श्रीमद्वाल्मीकीयरामायणम्बालकाण्डःसप्तविंशः सर्गः
अथ तां रजनीमुष्य विश्वामित्रो महायशाः ।
प्रहस्य राघवं वाक्यमुवाच मधुराक्षरम् ॥ 1.27.1 ॥
अस्त्रगणलाभः सप्तविंशे अथेत्यादि । उष्य उषित्वा । प्रहस्य प्रहर्षेण मन्दहासं कृत्वा ॥ 1.27.1 ॥
परितुष्टो ऽस्मि भद्रं ते राजपुत्र महायशः ।
प्रीत्या परमया शुक्तो ददाम्यस्त्राणि सर्वशः ॥ 1.27.2 ॥
परीति । महायश इति सम्बुद्धित्वान्न दीर्घः । प्रीत्या परमया युक्त इति परितुष्टो ऽस्मीत्यस्यानुवादः । सर्वशः सर्वाणि ॥ 1.27.2 ॥
देवासुरगणान् वापि सगन्धर्वोरगानपि ।
यैरमित्रान् प्रसह्याजौ वशीकृत्य जयिष्यसि ॥ 1.27.3 ॥
देवेति । आजौ युद्धे । जयिष्यसि, स्वार्थे णिच् ॥ 1.27.3 ॥
तानि दिव्यानि भद्रं ते ददाम्यस्त्राणि सर्वशः ।
दण्डचक्रं महद्दिव्यं तव दास्यामि राघव ॥ 1.27.4 ॥
तानीति । दण्डचक्रादयश्चक्रभेदाः ॥ 1.27.4 ॥
धर्मचक्रं ततो वीर कालचक्रं तथैव च ।
विष्णुचक्रं तथात्युग्रमैन्द्रमस्त्रं तथैव च ॥ 1.27.5 ॥
वज्रमस्त्रं नरश्रेष्ठ शैवं शूलवरं तथा ।
अस्त्रं ब्रह्मशिरश्चैव ऐषीकमपि राघव ।
ददामि ते महाबाहो ब्राह्ममस्त्रमनुत्तमम् ॥ 1.27.6 ॥
धर्मेति । सार्द्धश्लोकद्वयमेकान्वयम् । शूलवरं शूलश्रेष्ठम् । ब्रह्मशिरः ब्रह्मास्त्रादन्यत् ॥ 1.27.5,6 ॥
गदे द्वे चैव काकुत्स्थ मोदकी शिखरी उभे ।
प्रदीप्ते नरशार्दूल प्रयच्छामि नृपात्मज ॥ 1.27.7 ॥
गदे इति । मोदकीशिखरीसञ्ज्ञे ये द्वे गदे स्तः ते उभे दास्यामीति सम्बन्धः ॥ 1.27.7 ॥
धर्मपाशमहं राम कालपाशं तथैव च ।
पाशं वारुणमस्त्रं च ददाम्यहमनुत्तमम् ॥ 1.27.8 ॥
धर्मेति । वारुणमित्यस्य काकाक्षिन्यायेनोभयत्रान्वयः ॥ 1.27.8 ॥
अशनी द्वे प्रयच्छामि शुष्कार्द्रे रघुनन्दन ।
ददामि चास्त्रं पैनाकमस्त्रं नारायणं तथा ॥ 1.29.9 ॥
अशनी इति । शुष्काशनिराद्राशनिरित्यन्वयः । पिनाकिन इदं पैनाकम् ॥ 1.27.9 ॥
आग्नेयमस्त्रं दयितं शिखरं नाम नामतः ।
वायव्यं प्रथनं नाम ददामि च तवानघ ॥ 1.27.10 ॥
आग्नेयमिति । आग्नेयम् अग्निदेवताकम् । दयितम्, अग्नेरिति शेषः ॥ 1.27.10 ॥
अस्त्रं हयशिरो नाम क्रौञ्चमस्त्रं तथैव च ।
शक्तिद्वयं च काकुत्स्थ ददामि तव राघव ॥ 1.27.11 ॥
अस्त्रमिति । शक्तिद्वयं विष्णुशक्तिः रुद्रशक्तिश्चेति ॥ 1.27.11 ॥
कङ्कालं मुसलं घोरं कापालमथ कङ्कणम् ।
धारयन्त्यसुरा यानि ददाम्येतानि सर्वशः ॥ 1.27.12 ॥
कङ्कालमिति । स्पष्टम् ॥ 1.27.12 ॥
वैद्याधरं महास्त्रं च नन्दनं नाम नामतः ।
असिरत्नं महाबाहो ददामि नृवरात्मज ॥ 1.27.13 ॥
वैद्याधरमिति । वैद्याधरं नन्दनं नामासिरत्नम्, महास्त्रमित्यर्थः । असिर्हि विद्याधरास्त्रम् ॥ 1.27.13 ॥
गान्धर्वमस्त्रं दयितं मानवं नाम नामतः ।
प्रस्वापनप्रशमने दद्मि सौरं च राघव ॥ 1.27.14 ॥
गान्धर्वमिति । प्रस्वापनप्रशमने च गान्धर्वे ॥ 1.27.14 ॥
दर्पणं शोषणं चैव सन्तापनविलापने ।
मदनं चैव दुर्द्धर्षं कन्दर्पदयितं तथा ॥ 1.27.15 ॥
दर्पणमिति । विलापयति परिदेवयतीति विलापनम् । मदयतीति मदनम् ॥ 1.27.15 ॥
पैशाचमस्त्रं दयितं मोहनं नाम नामतः ।
प्रतीच्छ नरशार्दूल राजपुत्र महायशः ॥ 1.27.16 ॥
पैशाचमिति । प्रतीच्छ गृहाण ॥ 1.27.16 ॥
तामसं नरशार्दूल सौमनं च महाबल ।
संवर्तं चैव दुर्द्धर्षं मौसलं नाम नामतः ॥ 1.27.17 ॥
तामसमिति । मुसलान्मौसलमन्यत् ॥ 1.27.17 ॥
सत्यमस्त्रं महाबाहो तथा मायाधरं परम् ।
घोरं तेजःप्रभं नाम परतेजो ऽपकर्षणम् ॥ 1.27.18 ॥
सत्यमिति । स्पष्टम् ॥ 1.27.18 ॥
सौम्यास्त्रं शिशिरं नाम त्वाष्ट्रमस्त्रं सुकामदम् ।
दारुणं च भगस्यापि शीतेषुमथ मानवम् ॥ 1.27.19 ॥
सौम्येति । शीतेषुं शीतेषुनामकम् ॥ 1.27.19 ॥
एतान् राम महाबाहो कामरूपान् महाबलान् ।
गृहाण परमोदारान् क्षिप्रमेव नृपात्मज ॥ 1.27.20 ॥
एतानिति । कामरूपान् ऐच्छिकशरीरान् ॥ 1.27.20 ॥
स्थितस्तु प्राङ्मुखो भूत्वा शुचिर्मुनिवरस्तदा ।
ददौ रामाय सुप्रीतो मन्त्रग्राममनुत्तमम् ॥ 1.27.21 ॥
स्थित इति । मन्त्रग्राममित्यनेन पूर्वोक्तास्त्रप्रदानं नाम तत्तन्मन्त्रप्रदानमित्युक्तं भवति । तेषां कृशाश्वजन्यत्वमधिष्ठातृदेवताद्वारा ॥ 1.27.21 ॥
सर्वसङ्ग्रहणं येषां दैवतैरपि दुर्लभम् ।
तान्यस्त्राणि तदा विप्रो राघवाय न्यवेदयत् ॥ 1.27.22 ॥
सर्वेति । सर्वसङ्ग्रहणं कार्त्स्न्येन सङ्ग्रहणम् ॥ 1.27.22 ॥
जपतस्तु मुनेस्तस्य विश्वामित्रस्य धीमतः ।
उपतस्थुर्महार्हाणि सर्वाण्यस्त्राणि राघवम् ॥ 1.27.23 ॥
जपत इति । अस्त्रमन्त्रान् दत्त्वा मन्त्रदेवता अपि रामाज्ञानुवर्तिनीः कारयितुं ताः स्मृत्वा जपतो विश्वामित्रस्याज्ञया राघवम् उपतस्थुः सिषेविरे ॥ 1.27.23 ॥
ऊचुश्च मुदिताः सर्वे रामं प्राञ्जलयस्तदा ।
इमे स्म परमोदाराः किङ्करास्तव राघव ॥ 1.27.24 ॥
ऊचुरिति । राघवेत्यनन्तरमितिकरणं बोध्यम् ॥ 1.27.24 ॥
प्रतिगृह्य च काकुत्स्थः समालभ्य च पाणिना ।
मानसा मे भविष्यध्वमिति तानभ्यचोदयत् ॥ 1.27.25 ॥
प्रतिगृह्य अस्त्रसेवामङ्गीकृत्य । समालभ्य संस्पृश्य “आलम्भः स्पर्शहिंसयोः” इत्यमरः । मानसाः मनो ऽनुसारिणः, चिन्तामात्रे उपस्थिता इति यावत् । भविष्यध्वं भवत, मानसास्सन्तो मां प्राप्नुतेति वार्थः । “भू प्राप्तौ” इतिधातुः ॥ 1.27.25 ॥
ततः प्रीतमना रामो विश्वामित्रं महामुनिम् ।
अभिवाद्य महातेजा गमनायोपचक्रमे ॥ 1.27.26 ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्तविंशः सर्गः ॥ 27 ॥
तत इति । गमनाय गन्तुम् “तुमर्थाच्च भाववचनात्” इति चतुर्थी ॥ 1.27.26 ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने सप्तविंशः सर्गः ॥ 27 ॥