श्रीमद्वाल्मीकीयरामायणम्बालकाण्डःएकोनत्रिंशः सर्गः
अथ तस्याप्रमेयस्य तद्वनं परिपृच्छतः ।
विश्वामित्रो महातेजा व्याख्यातुमुपचक्रमे ॥ 1.29.1 ॥
अथ सिद्धाश्रमस्य नित्यं भगवत्सन्निधिमत्त्वेन दिव्यदेशत्वं तत्सन्निधाने पूर्वेषां सिद्धतपस्कत्वं भगवद्देशस्यैव वस्तव्यत्वमित्येतत्प्रतिपादनमुखेन स्थाण्वाश्रमाद्वैलक्षण्यं दर्शयत्येकोनत्रिंशे अथेत्यादि । अप्रमेयस्य अचिन्त्यवैभवस्य, मानुषभावनया पूर्ववृत्तमज्ञातमिव पृच्छत इत्यर्थः । चतुर्थ्यर्थे षष्ठी ॥ 1.29.1 ॥
इह राम महाबाहो विष्णुर्देववरः प्रभुः ।
वर्षाणि सुबहून्येव तथा युगशतानि च ।
तपश्चरणयोगार्थमुवास सुमहातपाः ॥ 1.29.2 ॥
इहेति सार्द्धश्लोकः । तपश्चरणयोगार्थं तपश्चरणफलसिद्ध्यर्थम् । यद्वा तपश्चरणं च योगश्च तदुभयार्थम् । केचिदिह इहशब्दद्वयं पठन्ति । तदा इह वने तत्रापि इह प्रदेश इत्यर्थः ॥ 1.29.2 ॥
एष पूर्वाश्रमो राम वामनस्य महात्मनः ।
सिद्धाश्रम इति ख्यातः सिद्धो ह्यत्र महातपाः ॥ 1.29.3 ॥
एष इति । वामनस्य वामनरूपेणावतरिष्यतः । पूर्वं विष्णुत्वेन रूपेणेह तपश्चचार, पश्चाद्वामनरूपेणापीति तस्याश्रमस्यातिशयो दर्शितः । विष्णोरत्र तपश्चरणं लोके तपसः प्रवर्त्तनाय, बदरिकाश्रम इव नारायणस्य । सिद्धाश्रमत्वं निर्वक्ति सिद्ध इति । महातपाः काश्यपः । अत्र हि यस्मात् सिद्धः तपःफलं प्राप्तः तस्मादेष सिद्धाश्रमो नाम ॥ 1.29.3 ॥
एतस्मिन्नेव काले तु राजा वैरोचनिर्बलिः ।
निर्जित्य दैवतगणान् सेन्द्रांश्च समरुद्गणान् ।
कारयामास तद्राज्यं त्रिषु लोकेषु विश्रुतः ॥ 1.29.4 ॥
एतस्मिन्निति सार्द्धश्लोकः । एतस्मिन्काले विष्णोस्तपश्चरणकाले । विरोचनः प्रह्लादसुतः, तस्यापत्यं वैरोचनिः । समरुद्गणान् सवायुगणान् । कारयामास मन्त्रिभिरिति शेषः । तद्राज्यम् इन्द्रराज्यम् ॥ 1.29.4 ॥
बलेस्तु यजमानस्य देवाः साग्निपुरोगमाः ।
समागम्य स्वयं चैव विष्णुमूचुरिहाश्रमे ॥ 1.29.5 ॥
बलेरिति । भावलक्षणे षष्ठी । बलौ यजमाने यागं कुर्वाणे । साग्निपुरोगमाः पुरोगमेनाग्निना सहिताः, अग्निमुखत्वाद्देवानाम् । स्वयमेव समागम्य इहाश्रमे तपश्चरन्तं विष्णुमूचुः ॥ 1.29.5 ॥
बलिर्वैरोचनिर्विष्णो यजते यज्ञमुत्तमम् ।
असमाप्ते क्रतौ तस्मिन् स्वकार्यमभिपद्यताम् ॥ 1.29.6 ॥
बलिरिति । यज्ञं यजते यज्ञं करोतीत्यर्थः । ओदनपाकं पचतीतिवत् । असमाप्त इति, समाप्तश्चेत् न स जेतुं शक्य इत्यर्थः । स्वकार्यं देवकार्यम्, आश्रितकार्यस्य स्वकार्यत्वात्तथोच्यते । अभिपद्यताम् अभितः कार्त्स्न्येन सम्पाद्यताम् ॥ 1.29.6 ॥
ये चैनमभिवर्तन्ते याचितार इतस्ततः ।
यच्च यत्र यथावच्च सर्वं तेभ्यः प्रयच्छति ॥ 1.29.7 ॥
ननु कथमसुरस्य यज्ञानुष्ठानम् ? “यस्यै देवतायै हविर्गृहीतं स्यात्तां ध्यायेद्वषट्करिष्यन् साक्षादेव तद्देवतां प्रीणाति” इति श्रुतेः । तत्तद्देवध्यानपूर्वकं तत्तन्मन्त्रेण तत्तदुद्देशेन तत्तद्धविःप्रदानस्य यागत्वात्तस्य च देवशत्रोरयोगात् । न च चतुर्थ्यन्तःशब्दो देवतेतिवाच्यम् । अचेतनप्रीणनासम्भवात्, तत्प्रीतिमूलफलासिद्धेश्च, अत एव केवला क्रियैव फलदेति प्रत्युक्तम् । अतो ऽर्थवादाद्यनुरोधेन शब्दक्रियातिरिक्ता सचेतना वज्रहस्तत्वादिविशिष्टविग्रहवती देवता । न च विग्रहवत्त्वे युगपदनेकयागसन्निधानासम्भवः । दिव्यशक्तिमत्त्वेन नानाशरीरपरिग्रहसम्भवेन तेषां सर्वयागसान्निध्यस्य सुलभत्वात् । तस्मान्न देवतावैरिणो यागसम्भव इति । उच्यते नायं बलिना क्रियमाणो यागः इन्द्रादिदेवताराध्यकः, येनोक्तदोषः स्यात् । किन्तु भगवदाराधनभूतः कश्चिद्याग विशेषः । तस्य विष्णुभक्तत्वेन प्रसिद्धत्वात् । तर्हि भक्तयज्ञविघ्नं विष्णुः कथं कुर्यात् ? स्वभक्तस्यापि स्वभक्तविरोधित्वं भगवतो ऽसह्यम् । ततः पुत्रान्तरविरोधिपुत्रशिक्षणवत् स्वाश्रितदेवविरोधिशिक्षणं युक्तमेव । अत एवोक्तम् “मम मद्भक्तभक्तेषु प्रीतिरभ्यधिका भवेत्” इति । तर्हि तस्य धार्मिकस्य कथं निग्रहः स्यात्तत्राह ये चेत्यादिश्लोकद्वयेन । ये यत्र वस्तुवाहनादिषु यद्वस्तु याचितारः याचिष्यमाणाः सन्तः । इतस्ततः देशाद्देश्ामभिवर्तन्ते तत्सर्वं तेभ्यः यथावत्सत्कारपूर्वकं प्रयच्छति ॥ 1.29.7 ॥
स त्वं सुरहितार्थाय मायायोगमुपागतः ।
वामनत्वं गतो विष्णो कुरु कल्याणमुत्तमम् ॥ 1.29.8 ॥
स इति । माया विष्णुत्वाच्छादिका शक्तिः, तस्या योगं सम्बन्धमुपागतः । वामनत्वं वामनरूपत्वं गतः । कल्याणम् अस्मत्कार्यं कुरु । तस्मिन्नौदार्याख्यो महागुणो वर्तते, तेन त्वं वामनवेषो भूत्वा
याच्ञापदेशेन तद्राज्यमपहृत्य देहीति भावः ॥ 1.29.8 ॥
एतस्मिन्नन्तरे राम कश्यपो ऽग्निसमप्रभः ।
अदित्या सहितो राम दीप्यमान इवौजसा ॥ 1.29.9 ॥
देवीसहायो भगवान् दिव्यं वर्षसहस्रकम् ।
व्रतं समाप्य वरदं तुष्टाव मधुसूदनम् ॥ 1.29.10 ॥
एतस्मिन्निति श्लोकद्वयम् । एतस्मिन्नन्तरे देवप्रार्थनावसरे । कश्यपः अदित्या सहितो व्रतं समाप्य विष्णूद्देशेन कृतं व्रतं समाप्य । वरदं वरदानाय सन्निहितं विष्णुं देवीसहायः सन् तुष्टाव । अत्र रामपदद्वयं रूढ्या योगेन च निर्वाह्यम् । व्रतानुष्ठानकाले वरकाले च देवीसाहित्यद्योतनाय द्विःप्रयोगो देव्याः । अयमत्र क्रमः “सो ऽकामयत बहुस्यां प्रजायेयेति । स तपो ऽतप्यत” इत्युक्तरीत्या विष्णुर्जगद्रक्षणचिन्तापरो ऽत्र देशे चिरमदृश्य उवास । तद्विदित्वा तमेव पुत्रं लब्धुकामः कश्यपो देव्या सह दिव्यवर्षसहस्रनिर्वर्त्यं विष्ण्वाराधनरूपं किञ्चित्व्रतमनुष्ठाय तदन्ते वरदानाय दृश्यमानं विष्णुं तुष्टाव । तस्मिन्नेवावसरे देवाश्चागताः प्रार्थितवन्त इति ॥ 1.29.9,10 ॥
तपोमयं तपोराशिं तपोमूर्तिं तपात्मकम् ।
तपसा त्वां सुतप्तेन पश्यामि पुरुषोत्तमम् ॥ 1.29.11 ॥
तपोमयमिति । तपोमयं तपःप्रचुरम्, प्राचुर्यं चाराध्यत्वेन । तपसाराध्यमित्यर्थः । तपोराशिं तपोराशिस्वरूपम् । तपःफलदमिति यावत् । तपोमूर्तिं ज्ञानस्वरूपं “तप आलोचने” इति धातोरसुन्प्रत्ययः । तपात्मकं तपःस्वभावम्, ज्ञानगुणकमित्यर्थः । उक्ताद्धातोः “घञर्थे कविधानम्” इति कः । पुरुषोत्तमं बद्धमुक्तोभयावस्थाज्जीवाद्विलक्षणम्, त्वां सुतप्तेन अनन्यप्रयोजनतयानुष्ठितेन तपसा आराधनेन । पश्यामि साक्षात्करोमि । सर्वकर्मसमाराध्यं सर्वकर्मफलप्रदं ज्ञानस्वरूपत्वेन समस्तहेयप्रत्यनीकज्ञानानन्दाद्यपरिमितगुणवत्त्वेन च सर्वस्माद् विलक्षणं त्वां साक्षात्करोमि । एतदेव मे परमप्रयोजनमित्यर्थः ॥ 1.29.11 ॥
शरीरे तव पश्यामि जगत्सर्वमिदं प्रभो ।
त्वमनादिरनिर्देश्यस्त्वामहं शरणं गतः ॥ 1.29.12 ॥
शरीर इति । इदं चेतनाचेतनात्मकं सर्वं जगत् । तव शरीरे ऽस्मिन् पश्यामि । एवं नु गीतम् “पश्यामि देवांस्तव देव देहे सर्वांस्तथा भूतविशेषसङ्घान् । ब्रह्माणमीशं कमलासनस्थमृषींश्च सर्वानुरगांश्च दिव्यान् ॥” इति। यद्वा “जगत्सर्वं शरीरम्” इत्युक्तत्वात् शरीरतया पश्यामीत्यर्थः। त्वमनादिः उत्पत्तिरहितः। अनिर्देश्यः एतावानिति परिच्छेत्तुमशक्य इत्यर्थः। अतस्त्वामहं शरणं रक्षितारं गतः ॥ 1.29.12 ॥
तमुवाच हरिः प्रीतः कश्यपं धूतकल्मषम् ।
वरं वरय भद्रं ते वरार्हो ऽसि मतो मम ॥ 1.29.13 ॥
तमिति स्पष्टम् ॥ 1.29.13 ॥
तच्छ्रुत्वा वचनं तस्य मारीचः कश्यपो ऽब्रवीत् ॥ 1.29.14 ॥
तच्छ्रुत्वेत्यर्द्धम् । मारीचः मरीचिपुत्रः ॥ 1.29.14 ॥
अदित्या देवतानां च मम चैवानुयाचतः ।
वरं वरद सुप्रीतो दातुमर्हसि सुव्रत ॥ 1.29.15 ॥
अदित्या इति । अदित्या याचमानायाः । देवतानां याचमानानामित्यूह्यम् ॥ 1.29.15 ॥
पुत्रत्वं गच्छ भगवन्नदित्या मम चानघ ।
भ्राता भव यवीयांस्त्वं शक्रस्यासुरसूदन ।
शोकार्त्तानां तु देवानां साहाय्यं कर्तुमर्हसि ॥ 1.29.16 ॥
पुत्रत्वमित्यादिसार्द्धश्लोक एकान्वयः ॥ 1.29.16 ॥
अयं सिद्धाश्रमो नाम प्रसादात्ते भविष्यति ।
सिद्धे कर्म्मणि देवेश उत्तिष्ठ भगवन्नितः ॥ 1.29.17 ॥
देशेप्यनुग्रहः क्रियतामित्याह अयमिति । ते प्रसादात् कर्मणि मत्तपसि सिद्धे सति । त्वयि मे पुत्रत्वं प्राप्त इत्यर्थः । अयं सिद्धाश्रमो नाम भविष्यति तस्मादित आश्रमादुत्तिष्ठ, अवतारायेति शेषः ॥ 1.29.17 ॥
अथ विष्णुर्महातेजा अदित्यां समजायत ।
वामनं रूपमास्थाय वैरोचनिमुपागमत् ॥ 1.29.18 ॥
अथेति । स्पष्टम् ॥ 1.29.18 ॥
त्रीन् क्रमानथ भिक्षित्वा प्रतिगृह्य च मानदः ।
आक्रम्य लोकाँल्लोकात्मा सर्वलोकहिते रतः ॥ 1.29.19 ॥
महेन्द्राय पुनः प्रादान्नियम्य बलिमोजसा ।
त्रैलोक्यं स महातेजाश्चक्रे शक्रवशं पुनः ॥ 1.29.20 ॥
त्रीनिति श्लोकद्वयमेकान्वयम् । क्रमान् पदविक्षेपान् । भिक्षित्वा याचित्वा । प्रतिगृह्य, मानं द्यति खण्डयतीति मानदः, निरभिमानो भिक्षित्वेत्यर्थः । लोकाक्रमणे हेतुः लोकात्मेति । वामनरूपेण याचित्वा सर्वलोकव्यापिशरीरेण क्रान्त्वेत्यर्थः । नियम्य बध्वा । त्रैलोक्यस्यापि पदद्वयक्रान्तत्वेन तृतीयपदालाभात्तदर्थं बध्वेत्यर्थः ॥ 1.29.19,20 ॥
तेनैव पूर्वमाक्रान्त आश्रमः श्रमनाशनः ।
मया तु भक्त्या तस्यैष वामनस्योपभुज्यते ॥ 1.29.21 ॥
प्रकृतमुपसंहरति तेनेति । तेन वामनेन । श्रमनाशनः संसारश्रमनिवर्त्तकः । सन्निहितं स्थाण्वाश्रमं विहाय भवान् किमर्थमत्र स्थित इत्यत्राह मया त्विति । मया तु देवतान्तरेषु परत्वबुद्धिरहितेन । भक्त्या विष्णुभक्त्या । तस्य वामनस्य । एष आश्रमः उपभुज्यते आश्रीयते, वामनस्येयं भूमिरिति केवलं तामेवाजिघ्रन्वर्त इत्यर्थः ॥ 1.29.21 ॥
एतमाश्रममायान्ति राक्षसा विघ्नकारिणः ।
अत्रैव पुरुषव्याघ्र हन्तव्या दुष्टचारिणः ॥ 1.29.22 ॥
एतमिति स्पष्टम् ॥ 1.29.22 ॥
अद्य गच्छामहे राम सिद्धाश्रममनुत्तमम् ।
तदाश्रमपदं तात तवाप्येतद्यथा मम ॥ 1.29.23 ॥
अद्येति । गच्छामहे गच्छामः । तातेत्युपलालने । तदेतदाश्रमपदं यथा मम तथा तव । स्वमिति शेषः ॥ 1.29.23 ॥
प्रविशन्नाश्रमपदं व्यरोचत महामुनिः ।
शशीव गतनीहारः पुनर्वसुसमन्वितः ॥ 1.29.24 ॥
प्रविशन्निति । गतनीहारः गतहिमः । पुनर्वसुभ्यां समन्वित इति रामलक्ष्मणसाम्यापेक्षया ॥ 1.29.24 ॥
तं दृष्ट्वा मुनयः सर्वे सिद्धाश्रमनिवासिनः ।
उत्पत्योत्पत्य सहसा विश्वामित्रमपूजयन् ॥ 1.29.25 ॥
तमिति । उत्पत्योत्पत्येति प्रीत्यतिशयोक्तिः, आगत्यागत्येत्यर्थः । अनेन निरन्तरं तदागमनोक्त्या मुनिबहुत्वमुच्यते ॥ 1.29.25 ॥
यथार्हं चक्रिरे पूजां विश्वामित्राय धीमते ।
तथैव राजपुत्राभ्यामकुर्वन्नतिथिक्रियाम् ॥ 1.29.26 ॥
यथार्हमिति । यथार्हं मुनियोग्यतामनतिक्रम्य ॥ 1.29.26 ॥
मुहूर्तमिव विश्रान्तौ राजपुत्रावरिन्दमौ ।
प्राञ्जली मुनिशार्दूलमूचतू रघुनन्दनौ ॥ 1.29.27 ॥
मुहूर्तमिति । मुहूर्तम् अल्पकालम्, विश्रान्ताविवेति मनुष्यभावेनोच्यते ॥ 1.29.27 ॥
अद्यैव दीक्षां प्रविश भद्रं ते मुनिपुङ्गव ।
सिद्धाश्रमो ऽयं सिद्धः स्यात् सत्यमस्तु वचस्तव ॥ 1.29.28 ॥
अद्यैवेति । अद्यैव प्रवेशदिन एव । अयं सिद्धाश्रमः सिद्धः स्यात् । त्वद्यज्ञसिद्ध्या अन्वर्थसिद्धसञ्ज्ञो ऽस्तु, सत्यमस्तु वचस्तव । “अत्रैव पुरुषव्याघ्र हन्तव्या दुष्टचारिणः” इति वच इत्यर्थः । राक्षसान् सर्वथा हनिष्य इति भावः ॥ 1.29.28 ॥
एवमुक्तो महातेजा विश्वामित्रो महामुनिः ।
प्रविवेश ततो दीक्षां नियतो नियतेन्द्रियः ॥ 1.29.29 ॥
एवमिति । नियतः निगृहीतान्तःकरणः ॥ 1.29.29 ॥
कुमारावपि तां रात्रिमुषित्वा सुसमाहितौ ।
प्रभातकाले चोत्थाय पूर्वां सन्ध्यामुपास्य च ॥ 1.29.30 ॥
स्पृष्टोदकौ शुची जप्यं समाप्य नियमेन च ।
हुताग्निहोत्रमासीनं विश्वामित्रमवन्दताम् ॥ 1.29.31 ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकोनत्रिंशः सर्गः ॥ 29 ॥
कुमाराविति श्लोकद्वयम् । स्पृष्टोदकौ दत्तार्ध्यौ । नियमेन जप्यं समाप्य । अग्नेर्होत्रं होमः औपासनहोमः । दीक्षामध्ये ‘नाग्निहोत्रं न दर्शपूर्णमासाभ्यां यजत इति’ इत्यग्निहोत्रस्य निषिद्धत्वात् मानसमग्निहोत्रमित्येके ॥ 1.29.30,31 ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने एकोनत्रिंशः सर्गः ॥ 29 ॥