श्रीमद्वाल्मीकीयरामायणम्बालकाण्डःएकोनविंशः सर्गः
तच्छ्रुत्वा राजसिंहस्य वाक्यमद्भुतविस्तरम् ।
हृष्टरोमा महातेजा विश्वामित्रो ऽभ्यभाषत ॥ 1.19.1 ॥
अथ विश्वामित्राभ्यर्थनमेकोनविंशे तच्छ्रुत्वेत्यादि । अद्भुतस्य विस्तरो यस्मिन् तदद्भुतविस्तरम् । हृष्टरोमा पुलकितरोमा ॥ 1.19.1 ॥
सदृशं राजशार्दूल तवैतद्भुवि नान्यथा ।
महाकुलप्रसूतस्य वसिष्ठव्यपदेशिनः ॥ 1.19.2 ॥
सदृशमिति । नान्यथा न मिथ्योच्यत इत्यर्थः । वसिष्ठेन व्यपदेशः कीर्तिः उपदेशो वा । तृतीयेति योगविभागात् समासः । सो ऽस्यास्तीति तथा ॥ 1.19.2 ॥
यत्तु मे हृद्गतं वाक्यं तस्य कार्यस्य निश्चयम् ।
कुरुष्व राजशार्दूल भव सत्यप्रतिश्रवः ॥ 1.19.3 ॥
यत्त्विति । मे हृद्गतं यत्कार्यं वाक्यं वक्तव्यं तस्य निश्चयं करणाध्यवसायम्, कुरुष्व, सत्यप्रतिश्रवः सत्यप्रतिज्ञः ॥ 1.19.3 ॥
अहं नियममातिष्ठे सिद्ध्यर्थं पुरुषर्षभ ।
तस्य विघ्नकरौ द्वौ तु राक्षसौ कामरूपिणौ ॥ 1.19.4 ॥
हृद्गतं कार्यमाह अहमित्यादिना । सिद्ध्यर्थं फलार्थम् । नियमं यज्ञदीक्षाम् । आतिष्ठे
आस्थितो ऽस्मि । तस्य नियमस्य । विघ्नकरौ कामरूपिणौ द्वौ राक्षसौ, स्त इति शेषः ॥ 1.19.4 ॥
व्रते मे बहुशश्चीर्णे समाप्त्यां राक्षसाविमौ ।
मारीचश्च सुबाहुश्च वीर्यवन्तौ सुशिक्षितौ ।
समांसरुधिरौघेण वेदिं तामभ्यवर्षताम् ॥ 1.19.5 ॥
व्रत इति । व्रते दीक्षरूपे । चीर्णे अनुष्ठिते । विघ्नकरणप्रकारमाह मारीच इति । समांसरुधिरौघेण मांसयुक्तरक्तप्रवाहेण । तां वेदिं यज्ञवेदिम् । अभ्यवर्षताम् अभ्यषिञ्चताम् ॥ 1.19.5 ॥
अवधूते तथाभूते तस्मिन्नियमनिश्चये ।
कृतश्रमो निरुत्साहस्तस्माद्देशादपाक्रमे ॥ 1.19.6 ॥
अवधूत इति । तथाभूते बहुशश्चीर्णे । नियमनिश्चये व्रतसङ्कल्पे । अवधूते विघ्निते । अपाक्रमे आगतो ऽस्मि ॥ 1.19.6 ॥
न च मे क्रोधमुत्स्रष्टुं बुद्धिर्भवति पार्थिव ।
तथाभूता हि सा चर्या न शापस्तत्र मुच्यते ॥ 1.19.7 ॥
तर्हि कुतो न तौ शप्तौ ? तत्राह न चेति । तत्र हेतुमाह तथेति । सा चर्या यज्ञाचारः । तथाभूता हि शापानर्हकाला हि । अतः तत्र मारीचसुबाह्वोः शापो न मुच्यते ॥ 1.19.7 ॥
स्वपुत्रं राजशार्दूल रामं सत्यपराक्रमम् ।
काकपक्षधरं शूरं ज्येष्ठं मे दातुमर्हसि ॥ 1.19.8 ॥
तत्र मया किं कर्त्तव्यं तत्राह स्वपुत्रमिति । काकपक्षः बालस्य शिखा, काकपक्षधरमपीत्यर्थः ॥ 1.19.8 ॥
शक्तो ह्येष मया गुप्तो दिव्येन स्वेन तेजसा ।
राक्षसा ये विकर्तारस्तेषामपि विनाशने ॥ 1.19.9 ॥
बालो ऽयं कथं तौ नाशयिष्यति ? तत्राह शक्त इति । मया कर्त्रा तेजसा करणेन । विकर्त्तारः
विघ्नकर्तारः, तेषाम् । न केवलं तयोरिति भावः ॥ 1.19.9 ॥
श्रेयश्चास्मै प्रदास्यामि बहुरूपं न संशयः ।
त्रयाणामपि लोकानां येन ख्यातिं गमिष्यति ॥ 1.19.10 ॥
श्रेयश्चेति । बहुरूपं बहुविधम् । कीदृक्श्रेयस्तत्राह त्रयाणामिति । लोकानां मध्ये ख्यातिं विश्वामित्राध्वरत्राता अहल्याशापमोक्षदः हरधनुर्भञ्जक इत्येवंरूपां कीर्तिम् ॥ 1.19.10 ॥
न च तौ राममासाद्य शक्तौ स्थातुं कथञ्चन ।
न च तौ राघवादन्यो हन्तुमुत्सहते पुमान् ॥ 1.19.11 ॥
कथं बालस्तन्निरसने प्रभविष्यति ? तत्राह न चेति । अहमेव तदर्थं यास्यामीत्यत्राह न च ताविति ॥ 1.19.11 ॥
वीर्योत्सिक्तौ हि तौ पापौ कालपाशवशं गतौ ।
रामस्य राजशार्दूल न पर्याप्तौ महात्मनः ॥ 1.19.12 ॥
तथापि महावीर्यौ तौ कथं जेतुं शक्यावित्याशङ्क्य पापवशेनासन्नकालौ न रामस्य पर्याप्तावित्याह वीर्येति । उत्सिक्तौ गर्वितौ । कालः यमः स एव पाशः तद्वशङ्गतौ ॥ 1.19.12 ॥
न च पुत्रकृतस्नेहं कर्तुमर्हति पार्थिव ।
अहं ते प्रतिजानामि हतौ तौ विद्धि राक्षसौ ॥ 1.19.13 ॥
न चेति । पुत्रकृतं पुत्रत्वकृतम् । हताविति भूतप्रत्ययेन वधस्य सुकरत्वं सूचितम् ॥ 1.19.13 ॥
अहं वेद्मि महात्मानं रामं सत्यपराक्रमम् ।
वसिष्ठो ऽपि महातेजा ये चेमे तपसि स्थिताः ॥ 1.19.14 ॥
रामस्य परब्रह्मत्वं सूचयन्नाह अहमिति । अहं बहुगुरूपासनेन लब्धज्ञानः । यद्वा योगबलसाक्षात्कृतपरावरतत्त्वयाथात्म्यः । भवांस्तु केवलकर्मठः । अहं जटावल्कलधारीं, त्वं तु क्रोधभराक्रान्तः । अहं सात्त्विक प्रकृतिः, त्वं तु राजसः । अहं ‘गर्भभूतास्तपोधनाः’ इत्युक्तरीत्या रामस्य गर्भभूतः, त्वं तु रामे गर्भत्वाभिमानी । योगक्रमज्ञानवानहम्, त्वं तु भोगक्रमज्ञः । अहं मोक्षकामेष्टिकृत्, त्वंतु पुत्रकामेष्टिकृत् । अहं धर्ममोक्षपरः, त्वं तु अर्थकामपरः । एतत्सर्वं प्रसिद्धपरामर्शिना अहमित्यनेन सर्वनामशब्देनोच्यते । ननु “सो अङ्ग वेद यदि वा न किलेति वेदस्सन्देग्ध्यनर्घविदमात्मनि रङ्गनाथम् ।” “विधिशिवसनकाद्यैर्ध्यातुमत्यन्तदूरम्” इत्युक्तरीत्या अपरिच्छिन्नं वस्तु कथं त्वया ज्ञातमित्यत्राह महात्मानम्, अपरिच्छिन्नमहिमतया वेद्मीत्यर्थः । तथा च श्रुतिः “वेदाहमेतं पुरुषं महान्तम्” इति श्रुतौ एतमिति सौलभ्यमुच्यते । पुरुषमिति पराक्रमः, तदुभयमप्याह रामं सत्यपराक्रममिति । परत्वसौलभ्ये हि राज्ञश्छत्रचामरवदसाधारणे । यद्वा “तेजसां हि न वयः समीक्ष्यते” इति बाल्ये ऽपि निरवधिकवैभवम् । यद्वा महात्मानं “सत्यस्य सत्यम्” इति वदात्मनो जीवस्याप्यात्मानम् “य आत्मनि तिष्ठन्” इत्यादि श्रुतेः । यद्वा आत्मा देहः “आत्मा जीवे धृतौ देहे” इत्यमरः । अप्राकृतदिव्यमङ्गलविग्रहमित्यर्थः । “न तस्य प्राकृता मूर्तिः” इति स्मृतेः । यद्वा महात्मानं महास्वभावम् “अभयं सर्वभूतेभ्यो ददाम्येतद्व्रतं मम” इति वक्ष्यमाणत्वात् । यद्वा रामं महात्मानम् अवतारकृतमहास्वभावयुक्तम् “स उ श्रेयान् भवति जायमानः” इति श्रुतेः । सत्यपराक्रमं सदैकरूपपराक्रमम् “नाविजित्य निवर्तते” इति वक्ष्यते । यद्वा सत्यपराक्रमं परमार्थपराक्रमम् । यद्वा सत्यात्परानाक्रमतीति तथा “गच्छानुजानामि” इति बहुवारं प्रकृतिसम्बन्धकृतप्रातिकूल्यनिवर्तने यत्नं कृत्वां तथाप्यननुकूलत्वे तान् हन्तीत्यर्थः । यद्वा अयत्नकालेपि शत्रुभयङ्करः “सुखसुप्तः परन्तपः” इति वक्ष्यति । संस्थानविशेषौज्ज्वल्यदर्शनेन शत्रुहृदयविदारक इति भावः । नाहं कार्यवशेन वदामीत्याह वसिष्ठो ऽपीति । आप्ततमो हि भवतः कुलाचार्यो वसिष्ठः । अपिशब्दो विरोधे, अस्मद्विरोध्यपीत्यर्थः । यद्वा समुच्चये । महातेजाः सरस्वतीवल्लभपुत्रः योगसिद्धज्ञानः । यद्वा यद्वाक्येनाहं ब्रह्मऋषिरभवं सोपीत्यर्थः । यद्वा “सत्यं वद धर्मं चर” इति तव उपदिश्य स्वयमनुष्ठाता । ननु “यद्ब्राह्मणश्चाब्राह्मणश्च प्रश्नमेयातां ब्राह्मणायाधिब्रूयात्” इति तव मम च विवादे अस्य त्वयि पक्षपातः स्यादित्राह चेति । राजद्वारसम्बन्धरहिततया पक्षपातशून्याः “तस्य धीराः परिजानन्ति योनिम्”
इति अवताररहस्यवेदिनः । ये चेमे ‘पुलस्त्यो ऽगस्त्यः’ इति प्रसिद्धाचार्यपदनिर्वाहकाः । यद्वा ‘गर्भस्थऋषिर्वामदेवः प्रतिपेदे’ ‘सप्तकल्पस्थितो मुनिः’ इत्यादिनोत्तरोत्तरं ब्रह्मविदग्रेसरा वामदेवमार्कण्डेयादयः तिष्ठन्त्येते तव प्रियकराः । केवलपरमैकान्तिनो विजानन्तीत्याह तपसि स्थिताः । कायिकव्यापारादीन् विना सदा तपसि स्थिताः । तानेकैकशो रहसि पृष्ट्वा तैरनुमतं चेत् रामं मे देहीति भावः । तपसि स्थिताः कायक्लेशसहाः । यद्वा ज्ञानयोगनिष्ठाः “तप आलोचने” । “तस्मान्न्यासमेषां तपसामतिरिक्तमाहुः” इत्युक्तन्यासनिष्ठा वा ॥ 1.19.14 ॥
यदि ते धर्मलाभं च यशश्च परमं भुवि ।
स्थितमिच्छसि राजेन्द्र रामं मे दातुमर्हसि ॥ 1.19.15 ॥
यदीति । धर्मलाभं धर्मवृद्धिम् । स्थितं स्थिरम् ॥ 1.19.15 ॥
यदि ह्यनुज्ञां काकुत्स्थ ददते तव मन्त्रिणः ।
वसिष्ठप्रमुखाः सर्वे राघवं मे विसर्जय ॥ 1.19.16 ॥
यदि हीति । विसर्जय प्रेषय ॥ 1.19.16 ॥
अभिप्रेतमसंसक्तमात्मजं दातुमर्हसि ।
दशरात्रं हि यज्ञस्य रामं राजीवलोचनम् ॥ 1.19.17 ॥
अभिप्रेतमिति । अभिप्रेतम् अभीष्टम् आत्मजम्, यज्ञस्य यज्ञाय । दशरात्रं देहि असंसक्तम् अविलम्बितमिति क्रियाविशेषणम् ॥ 1.19.17 ॥
नात्येति कालो यज्ञस्य यथा ऽयं मम राघव ।
तथा कुरुष्व भद्रं ते मा च शोके मनः कृथाः ॥ 1.19.18 ॥
नात्येतीति । ममायं यज्ञस्य कालो यथा नात्येति तथा कुरुष्वेत्यन्वयः ॥ 1.19.18 ॥
इत्येवमुक्त्वा धर्मात्मा धर्मार्थसहितं वचः ।
विरराम महातेजा विश्वामित्रो महामुनिः ॥ 1.19.19 ॥
इतीति । धर्मार्थसहितं धर्मार्थपरम् ॥ 1.19.19 ॥
स तन्निशम्य राजेन्द्रो विश्वामित्रवचः शुभम् ।
शोकमभ्यगमत्तीव्रं व्यषीदत भयान्वितः ॥ 1.19.20 ॥
स इति । शोकं दुःखं व्यषीदत दुःखितोभूत्, विषण्णमुखोभूदित्यर्थः ॥ 1.19.20 ॥
इति हृदयमनोविदारणं मुनिवचनं तदतीव शुश्रुवान् ।
नरपतिरभवन्महांस्तदा व्यथितमनाः प्रचचाल चासनात् ॥ 1.19.21 ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकोनविंशः सर्गः ॥ 19 ॥
इतीति । हृदयं मनोधिष्ठानम् । अतीव अत्यर्थं व्यथितमनाः । महान् कुलेन महान् । विचचाल मुमूर्च्छेत्यर्थः । महदितिपाठे महदत्यर्थं व्यथितमनाः अतीव विदारणमिति सम्बन्धः । वृत्तमुपजातिभेदः ॥ 1.19.21 ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने एकोनविंशः सर्गः ॥ 19 ॥