णमास्यां यज्ञं समाप्य द्वितीयायां प्रस्थानमिति चतुर्घटिकानन्तरं चन्द्रोदय इति सर्वथार्द्धरात्रशब्दः प्रदोषपर एव ॥ 1.34.15 18 ॥
एवमुक्त्वा महातेजा विरराम महामुनिः ।
साधु साध्विति तं सर्वे ऋषयो ह्यभ्यपूजयन् ॥ 1.34.19 ॥
एवमिति । अभ्यपूजयन् अस्तुवन् ॥ 1.34.19 ॥
कुशिकानामयं वंशो महान् धर्मपरः सदा ।
ब्रह्मोपमा महात्मानः कुशवंश्या नरोत्तमाः ॥ 1.34.20 ॥
कुशिकानामिति । गाधेः कुशिक इति नामान्तरम् । कुशिकानां तद्गोत्रजानाम् । ब्रह्मोपमाः चतुर्मुखोपमाः ॥ 1.34.20 ॥
विशेषेण भवानेव विश्वामित्रो महायशाः ।
कौशिकी च सरिच्छ्रेष्ठा कुलोद्योतकरी तव ॥ 1.34.21 ॥
विशेषेणेति । विश्वामित्रः विश्वामित्रसञ्ज्ञः । भवानेव महात्मेत्यनुषङ्गः । कौशिकी च तव कुलोद्योतकरी कुलप्रकाशकरी ॥ 1.34.21 ॥
इति तैर्मुनिशार्दूलैः प्रशस्तः कुशिकात्मजः ।
निद्रामुपागमच्छ्रीमानस्तङ्गत इवांशुमान् ॥ 1.34.22 ॥
इतीति । प्रशस्तः स्तुतः । “शंसु स्तुतौ” “यस्य विभाषा” इति नेट् । “अनिदितां ” इति नलोपः । श्रीमान् प्रश्ांसाकृतहर्षजनितश्रीमान् । अस्तङ्गतों ऽशुमानिव तद्वत्परप्रबोधाजनक इत्यर्थः ॥ 1.34.22 ॥
रामो ऽपि सहसौमित्रिः किञ्चिदागतविस्मयः ।
प्रशस्य मुनिशार्दूलं निद्रां समुपसेवते ॥ 1.34.23 ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुस्त्रिंशः सर्गः ॥ 34 ॥
रामोपीति । किञ्चिदागतविस्मयः निद्रापारवश्यादिति भावः । समुपसेवते अध्वश्रमवशात् सम्यक् प्राप्तः ॥ 1.34.23 ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने चतुस्त्रिंशः सर्गः ॥ 34 ॥