श्रीमद्वाल्मीकीयरामायणम्बालकाण्डःअष्टादशः सर्गः
॥ श्रीरामावतारघट्टः ॥
श्लोकसहितव्याख्यानम् (18सर्गतः 77सर्गपर्यन्तम्)
निर्वृत्ते तु क्रतौ तस्मिन् हयमेधे महात्मनः ।
प्रतिगृह्य सुरा भागान् प्रतिजग्मुर्यथागतम् ॥ 1.18.1 ॥
“कोसलो नाम मुदितः स्फीतो जनपदो महान्” इत्यारभ्य भगवतो ऽवतारनिमित्तान्युक्तानि ।
अथावतारं दर्शयत्यष्टादशे निर्वृत्ते त्वित्यादि । अत्र ‘पुत्रोत्पत्तिं विचिन्तयन्’ इत्येवमन्तो ग्रन्थः ‘हुताशनादित्यसमानतेजसो ऽचिरेण गर्भान् प्रतिपेदिरे तदा’ इत्येतच्छेषो ऽनूद्यते । निर्वृत्ते समाप्ते हयमेधे, पुत्रेष्टिसहित इति शेषः ॥ 1.18.1 ॥
समाप्तदीक्षानियमः पत्नीगणसमन्वितः ।
प्रविवेश पुरीं राजा सभृत्यबलवाहनः ॥ 1.18.2 ॥
समाप्तेति । दीक्षार्थो नियमो दीक्षानियमः । प्रविवेश प्रवेष्टुमुपचक्रमे । आदिकर्मद्योतकः प्रशब्दः ॥ 1.18.2 ॥
यथार्हं पूजितास्तेन राज्ञा वै पृथिवीश्वराः ।
मुदिताः प्रययुर्देशान् प्रणम्य मुनिपुङ्गवम् ॥ 1.18.3 ॥
यथेति । मुनिपुङ्गवं वसिष्ठम् ॥ 1.18.3 ॥
श्रीमतां गच्छतां तेषां स्वपुराणि पुरात्ततः ।
बलानि राज्ञां शुभ्राणि प्रहृष्टानि चकाशिरे ॥ 1.18.4 ॥
श्रीमतामिति । शुभ्राणि दशरथदत्तवस्त्रादिभिः ॥ 1.18.4 ॥
गतेषु पृथिवीशेषु राजा दशरथस्तदा ।
प्रविवेश पुरीं श्रीमान् पुरस्कृत्य द्विजोत्तमान् ॥ 1.18.5 ॥
गतेष्विति । द्विजोत्तमान् वसिष्ठादीन् ॥ 1.18.5 ॥
शान्तया प्रययौ सार्द्धमृश्यशृङ्गः सुपूजितः ।
अन्वीयमानो राज्ञाथ सानुयात्रेण धीमता ॥ 1.18.6 ॥
शान्तयेति । अथ नगरप्रवेशानन्तरम् । सानुयात्रेण सभृत्येन राज्ञा रोमपादेन अन्वीयमानः अनुगम्यमानः ॥ 1.18.6 ॥
एवं विसृज्य तान् सर्वान् राजा सम्पूर्णमानसः ।
उवास सुखितस्तत्र पुत्रोत्पत्तिं विचिन्तयन् ।
ततो यज्ञे समाप्ते तु ऋतूनां षट् समत्ययुः ॥ 1.18.7 ॥
एवमिति । एवम् ऋश्यशृङ्गवत् । तान् द्विजोत्तमान्, सम्पूर्णमानसः सम्पूर्णमनोरथः । तत इत्यर्धमेकम् ॥ 1.18.7 ॥
ततश्च द्वादशे मासे चैत्रे नावमिके तिथौ ।
नक्षत्रे ऽदितिदैवत्ये स्वोच्चसंस्थेषु पञ्चसु ॥ 1.18.8 ॥
ग्रहेषु कर्कटे लग्ने वाक्पताविन्दुना सह ।
प्रोद्यमाने जगन्नाथं सर्वलोकनमस्कृतम् ॥ 1.18.9 ॥
कौसल्याजनयद्रामं सर्वलक्षणसंयुतम् ।
विष्णोरर्द्धं महाभागं पुत्त्रमैक्ष्वाकवर्द्धनम् ॥ 1.18.10 ॥
अथ भगवतः प्रादुर्भावं दर्शयति त्रिभिः—ततश् चेत्यादि।
ततः—अश्वमेध-समाप्त्य्-अपेक्षया पायसोपयोगाद् वा।
स च वैशाखादौ भवेत्। द्वादशे—“तस्य पूरणे” इति डट्। चैत्री पौर्णमास्य् अस्मिन्न् इति चैत्रः। “सास्मिन् पौर्णमासीति” इति संज्ञायाम् अण्। चकारो वार-समुच्चयार्थः। नावमिके—नवम्याम्। विनयादित्वात् स्वार्थे ठक्। “तिथयो द्वयोः” इति तिथि-शब्दस्य पुंलिङ्गस्यापि सम्भवात् ङीब्-अभावः। अदितिर् देवता यस्य तद् अदिति-दैवतं, तस्मात्। देवतान्तात् तादर्थ्ये यक् छान्दसः। नक्षत्रे—पुनर्वस्वोर् इत्यर्थः। “पुनर्वसू नक्षत्रम् अदितिर् देवता” इति श्रुतेः। पञ्चसु ग्रहेषु स्वोच्च-संस्थेषु—सूर्य-गुरु-शुक्राङ्गारक-शनिषु स्वोच्च-स्थान-स्थितेषु सत्सु। उच्च-स्थान-लक्षणम् उक्तं वराहमिहिरेण—
अज-वृषभ-मृगाङ्गना-कुलीरा झष-वणिजौ च दिवाकरादि-तुङ्गाः।
इति। कर्कटे—कर्कटकाख्ये लग्ने, राश्य्-उदये। “राशीनाम् उदयो लग्नम्” इत्य् अमरः। वाक्पतौ—बृहस्पतौ। इन्दुना सह प्रोद्यमाने—उदयति सति। आर्षम् आत्मनेपदम्। अत्र “प्रोद्यमान” इत्य् उक्तत्वात्, पुनर्वसु-नक्षत्रस्य कर्कट-राशित्वाच् च तत्रेन्दुः स्थित इत्य् अवगम्यते। कर्कटकस् तु गुरोर् उच्च-स्थानम्, इन्दुना वर्तमानो गुरुस् तत्र वर्तत इति गुरुर् उच्चस्थः। चैत्र-मासे सूर्यस्य मेष-प्रवेशात् सूर्योऽप्य् उच्चगत एव। बुधः सदा रवि-सन्निहितः, न तदोच्च-स्थानस्थः। चन्द्रश् च कर्कट-गो नोच्चस्थः। तथा च परिशेषात् मन्दाङ्गारक-शुक्रास् तुला-मकर-मीन-संस्था इति पञ्चानाम् उच्चस्थत्वम्।
नाम-कीर्तनं विना पञ्चोच्चस्थत्व-कीर्तनं तत्-फल-विशेष-प्रतिपादनाय। यथाहुः—
एक-ग्रहोच्च-जातस्य सर्वारिष्ट-विनाशनम्।
द्वि-ग्रहोच्चे तु सामन्तस् त्रि-ग्रहोच्चे महीपतिः।
चतुर्-ग्रहोच्चे सम्राट् स्यात् पञ्चोच्चे लोक-नायकः॥
इति। प्रत्येकोच्च-फलं चाहुः—
सूर्ये स्वोच्च-गते जातस् सेनापत्यम् अवाप्नुयात्।
भौमे स्वोच्च-गते जातो वने राजा भविष्यति।
गुरौ स्वोच्च-गते जातो धनी राज्याधिपो भवेत्।
शुक्रे स्वोच्च-गते जातो राज्य-श्रियम् अवाप्नुयात्।
शनौ स्वोच्च-गते जातो राजाधिप-समो भवेत्।
इति। गुरु-चन्द्र-योग-फलम् उक्तं मिहिरेण—
दृढ-सौहृदो विनीतः स्व-बन्धु-सम्मान-कृद् धनेशश् च।
शशि-गुर्वोर् गुण-शीलः सुर-द्विजेभ्यो रतो भवेत् पुरुषः॥
इति। रवि-बुध-योग-फलं च तेनैवोक्तम्—
वेदान्त-वित् स्थिर-धनो रवि-ज्ञयोः प्रायशो यशोऽर्थी स्यात्।
आर्यः क्षितिपति-दयितः सतां च बल-रूप-विद्यावान्॥
चैत्र-मास-जन्म-फलम्—
चैत्रे मधुर-भाषी स्याद् अहङ्कार-सुखान्वितः।
नवमी-जन्म-फलम्—
दीर्घ-वैरी भुवि ख्यातो वश्यः शूरश् च पण्डितः।
निर्भयः सर्व-भूतेभ्यो नवम्यां जायते नरः॥
पुनर्वसु-नक्षत्र-फलम्—
सहिष्णुर् गूढ-वृत्तिश् च श्लेष्मलो नाट्य-कोविदः।
अगृध्नुरल्प-सन्तुष्टः शीघ्रगोऽदिति-धिष्ण्य-जः॥
चतुर्थ-पाद-जन्म-फलम्—
कान्त-प्रिय-वपुः श्लक्ष्णः सज्जनः प्रिय-दर्शनः।
लक्ष्मीवान् प्रिय-वादी च आदित्यान्ते प्रजायते॥
उच्चस्थेन बृहस्पतिना समं चन्द्रस्य स्थितिः कर्कटक इति पुनर्वसु-चतुर्थ-पादत्वं सिद्धम्। चैत्र-पुनर्वसू शुक्ल-पक्ष एवेति सिद्धम्। कर्कटक-लग्न-जन्म-फलम्—
कर्कटे लग्नके चन्द्र-युक्ते दृष्टे च भोगवान्।
गुरुणा वीक्षिते युक्ते धनाढ्यो बहु-भोगवान्॥
तान् इमान् फल-विशेषान् सूचयितुं मास-तिथ्यादि-कीर्तनम्। तथैवाह जगन्नाथम् इत्यादिना।
जगन्नाथम् इत्य् अनेन “पञ्चोच्चे लोक-नायकः” इत्य् उक्तं फलं दर्शितम्। लग्नस्य गुरु-योग-फलम् आह सर्व-लोक-नमस्कृतम् इति। यथा होरा-प्रदीपे—
कविः सुगीतः प्रिय-दर्शनः सुखी दाता च भोक्ता नृप-पूजितः शुचिः।
देव-द्विजाराधन-तत्परोऽथ भवेन् नरो देव-गुरौ तनु-स्थिते॥
रामं—पश्चाद् रामाख्यम्। यद् वा, रामं—श्याम-वर्णम्, “अथो रामौ सावित्रौ” इत्य् अत्राथ श्यामाव् इति व्याख्यानात्। अनेन कर्कटे कन्यांशे जात इति व्यज्यते। कन्याया बुधांशत्वात्, बुधस्य च श्यामत्वात् शुक्रांशत्वाद् वा। यथाह मिहिरः—
रक्त-श्यामो भास्करो गौर इन्दुर् नात्य्-उच्चाङ्गो रक्त-गौरश् च वक्रः।
दूर्वा-श्यामो ज्ञो गुरुर् गौर-गात्रः श्यामः शुक्रो भास्करिः कृष्ण-देहः॥
इति। सर्व-लक्षण-संयुक्तम्—सर्व-लक्षणैः सामुद्रिकोक्तैः पूर्णम्। इदं लग्न-चन्द्र-फलम्—“पूर्णे शीतकरे लग्ने तेजस्वी नित्य-गर्वितः” इति होरा-शास्त्रात्। विष्णोर् अर्द्धम्—विष्णुमयस्य पायसस्यार्द्धांश-परिणाम-भूतम्। पुत्रं—पुन्-नाम्नो नरकात् त्रायत इति पुत्रः तम्। पुनर् तं विशेषयति ऐक्ष्वाक-वर्द्धनम् इति। ऐक्ष्वाकस्य दशरथस्य वर्द्धनम्। अनेन लग्नस्य सौम्य-ग्रह-योग-फलं दर्शितम्। यथा—
नरश् चिरायुर् नृप-पूजितः सुखी लग्नं भवेत् सौम्य-युतं यथा तथा।
लग्ने तथा स्वामि-निरीक्षिते धनी कुशाग्र-बुद्धिः कुल-कीर्ति-वर्द्धनः॥
महा-भागं—महा-भाग्य-युक्तम्, अनेन लग्न-चन्द्र-कृतोऽपि दोषो गुरु-योगात् परिह्रियत इति सूच्यते। यथाहुः होरा-प्रदीपे—
जन्म-कालिक-लग्नांशे चन्द्रः केन्द्र-गतो यदि।
जातस्य विनयो वित्तं ज्ञानं बुद्धिश् च नैपुणम्॥
हीनं पणफरस्थेऽस्मिन् मध्यान्य् एतानि तस्य च।
आपोक्लिमस्थ-चन्द्रश् चेद् उत्कृष्टानि भवन्ति हि॥
स्वांशेऽधिमित्रस्य नवांशके वा चन्द्रे तु वाचस्पतिना च दृष्टे।
एवंविधे शीतकरे च रात्रौ शुक्रेण दृष्टे धनवान् सुखी स्यात्॥
एवं केमद्रुम-योगोऽपि नास्तीत्य् उच्यते। केमद्रुमो नाम चन्द्र-लग्नस्योभय-पार्श्वे ग्रहाभावः। न ह्य् अत्र मिथुने सिंहे वा कश्चिद् ग्रहोऽस्ति। तथाह गार्ग्यः—
व्ययार्थोभयगश् चन्द्राद् विना भानुं न चेद् ग्रहः।
योगः केमद्रुमो नाम जातः स्याद् अत्र गर्हितः॥
सन्तान-बन्धु-जन-वस्त्र-सुहृद्-विहीनो दरिद्र्य-दैन्य-गद-दुःख-मलैर् उपेतः।
प्रेष्यः खलः सकल-लोक-विरुद्ध-वृत्तिः केमद्रुमे भवति पार्थिव-वंशजोऽपि॥
एतत् सर्वम् आत्मानुभावेन परिह्रियत इत्य् उच्यते महा-भाग-शब्देन। यथाह मणिबन्धः—
लग्नात् केन्द्र-गते चन्द्रे ग्रहैर् एकादिभिर् युते।
केमद्रुम-फलं न स्यात् केचित् केन्द्र-नवांशके॥
एवं दोषान्तर-परिहारोऽपि। यथा—
अष्टमेशे कलत्र-स्थे सुतेशे वा कलत्रगे।
मङ्गले वा कलत्र-स्थे भार्या-नाशं प्रकुर्वते॥
इति ॥ १.१८.८-१० ॥
कौसल्या शुशुभे तेन पुत्रेणामिततेजसा ।
यथा वरेण देवानामदितिर्वज्रपाणिना ॥ 1.18.11 ॥
कौसल्येति रामावतारो न केवलं यज्ञकृतः, किन्तु कौसल्यातपःकृत इत्याह । कौसल्या तेन शशुभे । कुतः ? पुत्रेण पुत्रत्वेनावतीर्णेन, पुत्रत्वेनावतीर्य स्वमनोरथपूरणादिति भावः । अमिततेजसा “स उ श्रेयान् भवति जायमानः” इत्युक्तरीत्या जन्मलब्धनिरवधिकतेजसा । यथा अदितिः वज्रपाणिना परत्वचिह्नभूतरेखामयवज्रयुक्तपाणितलेन देवानां वरेण उपेन्द्रेण शुशुभे तथा । यथा पूर्वजन्मन्यदितिरनुष्ठितव्रतविशेषैर्विष्णुं पुत्रं लब्धवती तथेयमपीत्यर्थः । यद्वा अमिततेजसा जगत्प्रकाशकादित्यस्य कुलस्यापि प्रकाशकेन, “सूर्यस्यापि भवेत्सूर्यः” इतिवत् । “ततो ऽखिलजगत्पद्मबोधायाच्युतभानुना । देवकीपूर्वसन्ध्यायामाविर्भूतं महात्मना ॥” इत्युक्ताच्युतभानोरप्यतिशयिततेजसा। देवानां वरेण इन्द्रेण वज्रपाणिनेत्युभयविशेषणम्। वज्रहस्तेन वज्ररेखायुक्तहस्तेन च, अनेनैव साधारणधर्मेणोपमानोपमेयभावः। यद्वा लौकिकानामिन्द्रे श्रेष्ठत्वबुद्ध्या तदनुसारेणोपमा, इषुवद्गच्छति सवितेतिवत्। यद्वा दृष्टिदोषपरिहाराय हीनोपमापि क्रियते। यद्वा अयं श्लोकः पूर्वशेषतया मात्ररिष्टभङ्गेन तदतिशयावहत्वद्योतनाय। तथाहि मातृकारकश्चन्द्रः, स च वर्द्धिष्णुर्गुरुणा युक्तो मातरमभिवर्द्धयति ॥ 1.18.11 ॥
भरतो नाम कैकेय्यां जज्ञे सत्यपराक्रमः ।
साक्षाद्विष्णोश्चतुर्भागः सर्वैः समुदितो गुणैः ॥ 1.18.12 ॥
अथ पायसोपयोगक्रमेण कौसल्यानन्तरं कैकेयीप्रसवमाह भरत इति । साक्षाद्विष्णोः प्रत्यक्षविष्णोः रामस्य चतुर्भागश्चतुर्थांशः, रामस्य विष्ण्वर्द्धत्वात् । तस्य चतुर्थांशः, विष्णोरष्टमांश इत्यर्थः । यद्वा साक्षाद्विष्णोर्वैकुण्ठवासिनश्चतुर्थांशश्चतुर्थस्यांशः, अष्टमभाग इत्यर्थः । यद्वा साक्षात्प्रत्यक्षभूत इति सौलभ्यमुच्यते । यद्वा साक्षादव्यवधानेन जज्ञे रामादनन्तरं जज्ञ इत्यर्थ । सर्वैः
रामसम्बन्धितयोक्तैः गुणैः समुदितः युक्तः ॥ 1.18.12 ॥
अथ लक्ष्मणशत्रुघ्नौ सुमित्राजनयत्सुतौ ।
सर्वास्त्रकुशलौ वीरौ विष्णोरर्द्धसमन्वितौ ॥ 1.18.13 ॥
अथेति । अथ भरतजननानन्तरम् । द्विवचनेन यमलत्वमुच्यते । अर्द्धसमन्वितौ समन्वितार्द्धौ, परनिपातः । अर्द्धशब्दों ऽशमात्रवाची । समन्वितचतुर्थभागाष्टमभागरूपौ । “भित्तं शकलखण्डे वा पुंस्यर्द्धो ऽर्द्धं समें ऽशक” इत्यमरः । अन्यथा पायसप्रदानक्रमविरोधः । समन्वितशब्देन युगपदुपयुक्तत्वमुच्यते ॥ 1.18.13 ॥
पुष्ये जातस्तु भरतो मीनलग्ने प्रसन्नधीः ।
सार्पे जातौ च सौमित्री कुलीरे ऽभ्युदिते रवौ ॥ 1.18.14 ॥
त्रयाणां जन्मकालमाह पुष्य इति । पुष्ये पुष्ययुक्ते तिथौ । “नक्षत्रेण युक्तः कालः” इति विहितस्याण्प्रत्ययस्य “लुबविशेषे” इति लुप् । मीनस्य गुरुक्षेत्रत्वात्तज्जन्मफलमाह प्रसन्नधीरिति । सार्पे सर्पदेवताके नक्षत्रे । “आश्लेषानक्षत्रं सर्पादेवता” इति श्रुतिः । सुमित्रायाः पुत्रौ सौमित्री । बाह्वादित्यादिञ् । कुलीरे कर्कटके । रवौ अभ्युदिते । भरतजननस्योदयात्पूर्वत्वज्ञापनायात्रोदित इत्युक्तम्, अन्यथा चैत्रकर्कटकस्य माध्याह्नकालिकत्वेन विरोधात् । यद्वा उदिते प्रवृद्धे मध्याह्नकाल इत्यर्थः । पञ्चोच्चत्वं गुरुचन्द्रयोगः इत्यादि सर्वत्र समानम् । रामस्य पुनर्वसूनक्षत्रम्, तिथिर्नवमी । भरतस्य पुष्यनक्षत्रम्, दशमी । सौमित्र्योश्च दशमी, आश्लेषातारेति विशेषः ॥ 1.18.14 ॥
राज्ञः पुत्रा महात्मानश्चत्वारो जज्ञिरे पृथक् ।
गुणवन्तो ऽनुरूपाश्च रुच्या प्रोष्ठपदोपमाः ॥ 1.18.15 ॥
राज्ञ इति । एकत्वे ऽपि पृथग्वर्तमानाः । एकस्य चतुर्द्धावस्थाने उपमानमाह प्रोष्ठेति । प्रोष्ठो गौः तस्येव पादा यासां ताः प्रोष्ठपदाः । “सुप्रात “इत्यादिसूत्रे अच्प्रत्ययान्तो निपातितः । रुच्या कान्त्या प्रोष्ठपदोपमाः । राज्ञो ऽनुरूपाश्चत्वारः पुत्रा जज्ञिरे, यज्ञफलं निर्वृत्तमिति भावः । पृथग्गुणवन्त इति वा, प्रत्येकमनन्यसाधारणगुणवन्त इत्यर्थः । रामस्य सामान्यधर्मरुचिः, लक्ष्मणस्य शेषत्वज्ञानम्, भरतस्य भगवत्पारतन्त्र्यधीः, शत्रुघ्नस्य भागवतपारतन्त्र्यमिति परस्परविलक्षणगुणवन्त इत्यर्थः ॥ 1.18.15 ॥
जगुः कलं च गन्धर्वा ननृतुश्चाप्सरोगणाः ।
देवदुन्दुभयो नेदुः पुष्पवृष्टिश्च खाच्च्युता ॥ 1.18.16 ॥
जननकालिकशुभनिमित्तानि दर्शयति जगुरिति । कलम् अव्यक्तमधुरं यथा भवति तथा जगुः । खात् आकाशात् ॥ 1.18.16 ॥
उत्सवश्च महानासीदयोध्यायां जनाकुलः ॥ 1.18.17 ॥
अथ जातकर्मोत्सवमाह उत्सवश्चेति । अयोध्यायामित्यनेन प्रतिगृहमुत्सवो ऽभूदित्युच्यते । जनाकुलः आकुलजनः । इदमर्द्धमेकम् ॥ 1.18.17 ॥
रथ्याश्च जनसम्बाधा नटनर्तकसङ्कुलाः ।
गायनैश्च विराविण्यो वादनैश्च तथा ऽपरैः ॥ 1.18.18 ॥
रथ्याश्चेति । गायनैः गायकैः, वादनैः वाद्यशिल्पैः, अपरैः सूतमागधवन्दिभिश्च, विराविण्यः शब्दवत्यः रथ्या आसन् ॥ 1.18.18 ॥
प्रदेयांश्च ददौ राजा सूतमागधवन्दिनाम् ।
ब्राह्मणेभ्यो ददौ वित्तं गोधनानि सहस्रशः ॥ 1.18.19 ॥
अथदानसमृद्धिमाह प्रदेयानिति । प्रदेयान् पारितोषिकान् । सूतमागधवन्दिनामिति शेषे षष्ठी । सूताः पौराणिकाः, मागधाः वंशावलिकीर्तकाः, वन्दिनः स्तुतिपाठकाः । सूतादीनां प्रदेयान् ददावित्यन्वयः । गोधनानि गोरूपधनानि सहस्रशः सहस्राणि ॥ 1.18.19 ॥
अतीत्यैकादशाहं तु नामकर्म तथा ऽकरोत् ॥ 1.18.20 ॥
अतीत्येति अर्द्धमेकम् । लक्ष्मणजन्मदिनापेक्षया एकादशाहत्वम्, रामजन्मदिनापेक्षया द्वादशदिनं तत् । तदत्यये प्रथमसूतकेनैव निर्वृत्तेन सर्वसूतकनिवृत्तेर्द्धादशाहे नामकरणवचनमुपपन्नमेव । अन्यथा “क्षत्रियस्य द्वादशाहं सूतकम्” इति श्रुतिः । “त्रयोदशे राज्ञां नामकरणम्”इति स्मृतिश्च विरुध्येत । नामकर्म नामकरणम् । तथा जातकर्मवदित्युत्सवातिशयो ऽतिदिश्यते ॥ 1.18.20 ॥
ज्येष्ठं रामं महात्मानं भरतं कैकयीसुतम् ।
सौमित्रिं लक्ष्मण इति शत्रुघ्नमपरं तथा ॥ 1.18.21 ॥
कस्य किं नामाकरोदित्यत्राह ज्येष्ठमिति । रामं रामनामानम्, रमन्ते सर्वे जनाः गुणैरस्मिन्निति व्युत्पत्त्येति भावः । महात्मानं महास्वभावम्, निरवधिकगुणमिति यावत् । अनेन रामपदप्रवृत्तिनिमित्तमुक्तम् । राजा ज्येष्ठपुत्रं रामनामानमकरोत् । कैकयीसुतं भरतनामानमकरोत् । भरत इति राज्यस्य भरणादिति सहस्रानीकोक्तरीत्या । राजनि मृते रामे च वनं गते अराजकराज्यभरणादिति भावः । एवं सौमित्रिं सुमित्रापुत्रं लक्ष्मण इति नामयुक्तमकरोत् । रामकैङ्कर्यलक्षणसम्पद्युक्तत्वाल्लक्ष्मणः । “लक्ष्म्या अच्च” इति पामादिपाठादिकारस्याकारः मत्वर्थीयो नः । अत एव “लक्ष्मणो लक्ष्मिसम्पन्नः” इति वक्ष्यति । अपरं सौमित्रिं शत्रुघ्नं शत्रुघ्ननामानमकरोत् । शत्रून् हन्तीति शत्रुघ्नः ॥ 1.18.21 ॥
वसिष्ठः परमप्रीतो नामानि कृतवांस्तदा ॥ 1.18.22 ॥
ननु क्षत्रियस्य नामकरणे ऽनधिकारात् पुरोहितकर्तृकत्वस्मरणात् कथं दशरथस्य नामकर्मकर्तृत्वम् ? इत्याशङ्क्य पुरोहितद्वारा कर्तृत्वमित्यभिप्रेत्याह वसिष्ठ इति । तदा द्वादशे ऽह्नि, अत एवाकारयदिति वक्ष्यति ॥ 1.18.22 ॥
ब्राह्मणान् भोजयामास पौरजानपदानपि ।
अददद्ब्राह्मणानां च रत्नौघममितं बहु ॥ 1.18.23 ॥
नामादि नान्दीकरणमिति नियमान्नामकर्मणि नान्दीकरणमाह ब्राह्मणानिति । पौरेत्यादि ब्राह्मणविशेषणम् । राज्ञेति शेषः । ब्राह्मणानामिति सम्बन्धसामान्ये षष्ठी ।
अमितम् असङ्ख्येयं । बहु बहुप्रकारम् ॥ 1.18.23 ॥
तेषां जन्मक्रियादीनि सर्वकर्माण्यकारयत् ॥ 1.18.24 ॥
उक्तानुवादपूर्वकमितरसंस्कारकरणं दर्शयति तेषामित्यर्द्धम् । आदिशब्देनान्नप्राशनचौलोपनयनादीनि गृह्यन्ते ॥ 1.18.24 ॥
तेषां केतुरिव ज्येष्ठो रामो रतिकरः पितुः ।
बभूव भूयो भूतानां स्वयम्भूरिव सम्मतः ॥ 1.18.25 ॥
उक्तं रामस्य महात्मत्वमुपपादयति तेषामिति । तेषां सुतानां मध्ये वयसा ज्येष्ठः । केतुरिव ध्वज इव निजकुलप्रकाशकः । पितुर्भूयो रतिकरः सन्तोषकरः, भूतानां स्वयम्भूरिव सम्मतः नित्यप्रेमास्पदं बभूव ॥ 1.18.25 ॥
सर्वे वेदविदः शूराः सर्वे लोकहिते रताः ।
सर्वे ज्ञानोपपन्नाश्च सर्वे समुदिता गुणैः ॥ 1.18.26 ॥
उपनीतानां तेषां वेदाध्ययनादिकमाह सर्व इति । वेदविदः अधीतवेदाः । “वेद्लृ लाभे” इत्यस्मात् क्विप् । शूरा इत्यनेनाधीतधनुर्वेदत्वमुच्यते । लोकहिते रता इत्यनेन धनुर्वेदाभ्यासकार्यपरत्वम् । वेदार्थज्ञानसिद्धिमाह ज्ञानेति । ज्ञानकार्यगुणसम्पत्तिमाह समुदिता गुणैरिति । गुणैर्दयादिभिः, आसन्निति शेषः ॥ 1.18.26 ॥
तेषामपि महातेजा रामः सत्यपराक्रमः ।
इष्टः सर्वस्य लोकस्य शशाङ्क इव निर्मलः ॥ 1.18.27 ॥
अथ प्रत्येकमसाधारणात् गुणान् वक्तुमादौ रामगुणानाह तेषामिति । अपिशब्देनान्येषां रघुवंश्यानामपि मध्य इत्यर्थः । महातेजा महाप्रतापः । सत्यपराक्रमः अमोघवीर्यः । निर्मलश्शशाङ्क इव सर्वलोकस्य इष्टः सर्वदा दर्शनीयः, अभवदिति शेषः ॥ 1.18.27 ॥
गजस्कन्धे ऽश्वपृष्ठे च रथचर्यासु सम्मतः ।
धनुर्वेदे च निरतः पितुः शुश्रूषणे रतः ॥ 1.18.28 ॥
गज इति । अत्र राम इत्यनुषज्यते । गजस्कन्धे स्थित्वा तत्प्रेरणसम्मतः राम इव गजस्कन्धारोहणादौ न को ऽपि समर्थ इति गजसादिभिः श्लाघित इत्यर्थः । एवमुत्तरत्रापि योज्यम् ॥ 1.18.28 ॥
बाल्यात् प्रभृतिसुस्निग्धो लक्ष्मणो लक्ष्मिवर्द्धनः ।
रामस्य लोकरामस्य भ्रातुर्ज्येष्ठस्य नित्यशः ॥ 1.18.29 ॥
अथ लक्ष्मणगुणविशेषानाह बाल्यादित्यादिभिश्चतुभिः । लक्ष्मीं वर्द्धयतीति लक्ष्मिवर्द्धनः । “ङ्यापोः सञ्ज्ञाछन्दसोर्बहुलम्” इति ह्रस्वः । कैङ्कर्यसम्पद्वर्द्धकः लक्ष्मणः रामस्य बाल्यात्प्रभृति बाल्यमारभ्य । प्रभृतियोगे ऽपि पञ्चमी प्रयुज्यते । सुस्निग्धः सुतरां स्निग्धः, अङ्कुरात् प्रभृति परिमलेनैवोत्पन्नस्तुलसीकाण्ड इव जन्मनःप्रभृति निरवधिकभक्तिसम्पन्नः । यद्वा सुस्निग्धः रामपर्यङ्केण स्वपर्यङ्कायोजने बाल्ये ऽपि न निद्रातीत्यर्थः । अनेन स्वरूपप्रयुक्तत्वं दास्यस्योक्तम् । अथ
गुणकृतत्वमाह लोकरामस्य लोकान् रमयतीति लोकरामः । ण्यन्तात्कर्मण्यण् । “गुणैर्दास्यमुपागतः” इत्यन्यत्रोक्तम् । तस्य भ्रातुः ज्येष्ठस्येत्यनेन जन्मकृतदास्यमुक्तम् । नित्यशः नित्यं सुस्निग्ध इत्यन्वयः ॥ 1.18.29 ॥
सर्वप्रियकरस्तस्य रामस्यापि शरीरतः ।
लक्ष्मणो लक्ष्मिसम्पन्नो बहिः प्राण इवापरः ॥ 1.18.30 ॥
सर्वेति । शरीरत इत्युपलक्षणम् । त्रिविधकरणैरपि रामस्य सर्वप्रियकरः । यद्वा स्वशरीरादपि रामस्य प्रियकरः, स्वशरीरमुपेक्ष्यापि प्रियकर इत्यर्थः । यद्वा शरीरतो बहिः स्थितः अपरः प्राण इव स्थितः । यद्वा शरीरतः रामशरीरस्य “सार्वविभक्तिकस्तसिः” इत्युक्तेः । लक्ष्मणस्य दक्षिणबाहुत्वाद्रामसर्वावयवानां सर्वप्रियकर इत्यर्थः । “रामस्य दक्षिणो बाहुर्नित्यं प्राणो बहिश्चरः” इति वक्ष्यमाणत्वात् । अस्मिन् पक्षे अपिशब्देन रामस्य स्वविषयप्रियकरत्वं समुच्चीयते । लक्ष्मिसम्पन्न इत्यनेन लक्ष्मणशब्दार्थ उक्तः ॥ 1.18.30 ॥
न च तेन विना निद्रां लभते पुरुषोत्तमः ।
मृष्टमन्नमुपानीतमश्नाति न हि तं विना ॥ 1.18.31 ॥
रामस्य लक्ष्मणे ऽनुरागं दर्शयति न चेति । तेन विना । “पृथग्विनानानाभिस्तृतीयान्यतरस्याम्” इति तृतीया । निद्रां न लभते प्राणं विना कथं निद्रां लभेतेत्यर्थः । किञ्च कौसल्यया आनीतं मृष्टान्नं तं विना नाश्नाति । दक्षिणबाहुं विना कथमश्नातीति भावः । पुरुषोत्तमः प्रेमशालिविषये सर्वात्मना विश्लेषासह इत्यर्थः । “क्षणे ऽपि ते यद्विरहो ऽतिदुःसहः” इति ह्युक्तम् ॥ 1.18.31 ॥
यदा हि हयमारूढो मृगयां याति राघवः ।
तदैनं पृष्ठतो ऽभ्येति सधनुः परिपालयन् ॥ 1.18.32 ॥
यदाहीति । राघवो रामः यदा हयमारूढः सन् मृगयामाखेटमुद्दिश्य याति तदा तदानीमेव एनं रामं सधनुः सन् पालयन् । अस्थाने भयशङ्कितया पृष्ठतः वेगवद्धयसमीप एवाभ्येति । हिः प्रसिद्धौ ॥ 1.18.32 ॥
भरतस्यापि शत्रुघ्नो लक्ष्मणावरजो हि सः ।
प्राणैः प्रियतरो नित्यं तस्य चासीत्तथा प्रियः ॥ 1.18.33 ॥
अथ भरतशत्रुघ्नयोः परस्परानुरागं दर्शयति भरतस्यापीति । हि यस्मात् स शत्रुघ्नो लक्ष्मणावरजः, तस्मात्तत्तुल्यप्रकृतिकत्वात् भरतस्यापि प्राणैः प्राणेभ्यो ऽपि प्रियतर आसीत् । तस्य शत्रुघ्नस्य च भरतः तथा प्रिय आसीत् ॥ 1.18.33 ॥
स चतुर्भिर्महाभागैः पुत्रैर्दशरथः प्रियैः ।
बभूव परमप्रीतो देवैरिव पितामहः ॥ 1.18.34 ॥
दशरथस्य स्वाराधकस्य मनोरथपरिपूरणमेतदवतारस्य प्रथमप्रयोजनम् । तन्निर्वृत्तिमाह स चतुर्भिरति । देवैश्चतुर्भिर्दिक्पालैः ॥ 1.18.34 ॥
ते यदा ज्ञानसम्पन्नास्सर्वे समुदिता गुणैः ।
ह्रीमन्तः कीर्तिमन्तश्च सर्वज्ञा दीर्घदर्शिनः ॥ 1.18.35 ॥
तेषामेवम्प्रभावानां सर्वेषां दीप्ततेजसाम् ।
पिता दशरथो हृष्टो ब्रह्मा लोकाधिपो यथा ॥ 1.18.36 ॥
पूर्वं लाभकृतप्रीतिरुक्ता । अथ तेषां ज्ञानादिसम्पत्तिकृतप्रीतिविशेषमाह त इति, श्लोकद्वयमेकान्वयम् । यदा यस्मिन् वयसि ज्ञानं शास्त्रज्ञानम् । ह्रीमन्तः प्रमादात्प्राप्ताकृत्यचिन्तासु लज्जावन्तः । कीर्तिमन्तः ज्ञानकृतप्रथावन्तः । सर्वज्ञाः सकललौकिकप्रज्ञावन्तः । दीर्घदर्शिनः नित्यभाविज्ञानवन्तः आसन्निति शेषः । तदा तेषां पिता हृष्टो बभूव ॥ 1.18.35,36 ॥
ते चापि मनुजव्याघ्रा वैदिकाध्ययने रताः ।
पितृशुश्रूषणरता धनुर्वेदे च निष्ठिताः ॥ 1.18.37 ॥
पितृप्रीतिं दृष्ट्वा पुनरपि विद्यारतास्ते आसन्नित्याह ते चापीति । ते चापि पित्रुपलालिता अपि वैदिकानां वेदसम्बन्धिनां स्मृतीतिहासपुराणन्यायादीनामध्ययने रता निरताः ॥ 1.18.37 ॥
अथ राजा दशरथस्तेषां दारक्रियां प्रति ।
चिन्तयामास धर्मात्मा सोपाध्यायः सबान्धवः ॥ 1.18.38 ॥
अथैषां समावर्तनोचितकालप्राप्तिं दर्शयति अथेति । दारविषयिणी क्रिया दारक्रिया, विवाह इत्यर्थः । चिन्तयामास तुल्यशीलवयोवृत्ताभिजनलक्षणकन्यान्वेषणं कृतवान् । अयमर्थो धर्मात्मेत्यनेनावगम्यते ॥ 1.18.38 ॥
तस्य चिन्तयमानस्य मन्त्रिमध्ये महात्मनः ।
अभ्यागच्छन्महातेजा विश्वामित्रो महामुनिः ॥ 1.18.39 ॥
इयता प्रबन्धेन भगवदवतारो दर्शितः । अथ भगवदवतारप्रयोजनानि साधुपरित्राणदुष्कृद्विनाशनधर्मस्थापनानि दर्शयत्याशास्त्रसमाप्तेः । तत्र साधुपरित्राणं प्रधानम्, कर्षकस्य सस्यवृद्धिरिव । दुष्कृद्विनाशस्त्वानुषङ्गिकः, सस्यप्रतिबन्धकतृणोन्मूलनवत् । अतो दुष्कृद्विनाशनान्तरीयकं साधुपरित्राणं वक्तुमुपक्रमते विश्वामित्रवृत्तान्तेन, अर्थाद्धर्मसंस्थापनमपि सिध्यतीति बोध्यम् । तस्येति चिन्तयमानस्य चिन्तयमाने । स्वयं तत्कार्यसमर्थो ऽपि रामवैभवप्रकटनाय तदागमनमिति सूचयति महातेजा इति ॥ 1.18.39 ॥
स राज्ञो दर्शनाकाङ्क्षी द्वाराध्यक्षानुवाच ह ।
शीघ्रमाख्यात मां प्राप्तं कौशिकं गाधिनन्दनम् ॥ 1.18.40 ॥
स इति । कौशिकं कुशिकगोत्रजम् ॥ 1.18.40 ॥
तच्छ्रुत्वा वचनं तस्य राज्ञो वेश्म प्रदुद्रुवुः ।
सम्भ्रान्तमनसः सर्वे तेन वाक्येन चोदिताः ॥ 1.18.41 ॥
तदिति । तेन वाक्येन चोदितास्तच्छ्रुत्वा वेश्म प्रति प्रदुद्रुवुः ॥ 1.18.41 ॥
ते गत्वा राजभवनं विश्वामित्रमृषिं तदा ।
प्राप्तमावेदयामासुर्नृपायैक्ष्वाकवे तदा ॥ 1.18.42 ॥
त इति । ऐक्ष्वाकवे इक्ष्वाकुवंश्याय । क्रियाग्रहणं कर्त्तव्यम् इति सम्प्रदानत्वम्, अभ्यागतविलम्बासहिष्णव इति भावः ॥ 1.18.42 ॥
तेषां तद्वचनं श्रुत्वा सपुरोधाः समाहितः ।
प्रत्युज्जगाम तं हृष्टो ब्रह्माणमिव वासवः ॥ 1.18.43 ॥
तेषामिति । सपुरोधाः पुरोहितसहितः । ब्रह्माणं चतुर्मुखम् ॥ 1.18.43 ॥
तं दृष्ट्वा ज्वलितं दीप्त्या तापसं संशितव्रतम् ।
प्रहृष्टवदनो राजा ततो ऽर्घ्यमुपहारयत् ॥ 1.18.44 ॥
तमिति । ज्वलितम् । अकर्मकत्वात् “गत्यर्थाकर्मक ” इति कर्तरिक्तः । संशितव्रतं तीक्ष्णनियमम् । अर्घ्यं पूजार्थोदकम् । उपहारयत् वसिष्ठेनेति शेषः । अडभाव आर्षः ॥ 1.18.44 ॥
स राज्ञः प्रतिगृह्यार्घ्यं शास्त्रदृष्टेन कर्मणा ।
कुशलं चाव्ययं चैव पर्यपृच्छन्नराधिपम् ॥ 1.18.45 ॥
स इति । शास्त्रदृष्टेन कर्मणा, समर्पितमिति शेषः । कुशलम् अपूर्वार्थप्राप्तिम्, अव्ययं तस्याक्षयम् ॥ 1.18.45 ॥
पुरे कोशे जनपदे बान्धवेषु सुहृत्सु च ।
कुशलं कौशिको राज्ञः पर्यपृच्छत्सुधार्मिकः ॥ 1.18.46 ॥
पुर इति । कुशलम् अनुपद्रवम् ॥ 1.18.46 ॥
अपि ते सन्नताः सर्वे सामन्ता रिपवो जिताः ।
दैवं च मानुषं चापि कर्म ते साध्वनुष्ठितम् ॥ 1.18.47 ॥
अपीति । दैवं यज्ञादिकम्, मानुषम् अतिथिसत्कारादिकम् ॥ 1.18.47 ॥
वसिष्ठं च समागम्य कुशलं मुनिपुङ्गवः ।
ऋषींश्चान्यान् यथान्यायं महाभागानुवाच ह ॥ 1.18.48 ॥
वसिष्ठं चेति । समागम्य समीपं गत्वा । ऋषीन् वामदेवादीन् । यथान्यायं यथाक्रमम् ॥ 1.18.48 ॥
ते सर्वे हृष्टमनसस्तस्य राज्ञो निवेशनम् ।
विविशुः पूजितास्तत्र निषेदुश्चयथार्हतः ॥ 1.18.49 ॥
त इति । निवेशनं सभाम् । पूजिताः विश्वामित्रेणेति शेषः । यथार्हतः यथान्यायम् । प्रथमार्थे तसिः ॥ 1.18.49 ॥
अथ हृष्टमना राजा विश्वामित्रं महामुनिम् ।
उवाच परमोदारो हृष्टस्तमभिपूजयन् ॥ 1.18.50 ॥
अथेति । हृष्टः पुलकितः । “हृषेर्लोमसु” इतीडभावः । परमोदारः परमदाता । अभिपूजयन् स्तुवन् ॥ 1.18.50 ॥
यथा ऽमृतस्य सम्प्राप्तिर्यथा वर्षमनूदके ।
यथा सदृशदारेषु पुत्रजन्माप्रजस्य च ॥ 1.18.51 ॥
प्रणष्टस्य यथा लाभो यथा हर्षो महोदये ।
तथैवागमनं मन्ये स्वागतं ते महामुने ॥ 1.18.52 ॥
यथेत्यादिश्लोकद्वयमेकान्वयम् । अमृतस्य सुधायाः । अनूदके अनुदके “अन्येषामपि दृश्यते” इति दीर्घः । अप्रजस्य अपुत्रस्य । प्रणष्टस्य निध्यादेः । महः पुत्रविवाहाद्युत्सवः । “मह उद्धव उत्सवः” इत्यमरः । तस्योदये । स्वागतम् अचिन्तितोपनतम्, ते आगमनं तथा मन्ये ॥ 1.18.51,52 ॥
कं च ते परमं कामं करोमि किमु हर्षितः ।
पात्रभूतो ऽसि मे ब्रह्मन् दिष्ट्या प्राप्तो ऽसि धार्मिक ॥ 1.18.53 ॥
कं चेति । कामम् अभीष्टम् । किमु केन प्रकारेण, करोमि करवाणि । पात्रभूतः दानयोग्यः । दिष्ट्या शुभादृष्टवशेन । दिष्ट्येत्यानन्दद्योतकमव्ययमित्यप्याहुः ॥ 1.18.53 ॥
अद्य मे सफलं जन्म जीवितं च सुजीवितम् ॥ 1.18.54 ॥
अद्येत्यर्द्धमेकम् ॥ 1.18.54 ॥
पूर्वं राजर्षिशब्देन तपसा द्योतितप्रभः ।
ब्रह्मर्षित्वमनुप्राप्तः पूज्यो ऽसि बहुधा मया ॥ 1.18.55 ॥
पूर्वमिति । राजर्षिशब्देनोपलक्षितः राजर्षिशब्दवाच्य इत्यर्थः । अनु पश्चात् तपसा द्योतितप्रभः सन् ब्रह्मर्षित्वं प्राप्तो ऽसि । अतः बहुधा राजर्षित्वेन ब्रह्मर्षित्वेन च पूज्यो ऽसि ॥ 1.18.55 ॥
तदद्भुतमिदं ब्रह्मन् पवित्रं परमं मम ।
शुभक्षेत्रगतश्चाहं तव सन्दर्शनात्प्रभो ॥ 1.18.56 ॥
तदिति । हे ब्रह्मन् तदिदमागमनं मम परमं पवित्रं परममद्भतं च । हे प्रभो तव सन्दर्शनादहं शुभक्षेत्रगतः पुण्यक्षेत्रगतः, त्वद्दर्शनादिदं मत्क्षेत्रं तीर्थभूतं जातमित्यर्थः ॥ 1.18.56 ॥
ब्रूहि यत्प्रार्थितं तुभ्यं कार्यमागमनं प्रति ।
इच्छाम्यनुगृहीतो ऽहं त्वदर्थपरिवृद्धये ॥ 1.18.57 ॥
ब्रूहीति । तुभ्यमिति तृतीयार्थे चतुर्थी । आगमनं प्रति त्वया यत्कार्यं यत्फलं प्रार्थितं तद्ब्रूहि । अहं त्वयानुगृहीतः सन् त्वदर्थपरिवृद्धये इच्छामि, त्वदर्थपरिवृद्धिं कर्तुमिच्छामीत्यर्थः । “रुच्यर्थानां प्रीयमाणः” इति चतुर्थी ॥ 1.18.57 ॥
कार्यस्य न विमर्शं च गन्तुमर्हसि कौशिक ।
कर्ता चाहमशेषेण दैवतं हि भवान् मम ॥ 1.18.58 ॥
कार्यस्य विमर्शं कार्यविषयं संशयम् ॥ 1.18.58 ॥
मम चायमनुप्राप्तो महानभ्युदयो द्विज ।
तवागमनजः कृत्स्नो धर्मश्चानुत्तमो मम ॥ 1.18.59 ॥
ममेति । अयं त्वदागमनरूपः ॥ 1.18.59 ॥
इति हृदयसुखं निशम्य वाक्यं श्रुतिसुखमात्मवता विनीतमुक्तम् ।
प्रथितगुणयशा गुणैर्विशिष्टः परमऋषिः परमं जगाम हर्षम् ॥ 1.18.60 ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे अष्टादशः सर्गः ॥ 18 ॥
इतीति । हृदयसुखम् अर्थसौष्ठवाद्धृदयसुखकरम् । श्रुतिसुखं शब्दमार्दवाच्छ्रुतिसुखम् । आत्मवता बुद्धिमता विनीतं विनयवद्यथा भवति तथा उक्तं वाक्यं निशम्य, प्रथितगुणयशाः पृथुतरगुणविषयकीर्तिः, न केवलं कीर्तिमात्रं गुणैर्विशिष्टः । परमऋषिरित्यत्र “ऋत्यकः” इति प्रकृतिभावः । पुष्पिताग्रावृत्तम् ॥ 1.18.60 ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने अष्टादशः सर्गः ॥ 18 ॥