श्रीमद्वाल्मीकीयरामायणम्बालकाण्डःदशमःसर्गः
सुमन्त्रश्चोदितो राज्ञा प्रोवाचेदं वचस्तथा ।
यथर्श्यशृङ्गस्त्वानीतः शृणु मे मन्त्रिभिः स ह ॥ 1.10.1 ॥
सुमन्त्र इत्यादि । मे मत्तः, स ऋश्यशृङ्गः यथा मन्त्रिभिरानीतः तथा शृणु । हेति प्रसिद्धौ ॥ 1.10.1 ॥
रोमपादमुवाचेदं सहामात्यपुरोहितः ।
उपायो निरपायो ऽयमस्माभिरभिचिन्तितः ॥ 1.10.2 ॥
रोमेति । निरपायः अव्यभिचारिफलः ॥ 1.10.2 ॥
ऋश्यशृङ्गो वनचरस्तपःस्वाध्यायने रतः ।
अनभिज्ञः स नारीणां विषयाणां सुखस्य च ॥ 1.10.3 ॥
ऋश्यशृङ्ग इति । तपःस्वाध्यायने तपःस्वाध्याययोः । “सर्वो द्वन्द्वो विभाषयैकवद्भवति” इत्येकवद्भावः । “अन्येषामपि दृश्यते” इति दीर्घः । तेन पुराणेतिहासादिमुखेनापि न स्त्रीस्वरूपं जानातीति भावः । नारीणामनभिज्ञ इति कर्मणि षष्ठी । विषयाणां शब्दस्पर्शरूपरसगन्धानां सम्बन्धिनः सुखस्य चानभिज्ञश्च भवति ॥ 1.10.3 ॥
इन्द्रियार्थैरभिमतैर्नरचित्तप्रमाथिभिः ।
पुरमानाययिष्यामः क्षिप्रं चाध्यवसीयताम् ॥ 1.10.4 ॥
इन्द्रियेति । नरचित्तप्रमाथिभिः नरचित्ताकर्षकैः, तमिति शेषः । क्षिप्रं शीघ्रमानाययिष्यामः । अध्यवसीयतां निश्चीयताम्, अस्मदुक्तप्रकार इति शेषः ॥ 1.10.4 ॥
गणिकास्तत्र गच्छन्तु रूपवत्यः स्वलङ्कृताः ।
प्रलोभ्य विविधोपायैरानयिष्यन्ति सत्कृताः ॥ 1.10.5 ॥
के इन्द्रियार्थाः, कथं तैरानयनम् ? तत्राह गणिका इति । गणिकाः वेश्याः । प्रलोभ्य वञ्चयित्वा सत्कृताः अस्माभिः कृतबहुमानाः, ऋश्यशृङ्गेण वा ॥ 1.10.5 ॥
श्रुत्वा तथेति राजा च प्रत्युवाच पुरोहितम् ।
पुरोहितो मन्त्रिणश्च तथा चक्रुश्च ते तदा ।
वारमुख्यास्तु तच्छ्रुत्वा वनं प्रविविशुर्महत् ॥ 1.10.6 ॥
श्रुत्वेति । राजा पुरोहितं तथेति प्रत्युवाच । पुरोहितो ऽपि मन्त्रिणस्तथेति प्रत्युवाच । ते च मन्त्रिणस्तथा चक्रुः, तेषामेवाधिकारात् वारमुख्याः प्रेषयामासुरित्यर्थः ॥ वारेति अर्द्धमेकम् । वारशब्देन
वारस्त्रिय उच्यन्ते, नामैकदेशे नामग्रहणात् ॥ 1.10.6 ॥
आश्रमस्याविदूरे ऽस्मिन् यत्नं कुर्वन्ति दर्शने ।
ऋषिपुत्रस्य धीरस्य नित्यमाश्रमवासिनः ॥ 1.10.7 ॥
आश्रमस्येति । अस्मिन्वने आश्रमस्याविदूरे । दर्शने ऋष्यशृङ्गदर्शने । यत्नम् अवधानम्, कुर्वन्ति अकुर्वन् । ऋषिपुत्रस्येत्यादिविशेषणत्रयं यत्नस्य कर्तव्यत्वे हेतुः ॥ 1.10.7 ॥
पितुः स नित्यसन्तुष्टो नातिचक्राम चाश्रमात् ॥ 1.10.8 ॥
उक्तहेतुं विवृणोति पितुरित्यर्द्धेन । पितुः सकाशान्नित्यसन्तुष्टः । पितृशुश्रूषणैकरत इत्यर्थः ॥ 1.10.8 ॥
न तेन जन्मप्रभृति दृष्टपूर्वं तपस्विना ।
स्त्री वा पुमान् वा यच्चान्यत्सर्वं नगरराष्ट्रजम् ॥ 1.10.9 ॥
हेत्वन्तरमाह न तेनेति । जन्मप्रभृति जन्मारभ्य, नगरजमश्वादि, राष्ट्रजं कुक्कुटादि ॥ 1.10.9 ॥
ततः कदाचित्तं देशमाजगाम यदृच्छया ।
विभण्डकसुतस्तत्र ताश्चापश्यद्वराङ्गनाः ॥ 1.10.10 ॥
तत इति । यदृच्छया दैववशात् ॥ 1.10.10 ॥
ताश्चित्रवेषाः प्रमदा गायन्त्यो मधुरस्वरैः ।
ऋषिपुत्रमुपागम्य सर्वा वचनमब्रुवन् ॥ 1.10.11 ॥
ता इति । चित्रवेषाः नानालङ्काराः ॥ 1.10.11 ॥
कस्त्वं किं वर्तसे ब्रह्मन् ज्ञातुमिच्छामहे वयम् ।
एकस्त्वं विजने घोरे वने चरसि शंस नः ॥ 1.10.12 ॥
कस्त्वमिति । कस्त्वं किञ्जातिः, कस्य पुत्र इत्यर्थः । किं किमर्थं वर्तसे । इच्छामह इत्यात्मनेपदमार्षम् । भवान् किञ्जातिः किन्नामधेयः कस्य पुत्रः त्वं घोरे ऽस्मिन्वने किमर्थं वर्तसे किमर्थमेकश्चरसीति योजना ॥ 1.10.12 ॥
अदृष्टरूपास्तास्तेन काम्यरूपा वने स्त्रियः ।
हार्दात्तस्य मतिर्जाता ह्याख्यातुं पितरं स्वकम् ॥ 1.10.13 ॥
अदृष्टेति । यस्मात्कारणात् काम्यरूपाः काम्यमानरूपाः ताः । स्त्रियो वने तेनादृष्टरूपाः तस्मात् हार्दात् दर्शनजस्नेहात्, स्वकं पितरं पित्रादिकम् आख्यातुं मतिर्जाता ॥ 1.10.13 ॥
पिता विभण्डको ऽस्माकं तस्याहं सुत औरसः ।
ऋश्यशृङ्ग इति ख्यातं नाम कर्म च मे भुवि ॥ 1.10.14 ॥
पितेति । अस्माकमिति मृगाद्यपेक्षया बहुवचनम् । किं तद्वद्गौणः पुत्रो ऽसि ? नेत्याह औरस इति । पुरा किल महाभूततटाकाख्ये सरसि उपस्पृशतो विभण्डकस्य उर्वशीं दृष्ट्वा रेतो ऽस्खलत् । तन्मृगी जलेन सह पीत्वा गर्भिण्यासीत् । तस्यां जातः ऋश्यमृगतुल्यशृङ्गत्वाद्दृश्यशृङ्गाख्यो ऽभूदिति पौराणिकी कथा । मे ऋश्यशृङ्गेति नाम ख्यातम् । मे तपोरूपं कर्म च भुवि वनभुवि ख्यातम् ॥ 1.10.14 ॥
इहाश्रमपदो ऽस्माकं समीपे शुभदर्शनाः ।
करिष्ये वो ऽत्र पूजां वै सर्वेषां विधिपूर्वकम् ॥ 1.10.15 ॥
इहेति । इह वनसमीपे प्रदेशे । अस्माकमाश्रमपदः । पुंस्त्वमार्षम् । अत्र वः पूजां करिष्ये, आगन्तव्यमिति भावः । सर्वेषामिति पुँल्लिङ्गनिर्देशः स्त्रीस्वरूपापरिज्ञानकृतः ॥ 1.10.15 ॥
ऋषिपुत्रवचः श्रुत्वा सर्वासां मतिरास वै ।
तदाश्रमपदं द्रष्टुं जग्मुः सर्वाश्च तेन ताः ॥ 1.10.16 ॥
ऋषीति । द्रष्टुं मतिरास अभूत् । अस्तेर्भूभावाभाव आर्षः । तेन सह तदाश्रमपदं जग्मुश्च ॥ 1.10.16 ॥
आगतानां ततः पूजामृषिपुत्रश्चकार ह ।
इदमर्घ्यमिदं पाद्यमिदं मूलमिदं फलम् ॥ 1.10.17 ॥
आगतानामिति । आगतानाम् आश्रमपदमागतानाम्, अन्ते इतिकरणं द्रष्टव्यम् ॥ 1.10.17 ॥
प्रतिगृह्य तु तां पूजां सर्वा एव समुत्सुकाः ।
ऋषेर्भीतास्तु शीघ्रं ता गमनाय मतिं दधुः ॥ 1.10.18 ॥
प्रतिगृह्येति । समुत्सुकाः तत्संलापसाभिलाषाः ताः सर्वाः तां पूजाम् ऋषिपुत्रदत्तां पूजाम् । प्रतिगृह्य ऋषेर्विभण्डकाद्भीतास्सत्यः शीघ्रं गमनाय मतिं दधुः ॥ 1.10.18 ॥
अस्माकमपि मुख्यानि फलानीमानि वै द्विज ।
गृहाण प्रति भद्रं ते भक्षयस्व च मा चिरम् ॥ 1.10.19 ॥
अस्माकमिति । प्रतिगृहाणेत्यन्वयः । “छन्दसि परे ऽपि” इति प्रतीत्यस्योपसर्गस्य धातोरुपरिष्टात्प्रयोगः । “छन्दोवत्पुराणानि भवन्ति” इति न्यायात् । मा चिरं विलम्बं मा कुरु ॥ 1.10.19 ॥
ततस्तास्तं समालिङ्ग्य सर्वा हर्षसमन्विताः ।
मोदकान् प्रददुस्तस्मै भक्षांश्च विविधान् शुभान् ॥ 1.10.20 ॥
तत इति । अत्रादौ इत्युक्त्वेत्युपस्कार्यम्, स्नेहिजनवत् वशीकारार्थमालिङ्ग्य ॥ 1.10.20 ॥
तानि चास्वाद्य तेजस्वी फलानीति स्म मन्यते ।
अनास्वादितपूर्वाणि वने नित्यनिवासिनाम् ॥ 1.10.21 ॥
तानीति । वने नित्यनिवासिनाम् अनास्वादितपूर्वाणि तैः पूर्वमनास्वादितानि फलानीमानीति मन्यते स्म । अपूर्वरसत्वात् “पूरणगुण ” इति समासप्रतिषेधादेव ज्ञापकात् तृतीयार्थे षष्ठी ॥ 1.10.21 ॥
आपृच्छ्य तु तदा विप्रं व्रतचर्यां निवेद्य च ।
गच्छन्ति स्मापदेशात्ताः भीतास्तस्य पितुः स्त्रियः ॥ 1.10.22 ॥
आपृच्छ्येति । व्रतचर्यां निवेद्य अस्माभिः किञ्चिद्व्रतमनुष्ठेयमस्तीति व्रतानुष्ठानं निवेद्य, तस्मादपदेशाद्व्याजात् । तस्य पितुर्भीताः सत्यो गच्छन्ति स्म ॥ 1.10.22 ॥
गतासु तासु सर्वासु काश्यपस्यात्मजो द्विजः ।
अस्वस्थहृदयश्चासीद्दुःखं स्म परिवर्तते ॥ 1.10.23 ॥
गतास्विति । काश्यपस्य कश्यपपुत्रस्य विभण्डकस्य, अस्वस्थहृदयः कर्षितचित्तः दुःखं यथा भवति तथा परिवर्त्तते स्म सञ्चरति स्म ॥ 1.10.23 ॥
ततो ऽपरेद्युस्तं देशमाजगाम स वीर्यवान् ।
मनोज्ञा यत्र ता दृष्टा वारमुख्याः स्वलङ्कृताः ॥ 1.10.24 ॥
तत इति । ततः अस्वस्थचित्तत्वाद्धेतोः ॥ 1.10.24 ॥
दृष्टैव च तदा विप्रमायान्तं हृष्टमानसाः ।
उपसृत्य ततः सर्वास्तास्तमूचुरिदं वचः ॥ 1.10.25 ॥
दृष्ट्वेति स्पष्टम् ॥ 1.10.25 ॥
एह्याश्रमपदं सौम्य ह्यस्माकमिति चाब्रुवन् ।
तत्राप्येष विधिः श्रीमान् विशेषेण भविष्यति ॥ 1.10.26 ॥
एहीति । अस्माकमाश्रमपदमेहीति पूर्वेणान्वयः । तत्रापि श्रीमान् समृद्धिमान् एष विधिः सत्कारः स्वदेशत्वाद्विशेषेण भविष्यति इति चाब्रुवन्निति योजना ॥ 1.10.26 ॥
श्रुत्वा तु वचनं तासां सर्वासां हृदयङ्गमम् ।
गमनाय मतिं चक्रे तं च निन्युस्तदा स्त्रियः ॥ 1.10.27 ॥
श्रुत्वेति । हृदयङ्गमं मनोज्ञम् । खश्प्रकरणे “गमेः सुप्युपसङ्ख्यानम्” इति खश् । निन्युः नावमारोप्य गङ्गाप्रवाहेणेति शेषः । तथैव भारते प्रतिपादनात् ॥ 1.10.27 ॥
तत्र चानीयमाने तु विप्रे तस्मिन् महात्मनि ।
ववर्ष सहसा देवो जगत्प्रह्लादयंस्तदा ॥ 1.10.28 ॥
तत्रेति । तत्र अङ्गदेश इत्यर्थः ॥ 1.10.28 ॥
हर्षेणैवागतं विप्रं विषयं स्वं नराधिपः ।
प्रत्युद्गम्य मुनिं प्रह्वः शिरसा च महीं गतः ॥ 1.10.29 ॥
हर्षेणेति । स्वं विषयं स्वदेशम्, प्रह्वः विनीतः ॥ 1.10.29 ॥
अर्घ्यं च प्रददौ तस्मै न्यायतः सुसमाहितः ।
वव्रे प्रसादं विप्रेन्द्रान्मा विप्रं मन्युराविशत् ॥ 1.10.30 ॥
अर्घ्यं चेति । अर्घः पूजा तदर्थमुदकमर्ध्यम्, “पादार्घाभ्यां च” इति यत्प्रत्ययः । न्यायतः शास्त्रक्रमेण । विप्रेन्द्रात् ऋश्यशृङ्गात् । प्रसादं गणिकाभिः प्रलोभ्यानयनकृतकोपनिवृत्तिं वव्रे । कथं वव्रे ? विप्रं त्वां मन्युः कोपो माविशेदिति, माविशत्वित्यर्थः । लकारव्यत्ययः । यद्वा विप्रं विभण्डकं मन्युः पुत्रविश्लेषकृतः कोपःमाविशेदिति । एवं प्रसादनादेव विभण्डको न चुकोप पुत्रप्रसादवरणादेव पिता त्रिलोकज्ञस्तुष्यतीति पूर्वमेव मन्त्रिभिर्निर्णीतं चेति बोध्यम् । कथमन्यथा उपायं चिन्तयन्तः प्राज्ञाः अपायमपि न चिन्तयेयुः ॥ 1.10.30 ॥
अन्तःपुरं प्रविश्यास्मै कन्यां दत्त्वा यथाविधि ।
शान्तां शान्तेन मनसा राजा हर्षमवाप सः ॥ 1.10.31 ॥
अन्तःपुरमिति । प्रविश्य तेन सहेति सिद्धम् । शान्तेन निर्दुःखेन मनसोपलक्षितः । प्रसादकार्योपदर्शनात् प्रसन्नत्वं सिद्धम् ॥ 1.10.31 ॥
एवं स न्यवसत्तत्र सर्वकामैः सुपूजितः ॥ 1.10.32 ॥
[ऋश्यशृङ्गो महातेजाश्शान्तया सह भार्यया ।]
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे दशमः सर्गः ॥ 10 ॥
एवमिति । एवं सर्वकामैः सुपूजितः । तत्र रोमपादान्तःपुरे ॥ 1.10.32 ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने दशमःसर्गः ॥ 10 ॥