श्रीमद्वाल्मीकीयरामायणम्बालकाण्डःसप्तदशः सर्गः
पुत्रत्वं तु गते विष्णौ राज्ञस्तस्य महात्मनः ।
उवाच देवताः सर्वाः स्वयम्भूर्भगवानिदम् ॥ 1.17.1 ॥
विष्णोरन्तर्द्धानानन्तरं कार्यद्वयं प्रवृत्तम्, पायसहस्तस्याग्निपुरुषस्योत्थानं देवान् प्रति ब्रह्मनियोगश्च । तत्र वाचः क्रमवर्तित्वेन प्रथमोपस्थितमग्नि पुरुषोत्थानं तत्प्रसक्तं च सर्वमुक्त्वा अथ ब्रह्मनियोगतत्फले दर्शयति सप्तदशे पुत्रत्वमित्यादि । गते गन्तुं प्रवृत्ते । भगवान् भाविकार्यज्ञः ॥ 1.17.1 ॥
सत्यसन्धस्य वीरस्य सवेषां नो हितैषिणः ।
विष्णोः सहायान् बलिनः सृजध्वं कामरूपिणः ॥ 1.17.2 ॥
सत्येति । सह अप्राधान्येन अयन्त इति सहायाः किङ्कराः तान् । कामरूपिणः कपटराक्षसयुद्धक्षमशरीरिणः ॥ 1.17.2 ॥
मायाविदश्च शूरांश्च वायुवेगसमान् जवे ।
नयज्ञान् बुद्धिसम्पन्नान् विष्णुतुल्यपराक्रमान् ॥ 1.17.3 ॥
असंहार्यानुपायज्ञान् सिंहसंहननान्वितान् ।
सर्वास्त्रगुणसम्पन्नानमृतप्राशनानिव ॥ 1.17.4 ॥
अप्सरस्सु च मुख्यासु गन्धर्वीणां तनूषु च ।
सृजध्वं हरिरूपेण पुत्रांस्तुल्यपराक्रमान् ॥ 1.17.5 ॥
उक्तसहायान् विशेषयति त्रिभिः मायेत्यादि । माया आश्चर्यशक्तिः, तद्विदः । जवे वेगे विषये । नयज्ञान्नीतिज्ञान् । असंहार्यान्, परैरिति शेषः । उपायज्ञान् अनागतविधानज्ञान् । यद्वा नयज्ञान् युक्तिशालिनः । उपायज्ञान् सामाद्युपायज्ञान् । सिंहसंहननान्वितान् सिंहतुल्यसंस्थानैर्युक्तान् । सर्वात्राणां यो गुणः शक्तिस्तेन सम्पन्नान् । अमृतं प्राश्नन्तीत्यमृतप्राशनाः । कर्त्तरि ल्युट् । पीतामृतानिव, मृत्युरहितानित्यर्थः । हरिरूपेण वानररूपेणोपलक्षितान् । प्रायिकाभिप्रायमिदम् । तुल्यपराक्रमान् आत्मसदृशपराक्रमान् ॥ 1.17.3 5 ॥
पूर्वमेव मया सृष्टो जाम्बवानृक्षपुङ्गवः ।
जृम्भमाणस्य सहसा मम वक्त्रादजायत ॥ 1.17.6 ॥
देवत्वाविशेषात् भवतापि पुत्रोत्पादनं कार्यमिति मावोचध्वमित्याह पूर्वमिति । सृष्टः, भाविरामसहायबुद्ध्येतिशेषः सृष्टिप्रकारमाह जृम्भमाणस्येति । स इति शेषः । अत्र पार्वतीशापेन स्वक्षेत्रे पुत्रोत्पादनासम्भवादप्सरःप्रभृतयः क्षेत्रतयोक्ताः । गुणवत्पुत्रलाभाय मुख्यास्वित्युक्तम् । अयोनिजत्वेन सद्यःप्रवृद्धत्वसिद्धये तनूष्वित्युक्तम् । नन्दिकेश्वरशापानुसारेण हरिरूपेणेत्युक्तम् । वक्ष्यति हि दिग्वजते रावणंप्रतिनन्दी “तस्मान्मद्रूपसंयुक्ता मद्वीर्यसमतेजसः । उत्पत्स्यन्ति वधार्थं हि कुलस्य तव वानराः ॥” इति ॥ 1.17.6 ॥
ते तथोक्ता भगवता तत् प्रतिश्रुत्य शासनम् ।
जनयामासुरेवं ते पुत्रान् वानररूपिणः ॥ 1.17.7 ॥
ते तथेति । प्रतिश्रुत्य अङ्गीकृत्य । एवं वक्ष्यमाणरीत्या ॥ 1.17.7 ॥
ऋषयश्च महात्मानः सिद्धविद्याधरोरगाः ।
चारणाश्च सुतान्वीरान् ससृजुर्वनचारिणः ॥ 1.17.8 ॥
ऋषय इति । वनचारिणः वानरान् ॥ 1.17.8 ॥
वानरन्द्र महेन्द्राभमिन्द्रो वालिनमूर्जितम् ।
सुग्रीवं जनयामास तपनस्तपतां वरः ॥ 1.17.9 ॥
वानरेन्द्रमिति । महेन्द्राभं महेन्द्रपर्वताभम् । ननु वालिनः कथं रामसहायार्थत्वम् ? रामवध्यत्वात् । उच्यते अङ्गदोत्पादनद्वारा तस्य साहाय्यकरणात् । किं च यदि वाली नोत्पद्येत तदा सर्वेषां वानराणां सहायत्वं न स्यात्, सति च वालिनि सुग्रीवविरोधिनि सुग्रीवमैत्र्या वानरसहायसिद्धिः । वालिमैत्र्यां तु रावणः क्षणादेव सीतां दद्यात् । अतः सुग्रीवसख्यनिमित्तत्त्वाद्वालिनो रामसहायत्वमिति । तपनः सूर्यः ॥ 1.17.9 ॥
बृहस्पतिस्त्वजनयत्तारं नाम महाहरिम् ।
सर्ववानरमुख्यानां बुद्धिमन्तमनुत्तमम् ॥ 1.17.10 ॥
बृहस्पतिरिति । सर्ववानरमुख्यानामिति निर्द्धारणे षष्ठी । बृहस्पतिपुत्रत्वादनुत्तमं बुद्धिमन्तम् ॥ 1.17.10 ॥
धनदस्य सुतः श्रीमान् वानरो गन्धमादनः ।
विश्वकर्मा त्वजनयन्नल नाम महाहरिम् ॥ 1.17.11 ॥
धनदस्येति । कुबेरपुत्रत्वात् श्रीमानित्युक्तम् । महाहरिं सर्वकार्यनिर्माणदक्षम् ॥ 1.17.11 ॥
पावकस्य सुतः श्रीमान्नीलो ऽग्निसदृशप्रभः ।
तेजसा यशसा वीर्यादत्यरिच्यत वानरान् ॥ 1.17.12 ॥
पावकस्येति । अत्यरिच्यत अतिशयितो ऽभूत् ॥ 1.17.12 ॥
रूपद्रविणसम्पन्ना वश्विनौ रूपसम्मतौ ।
मैन्दं च द्विविदं चैव जनयामासतुः स्वयम् ॥ 1.17.13 ॥
रूपेति । रूपमेव द्रविणं धनं ते सम्पन्नौ अत एव रूपसम्मता रूपेण प्रख्यातौ । स्वयमित्यनेन मानससृष्टिर्द्योत्यते ॥ 1.17.13 ॥
वरुणोप जनयामास सुषेणं नाम वानरम् ।
शरमं जनयामास पर्जन्यस्तु महाबलम् ॥ 1.17.14 ॥
वरुण इति । पर्जन्यो वर्षाभिमानिदेवता ॥ 1.17.14 ॥
मारुतस्यात्मजः श्रीमान् हनुमान्नाम वानरः ।
वज्रसंहननोपेतो वैनतेयसमो जवे ॥ 1.17.15 ॥
मारुतस्येति । वज्रसंहननोपेतः वज्रवदभेद्यशरीरयुक्तः ॥ 1.17.15 ॥
ते सृष्टा बहुसाहस्रा दशग्रीववधे गताः ।
अप्रमेयबला वीरा विक्रान्ताः कामरूपिणः ॥ 1.17.16 ॥
रुद्रो ब्रह्मणा नियुक्तो ऽपि रक्षःपक्षपातित्वान्न कञ्चन सृष्टवान् । एवं प्रधानवानरसृष्टिमुक्त्वा क्षुद्रवानरसृष्टिं संङ्ग्रहेणाह त इति । रता आसक्ताः ॥ 1.17.16 ॥
मेरुमन्दरसङ्काशा वपुष्मन्तो महाबलाः ।
ऋक्षवानरगोपुच्छाः क्षिप्रमेवाभिजज्ञिरे ॥ 1.17.17 ॥
एवं वानरसृष्टिमुक्त्वा ऋक्षादिसृष्टिं प्राधान्येनाह मेर्विति । वपुष्मन्तः दृढवपुष्काः अत एव मेरुमन्दरसङ्काशाः । ऋक्षा भल्लूकाः, गोपुच्छा गोलांगूलाः । अभिजज्ञिरे जाताः । क्षिप्रमित्यनेन मानससृष्टिरुच्यते ॥ 1.17.17 ॥
यस्य देवस्य यद्रूपं वेषो यश्च पराक्रमः ।
अजायत समस्तेन तस्य तस्य सुतः पृथक् ॥ 1.17.18 ॥
यस्येति । रूपं सौन्दर्यम्, वेषः संस्थानविशेषः । तस्य तस्य देवस्य तेन रूपादिना समः सुतः, पृथक् अन्योन्यविलक्षणः, अजायत, मुखमात्रे वानराकारत्वे ऽपि संस्थानादौ सर्वे पितृतुल्या एवासन्नित्यर्थः ॥ 1.17.18 ॥
गोलांगुलीषु चोत्पन्नाः केचित्सम्मतविक्रमाः ।
ऋक्षीषु च तथा जाता वानराः किन्नरीषु च ॥ 1.17.19 ॥
विजातीयास्वपि वानरोत्पत्तिमाह गोलांगूलीष्विति । सम्मतविक्रमाः प्रसिद्धविक्रमाः । केचिद्वानरा गोलां गूलीषूत्पन्नाः, केचिद्वानराः ऋक्षीषूत्पन्नाः, केचिद्वानराः किन्नरीषु चोत्पन्ना इति योजना ॥ 1.17.19 ॥
देवा महर्षिगन्धर्वाः तार्क्ष्या यक्षा यशस्विनः ।
नागाः किम्पुरुषाश्चैव सिद्धविद्याधरोरगाः ॥ 1.17.20 ॥
बहवो जनयामासुर्हृष्टास्तत्र सहस्रशः ।
वानरान् सुमहाकायान् सर्वान् वै वनचारिणः ॥ 1.17.21 ॥
अप्सरस्सु च मुख्यासु तथा विद्याधरीषु च ।
नागकन्यासु च तथा गन्धर्वीणां तनूषु च ॥ 1.17.22 ॥
उत्पादकक्षेत्रवैविध्यमाह देवा इत्यादिश्लोकत्रयमेकान्वयम् । तार्क्ष्याः गरुडादयः । नागा दिग्गजाः, उरगाः वासुक्त्यादयः । तत्र विष्ण्ववतारकाले ॥ 1.17.20 22 ॥
कामरूपबलोपेता यथाकामं विचारिणः ।
सिंहशार्दूलसदृशा दर्षेण च बलेन च ॥ 1.17.23 ॥
शिलाप्रहरणाः सर्वे सर्वे पादपयोधिनः ।
नखदंष्ट्रायुधाः सर्वे सर्वे सर्वास्त्रकोविदाः ॥ 1.17.24 ॥
विचालयेयुः शैलेन्द्रान् भेदयेयुः स्थिरान् द्रुमान् ।
क्षोभयेयुश्च वेगेन समुद्रं सरितांपतिम् ॥ 1.17.25 ॥
दारयेयुः क्षितिं पद्भ्यामाप्लवेयुर्महार्णवम् ।
नभःस्थलं विशेयुश्च गृह्णीयुरपि तोयदान् ॥ 1.17.26 ॥
गृह्णीयुपरि मातङ्गान् मत्तान् प्रव्रजतो वने ।
नर्दमानाश्च नादेन पातयेयुर्विहङ्गमान् ॥ 1.17.27 ॥
तेषां प्रभावमाह पञ्चभिः कामेति । सर्वत्र सर्वे इत्यनुषञ्जनीयम् । सर्वे कामरूपबलोपेता अभवन्नित्येवं योजनीयम् । सर्वास्रकोविदाः देवांशत्वेन स्वयंप्रतिभातास्त्रप्रहारपरिहारोपायाः, न त्वस्त्रप्रयोक्तारः । ‘शिलाप्रहरणाः’ इत्युक्तेः । विचालयेयुरित्यादिषु “शकि लिङ् च” इति लिङ् । “कम्पने चलिः” इति मित्त्वे ऽपि ह्रस्वाभावश्छान्दसः । आल्पवेयुः सन्तरेयुः । प्रव्रजतः वेगेन गच्छतः ॥ 1.17.23 27 ॥
ईदृशानां प्रसूतानि हरीणां कामरूपिणाम् ।
शतं शतसहस्राणि यूथपानां महात्मनाम् ॥ 1.17.28 ॥
अन्येषामपरिच्छेद्यत्वाद्यूथपसङ्ख्यानमाह ईदृशानामिति । शतं शतसहस्राणि, शतलक्षाणीत्यर्थः ॥ 1.17.28 ॥
ते प्रधानेषु यूथेषु हरीणां हरियूथपाः ।
बभूवुर्यूथप श्रेष्ठा वीरांश्चाजनयन् हरीन् ॥ 1.17.29 ॥
प्रधानप्रधानानाह त इति । ते प्रागुक्ताः सुग्रीवादिसुषेणान्ता यूथपाः । प्रधानेषु हरीणां यूथेषु समूहेषु । यूथपश्रेष्ठाः बभूवुः, वीरान् हरीनजनयंश्च ॥ 1.17.29 ॥
अन्ये ऋक्षवतः प्रस्थानुपतस्थुः सहस्रशः ।
अन्ये नानाविधान् शैलान् काननानि च भेजिरे ॥ 1.17.30 ॥
तेषां स्थानमाह अन्य इति । ऋक्षवतः पर्वतविशेषस्य, प्रस्थान् सानूनि ॥ 1.17.30 ॥
सूर्यपुत्र च सुग्रीवं शक्रपुत्रं च वालिनम् ।
भ्रातरावुपतस्थुस्ते सर्व एव हरीश्वराः ।
नलं नीलं हनूमन्तमन्यांश्च हरियूथपान् ॥ 1.17.31 ॥
राजयुवराजमन्त्रिणो दर्शयति सूर्येत्यादिसार्द्धश्लोकेन । सुग्रीवं युवराजं, वालिनं राजानं, नलादीन् मन्त्रिणः ॥ 1.17.31 ॥
ते तार्क्ष्यबलसम्पन्नाः सर्वे युद्धविशारदाः ।
विचरन्तो ऽर्दयन् दर्पात्सिंहव्याघ्रमहोरगान् ॥ 1.17.32 ॥
तेषां दुःशासनत्वमाह त इति । तार्क्ष्यो गरुडः ॥ 1.17.32 ॥
तांश्च सर्वान् महाबाहुर्वाली विपुलविक्रमः ।
जुगोप भुजवीर्येण ऋक्षगोपुच्छवानरान् ॥ 1.17.33 ॥
सर्वेषां शासितारमाह तांश्चेति ॥ 1.17.33 ॥
तैरियं पृथिवी शूरैः सपर्वतवनार्णवा ।
कीर्णा विविधसंस्थानैर्नानाव्यञ्जनलक्षणैः ॥ 1.17.34 ॥
साहाय्यसम्पत्तिपौष्कल्यं दर्शयति तैरिति । अर्णवः अर्णववद्द्वीपम् । विविधसंस्थानैः
स्थूलसूक्ष्मह्रस्वदीर्घादिविविधदेहसंस्थानवद्भिः । नानाव्यञ्जनलक्षणैः नानात्वाभिव्यञ्जकासाधारणधर्मवद्भिः ॥ 1.17.34 ॥
तैर्मेघवृन्दाचलकूटकल्पैर्महाबलैर्वानरयूथपालैः ।
बभूव भूर्भीमशरीररूपैः समावृता रामसहायहेतोः ॥ 1.17.35 ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्तदशः सर्गः ॥ 17 ॥
उक्तमेवार्थं पुनः सर्गान्ते संगृह्यदर्शयति तैरिति । भीमशरीररूपैः भयङ्करशरीरवेषैः । रामसहायहेतोः रामसाहाय्यार्थम् । भावप्रधानो निर्देशः ॥ 1.17.35 ॥
नन्वस्मिन्सर्गे “धनदस्य सुतः श्रीमान् वानरो गन्धमादनः । वरुणो जनयामास सुषेणं नाम वानरम् । शरभं जनयामास पर्जन्यस्तु महाबलम् ॥” इत्युच्यते। युद्धकाण्डे तु रावणं प्रति शार्दूलवाक्ये “सुषेणश्चात्र धर्मात्मा पुत्रो धर्मस्य वीर्यवान्। पुत्रा वैवस्वतस्याथ पञ्च कालान्तकोपमाः। गजो गवाक्षो गवयः शरभो गन्धमादनः ॥” इति ।
कथमिदं सङ्गच्छते ? उच्यते अत्र वाल्मीकिनोक्तमेव तथ्यम् । “न ते वागनृता काव्ये काचिदत्र भविष्यति” इति ब्रह्मवरप्रसादात् । शार्दूलस्तु भ्रान्त्योक्तवान् “रुधिरासिक्तसर्वाङ्गो विह्वलश्चलितेन्द्रियः ।” इति तत्रैवोक्तेः । अत्रेदं शङ्क्यते ऋश्यशृङ्गेण पुत्रेष्ट्युपक्रमानन्तरं देवादिसंमेलनम्, ततो विष्णोरवतितीर्षा, पुत्रत्वं तु गते विष्णौ वानरोत्पत्तिरित्युक्तम् । तद्विरुद्ध्यते, वालिसुग्रीवयो रावणदिग्विजयकालिकत्वात् । वक्ष्यत्युत्तरकाण्डे “अर्जुनेन विमुक्तस्तु रावणो राक्षसाधिपः” इत्यारभ्य “ततः कदाचित्किष्किन्धां नगरीं वालिपालिताम् । गत्वाह्वयति युद्धाय वालिनं हेममालिनम् ॥” इत्यादिना। तथा च कार्तवीर्यार्जुनकालिको वाली कथं रामसमवयस्कः स्यात् ? किञ्च “भगवन् राक्षसः क्रूरो यदाप्रभृति मेदिनीम्। पर्यटत् किं तदा लोकाः शून्या आसन् द्विजोत्तम ॥ राजा वा राजमात्रो वा किं तदा नात्र कश्चन । धर्षणां येन न प्राप्तोरावणो राक्षसेश्वरः ॥” इति दिग्विजयवृत्तान्ते रामेण पृष्टे अगस्त्येनार्जुनवालिभ्यां परिभव उच्यमानोऽर्जुनवालिनोरेककालत्वमवगमयति। अपि च मयो रावणाय मन्दोदरीप्रदानकाले “द्वौ सुतौ तु मम त्वस्यां भार्यायां संबभूवतुः। मायावी प्रथमस्तावद् दुन्दुभिस्तदनन्तरः ॥” इत्युक्तवान् । तत्र दुन्दुभिर्यौवनमदाद्वरदानाच्च मत्तो वालिना हत इत्युच्यते, अतो वालिनो रावणदिग्विजयकालिकत्वं व्यज्यते । सुग्रीवश्च वालिभयात् परिभ्रमन् दुन्दुभि कलेवरप्रक्षेपकृतमतङ्गशापानन्तरम् ऋश्यमूके प्रत्यतिष्ठत् । अतः सुग्रीवस्यापि वालितुल्यकालत्वं गम्यते । एवं मैन्दद्विविदादयो ऽपि चिरकाल स्थायिनो ऽवगम्यन्ते । वक्ष्यति रावणं प्रति शार्दूलः “मैन्दश्च द्विविदश्चोभौ ताभ्यां नास्ति समो युधि । ब्रह्मणा समनुज्ञातावमृतप्राशिनावुभौ ॥” इति। तेन तयोरमृतमथनकालवर्तित्वं प्रतीयते। सारणवाक्ये च “एष गन्धर्वकन्यायामुत्पन्नः कृष्णवर्त्मनः। तदा दैवासुरे युद्धे साह्यार्थं त्रिदिवौकसाम्” इति क्रोधनस्य देवासुरयुद्धे व्यापारकथनात् चिरन्तनत्वम्। तत्प्रायपठितानामन्येषामपि वालिसुग्रीवमन्त्रिप्रभृतीनां सिद्धं चिरकालत्वम्। एवमन्यत्रापि वानरयूथपानामतिचिरस्थायित्वं व्यञ्जनावृत्त्यावगम्यते। अतः कथमेषां रामावतारकालिकत्वमत्रोच्यते ? इति। अत्रास्मद्गुरुचरणाः यद्यपि पूर्वसर्गान्ते विष्णोर्गर्भप्रवेशमुक्त्वा “पुत्रत्वं तु गते विष्णौ” इत्यारभ्य ब्रह्मानुशासनं कथितम्, तथापि “उवाच देवताः सर्वाः स्वयंभूर्भगवानिदम्” इत्यादिना सामान्येन देवता उद्दिश्य ब्रह्मा सन्दिष्टवान्। “ते तथोक्ता भगवता तत्प्रतिश्रुत्य शासनम्। जनयामासुरेवं ते पुत्रान् वानररूपिणः ॥” इति सामान्येन देवैर्वानरसृष्टिश्चोक्ता । अथ ब्रह्मणो जाम्बवत्सृष्टिवत् पूर्वसिद्धामिन्द्रादिभ्यो
वाल्यादिसृष्टिमनुवदति “वानरेन्द्रं महेन्द्राभमिन्द्रो वालिनमूजितम्” इत्यादिना । अत एव हि वालिनं जनयामासेत्युक्तम्, न तु तदा जनयामासेति । अन्यत्र तु “बहवो जनयामासुर्हृष्टास्तत्र सहस्रशः” इति तत्कालवाची तत्रशब्दः प्रयुक्तः । इन्द्रादयः खल्वेवममन्यन्त ब्रह्मनियोगानन्तरं किमपूर्वसर्गेण पूर्वमन्यार्थमुत्पन्ना एव साहाय्यं करिष्यन्तीति । यैस्तु पूर्वं पुत्रा नोत्पादितास्ते पुनस्तदा जनयामासुः । अत एव “एष गन्धर्वकन्यायामुत्पन्नः कृष्णवर्त्मनः । तदा दैवासुरे युद्धे साह्यार्थं त्रिदिवौकसाम् ॥” इत्यादिना क्रोधनादीनामन्यार्थं सृष्टिरुच्यते। तस्मान्न कोऽपि विरोध इत्याहुः। यद्वा रामावतारकाल एव वाल्यादिजन्म। वालिजयश्च नार्जुनजयाव्यवहितोत्तरकालिकः, ततःशब्दस्यानन्तर्यमात्रपरत्वात्। अत एव “ततः कदाचित्” इत्युक्तम्। अगस्त्येनार्जुनवालिविजययोर्युगपत्कथनं रावणजयत्वेन, कृष्णः कंसशिशुपालौ जघानेतिवत्। दुन्दुभिश्च वरदानेन सदा युवा मत्तश्च। ततश्च तस्य बहुकालानन्तरमपि वालिना युद्धं सम्भवन्येव। एवमन्यदप्यूह्यम्। सर्वथोपक्रमावगतः क्रमो न बाधितव्यः। दैवासुरे युद्धे साह्यार्थमित्यत्रापि साहाय्यसमर्थं इत्यर्थो बोध्यः। अमृतप्राशिनौ अमृतप्राशितुल्यावित्यर्थः। यद्वा अयं ब्रह्मानुशासनप्रकारः। प्राचीन एव प्रसङ्गादद्य कविनोपवर्ण्यते। पुत्रत्वं तु गते विष्णौ, गन्तुं व्यवसित इत्यर्थः। व्यवसायश्च विष्णोर्ब्रह्मणा विविक्तो प्रार्थनात्। अत एव पूर्वसर्गे “हन्तायं विदितस्तस्य वधोपायो दुरात्मनः” इत्युक्तम्। अत एवमुंवृत्तान्तं सनत्कुमारो विदित्वा सुमन्त्रायोवाचेति बोध्यम्। ब्रह्मप्रार्थनं च रावणस्य मानुषादन्यत्र भयं नास्ति, त्वम् ऋश्यशृङ्गेण यक्ष्यमाणस्य दशरथस्य पुत्रो भवेति। अत एव कृतसङ्केततया विष्णुरुपयात इत्युक्तम्। यद्वा “ततो देवाः सगन्धवाः” इत्यादिकात् पूर्वसर्गात्प्रभृति ब्रह्मलोक वृत्तान्तः। तस्मिन्सदसि ब्रह्मसदसीत्यर्थः। अत एव स्वलोकमागच्छेत्युक्तम्। न तु गच्छेति। तथा चैवं सङ्गतिः पुत्राकमेटिपर्यन्तमुक्त्वा तत्राग्नि पुरुषाविर्भावोपोद्घातत्वेन चिरन्तनवृत्तान्तमुपक्षिपति ततो देवा इत्यादि। तत इति प्रस्तावान्तरारम्भार्थः। अथ “पितरं रोचयामास तदा दशरथं नृपम्” इत्यन्ते विष्णुवृत्तान्तेऽभिहिते पुत्रत्वं तु गते अभ्युपगते इति पुत्रत्वाङ्गीकारानन्तरं देवांशवानरोत्पत्तेर्वक्तव्यत्वेऽपि तं वृत्तान्तं तत्रावस्थाप्य “स कृत्वा निश्चयं विष्णुरामन्त्र्य च पितामहम्। अन्तर्द्धानं गतो देवैः पूज्यमानो महर्षिभिः ॥” इत्यादिना विष्णुवृत्तान्तमेवानुक्रम्य गर्भप्रवेशपर्यन्तमुक्त्वा प्रागवस्थापितं देववृत्तान्तमेव “पुत्रत्वं तु गते” इत्यादिना पुनः प्रतिपादयति । एतावद्वृत्तान्तकालस्य देवमानेनाल्पत्वे ऽपि मनुष्यमानेन बहुवर्षा गताः, रेवतीवरप्रार्थनावत् । अतो भागग्रहार्थं समेवत्य ब्रह्मसदसि गत्वा कार्यं विज्ञाप्य ततो ऽश्वमेधभागान् गृहीत्वागता देवा इति सर्वं समञ्जसम् ॥
इति श्रीगोविन्द्रराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने सप्तदशः सर्गः ॥ 17 ॥