००८ अश्वमेधसन्नाहः

श्रीमद्वाल्मीकीयरामायणम्बालकाण्डः अष्टमः सर्गः

तस्यापुत्रत्वादश्वमेधकरणे सुमन्त्रेण सह संवादः, तत्र सम्मिलितानाममात्यानां समीपेश्वमेधप्र्तश्नः, तत्करणे वसिष्ठादीनामनुमतिः, अश्वमोचनम् सरयूत्तरतारे यज्ञभूमिविधानम्, गृहागतराजानं दाराणां पुत्रप्राप्त्यर्थं दीक्षाविषयकः प्रश्नश्च।

तस्य चैवं प्रभावस्य धर्मज्ञस्य महात्मनः। सुतार्थं तप्यमानस्य नासीद्वंशकरः सुतः॥1.8.1॥

एवं धार्मिकत्वेन दशरथस्य भगवदवतारयोग्यत्वमुक्त्वा अथ तदुपयुक्ततदाराधनोपक्रमं दर्शयत्यष्टमे –तस्येति । उत्तरश्लोकवक्ष्यमाणचिन्ता युक्तेति सूचयितुं राज्ञो विशेषणानि तप्यमानस्य तपश्चरतः यद्वा पुत्रोत्पादनानुगुणदृष्टसामग्रीसत्त्वेपि पुत्राभावात्परितप्यमानस्य॥1.8.1॥

चिन्तयानस्य तस्यैवं बुद्धिरासीन्महात्मनः। सुतार्थं वाजिमेधेन किमर्थं न यजाम्यहम् ॥1.8.2॥

चिन्तयानस्येति । चिन्तयानस्य पुत्रोत्पत्त्युपायं मार्गमाणस्य मृगभाव आर्षः। एवं वक्ष्यमाणरीत्या न यजामि नायाक्षिषम्॥1.8.2॥

स निश्चितां मतिं कृत्वा यष्टव्यमिति बुद्धिमान्। मन्त्रिभिः सह धर्मात्मा सर्वैरपि कृतात्मभिः ॥1.8.3॥ ततोऽब्रवीन्महातेजाः सुमन्त्रं मन्त्रिसत्तम । शीघ्रमानय मे सर्वान् गुरून्स्तान् सपुरोहितान्॥1.8.4॥

स इत्यादि ।श्लोकद्वयमेकान्वयम् । कृतात्मभिः पर्याप्तबुद्धिभिः ‘क्लीबे कृतं युगेपि स्यात्फलपर्याप्तयोरपि ’इति भास्करः॥1.8.3॥ तान् प्रसिद्धान्॥1.8.4॥

ततः सुमन्त्रस्त्वरितं गत्वा त्वरितविक्रमः। समानयत्स तान्सर्वान्समस्तान्वेदपारगान्॥1.8.5॥

तत इति। त्वरितं तत्क्षण एव त्वरितविक्रमः त्वरितगमनः समस्तान्सम्मिलितान्समानयत् राजगृहमिति शेषः ॥1.8.5॥

सुयज्ञं वामदेवं च जाबालिमथ काश्यपम् । पुरोहितं वसिष्ठं च ये चाप्यन्ये द्विजोत्तमाः॥1.8.6॥

गुरूनेवाह—सुयज्ञमिति । समानयदिति पूर्वेणान्वयः। सुयज्ञादीनां गुरुत्वमार्त्विज्यकरणात्॥1.8.6॥

तान्पूजयित्वा धर्मात्मा राजा दशरथस्तदा। इदं धर्मार्थसहितं श्लक्ष्णं वचनमब्रवीत् ॥1.8.7॥

तानिति । अथ गुर्वागमनानन्तरं श्लक्ष्णं मधुरम्॥1.8.7॥

मम लालप्यमानस्य सुतार्थं नास्ति वै सुखम्। तदर्थं हयमेधेन यक्ष्यामीति मतिर्मम ॥1.8.8॥

ममेति । लालप्यमानस्य भृशं विलपतः लापेर्यङन्तात् शानच् ॥1.8.8॥

तदहं यष्टुमिच्छामि शास्त्रदृष्टेन कर्मणा । कथं प्राप्स्याम्यहं कामं बुद्धिरत्र विचिन्त्यताम्॥1.8.9॥

तदिति । तत्पुत्रेच्छुत्वात् यष्टुं दीक्षितुं शास्त्रदृष्टेन कर्मणा विधिना प्रकारेणेति यावत् कर्मणा क्रियाकलापेनेति वा कामं काम्यमानं यज्ञं कथं प्राप्स्यामि विघ्नभूयस्त्वादिति भावः अत्र निर्विघ्नयागकरणे बुद्धिः उपायः विचार्यताम्॥1.8.9॥

ततः साध्विति तद्वाक्यं ब्राह्मणाः प्रत्यपूजयन्। वसिष्ठप्रमुखाः सर्वे पार्थिवस्य मुखेरितम् ॥

ऊचुश्च परमप्रीताः सर्वे दशरथं वचः ॥1.8.10॥

तत इति । प्रत्यपूजयन् तुष्टुवुः पार्थिवस्य मुखाच्च्युतं साक्षाद्राज्ञोक्तमित्यर्थः। ऊचुरित्यर्द्धमेकं दशरथं वचः ऊचुः ब्रूशासीत्यादिना द्विकर्मकत्वम्॥1.8.10॥

संभाराः सम्भ्रियन्तां ते तुरगश्च विमुच्यताम्॥1.8.11॥

सम्भारा इति । ते प्रसिद्धाः सम्भाराः यज्ञोपकरणानि यूपपात्रादीनि सम्भ्रियन्तां सम्पाद्यन्तां तुरगः अश्वमेधीयोऽश्वः ॥1.8.11॥

सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम् । सर्वथा प्राप्स्यसे पुत्रानभिप्रेतांश्च पार्थिव॥1.8.12॥

यस्य ते धार्मिकी बुद्धिरियं पुत्रार्थमागता। सर्वथेति। एकपुत्रस्यापुत्रप्रायत्वात् ‘एष्टव्या बहवः पुत्राः’इति वचनाच्च पुत्रानिति बहुवचनं प्राप्स्यस इति कर्मकर्तर्यात्मनेपदम्। धार्मिकी “ धर्मं चरति ” इति ठ्क् धर्माचरणविषयिणीत्यर्थः॥1.8.12॥

ततस्तुष्टोऽभवद्राजा श्रुत्वैतद्द्विजभाषितम् ॥1.8.13॥

अमात्यानब्रवीद्राजा हर्षव्याकुललोचनः । तत इति । हर्षेण हर्षाश्रुणा पर्याकुले व्याप्ते ईक्षणे यस्य सः हर्षेण व्याकुलदृष्टिमान् क्रियाभेदाद्राज -पदद्वयमिति न विरोधः॥1.8.13॥

सम्भाराः सम्भ्रियन्तां मे गुरूणां वचनादिह ॥1.8.14॥

समर्थाधिष्ठितश्चाश्वः सोपाध्यायो विमुच्यताम्। सम्भारा इति । मे गुरूणा6 इत्यन्वयः इह इदानीं समर्थैः “ चतुःशता रक्षन्ति यज्ञस्याघाताय ” इत्युक्तरीत्या रक्षणसमर्थैरधिष्ठितः रक्षितः सोपाध्यायः अध्वर्युप्रभृतिऋत्विक्सहितः॥1.8.14॥

सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम् ॥1.8.15॥

शान्तयश्चापि वर्धन्तां यथाकालं यथाविधि। सरय्वा इति । अनेन सरयूदक्षिणतीरे अयोध्येति गम्यते शान्तय विघ्ननिवारकाणि कर्मणि अभिवर्द्धन्तामभिवर्द्धयन्ताम्अन्तर्भावितण्यन्तोयं शब्दः । यथाकल्पं यथाक्रमम् ‘क्रमस्तु कथ्यते कल्पे ’इति भागुरिः यथाविधि यथाशास्त्रम्॥1.8.15॥

शक्यः प्राप्तुमयं यज्ञः सर्वेणापि मद्दीक्षिता॥1.8.16॥ नापराधो भवेत्कष्टो यद्यस्मिन्क्रतुसत्तमे ।शक्य इति । अयं यज्ञः अश्वमेधः सर्वेणापि राजमात्रेणापि महीं क्षयतीति महीक्षित् क्षि निवासगत्योरित्यस्मात्क्विप् तेन प्राप्तुं शक्यः कष्टः क्लेशकरः अनर्थकरो वा अपराधः अपचारः यदि न भवेत्प्रमादे सत्यनर्थः सिद्ध एवेति भीत्या क्षुद्रा राजानो न कुर्वन्तीत्यर्थः ॥1.8.16॥

छिद्रं हि मृगयन्ते स्म विद्वांसो ब्रह्मराक्षसाः॥1.8.17॥

विधिहीनस्य यज्ञस्य सद्यः कर्ता विनश्यति।छिद्रमिति।विद्वांसः अश्वमेधस्वरूपाभिज्ञाः ब्रह्मराक्षसाः अकृतप्रायश्चित्ताप्रतिग्राह्यप्रतिग्रहायाज्ययाजनादिपापैःराक्षसत्वं प्राप्ताः ब्रह्मणाः यज्ञस्वरूपतदपराधज्ञत्वादत्र आश्वमेधे छिद्रमपराधं मृगयन्ते अन्वेषयन्ते मृग अन्वेषणे इति धातुः। ‘छिद्रं रन्ध्रापराधयोः’इति वैजयन्ती। अपराधदर्शने यज्ञमा- त्मसात्कृत्य नाशयन्तीति भावः किं तत इत्यत आह—निहतस्य चेति ॥1.8.17॥

तद्यथा विधिपूर्वं मे क्रतुरेष समाप्यते॥1.8.18॥

तथा विधानं क्रियतां समर्थाः साधनेष्विति। तथेति चाब्रुवन्सर्वे मन्त्रिणः प्रतिपूजिताः॥1.8.19॥

फलितमाह-तदिति । विधिपूर्वं अनपराधं यथा भवति तथा यथा समाप्यते तथा विधानं यत्नः क्रियतां इह करणेषु यज्ञानुष्ठानेषु समर्थाः यूयमिति शेषः। यूयं समर्थाः खल्विति स्तुतिः॥ तथेति। ते सर्वे मन्त्रिणः पार्थिवेन्द्रस्य तद्वाक्यं निशम्य यथा आज्ञप्त्म् आज्ञापितम् “वा दान्त” इत्यादिना वैकल्पिक इड् भावो निपातितः तथा कुर्म इत्यब्रुवन् समीचीनो महाराजस्याध्यवसाय इति प्रत्यपूजयंश्च॥1.8.18,19॥

पार्थिवेन्द्रस्य तद्वाक्यं यथापूर्वं निशम्य ते। तथा द्विजास्ते धर्मज्ञा वर्धयन्तो नृपोत्तमम्॥1.8.20॥

अनुज्ञातास्ततः सर्वे पुनर्जग्मुर्यथागतम् । तथेति। वर्द्धयन्तः आशीर्भिरिति शेषः द्विजः ऋत्विजः भाविन्यां चैत्रपौर्णमास्यांतथैव करिष्याम इत्युक्त्वा जग्मुरित्यर्थः॥1.8.20॥

विसर्जयित्वा तान्विप्रान्सचिवानिदमब्रवीत्॥1.8.21॥

ऋत्विग्भिरुपसन्दिष्टो यथावत्क्रतुराप्यताम्। विसर्जयित्वेति। क्रतुः क्रतुसम्भारः आप्यतां सम्पाद्यताम् ॥1.8.21॥

इत्युक्त्वा नृपशार्दूलः सचिवान्समुपस्थितान्॥1.8.22॥

विसर्जयित्वा स्वं वेश्म प्रविवेश महामतिः। इतीति । महाद्युतिरिति प्रीत्यतिशयद्योतनम् ॥1.8.22॥

ततः स गत्वा ताः पत्नीर्नरेन्द्रो हृदयङ्गमाः॥1.8.23॥

उवाच दीक्षां विशत यक्ष्येऽहं सुतकारणात् । तत इति । ताः प्रसिद्धाः कौसल्याद्याः पत्नीः यज्ञार्हाः “ पत्युर्नो यज्ञसम्योगे ”इति पतिशब्दस्य यज्ञफलभोक्तृत्वरूपयज्ञसम्योगे नकारादेशविधानात्। दीक्षां दीक्षाध्यवसायंविशत गच्छतेत्यर्थः। सुतकारणात् सुतार्थं ‘निमित्तकारणहेतूनां प्रयोगे सर्वासामिष्टिः’इति पञ्चमी॥1.8.23॥

तासां तेनातिकान्तेन वचनेन सुवर्चसाम्। मुखपद्मान्यशोभन्त पद्मानीव हिमात्यये॥1.8.24॥ इत्यार्षेश्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकाण्डेष्टमः सर्गः॥8॥

तासामिति । अतिकान्तेन अत्यन्तमिष्टेन सुखपद्मानि सुन्दराणि मुखानीत्यर्थः॥1.8.24॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने अष्टमः सर्गः ॥8॥