श्रीमद्वाल्मीकीयरामायणम्बालकाण्डःपञ्चविशः सर्गः
अथ तस्याप्रमेयस्य मुनेर्वचनमुत्तमम् ।
श्रुत्वा पुरुषशार्दूलः प्रत्युवाच शुभां गिरम् ॥ 1.25.1 ॥
स्त्रिया अपि सर्वलोकविनाशिन्या वधे न दोष इत्याह पञ्चविंशे अथेत्यादि । अप्रमेयस्य अप्रमेयप्रभावस्य ॥ 1.25.1 ॥
अल्पवीर्या यदा यक्षाः श्रूयन्ते मुनिपुङ्गव ।
कथं नागसहस्रस्य धारयत्यबला बलम् ॥ 1.25.2 ॥
अल्पेति । यदा यस्मात्, यदायत्रादयो हेतावपि मुनिभिः प्रयुज्यन्ते । यस्माच्छ्रूयन्ते तस्मात् अबला स्त्री कथं नागसहस्रस्य बलं धारयति ॥ 1.25.2 ॥
विश्वामित्रो ऽब्रवीद्वाक्यं शृणु येन बलोत्तरा ।
वरदानकृतं वीर्यं धारयत्यबला बलम् ॥ 1.25.3 ॥
विश्वामित्र इति । येन हेतुना बलोत्तरा भवति तं शृणु । तस्या वरदानकृतं वीर्यं बलमस्ति अतो ऽबलापि बलं धारयति ॥ 1.25.3 ॥
पूर्वमासीन्महायक्षः सुकेतुर्नाम वीर्यवान् ।
अनपत्यः शुभाचारः स च तेपे महत्तपः ॥ 1.25.4 ॥
वरदानप्रकारमाह पूर्वमित्यादि ॥ 1.25.4 ॥
पितामहस्तु सम्प्रीतस्तस्य यक्षपतेस्तदा ।
कन्यारत्नं ददौ राम ताटकां नाम नामतः ॥ 1.25.5 ॥
पितामह इति । नाम प्रसिद्धौ ॥ 1.25.5 ॥
ददौ नागसहस्रस्य बलं चास्याः पितामहः ।
न त्वेव पुत्रं यक्षाय ददौ ब्रह्मा महायशाः ॥ 1.25.6 ॥
ददाविति । यक्षाय सुकेतवे ॥ 1.25.6 ॥
तां तु जातां विवर्द्धन्तीं रूपयौवनशालिनीम् ।
जम्भपुत्राय सुन्दाय ददौ भार्यां यशस्विनीम् ॥ 1.25.7 ॥
तामिति । विवर्द्धन्तीं विवर्द्धमानाम् । भार्यां ददौ ॥ 1.25.7 ॥
कस्यचित्त्वथ कालस्य यक्षी पुत्रमजायत ।
मारीचं नाम दुर्द्धषं यः शापाद्राक्षसो ऽभवत् ॥ 1.25.8 ॥
कस्यचिदिति । कस्मिंश्चित्काले गते सति । अजायत अजनयत् ॥ 1.25.8 ॥
सुन्दे तु निहते राम सागस्त्यं मुनिपुङ्गवम् ।
ताटका सह पुत्रेण प्रधर्षयितुमिच्छति ॥ 1.25.9 ॥
शापप्रकारमाह सुन्दे त्विति । निहते, अगस्त्येनेति शेषः । प्रधर्षयितुं हन्तुम् । इच्छति ऐच्छत् ॥ 1.25.9 ॥
भक्षार्थं जातसंरम्भा गर्जन्ती सा ऽभ्यधावत ॥ 1.25.10 ॥
भक्षेति । जातसंरम्भा स्वभर्तृवधजनितकोपा अत एव भक्षार्थमभ्यधावत । अर्द्धम् ॥ 1.25.10 ॥
आपतन्तीं तु तां दृष्ट्वा अगस्त्यो भगवानृषिः ।
राक्षसत्वं भजस्वेति मारीचं व्याजहार सः ॥ 1.25.11 ॥
आपतन्तीमिति । स्पष्टम् ॥ 1.25.11 ॥
अगस्त्यः परमक्रुद्धस्ताटकामपि शप्तवान् ॥ 1.25.12 ॥
अगस्त्य इत्यर्द्धम् ॥ 1.25.12 ॥
पुरुषादी महायक्षी विरूपा विकृतानना ।
इदं रूपं विहाया ऽथ दारुणं रूपमस्तु ते ॥ 1.25.13 ॥
पुरुषादीति । पुरुषादी मनुष्यभक्षिणी । त्वमिदं रूपं विहाय पुरुषादीत्यादिविशेषणयुक्ता भव । अथ ते दारुणं क्रूरं रूपं शरीरम् अस्तु ॥ 1.25.13 ॥
सैषा शापकृतामर्षा ताटका क्रोधमूर्च्छिता ।
देशमुत्सादयत्येनमगस्त्यचरितं शुभम् ॥ 1.25.14 ॥
सैषेति । अगस्त्यचरितम्, तदानीमिति शेषः ॥ 1.25.14 ॥
एनां राघव दुर्वृत्तां यक्षीं परमदारुणाम् ।
गोब्राह्मणहितार्थाय जहि दुष्टपराक्रमाम् ॥ 1.25.15 ॥
एनामिति । जहि नाशय ॥ 1.25.15 ॥
न ह्येनां शापसंस्पृष्टां कश्चिदुत्सहते पुमान् ।
निहन्तुं त्रिषु लोकेषु त्वामृते रघुनन्दन ॥ 1.25.16 ॥
न हीति । शापसंस्पृष्टां शापयुक्ताम् ॥ 1.25.16 ॥
न हि ते स्त्रीवधकृते घृणा कार्या नरोत्तम ।
चातुर्वर्ण्यहितार्थाय कर्तव्यं राजसूनुना ॥ 1.25.17 ॥
न हीति । ते त्वया । घृणा जुगुप्सा । कर्तव्यम्, कर्मेति शेषः ॥ 1.25.17 ॥
नृशंसमनृशंसं वा प्रजारक्षणकारणात् ।
पातकं वा सदोषं वा कर्तव्यं रक्षता सताम् ॥ 1.25.18 ॥
नृशंसमिति । नृशंसं क्रूरकर्म । सदोषं सापवादं कर्म । रक्षता राजपुत्रेण । प्रजारक्षणकारणात्कर्त्तव्यम् ॥ 1.25.18 ॥
राज्यभारनियुक्तानामेष धर्मः सनातनः ।
अधर्म्यां जहि काकुत्स्थ धर्मो ह्यस्या न विद्यते ॥ 1.25.19 ॥
राज्येति । सनातनः नित्यः । अधर्म्याम् अधर्मादनपेताम् । एतदेवाह धर्म इति ॥ 1.25.19 ॥
श्रूयते हि पुरा शक्रो विरोचनसुतां नृप ।
पृथिवीं हन्तुमिच्छन्तीं मन्थरामभ्यसूदयत् ॥ 1.25.20 ॥
स्त्रीवधस्य कर्तव्यत्वे इतिहासद्वयमाह श्रूयत इत्यादिना । मन्थरां मन्थराभिधानाम् ॥ 1.25.20 ॥
विष्णुना च पुरा राम भृगुपत्नी दृढव्रता
अनिन्द्रं लोकमिच्छन्ती काव्यमाता निषूदिता ॥ 1.25.21 ॥
विष्णुनेति । काव्यमाता शुक्रमाता । इयं कथा मत्स्यपुराणे दर्शिता स्वपुत्रे शुक्रे देवशिक्षार्थं रुद्रसमीपे तपस्यति सति देवपीडिता असुराः शुक्रमातरं भृगुपत्नीं शरणमगच्छन् । सा चासुररक्षणार्थं देवान् हन्तुम़ुद्युक्ता । तां चेन्द्रप्रार्थितो विष्णुरासाद्य तस्याः शिरश्चिच्छेदेति ॥ 1.25.21 ॥
एतैश्चान्यैश्च बहुभी राजपुत्र महात्मभिः ।
अधर्मसहिता नार्यो हताः पुरुषसत्तमैः ॥ 1.25.22 ॥
[तस्मादेनां घृणां त्यक्त्वा जहि मच्छासनान्नृप ।]
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे पञ्चविंशः सर्गः ॥ 25 ॥
एतैः एतादृशैरित्यर्थः ॥ 1.25.22 ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने
पञ्चविशः सर्गः ॥ 25 ॥