श्रीमद्वाल्मीकीयरामायणम्बालकाण्डःपञ्चदशः सर्गः
मेधावी तु ततो ध्यात्वा स किञ्चिदिदमुत्तरम् ।
लब्धसञ्ज्ञस्ततस्तं तु वेदज्ञो नृपमबव्रीत् ॥ 1.15.1 ॥
अथ दशरथाराधनव्याजेन साधुलोकरक्षणाय भूमाववतितीर्षुर्भगवानानुषङ्गिकदुष्कृद्विनाशाय देवैरभ्यर्थ्यते पञ्चदशे मेधावीत्यादि । ततः प्रतिज्ञानन्तरम् । मेधावी मेधा धारणक्षमा धीः, तद्वान् । “अस्मायामेधास्रजो विनिः” इति विनिप्रत्ययः । वेदज्ञः अथर्वणवेदज्ञः स ऋश्यशृङ्गः किञ्चिद् ध्यात्वा किं कर्म कर्तुमत्रोचितमिति क्षणं विचिन्त्य, मेधावितया ततः तदुत्तरक्षण एव लब्धसञ्ज्ञः प्राप्तस्मृतिः सन् तं नृपमिदमुत्तरमब्रवीत्, द्विकर्मको ब्रुविः ॥ 1.15.1 ॥
इष्टिं ते ऽहं करिष्यामि पुत्रीयां पुत्रकारणात् ।
अथर्वशिरसि प्रोक्तैर्मन्त्रैः सिद्धां विधानतः ॥ 1.15.2 ॥
ततः प्रारब्धवानिष्टिं पुत्रीयां पुत्रकारणात् ।
जुहाव चाग्नौ तेजस्वी मन्त्रदृष्टेन कर्मणा ॥ 1.15.3 ॥
इष्टिमिति । पुत्रीयां पुत्रोत्पत्तिनिमित्तभूताम्, “पुत्राच्छ च” इति छप्रत्ययः । इष्टिं यागविशेषम् । ते पुत्रकारणात् पुत्रनिमित्तम् । “निमित्तकारणहेतुषु सर्वासां प्रायदर्शनम्” इति पञ्चमी । करिष्यामीत्युक्तवान् । मन्त्रदृष्टेन वेदावगतेन कर्मणा अग्नौ जुहाव च । शास्त्रदृष्टक्रमेण एकामाहुतिमकरोदित्यर्थः ॥ 1.15.2,3 ॥
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।
भागप्रतिग्रहार्थं वै समवेता यथाविधि ॥ 1.15.4 ॥
एतच्छेषं ‘ततो वै यजमानस्य’ इत्यादिना वक्ष्यति । मध्ये भगवदवतरणस्य निमित्तान्तरं
देवताभ्यर्थनं दर्शयति तत इत्यादिना । ततः तत्राश्वमेधे, देवादयः यथाविधि यथाक्रमं भागप्रतिग्रहार्थं स्वस्वहविर्भागस्वीकारार्थम्, समवेताः सम्मिलिताः, यज्ञसदसीति शेषः । अनुक्तसमुच्चयार्थेन चकारेण ब्रह्मापि समुच्चीयते ॥ 1.15.4 ॥
ताः समेत्य यथान्यायं तस्मिन् सदसि देवताः ।
अब्रुवन् लोककर्त्तारं ब्रह्माणं वचनं महत् ॥ 1.15.5 ॥
ता इति । ताः देवताः तस्मिन् । प्रकृते सदसि अश्वमेधसदसि । यथान्यायं यथाक्रमम् । समेत्यलोककर्तारं स्वस्वामिनं ब्रह्माणं महत् फलद्वारा गुरुतरं वचनमब्रुवन् ॥ 1.15.5 ॥
भगवन् त्वत्प्रसादेन रावणो नाम राक्षसः ।
सर्वान्नो बाधते वीर्याच्छासितुं तं न शक्नुमः ॥ 1.15.6 ॥
भगवन्निति । त्वत्प्रसादेन जनिताद्वीर्यादित्यन्वयः ॥ 1.15.6 ॥
त्वया तस्मै वरो दत्तः प्रीतेन भगवन् पुरा ।
मानयन्तश्च तं नित्यं सर्वं तस्य क्षमामहे ॥ 1.15.7 ॥
को मत्प्रसादः कथं भवतां तत्प्रतीकाराशक्तिस्तत्राहुः त्वयेति । वरः अस्माभिरवध्यत्त्वरूपः । तं वरम् । मानयन्तः पूजयन्तः । सर्वं पीडनम् ॥ 1.15.7 ॥
उद्वेजयति लोकांस्त्रीनुच्छ्रितान् द्वेष्टि दुर्मतिः ।
शक्रं त्रिदशराजानं प्रधर्षयितुमिच्छति ॥ 1.15.8 ॥
बाधनमेवोपपादयन्ति उद्वेजयतीत्यादिना । उद्वेजयति भीषयति उच्छ्रितान् उन्नतान् लोकपालान्, त्रिदशराजानम् । समासान्तस्य अनित्यत्वाट्टजभावः । प्रघर्षयितुं तिरस्कर्तुम् । स्थानात्प्रच्यावयितुमित्यर्थः ॥ 1.15.8 ॥
ऋषीन् यक्षान् सगन्धर्वानसुरान् ब्राह्मणांस्तथा ।
अतिक्रामति दुर्धषो वरदानेन मोहितः ॥ 1.15.9 ॥
ऋषीनिति । असुरान् राहुप्रभृतीन् । अतिक्रामति, पीडयतीति यावत् ॥ 1.15.9 ॥
नैनं सूर्यः प्रतपति पार्श्वे वाति न मारुतः ।
चलोर्मिमाली तं दृष्ट्वा समुद्रो ऽपि न कम्पते ॥ 1.15.10 ॥
नैनमिति । एनं रावणं प्रति न प्रतपति मन्दकिरणो भवति, क्रीडापर्वतसञ्चारादिदशायामिति भावः । पार्श्वे, अस्येति शेषः । न वाति पुष्पवाटिकादिषु, पुष्पपतनादिभयादिति भावः । चलोर्मिमाली सदा चञ्चलस्वभावतरङ्गपङ्क्तिमान् न कम्पते, गर्वितो ऽयमुल्ललतीति शोषणभयादिति भावः ॥ 1.15.10 ॥
तन्महन्नो भयं तस्माद्राक्षसाद्घोरदर्शनात् ।
वधार्थं तस्य भगवन्नुपायं कर्त्तुमर्हसि ॥ 1.15.11 ॥
तदिति । भयादिति भावः । भयम् उत्पन्नमिति शेषः । कर्तुं चिन्तयितुम् ॥ 1.15.11 ॥
एवमुक्तः सुरैः सर्वैश्चिन्तयित्वा ततो ऽब्रवीत् ।
हन्ता ऽयं विदितस्तस्य वधोपायो दुरात्मनः ॥ 1.15.12 ॥
एवमिति । उक्तः, ब्रह्मेति शेषः । चिन्तयित्वा, उपायमिति शेषः । हन्तेत्युपायस्मरणजहर्षे ॥ 1.15.12 ॥
तेन गन्धर्वयक्षाणां देवदानवरक्षसाम् ।
अवध्यो ऽस्मीति वागुक्ता तथेत्युक्तं च तन्मया ॥ 1.15.13 ॥
अयंशब्दार्थमाह तेनेति । तत्तथोक्तमित्यन्वयः ॥ 1.15.13 ॥
नाकीर्तयदवज्ञानात्तद्रक्षो मानुषांस्तदा ।
तस्मात्स मानुषाद्वध्यो मृत्युर्नान्यो ऽस्य विद्यते ॥ 1.15.14 ॥
नाकीर्तयदिति । तदा अवध्यत्ववरणावसरे । अवज्ञानात् अवमानात् । मानुषात् मानुषेण । मृत्युः मारकः ॥ 1.15.14 ॥
एतच्छ्रुत्वा प्रियं वाक्यं ब्रह्मणा समुदाहृतम् ।
सर्वे महर्षयो देवाः प्रहृष्टास्ते ऽभवंस्तदा ॥ 1.15.15 ॥
एतदिति । प्रहृष्टाः, यथाकथञ्चिद्वधोपायसम्भावनयेति भावः ॥ 1.15.15 ॥
एतस्मिन्नन्तरे विष्णुरुपयातो महाद्युतिः ।
शङ्खचक्रगदापाणिः पीतवासा जगत्पतिः ॥ 1.15.16 ॥
अथ परमकारुणिको भगवान् “परित्राणाय साधूनां विनाशाय च दुष्कृताम् । धर्मसंस्थापनार्थाय सम्भवामि युगेयुगे ॥” इत्युक्तरीत्या धर्मसंस्थापनादित्रयकृते स्वाराधकदशरथमनोरथपरिपूरणाय चावतितीर्षुराजगामेत्याह एतस्मिन्निति। एतस्मिन्नन्तरे रक्षापेक्षासमये। अनेन चिरमस्यावसरप्रतीक्षत्वं गम्यते। “सर्वज्ञोऽपि हि देवेशस्सदा कारुणिकोऽपि सन्। संसारतन्त्रवाहित्वाद्रक्षापेक्षां प्रतीक्षते ॥” इति ह्युक्तम् । विष्णुः सर्वान्तर्यामितया व्याप्य वर्तमानः, भोगादप्यासेधनमेव वरमिति स्थित इत्यर्थः । “त्वं मे ऽहं मे” इत्यादि । महाद्युतिः रक्षणावकाशलाभसमुदितहर्षप्रकर्षकृतकान्तिविशेषयुक्तः । अनेनेतः पूर्वं संसारिजनदुर्दशावलोकनेन दूयमानमानसत्वमुक्तम् । “स एकाकी न रमेत” इति श्रुतेः । शङ्खचक्रगदापाणिः आश्रितानां रक्षणापेक्षायां रक्षणोपकरणग्रहणाय विलम्बो माभूदिति सर्वदा तैरुपेतः । “पातु प्रणतरक्षायां विलम्बमसहन्निव । सदा पञ्चायुधीं बिभ्रत्स नः श्रीरङ्गनायकः ॥” इत्यभियुक्तोक्तम्। पीतवासाः आश्रितरक्षणत्वरयाबद्धकक्षः। जगत्पतिः उक्तसकलविशेषहेतुभूतस्वस्वामिभावसम्बन्धवान्। उपयातः वैकुण्ठात् दशरथयज्ञवाटमाजगाम ॥ 1.15.16 ॥
ब्रह्मणा च समागम्य तत्र तस्थौ समाहितः ।
तमब्रुवन् सुराः सर्वे समभिष्टूय सन्नताः ॥ 1.15.17 ॥
ब्रह्मणेति । तत्र सदसि ब्रह्मणा समागम्य समाहितः करिष्यमाणरक्षणकृत्ये एकाग्रः तस्थौ । तम् आश्रितरक्षणसन्नद्धम् । सर्वे सुराः ब्रह्मादयः पितामहपुरोगमानित्युपसंहारात् । समभिष्टूय सम्यक् स्तुत्वा । सन्नताः सम्यक् नताः प्रणताः सन्तः अब्रुवन् ॥ 1.15.17 ॥
त्वां नियोक्ष्यामहे विष्णो लोकानां हितकाम्यया ॥ 1.15.18 ॥
त्वामिति, अर्द्धमेकं वाक्यम् । हे विष्णो लोकानां हितकाम्यया हितेच्छया त्वां नियोक्ष्यामहे उत्साहयिष्यामहे । “योगः सन्नहनोपायध्यानसङ्गतियुक्तिषु” इत्यमरः । “स्मारये त्वां न शिक्षये” इतिवत् । केवलं त्वां प्रोत्साहयिष्यामः । स्वयमेव स्वकीयरक्षणे प्रवृत्तत्वादिति भावः । यदि नियोजनमेवार्थः स्यात् तदा पूर्वश्लोकोक्तम् अभिष्टूय सन्नता इत्येतद्विरुद्ध्यते, किञ्च नियोजनमत्र प्रार्थनमेव । एवमुत्तरत्र भगीरथवचने ‘हरस्तत्र नियुज्यताम्’ इति वक्ष्यति ॥ 1.15.18 ॥
राज्ञो दशरथस्य त्वमयोध्याधिपतेर्विभोः ।
धर्मज्ञस्य वदान्यस्य महर्षिसमतेजसः ॥ 1.15.19 ॥
तस्य भार्यासु तिसृषु ह्रीश्रीकीर्त्युपमासु च ।
विष्णो पुत्रत्वमागच्छ कृत्वात्मानं चतुर्विधम् ॥ 1.15.20 ॥
किं नियोज्यमित्यत्राह द्वाभ्याम् राज्ञ इत्यादि । पितृभावयोग्यत्वपराणि विशेषणानि । तस्येति यजमानो हस्तेन निर्दिश्यते । ह्रीश्रीकीर्तयो दक्षकन्याः ता उपमा यासां तास्तथा । चातुर्विध्यविधानं रावणरावणिलवणगन्धर्वविनाशाय ॥ 1.15.19,20 ॥
तत्र त्वं मानुषो भूत्वा प्रवृद्धं लोककण्टकम् ।
अवध्यं दैवतैर्विष्णो समरे जहि रावणम् ॥ 1.15.21 ॥
मम पुत्रभावेन भवतां किं प्रयोजनम् तत्राहुः तत्रेति । तत्र दशरथभार्यासु । प्रवृद्धं वरबलभुजबलैरभिवृद्धम् । मानुषभावः किमर्थं भजनीयस्तत्राहुः अवध्यं दैवतैरिति । “कृत्यानां कर्तरि वा” इति पक्षे तृतीया ॥ 1.15.21 ॥
स हि देवान् सगन्धर्वान् सिद्धांश्च ऋषिसत्तमान् ।
राक्षसो रावणो मूर्खो वीर्योत्सेकेन बाधते ॥ 1.15.22 ॥
स किमर्थं हन्तव्यस्तत्राहुः स हीति । वीर्योत्सेकेन वीर्यकृतगर्वेण ॥ 1.15.22 ॥
ऋषयस्तु ततस्तेन गन्धर्वाप्सरसस्तथा ।
क्रीडन्तो नन्दनवने क्रूरेण किल हिंसिताः ॥ 1.15.23 ॥
ऋषय इति । ततः वीर्योत्सेकात् । क्रूरेण तेन रावणेन ऋषयो हिंसिताः । क्रीडन्तः क्रीडन्त्यः । लिङ्गविपर्यय आर्षः । मिथुनतया चरतां हिंसनात् क्रूरेणेत्युक्तम् । किलेत्यैतिह्ये ॥ 1.15.23 ॥
वधार्थं वयमायातास्तस्य वै मुनिभिः सह ।
सिद्धगन्धर्वयक्षाश्च ततस्त्वां शरणं गताः ॥ 1.15.24 ॥
वधार्थमिति । तस्य वधार्थं वयं मुनिभिः सहायाताः, त्वत्समीपमिति शेषः । सिद्धादयश्चायाताः
ततः रावणवधार्थं त्वां शरणमुपायं गताः ॥ 1.15.24 ॥
त्वं गतिः परमा देव सर्वेषां नः परन्तप ।
वधाय देवशत्रूणां नृणां लोके मनः कुरु ॥ 1.15.25 ॥
रुद्रादिषु विद्यमानेष्वहमेव किमर्थमर्थ्य इत्यत्राहुः त्वमिति । हे देव त्वं नः परमा गतिः उपायः, नान्ये । परान् शत्रून् तापयतीति परंतपः । “द्विषत्परयोस्तापेः” इति खच् । अनेन शत्रुवधसामर्थ्यमुक्तम् । मनः कुरु, अवतरितुमिति शेषः । देवशत्रूणामिति बहुवचनेन रावणरावणिलवणगन्धर्वादीनामपि वधो ऽर्थितः । अनेनाभिप्रायेण पूर्वं ‘कृत्वात्मानं चतुर्विधम्’ इत्युक्तम् ॥ 1.15.25 ॥
एवमुक्तस्तु देवेशो विष्णुस्त्रिदशपुङ्गवः ।
पितामहपुरोगांस्तान् सर्वलोकनमस्कृतः ।
अब्रवीत् त्रिदशान् सर्वान् समेतान् धर्मसंहितान् ॥ 1.15.26 ॥
एवमित्यादिसार्द्धश्लोकः एकान्वयः । पितामहपुरोगान् ब्रह्मप्रधानान् धर्मसंहितान् शरणागतिरूपधर्मसंयुतान् ॥ 1.15.26 ॥
भयं त्यजत भद्रं वो हितार्थं युधि रावणम् ।
सपुत्रपौत्रं सामात्यं समित्रज्ञातिबान्धवम् ॥ 1.15.27 ॥
हत्वा क्रूरं दुरात्मानं देवर्षीणां भयावहम् ।
दशवर्षसहस्राणि दशवर्षशतानि च ।
वत्स्यामि मानुषे लोके पालयन् पृथिवीमिमाम् ॥ 1.15.28 ॥
भयमित्यादिसार्द्धश्लोकद्वयमेकान्वयम् । भयं त्यजत वः युष्माकं भद्रमस्तु, यस्मादहं सर्वेषां हितार्थं रावणं हत्वा धर्मसंस्थापनाय दशवर्षसहस्राणि वत्स्यामीति योजना । शङ्खचक्रगदापाणिरुपयात इति हि पूर्वमुक्तम् ॥ 1.15.27,28 ॥
एवं दत्त्वा वरं देवो देवानां विष्णुरात्मवान् ।
मानुषे चिन्तयामास जन्मभूमिमथात्मनः ॥ 1.15.29 ॥
एवमिति । आत्मवान् सर्वात्मशेषी । मानुषे मनुष्येषु । जात्येकवचनम् । चिन्तयामास यथा देवैराज्ञप्तं तथेति शेषः । जन्मभूमिं जन्मस्थानम् ॥ 1.15.29 ॥
ततः पद्मपलाशाक्षः कृत्वात्मानं चतुर्विधम् ।
पितरं रोचयामास तदा दशरथं नृपम् ॥ 1.15.30 ॥
तत इति । ततः चिन्तानन्तरं पद्मपलाशाक्षः दशरथगुणस्मरणकृतनयनविकासोक्तिः । यद्वा वद्मपलाशाक्षः सर्वैः स्पृहणीयनयनयुगलः, तथा च सर्वस्पृहणीयः स्वयमन्यं स्पृहयामास । यद्वा “तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी” इत्युक्तरीत्या परत्वचिह्नपुण्डरीकाक्षत्वयुक्तः । एवञ्च सर्वस्मात् परो ऽपि जन्म रोचयामास, यथा जनिमतो जन्महानिरभिलषिता तथा जनिरहितस्यापि जनिरभिलषितेत्यर्थः । दुर्लभं ह्यभिलक्षितं भवति । कृत्वा ऽ ऽत्मानं चतुर्विधं जन्माभिलाषे ऽपि
दशरथगुणातिरेकेण चतुर्विधशरीरपरिग्रहमभिलषितवान् । आत्मानं स्वशरीरं चतुर्विधं पायसविभागक्रमेण । पितरं “पितापुत्रेण पितृमान् योनियोनौ” इत्युक्तरीत्या सर्वपिता स्वपुत्रं कञ्चित्पितरमभिललाष रोचयामास ऐच्छत् । तदा रक्षणोद्योगसमये । दशरथं नृपम् “गुणैर्दशरथोपमम्” इत्युक्तरीत्या जनित्वार्जितैः स्वाभाविकैश्च गुणैः स्वसदृशं देवोक्तं दशरथमेव स्वजन्मभूमित्वेन निश्चितवानित्यर्थः ॥ 1.15.30 ॥
ततो देवर्षिगन्धर्वाः सरुद्राः साप्सरोगणाः ।
स्तुतिभिर्दिव्यरूपाभिस्तुष्टुवुर्मधुसूदनम् ॥ 1.15.31 ॥
तत इति । ततः भगवदिच्छानन्तरम्, सरुद्रा इत्यनुवादात् पूर्वं रुद्रो ऽपि शरणागत इति सिद्धम् । दिव्यरूपाभिः दिव्यात्मस्वरूपविषयिणीभिः स्तुतिभिः स्तुतिरूपप्रबन्धैः तुष्टुवुः श्लाघयामासुः । मधुसूदनमिति मधुवदयमपि निरसनीय इत्याशयेनोक्तम् ॥ 1.15.31 ॥
तमुद्धतं रावणमुग्रतेजसं प्रवृद्धदर्पं त्रिदशेश्वरद्विषम् ।
विरावणं साधुतपस्विकण्टकं तपस्विनामुद्धर तं भयावहम् ॥ 1.15.32 ॥
उक्तमर्थं सर्गान्ते पुनः सङ्गृह्णाति तमिति । उद्धतं जन्मत एवोद्धतम् । तं प्रसिद्धम् उग्रतेजसं उग्रप्रतापं वरदानेन प्रवृद्धदर्पम् । लोकान् विरावयतीति विरावणम्, सर्वलोकानामाक्रन्दयितारम्, तपस्विनां कण्टकं शत्रुम् । “क्षुद्रे शत्रौ च कण्टकः” इति वैजयन्ती । अत एव तपस्विनां भयावहं तं रावणं साधु निःशेषम् उद्धर उन्मूलय ॥ 1.15.32 ॥
तमेव हत्वा सबलं सबान्धवं विरावणं रावणमुग्रपौरुषम् ।
स्वर्लोकमागच्छ गतज्वरश्चिरं सुरेन्द्रगुप्तं गतदोषकल्मषम् ॥ 1.15.33 ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे पञ्चदशः सर्गः ॥ 15 ॥
तमेवेति । एवकारेण विभीषणव्यवच्छेदः । स्वर्लोकं वैकुण्ठम् । क्वचित्स्वलोकमिति पाठः । चिरं चिरकालस्थायि । अनेन ब्रह्मलोकादिव्यावृत्तिः । सुरेन्द्रेति सम्बोधनम् । गुप्तम् अस्मदादिभिः दुरधिगमम् । “अत्यर्कानलदीप्तं तत् स्थानं विष्णोर्महात्मनः । स्वयैव प्रभया राजन् दुष्प्रेक्षं देवदानवैः ॥” इति महाभारतोक्तेः। गतदोषकल्मषं दोषा रागद्वेषादयः, गतानि तद्रूपकल्मषानि यस्मात्तत्तथा। अनेनेन्द्रलोकादिव्यावृत्तिः। गतज्वरः आश्रितसंरक्षणेन गतव्यथः। अनेन पुनः प्राप्तिपर्यन्तं संसारिविषये कदैते निस्तरिष्यन्तीति चिन्ताकुलत्वमुक्तम्। आगच्छेत्यनेन वैकुण्ठादवतीर्णत्वं गम्यते। अत्र स्वर्लोकपदस्येन्द्रलोकपरत्वे गुप्तत्वगतदोषकल्मषत्वादिविरोधः। अन्तरिक्षादुपरितनलोकमात्रस्य स्वर्गपदवाच्यत्वात्। अत एव हि क्वचिद्ब्रह्मलोकादावपि स्वर्गपदप्रयोगः। “ब्रह्मलोकं प्रयास्यति” इत्यत्रापि ब्रह्मणः स्वस्य लोकम् अप्राकृतस्थानम् परमपदमिति व्याख्यातम्। स्वलोकमिति सम्यक् पाठः। सुरेन्द्रः विष्वक्सेनः ॥ 1.15.33 ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने पञ्चदशः सर्गः ॥ 15 ॥