तत्रप्रथमसर्गेणविषयप्रयोजनेदर्शयति।तत्रच “तद्विद्धिप्रणिपातेनपरिप्रश्नेनसेवया” इतिवेदान्तरहस्यस्यप्रश्नपूर्वकंज्ञेयत्वविधानात् “नापृष्टःकस्यचिद्ब्रूयात्” इत्यपृष्टोत्तरस्यप्रत्यादिष्टत्वाच्चप्रश्नमाविष्करोत्यादितःपञ्चश्लोक्या॥
तपःस्वाध्यायनिरतंतपस्वीवाग्विदांवरम्।
नारदंपरिपप्रच्छवाल्मीकिर्मुनिपुङ्गवम्॥ 1.1.1 ॥
अथप्रारिप्सितस्यग्रन्थस्यनिष्प्रत्यूहपरिपूरणायप्रचयगमनायचगुरुनमस्कारंदेवतानमस्कारंचविदधातितप स्स्वाध्यायेति।तत्र”आचार्याद्ध्येवविद्याविदितासाधिष्ठंप्रापत्” “आचार्यवान्पुरुषोवेद”इत्यादिश्रुत्यासदाचार्योपदेशस्यैवातिशयावहत्वात्स्वगुरोराचार्यलक्षणपूर्तिंदर्शयतिद्वितीयान्तपदैः।
तत्रवेदसम्पन्नत्वमाहतपःस्वाध्यायनिरतमिति।तपश्चस्वाध्यायश्चतपःस्वाध्यायौ “अल्पाच्तरम्”इतितपःशब्दस्यपूर्वनिपातः।तपःचान्द्रायणादि, स्वाध्यायोवेदः।”स्वाध्यायोवेदतपसोः”इतिवैजयन्ती।तयोर्निरतंनिरन्तरासक्तम्।आवश्यकत्वादेतदुभयमुक्तम्।तदाहमनुः “तपोविद्याचविप्रस्यनिःश्रेयसकरंपरम्।तपसाकल्मषंहन्तिविद्ययाज्ञानमश्नुते” इति।यद्वातपोज्ञानम्। “तपआलोचने” इत्यस्माद्धातोरसुन्प्रत्ययः।श्रुतिश्चात्रभवति “यस्यज्ञानमयंतपः” इति।योगइतियावत्।स्वाध्यायोवेदःतयोर्निरतम्। “स्वाध्यायाद्योगमासीतयोगात्स्वाध्यायमावसेत्।स्वाध्याययोगसम्पत्त्यागमिष्यतिपरांगतिम्॥” इत्युक्तप्रकारेणसक्तमित्यर्थः।यद्वातपोवेदः, “तपोहिस्वाध्यायः” इतिश्रुतेः।स्वाध्यायोजपः। “स्वाध्यायोवेदजपयोः” इत्युक्तेः।तत्रनिरतम्। “स्वाध्यायान्माप्रमदः।वेदमेवजपेन्नित्यम्” इत्युक्तरीत्यासक्तमित्यर्थः।यद्वातपोब्रह्म “ब्रह्मैतदुपास्वैतत्तपः” इतिश्रुतेः।तपःप्रधानःस्वाध्यायस्तपःस्वाध्यायः।शाकपार्थिवादित्वान्मध्यमपदलोपीसमासः।वेदान्तइतियावत्, तत्रनिरतम्। “स्वाध्यायप्रवचनाभ्यांनप्रमदितव्यम्” इत्युक्तरीत्याध्ययनादिपरमित्यर्थः।यद्वातपोव्याकरणम्। तथोक्तंवाक्यपदीये “आसन्नंब्रह्मणस्तस्यतपसामुत्तमंतपः।प्रथमंछन्दसामङ्गमाहुर्व्या- करणंबुधाः।” इति, तदितरेषामङ्गानामुपलक्षणम्।तत्सहितःस्वाध्यायःतपःस्वाध्यायःतत्रनिरतम्, साङ्गवेदाध्यायिनमित्यर्थः।यद्वातपःस्वंयस्यासौतपःस्वः, अध्यायोवेदः “इङ्अध्ययने” इत्यस्माद्धातोः “अध्यायन्याय ” इत्यादिनानिपातनात्।अतएव “स्वाध्यायोऽध्येतव्यः” इत्यत्रस्वस्य
अध्यायःस्वाध्यायः, स्वशाखेत्याचार्यैर्व्याख्यातम्।तत्रनिरतोऽध्यायनिरतः।तपःस्वश्चासावध्याय– निरतश्चतपःस्वाध्यायनिरतःइतिकर्मधारयः, तम्।यद्वातपोब्रह्म, तद्रूपःस्वाध्यायःतपःस्वाध्यायःतस्मिन्निरतम्, सामगानलोलमित्यर्थः। “वेदानांसामवेदोऽस्मि” इतिभगवतागीतत्वात्।एवंवेदाध्ययनमुक्तम्॥अथ “यदधीतमविज्ञातंनिगदेनैवशब्द्यते।अनग्नाविवशुष्कैधोनतज्ज्वलतिकर्हिचित्॥”इतिकेवलाध्ययनस्यनिन्दितत्वात्तदर्थज्ञत्वमाहवाग्विदांवरमिति।वाग्वेदः। “अनादिनिधनाह्येषावागुत्सृष्टास्वयम्भुवा” इतिवाक्शब्दस्यवेदेप्रयोगात्।तांविदन्तिजानन्तीतिवाग्विदःवेदार्थज्ञाःतेषांमध्येपरंश्रेष्ठम्।निर्द्धारणेषष्ठी।यद्वावाक्व्याकरणम्। “यश्चव्याकुरुतेवाचम्।वाग्योगविद्दुष्यतिचापशब्दैः” इत्यादौव्याकरणपर्यायत्वेनशिष्टैर्व्यवहृतत्वात्।एतदङ्गान्त- राणामुपलक्षणम्, षडङ्गविदामग्रेसरमित्यर्थः।एतेनवेदार्थाभिज्ञत्वमर्थसिद्धम्।यद्वावाग्विदःयावद्विवक्षितार्थप्रतिपादनक्षमशब्दप्रयोगविदः, तेषांवरम्।पूर्वंवेदाध्ययनमुक्तम्, अत्रतदध्यापनम्।यद्वागोबलीवर्दन्यायेनवाचःवेदव्यतिरिक्तानिशास्त्राणि, तद्विदांवरम्।अनेनचतुर्दशविद्यास्थान- वेदित्वमुक्तम्।यद्वाभूमविद्योपक्रमेनारदेनात्मनःसर्वविद्याभिज्ञत्वमुक्तम्। “ऋग्वेदंभगवोऽध्येमियजुर्वेदंसामवेदमाथर्वणंचतुर्थमितिहासपुराणंपञ्चमंवेदानांवेदंपित्र्यंराशिंदैवंनिधिःवाकोवाक्यमे– कायनंदेवविद्यांब्रह्मविद्यांभूतविद्यांक्षत्रविद्यांनक्षत्रविद्यांसर्पदेवजनविद्यामेतद्भगवोऽध्येमि”इति।तदिदमुच्यतेवाग्विदांवरमिति।यद्वावाक्सरस्वती “गीर्वाग्वाणीसरस्वती” इतिवचनात्।तयाविद्यन्तेलभ्यन्तइतिवाग्विदःसरस्वतीपुत्रामरीच्यादयः।”विद्लृलाभे” इत्यस्माद्धातोःकर्मणिक्विप्।भगवद्भक्ततयातेषांवरम्।अनेनाभिजात्यमुक्तम्।तपःस्वाध्यायनिरतमित्यनेनविद्योक्ता।समाहितत्वमाहमुनिपुङ्गवमिति।तेन “अभिजनविद्यासमुदेतंसमाहितंसंस्कर्त्तारमीप्सेत्” इत्यापस्त-
-म्बोक्तमाचार्यलक्षणंज्ञापितम्।मुनयोमननशीलाः। “मनेरुच्च” इतिइन्प्रत्ययः।पुमांश्चासौगौश्चेतिपुंगवः”गोरतद्धितलुकि” इतिसमासान्तष्टच्प्रत्ययः।श्रेष्ठइत्यर्थः। “बुधेचपुङ्गवःश्रेष्ठेवृषभेभिषजांवरे” । इतिविश्वः।मुनिषुपुङ्गवोमुनिपुङ्गवः।”सप्तमी” इतियोगविभागात्नागोत्तमादिवत्समासः,तम्।तपःस्वाध्यायनिरतमित्यनेनवेदार्थस्यश्रवणमुक्तम्।वाग्विदांवरमित्यनेनमननम्।मुनिपुङ्गवमित्य–नेननिदिध्यासनम्।यद्वा “तस्माद्ब्राह्मणःपाण्डित्यन्निर्विद्यबाल्येनतिष्ठासेत्।बाल्यंचपाण्डित्यंचनिर्विद्याथमुनिः” इत्युक्तक्रमेणत्रिभिरेतैःपदैःपाण्डित्यबाल्यमौनान्युक्तानि।नरस्यसम्बन्धिनारम् “नराच्चेतिवक्तव्यम्” इत्यण्, अज्ञानमित्यर्थः।तत्द्यतिखण्डयतीतिनारदः। “दोअवखण्डने” इत्यस्माद्धातोः “आदेचउपदेशेऽशिति”इत्यात्वेसति”आतोऽनुपसर्गेकः” इतिकप्रत्ययःअज्ञाननिवर्त्तकइत्यर्थः।उक्तंचनारदीये “गायन्नारायणकथांसदापापभयापहाम्।नारदोनाशयन्नेतिनृणामज्ञानजंतमः॥” इति।यद्वानारंज्ञानंतद्ददातीतिनारदः।यद्वानरतिसद्गतिंप्रापयतीतिनरःपरमात्मा। “नृ़नये” इत्यस्माद्धातोःपचाद्यच्।तदुक्तंभारते “नरतीतिनरःप्रोक्तःप्ररमात्मासनातनः” इति।सएवनारः।तंददात्युपदिशतीतिनारदः, तम्।एवमाचार्यलक्षणपूर्तिमुक्त्वाअधिकारित्वसम्पूर्तिप्रदर्शनायशिष्यलक्षणमाहतपस्वीत्यादिना।तपोऽस्यास्तीतितपस्वी। “तपःसहस्राभ्यांविनीनी” इतिमत्वर्थीयोविनिप्रत्ययः।भूमादयोमत्वर्थाः।तदुक्तम् “भूमनिन्दाप्रशंसासुनित्ययोगेऽतिशायने।संसर्गेऽस्तिविवक्षायांभवन्तिमतुबादयः॥”इति।प्रशस्ततपस्कइत्यर्थः।तेन “तपसाब्रह्मविजिज्ञासस्वसतपोऽतप्यतसतपस्तप्त्वाआनन्दोब्रह्मेतिव्यजानात्” इतिश्रुतंब्रह्मज्ञानसाधनंतपउक्तम्।यद्वातपोवेदोव्याकरणंज्ञानंच, तद्वान्।तपःशब्दानांतन्त्रावृत्त्येकशेषाद्यन्यतमेनअर्थस्मरणेसतिएकपदोपात्त- -कृतिकालादीनामिवअन्वयबोधःसुलभः।तथाचअधीतसाङ्गसशिरस्कवेदोऽधिगताल्पास्थिरफलकेवल- -कर्मज्ञानइत्युक्तम्।निर्वेदश्चतपः। “तपस्वीतापसेशोच्ये” इतिवैजयन्ती।तेनसञ्जातमोक्षाभिलाषइत्युक्तम्, तादृशएवहिब्रह्मज्ञानाधिकारी।तपस्वीत्यनेनशमदमादिसम्पत्तिरपिसिद्धा।यद्वातपोन्यासः। “तस्मान्न्यासमेषांतपसामतिरिक्तमाहुः” इतिश्रुतेः।न्यासःशरणागतिःप्रणिपातरूपा, एवं’तद्विद्धिप्रणिपातेनपरिप्रश्नेनसेवया’ इत्याद्युक्तानिप्रणिपातपुरःसराणिदर्शितानि।वल्मीकस्यापत्यंवाल्मीकिः। “अतइञ्” इतीञ्प्रत्ययः।नन्वसौकथंवल्मीकापत्यम्, यतोऽयंभृगुपुत्रएवप्रतीयते।तथाचश्रीविष्णुपुराणे “ऋक्षोऽभूद्भार्गवस्तस्माद्वाल्मीकिर्योऽभिधीयते” इति।अत्रापिउत्तरकाण्डेवक्ष्यति “भार्गवेणेतिसंस्कृतौ।भार्गवेणतपस्विना” इतिच।अन्यत्रचप्रचेतोऽपत्यत्वमभिधीयते “चक्रेप्रचेतसःपुत्रस्तंब्रह्माप्यन्वमन्यत” इति। “वेदःप्राचेतसादासीत्” इतिचप्रसिद्धम्।अतःकथमस्यवल्मीका-पत्यत्वम् ? उच्यतेनिश्चलतरतपोविशेषेणास्यवल्मीकावृतौजातायांप्रचेतसावरुणेनकृतनिरन्तरवर्षेणप्रादुर्भावोऽभूदितिभृ गुपुत्रस्यैवास्यप्रचेतसोऽपत्यत्वंवल्मीकापत्यत्वंचसङ्गच्छते।ननुकथंतत्प्रवत्व- मात्रेणतदपत्यत्वम् ? मैवम्, ‘गोणीपुत्रःकलशीसुतः’ इत्यादिव्यवहारस्यतत्प्रभवेऽपिबहुलमुपलब्धेः।उक्तंचब्रह्मवैवर्त्ते “अथाब्रवीन्महातेजाब्रह्मालोकपितामहः।वल्मीकप्रभवोयस्मात्तस्माद्वाल्मीकिरित्यस॥” इति। मास्त्वपत्यार्थत्वम्, तथापिवाल्मीकिशब्दस्साधुरेव, गर्हादिषुपठितत्वात्। यद्वाभृगुवंश्यःकश्चित्प्रचेतानामतस्यायंपुत्रःऋक्षोनाम। ‘चक्रेप्रचेतसःपुत्रः’ इतिपुत्रत्वाभिधानात्।भार्गव -भृगुनन्दनशब्दौरामेराघवरघुनन्दनशब्दवदुन्नेयौ।वाल्मीकिशब्दःपुत्रत्वोपचारात्। अतएवक्वचित्’वाल्मीकेनमहर्षिणा ‘इतिसम्बन्धमात्रेऽण्प्रयुज्यते। सत्स्वपिनामान्तरेषुवाल्मीकिशब्देनाभिधानंज्ञानाङ्गशमदमाद्युपेतत्वस्फोरणाय। परिपप्रच्छपरिविशेषेणपृष्टवान्।कोन्वस्मिन्नित्यादिवक्ष्यमाण- -मितिशेषः।तपइतिभिन्नंपदंवाब्रह्मवाचि। नारदंब्रह्मपरिपप्रच्छेत्यर्थः।अतोनद्विकर्मकत्वहानिः।उक्तंहिवृत्तिकृता “दुह्याच्पच्दण्ड्रुधिप्रच्छिचिञ्ब्रूशासुजिमथ्मुषाम्।” इत्यादिनाप्रच्छेर्द्विकर्मकत्वम्।परिपप्रच्छेतिपरोक्षेलिट्। प्रश्नस्यपरोक्षत्वंविवक्षितभगवद्गुणानुसन्धानकृतवैचित्यात्, ‘सुप्तोऽहंकिलविललाप’ इतिवत्। विभक्तिप्रतिरूपकमव्ययंवा।स्वविनयव्यञ्जनायप्रथमपुरुषनिर्देशोवा। “ईश्वरःसर्वभूतानांहृद्देशेऽर्जुनतिष्ठति” इतिवत्।स्वस्मिन्नन्यत्वमारोप्यपरोक्षनिर्देशोवा।अनेन “परीक्ष्यलोकान्कर्मचितान्ब्राह्मणोनिर्वेदमायात्नास्त्यकृतःकृतेन।तद्विज्ञानार्थंसगुरुमेवाभिगच्छेत्स– मित्पाणिःश्रोत्रियंब्रह्मनिष्ठम्।तस्मैसविद्वानुपसन्नायसम्यक्प्रशान्तचित्तायशमान्विताय। येनाक्षरंपुरुषंवेदसत्यंप्रोवाचतांतत्त्वतोब्रह्मविद्याम्” इत्याथर्वणिकीश्रुतिर्गुरूपसदनविषयोपबृंह्यते। तथाहितपस्वीत्यनेन “परीक्ष्यलोकान्कर्मचितान्ब्राह्मणोनिर्वेदमायात्” इत्यस्यार्थोऽदर्शि।अधीत– साङ्गसशिरस्कवेदोऽधिगताल्पास्थिरफलकेवलकर्मज्ञानतयासञ्जातमोक्षाभिलाषोहितपस्विशब्दार्थोवर्णितः। वाल्मीकिरित्यनेन “सम्यक्प्रशान्तचित्तायशमान्विताय” इत्यस्यार्थोदर्शितः।स्वाध्यायनिरत– मित्यनेनश्रीत्रियपदार्थउक्तः। “श्रोत्रियँश्छन्दोऽधीते” इतिश्रोत्रियशब्दार्थप्रकाशनात्।वाग्विदांवरमित्य- -नेनविद्वच्छब्दार्थः।मुनिपुङ्गवमित्यनेनब्रह्मनिष्ठशब्दार्थः।नारदशब्दनेगुरुशब्दार्थ। “गुशब्दस्त्वन्ध -कारःस्याद्रुशब्दस्तन्निरोधकः।अन्धकारनिरोधित्वाद्गुरुरित्यभिधीयते” इतितन्निरुक्तिः।परिप–प्रच्छेत्यनेन “तद्विज्ञानार्थंसगुरुमेवाभिगच्छेत्” इत्येतदुपपादितम्। “विधिवदुपसन्नःपप्रच्छ” इतिश्रुतेः। अत्रब्रह्मवाचितपःशब्दप्रयोगेणदेवतानमस्काररूपंमङ्गलमाचरितम्।तथोक्तम् “अइतिभगवतोनारायणस्यप्रथमाभिधानमभिदधताकिन्नाममङ्गलंनकृतम्” इति। “देवतावाचकाःशब्दायेचभद्रादिवाचकाः।तेसर्वेमङ्गलार्थाःस्युर्लिपितोगणतोऽपिच॥” इति। निरन्तरनिरतिशयानन्दरूपंतपोज्ञानरूपंब्रह्मस्वाध्यायंसुष्ठुध्यात्वेतिवादेवतानमस्कारः।
गुरुनमस्कारश्चकृतोभवति।कथम् ? तपःसुनिरतंनारदमाध्यायपरिपप्रच्छेति।यद्वापरिपूजयित्वेत्यर्थः। “परिःसमन्ततोभावव्याप्तिदोष- कथासुच।भाषाश्लेषेपूजनेचवर्जनेवचनेशुभे॥” इतिवचनात्। नारदंसम्पूज्यपप्रच्छेत्यर्थः। “पराशरंमुनिवरंकृतपौर्वाह्णिकक्रियम्।मैत्रेयःपरिपप्रच्छप्रणिपत्याभिवाद्यच॥” इतिवत्।अस्यश्रीरामायणस्यगायत्र्यक्षरसङ्ख्यानुसारेणचतुर्विंशतिसहस्रग्रन्थसङ्ख्ययाप्रवृत्तत्वात्प्रथमसहस्रोपक्रमे तकारःप्रयोक्तव्यइतिसत्स्वपिब्रह्मवाचकेषुशब्दान्तरेषुतपःशब्दस्यैवप्रयोगः।प्रबन्धादौतकारप्रयोगश्चा– वश्यकः।तस्यवक्तुर्वाचकस्यचसौख्यकरत्वात्।तथोक्तम् “वस्तुलाभकरोणस्तुतकारःसौख्यदायकः” इति।साहित्यचूडामणौतु “तकारोविघ्ननाशकः” इत्युक्तम्।किञ्चतकारस्यजलंभूतंबृहस्पतिर्देवता।अतःशुभावहोऽनेनप्रबन्धारम्भः।अतएवोक्तंचमत्कारचन्द्रिकायाम् “वर्णानामुद्भवःपश्चाद्व्यक्तिःसङ्ख्याततःपरम्।भूतबीजविचारश्चततोवर्णग्रहाअपि॥” इत्यारभ्य “एतत्सर्वमविज्ञाययदिपद्यंवदेत्कवि।केतकारूढकपिवत्भवेत्कण्टकपीडितः॥” इति।”कारणात्पञ्चभूतानामुद्भूतामातृकायतः।अतोभूतात्मकावर्णाःपञ्चपञ्चविभागतः।वाय्वग्निभूजलाकाशाःपञ्चाशल्लिपयःक्रमात्।पञ्चह्रस्वाःपञ्चदीर्घाबिन्द्वन्ताःसन्धयस्तथा।तत्रस्वरेशःसूर्योऽयंकवर्गेशस्तुलोहितः।चवर्गप्रभवःकाव्यष्टव- -र्गाद्बुधसम्भवः।तवर्गोत्थःसुरगुरुःपवर्गोत्थःशनैश्चरः।यवर्गजोऽयंशीतांशुरितिसप्तग्रहाःक्रमात्॥” इति।अत्रतपःस्वाइतियगणः, आदिलघुत्वात्।तदुक्तम् “आदिमध्यावसानेषुयरतायान्तिलाघवम्।भजसागौरवंयान्तिमनौतुगुरुलाघवम्॥” इति।यगणप्रयोगश्चार्थकरइत्युक्तंचमत्कारचन्द्रिकायाम् “करोत्यर्थानादिलघुर्यगणोवायुदैवतः” इति।ननुतपस्तापःसुतरामाधिःस्वाधिस्तयोरायेनिरतमितिग्रन्थारम्भेअश्लीलवचनमनुचितम्।तदुक्तम् “अश्लीलंयदमाङ्गल्यंजुगुप्साव्रीडभीकरम्” इति।मैवम्, प्रसिद्धिविशेषेणतपोवेदयोरेवप्रथमतरंबुद्ध्यारोहेणाश्लीलत्वप्रसङ्गाभावात्।यथाभगिनीलिङ्गादि– प्रयोगेषु।अत्रसर्वत्रप्रायेणपथ्यावक्त्रंवृत्तम्।तदुक्तंवृत्तरत्नाकरे “युजोर्जेनसरिद्भर्त्तुःपथ्यावक्त्रंप्रकीर्त्तितम्” इति।वृत्तविशेषास्तुतत्रतत्रवक्ष्यन्ते।अत्रवृत्त्यनुप्रासःशब्दालङ्कारः, तकारादीनामावृत्तेः।तदुक्तंकाव्यप्रकाशे “वर्णसाम्यमनुप्रासः” इति।विशेषणानांसाभिप्रायत्वात्परिकरोनामार्थालङ्कारः।उक्तमलङ्कारसर्वस्वे “विशेषणानांसाभिप्रायत्वेपरिकरः”इति।तपःस्वाध्यायनिरतत्वादीनांगुरूपसत्तिहेतुज्ञानानुष्ठानप्रतिपादकत्वात्पदार्थहेतुकंकाव्यलिङ्गमलङ्कारः। “हेतोर्वाक्यपदार्थत्वेकाव्यलिङ्गमलंकृतिः” इतिलक्षणात्।अत्रवाल्मीकिनारदयोःस्वरूपकथनेनशिष्याचार्य्याभ्यामेवंभवितव्यमितिद्योतनात्वाक्यगतवस्तुनावस्तुध्वनिः॥ 1.1.1 ॥
कोन्वस्मिन्साम्प्रतंलोकेगुणवान्कश्चवीर्यवान्।
धर्मज्ञश्चकृतज्ञश्चसत्यवाक्योदृढव्रतः॥ 1.1.2 ॥
कथंपरिपप्रच्छेत्याकाङ्क्षायांप्रश्नप्रकारंदर्शयतिकोन्वित्यादिश्लोकत्रयेण। “नुःपृच्छायांविकल्पेच” इत्युमरः।अस्मिन्लोकेभूलोकेसाम्प्रतमस्मिन्काले “अस्मिन्कालेऽधुनेदानींसम्प्रत्येतर्हिसाम्प्रतम्” इतिबाणः।लोकान्तरेविष्णोर्विदितत्वात्।अत्रैवकालान्तरेनृसिंहादेःप्रसिद्धत्वाच्चतद्व्यावृत्त्यर्थमे– वमुक्तम्।गुणाअस्यसन्तीतिगुणवान्।भूमादयोमत्वर्थाः।अस्मिन्लोकेअस्मिन्कालेकोवासकलकल्याणगुणसम्पन्नइत्यर्थः।एवंसामान्येनगुणसमुदायंपृष्ट्वाविशिष्यतत्तद्गुणाश्रयंपृच्छतिकश्चवीर्यवान्इत्यादिना।यद्वागुण्यतेआवर्त्यतेपुनःपुनराश्रितैरनुसन्धीयतइतिगुणःसौशील्यम्।”गुणस्त्वावृत्तिशब्दादिज्येन्द्रियामुख्यतन्तुषु” इतिविश्वः।सुशीलंहिनाममहतोमन्दैःसहनीरन्ध्रेणसंश्लेषः।तस्याधिक्यंसौशील्यम्, तद्वान्।सौशील्येगुणशब्दोऽभियुक्तैःप्रयुक्तः। “वशीवदान्योगुणवानृजुःशुचिः” इति।कोवासौशील्यवानित्यर्थः।सर्वत्रप्रश्नेतुनुइतिकिंशब्दोऽपियत्रनप्रयुक्तस्त- त्रानुषञ्जनीयः।एकेनैवकिंशब्देनोपपत्तावप्यादरातिशयात्पुनःपुनस्तत्प्रयोगः। “प्रदानवदेवतदुक्तम्” इतिन्यायेनप्रतिगुणंगुण्यावृत्त्यभिप्रायेणवालोकेगुणसम्बन्धाद्गुण्यतिशयः।इहतुगुणिसम्बन्धाद्गु- -णातिशयइतिद्योतनायगुणिनःप्रथमंनिर्देशः “गुणास्सत्यज्ञान ” इत्युक्तेः।कश्चवीर्य्यवान्।चकारउक्तसमुच्चये।सत्स्वपिविकारहेतुष्वविकृतत्वंवीर्यम् ‘औषधंवीर्यवत्’ इत्यादौतथादर्शनात्, तद्वान्।धर्मःअलौकिकश्रेयःसाधनम्, तंसामान्यरूपंविशेषरूपंचजानातीतिधर्मज्ञः।चकारोऽनुक्तसमुच्चयार्थः।परिहार्याधर्मज्ञश्चेत्यर्थः।कृतमुपकारंस्वल्पंप्रासङ्गिकमपिबहुतयाजानातीतिकृतज्ञः।अपकारास्मरणंचशब्दार्थः।वक्ष्यति “नस्मरत्यपकाराणांशतमप्यात्मवत्तया।कथञ्चिदुपकारेणकृतेनैकेनतुष्यति॥” इति।सत्यंकृच्छ्रेष्वप्यनृतशून्यंवाक्यंवचनंयस्यसःसत्यवाक्यः।तथावक्ष्यति “अनृतंनोक्तपूर्वंमेनचवक्ष्येकदाचन” इति।दृढव्रतःनिश्चलसङ्कल्पः। “अप्यहंजीवितंजह्यांत्वांवासीतेसलक्ष्मणाम्।नहिप्रतिज्ञांसंश्रुत्यब्राह्मणेभ्योविशेषतः॥” इति॥ 1.1.2 ॥
चारित्रेणचकोयुक्तःसर्वभूतेषुकोहितः।
विद्वान्कःकःसमर्थश्चकश्चैकप्रियदर्शनः॥ 1.1.3 ॥
चरित्रमाचारःतदेवचारित्रम्।वायसराक्षसादिवत्स्वार्थेऽण्प्रत्ययः।तेनयुक्तः, सर्वदाप्यनुल्लङ्घित– कुलाचारइत्यर्थः।सर्वभूतेषुसर्वप्राणिषुविषये। “भूतंक्ष्मादौचजन्तौचनस्त्रियांगुणसत्त्वयोः” इतिबाणः।हितःहितकरः।हितशब्दात् “तत्करोति” इतिणिच्, पचाद्यच्, णिलोपेपूर्वरूपेचरूपम्।भूतशब्देनस्वपरतारतम्याभावउक्तः।सर्वशब्देनसापराधेष्वपिहितकरत्वमुक्तम्।वेत्तीतिविद्वान्सर्वशास्त्रज्ञः। “विदेःशतुर्वसुः”।समर्थःसर्वकार्यधुरन्धरः।प्रियंदर्शनंयस्यासौप्रियदर्शनः, एकश्चासौप्रियदर्शनश्चएक–प्रियदर्शनः।अयमिवनान्योलोकेप्रियदर्शनोऽस्तीत्यर्थः।यद्वाएकप्रियदर्शनःएकरूपप्रियदर्शनः।लोकेहिकस्यचिद्दर्शनंकदाचित्प्रियंभवतिकदाचिदप्रियंचभवति। “तस्माद्दुःखात्मकंनास्तिनचकिञ्चित् सुखात्मकम्” इतिवचनात्।अयंतुनतथा, किन्तु “क्षणेक्षणेयन्नवतामुपैतितदेवरूपंरमणीयतायाः” इत्युक्तरीत्यासदानुभवेऽप्यपूर्ववद्विस्मयमादधानइत्यर्थः।तथैवोत्तरयिष्यतिसदैकप्रियदर्शनइति। “एकेमुख्यान्यकेवलाः” इत्युभयत्राप्यमरः॥ 1.1.3 ॥
आत्मवान्कोजितक्रोधोद्युतिमान्कोऽनसूयकः।
कस्यबिभ्यतिदेवाश्चजातरोषस्यसंयुगे॥ 1.1.4 ॥
आत्मवानिति।आत्मवान्धैर्यवान्। “आत्माजीवेधृतौदेहेस्वभावेपरमात्मनि” इत्यमरः।अप्रकम्प्यधैर्यइत्यर्थः।जितक्रोधःविधेयकोपःदण्डार्हेष्वेवाहितकोपइत्यर्थ। “क्रोधमाहारयत्तीव्रम्” इतिहिवक्ष्यति।द्यु –तिमान्कान्तिमान् “रूपसंहननंलक्ष्मींसौकुमार्य्यंसुवेषताम्।ददृशुर्विस्मिताकारारामस्यवनवासिनः”इतिहिवक्ष्यति।गुणेषुदोषाविष्करणमसूया। “असूयातुदोषारोपोगुणेष्वपि” इत्यमरः।अविद्यमानासूया
यस्यासावनसूयकः। “शेषाद्विभाषा” इतिकपि “आपोऽन्यतरस्याम्” इतिह्रस्वः।यद्वाअसूयकःअसूङ्कण्ड्वादौपठितः।तस्मात् “कण्ड्वादिभ्योयक्” इतियक्प्रत्ययः।”अकृत्सार्वधातुकयोः” इतिदीर्घः।ततो “निन्दहिंस ” इत्यादिनावुञ्।सनभवतीत्यनसूयकः।कस्येति।देवाश्चेतिचकारेणासुरादयःसमुच्चीयन्ते।जातरोषस्यकस्यसंयुगेदेवादयःसर्वेबिभ्यतीत्यन्वयः।अतोन “भीत्रार्थानां ” इतिकिंशब्दात्पञ्चमी।शत्रुविषयःकोपोमित्राणामपिभयमावहतीत्यर्थः।यद्वाचकारोऽप्यर्थः।अनुकूलाअपिबिभ्यति, किंपुनःप्रतिकूलाइत्यर्थः।यद्वासंयुगेजातरोषस्यकस्यबिभ्यतीत्येवान्वयः।शेषेषष्ठी। “सञ्ज्ञापूर्वकोविधिरनित्यः” इत्यपादानसञ्ज्ञापूर्वकपञ्चम्यभावः।अत्रश्लोकत्रयेसमृद्धि– मद्वस्तुवर्णनादुदात्तालङ्कारः॥ 1.1.4 ॥
एतदिच्छाम्यहंश्रोतुंपरंकौतूहलंहिमे।
महर्षेत्वंसमर्थोऽसिज्ञातुमेवंविधंनरम्॥ 1.1.5 ॥
अथायंप्रश्नोविजिगीषामूलमितिनारदोमन्येतापीतिमन्वानःस्वप्रश्नोजिज्ञासाहेतुकइतिदर्शयन्प्रश्नमुपसंहरतिएतदिति।एतत्पूर्वोक्तगुणाश्रयभूतंवस्तुअहंजिज्ञासुःनविजिगीषुः, श्रोतुंनतुक्षेप्तु– मिच्छामि, नतुब्रूहिइतिनिर्बध्नामि।अहंतावदिच्छामिमयिभवतःप्रसादोऽस्तिचेद्वक्तुमर्हसीतिभावः।तत्रहेतुमाहपरमिति।हिर्हेतौ। “हिर्हेताववधारणे” इतिबाणः।यस्मात्कारणान्मेपरमुत्कृष्टंकौतूहलंविस्मयोऽस्तितस्मादिच्छामि।यद्वाहिःप्रसिद्धौ।मुखविकासाद्यनुभावैर्ममहर्षस्तवस्पष्टइत्यर्थः।स्वप्रश्नोत्तरदानेदेशिकालाभान्निर्विण्णः।सम्प्रतिभवद्दर्शनेनसञ्जाताभिलाषोऽस्मि, ब्रूहिमत्पृष्टमितिभावः। “आचार्यस्यज्ञानवत्तामनुमायशिष्येणोप(स)पत्तिःक्रियते” इतिन्यायेननारदस्यप्रष्टव्यविषयज्ञानसम्भावनामाहमहर्षइति।ऋषिःज्ञानस्यपारंगन्ता। “ऋषीगतौ” इत्यस्माद्धातोः “इगुपधात्कित्” इतीन्।गत्यर्थोज्ञानार्थः।महांश्चासौऋषिश्चमहर्षिः। “आन्महतःसमानाधिकरण– जातीययोः” इत्यात्वम्।हेतुगर्भविशेषणम्।महर्षित्वात्त्वमेवंविधंनरंपुरुषंज्ञातुमर्हसि।ब्रह्मणःसकाशाद् विदितसकलविशेषस्त्वंकथंमेजिज्ञासोर्नवदेरितिभावः।अत्रपूर्वार्धेकाव्यलिङ्गमलङ्कारः, उत्तरवाक्या- र्थस्यपूर्ववाक्यार्थहेतुत्वात्। “हेतोर्वाक्यपदार्थत्वेकाव्यलिङ्गमलंकृतिः।” इतिलक्षणात्।उत्तरार्द्धेपरिकरइतिअनयोःसंसृष्टिः।अन्तेचास्येतिकरणंबोध्यम्।इतिपरिपप्रच्छेतिसम्बन्धः।नन्वयंप्रश्नोवाल्मीकेर्नसङ्गच्छते,तस्यविदितसकलरामवृत्तान्तत्वेननिश्चयेसंशयायोगात्।वक्ष्यतिह्ययोध्याकाण्डे “इतिसीताचरामश्चलक्ष्मणश्चकृताञ्जलिः।अभिगम्याश्रमंसर्वेवाल्मीकिमभिवादयन्॥” इति।कथंरामविषयमध्यवर्त्तीवाल्मीकिस्तद्गुणान्नविजानीयात्?वक्ष्यतिहि”विषयेतेमहाराजरामव्यसनकर्शिताः।अपिवृक्षाःपरिम्लानाःसपुष्पाङ्कुरकोरकाः॥”इति।कथंवा “रामोरामोरामइतिप्रजानामभवन्कथाः।रामभूतंजगदभूद्रामेराज्यंप्रशासति॥” इतिपृथग्जनैरपिविदितंरामवैभवंमुनिरेषनजानीयात्, कथंचैतावन्मात्रंसत्यलोकादागतोनारदःप्रष्टुमर्हति, यएवमुत्तरयति ‘रामोनामजनैःश्रुतः’ इति।तत्रोच्यतेनायमापाततोभासमानःप्रश्नार्थःनाप्युत्तरार्थः।अत्रकरतलामलकवद्विदितरामवृत्तान्तस्यवाल्मीकेःकुतूहलासम्भवात् “बुद्ध्वावक्ष्यामि” इत्युत्तरवाक्यानुपपत्तेश्च।किन्तुवक्तृबोद्ध्रानुगुण्यात्वेदान्तेषुनानाविद्यासुतत्तद्गुणविशिष्टतयावगम्यमानंपरंतत्त्वंकिंविष्णुः, उतरुद्रादिष्वन्यतमइतिप्रश्नार्थः।तदिदंवाल्मीकेर्हृदयमाकलयन्भगवान्नारदोऽपिरामत्वेनावतीर्णोविष्णुरेववेदान्तवेद्यःपुरुषः, ब्रह्मादयःसर्वेतद्भृकुटीभटास्तत्परतन्त्राः।सद्ब्रह्मात्मादिशब्दाश्चपर्यवसानवृत्त्यावयववृत्त्याचविष्णुपराइत्येवमाशयेनसकलवेदान्तोदितगुणजातंरामेयोजयन्नुत्तरयतीतिसर्वमनवद्यम्॥ 1.1.5 ॥
श्रुत्वाचैतत्त्रिलोकज्ञोवाल्मीकेर्नारदोवचः।
श्रूयतामितिचामन्त्र्यप्रहृष्टोवाक्यमब्रवीत्॥ 1.1.6 ॥
एवं “तद्विज्ञानार्थंसगुरुमेवाभिगच्छेत्” इत्युक्तंगुरूपसदनविधिमुपबृंहय “येनाक्षरंपुरुषंवेदसत्यंप्रोवाचतांतत्त्वतोब्रह्मविद्याम् “इत्युक्तंप्रवचनविधिमुपबृंहयतिश्रुत्वेत्यादिना।तत्र “नासंवत्सरवासिनेप्रब्रूयात्” इतिनियमस्यज्येष्ठपुत्रव्यतिरिक्तविषयत्वात्वाल्मीकेश्चभृगुपुत्रतयाभ्रातृपुत्रत्वात्शुश्रूषा– निरपेक्षंप्रीत्योपदिदेशेत्याहश्रुत्वाचेति।त्रयाणांलोकानांसमाहारस्त्रिलोकम्।पात्रादित्वान्नङीप्।यद्वात्रित्वविशिष्टोलोकस्त्रिलोकः। “नवरसरुचिराम्” इत्यत्रकाव्यप्रकाशेतथैवव्याख्यानात्।यद्वात्रयोलोकायस्मिन्तत्त्रिलोकमितिब्रह्माण्डमुच्यते, तज्जानातीतित्रिलोकज्ञः।भूर्भुवःस्वरितित्रैलोक्यम्।यद्वाविष्णुपुराणोक्तरीत्याकृतकमकृतकंकृतकाकृतकमितित्रयोलोकाः।महर्लोकपर्यन्ताःकृतकाःजनोलोकःकृतकाकृतकः।सत्यलोकोऽकृतकइति।यद्वालोकाजनाः “लोकस्तुभुवनेजने” इत्यमरः।बद्धनित्यमु- क्तास्त्रयोलोकाः।नारदःब्रह्मपुत्रतयातज्ज्ञानार्हः।एतत्पूर्वोक्तरीत्याव्यङ्ग्यार्थगर्भंवाल्मीकेःस्वाभिम -तस्यपुत्रस्यवचःपरिपूर्णार्थंवाक्यंश्रुत्वानिशम्य।चकारेणतदूहित्वाचेत्यर्थः।प्रहृष्टःस्वेनोपदिदिक्षि–तस्यैवपृष्टत्वेनसन्तुष्टःशतकोटिप्रविस्तररामायणेस्वावगतस्यैवानेनपृष्टत्वात्रामगुणस्मरणामृत– पानलाभादपूर्वशिष्यलाभाद्वा “सोहंमन्त्रविदेवास्मिनात्मवित्” इत्युक्तरीत्यासनत्कुमारंप्रतिस्वस्योप- सर्पणस्मारकत्वाद्वाप्रहृष्टःसन्।कर्त्तरिक्तः।रामगुणानुसन्धानजनितंनिजवैचित्र्यंव्याजेनपरिहर्तुंश्रूयतामित्यामन्त्र्याभिमुखीकृत्यवाक्यमुत्तररूपमब्रवीत्व्यक्तमुक्तवान्॥ 1.1.6 ॥
बहवोदुर्ल्लभाश्चैवयेत्वयाकीर्त्तितागुणाः।
मुनेवक्ष्याम्यहंबुद्ध्वातैर्युक्तःश्रूयतांनरः॥ 1.1.7 ॥
वक्ष्यमाणस्यासदुत्तरत्वपरिहारायात्मनोवाल्मीकेराशयाभिज्ञत्वमाहबहवइति।बहवोविपुलाः, अनेकगुण-विततिमूलभूताइत्यर्थः।अनेनापृष्टानामपिवक्ष्यमाणानांगुणानांनिदानमुपदर्शितम्यद्वाबहवःअपरि -च्छिन्नाइत्यर्थ।श्रूयतेहिअपरिच्छिन्नत्वंगुणानाम् “यतोवाचोनिवर्तन्तेअप्राप्यमनसासह।आनन्दंब्रह्मणोविद्वान्नबिभेतिकुतश्चन” इति।अत्रानन्दस्यैकस्यापरिच्छिन्नत्वोक्तिरितरेषामप्यपरिच्छिन्न –त्वप्रदर्शनार्था।उक्तंहियामुनाचार्यैः “उपर्युपर्यब्जभुवोऽपिपूरुषान्” इत्यादिना।दुर्लभाःपरमपुरुषा– दन्यत्रासम्भाविताः, अन्येषां “नब्रह्मानेशानः” इत्यादिनाअसम्भाव्यत्वादिवचनादितिभावः।अनेनप्रश्नस्यदेवताविशेषनिर्द्धारणपरत्वमात्मनावगतमितिव्यञ्जितम्।चकारउक्तसमुच्चयार्थःअनुक्तस -मुच्चयार्थोवा।तेनस्वाभाविकानवधिकातिशयासङ्ख्येयकल्याणरूपाइत्युक्तम्।एवकारइतरत्रसर्वात्मनाअसम्भावितत्वमभिव्यनक्ति।यइतिवेदान्तप्रसिद्धिरुच्यते।गुणाःवीर्यादयःकीर्तिताइत्यनेनगुणानांप्रश्नकालेऽपिभोग्यतातिशयःसूच्यते।तैर्युक्तः, नतुकल्पितइतिनिर्गुणवादनिरासः।नरःपुरुषः। “पुरुषाःपूरुषानराः” इतिनिघण्टुः। “यएषोऽन्तरादित्येहिरण्मयःपुरुषोदृश्यते” “पुरुषःपुण्डरीकाक्षः” इतिश्रुतिस्मृत्यनुगतःपुरुषशब्दोऽनेनप्रत्यभिज्ञाप्यते।श्रूयतांनतुयथाकथञ्चित् परि– कल्प्यताम्।शृण्वित्यनभिधानात्विनयोक्तिरियम्।तात्कालिकंकिञ्चित्प्रकल्प्यतइतिभ्रमंवारयतिअहंबुद्ध्वावक्ष्यामीति।मत्पितुर्ब्रह्मणःसकाशात्शतकोटिप्रविस्तररामायणमुखेनविदित्वावक्ष्यामि।अनेनसम्प्रदायाभिज्ञत्वमात्मनोदर्शितम्।यद्वा, रामगुणानुसन्धानवैचित्र्येननमेकिञ्चित्प्रतिभाति, क्षणात्बुद्ध्वावक्ष्यामीत्यर्थः।अतोमध्येवाक्यान्तरमलङ्काराय।अन्यथावाक्यगर्भितमितिकाव्यदोषःस्यात्।अहंवक्ष्यामिअहम्भूत्वावक्ष्यामि, नेदानींनारदोऽस्मि, रामगुणश्रवणशिथिलत्वात्।रामगुणमग्नो –ऽयंनदीप्रवाहमग्नइवअवलम्बनयष्टिमपेक्षतेहेमुनइति।यद्वा, प्रश्नकालेसमवधानविशेषमालक्ष्यश्लाघतेमुनइति।अथक्षणात्सन्धुक्षितोनारदोवाक्यशेषंपूरयतितैरिति।नरइत्यनेनपरतत्त्वनिर्द्धारणंप्रश्नफलितार्थंद्योतयति।बुद्ध्वाइत्यनेनश्रुतिस्थतत्तच्छब्दार्थोविवृतः॥ 1.1.7 ॥
इक्ष्वाकुवंशप्रभवोरामोनामजनैःश्रुतः।
नियतात्मामहावीर्योद्युतिमान्धृतिमान्वशी॥ 1.1.8 ॥
अथवेदान्तोदितगुणानांरामेप्रदर्शनमुखेनरामत्वेनावतीर्णोविष्णुरेववेदान्तवेद्यंपरंतत्त्वमितिदर्शयतिइक्ष्वाकुवंशप्रभवइत्यादिनासर्गशेषेण।तत्रवेदान्तोदितगुणगणानांनिधीरामत्वेनावतीर्णोविष्णुरेवेतिमहावाक्यार्थः।इक्ष्वाकुवंशेत्यारभ्यसत्येधर्मइवापरइत्यन्तासार्धैकादशश्लोक्येकान्वया।इक्ष्वाकुर्नामवैवस्वतमनोर्ज्येष्ठःपुत्रः, तस्यवंशःपुत्रपौत्रादिपरम्परा।प्रभवत्यस्मादितिप्रभवःप्रादुर्भावस्थानम्।इक्ष्वाकुवंशःप्रभवोयस्यसःइक्ष्वाकुवंशप्रभवः।जनकादिमहाकुलेषुविद्यमानेषुकुतोऽत्रैवभगवानवतीर्णइत्यपेक्षायामिक्ष्वाकुपदंप्रयुक्तम्।इक्ष्वाकुर्हिचिरंहरिमाराध्यतन्मूर्त्तिविशेषंश्रीरङ्गनाथमलभतेतिपौराणिकीगाथा।अतस्तत्पक्षपातेनतद्वंशेऽवतीर्णइतिसूचयितुमिक्ष्वाकुपदम्।वंशेत्यनेनगुणवान्कइतिपृष्टंसौशील्यमुक्तम्।रमयतिसर्वान्गुणैरितिरामः।”रामोरमयतांवरः”इत्यार्षनिर्वचनबलात्कर्तर्य्यपिकारकेघञ्वर्ण्यते।यद्वारमन्तेऽस्मिन्सर्वेजनागुणैरितिरामः। “अकर्त्तरिचकारकेसञ्ज्ञायाम्” इतिघञ्।तथाचागस्त्यसंहितायामुक्तम्”रमन्तेयोगिनोऽनन्तेसत्यानन्देचिदात्मनि।इतिरामपदेनासौपरंब्रह्माभिधीयते॥” इतिनामेतिप्रसिद्धौ।चित्रकूटवासिनात्वयाविदितोहीत्यर्थः।नकेवलंभवता, पामरैरपिविदितइत्याहजनैःश्रुतइति।श्रुतःअवधृतः। “श्रुतंशास्त्रावधृतयोः” इत्यमरः।ताटकाताटकेयवधविश्वामित्राध्वरत्राणाहल्याशापविमोक्षहरधनुर्भङ्गपरशुरामनिग्रहसप्ततालवेधवालिवधसि न्धुबन्धमूलबलनिबर्हणादिभिरवधारितनारायणभावइत्यर्थः। यएवम्भूतःसएवनियतात्मासएवमहावीर्य्यइत्येवंप्रतिपदंवक्ष्यमाणंतत्पदमनुषज्यते। रामरूपेणावतीर्णोविष्णुरेववेदान्तोदिततत्तद्गुणकइतिसर्वत्रतात्पर्यार्थः। आदौस्वरूपनिरूपकधर्म्मानाहनियतात्मेत्यादिना।नियतात्मानियतस्वभावः, निर्विकारइतियावत्। “नास्यजरयैतज्जीर्यतेनवधेनास्यहन्यतेअपहतपाप्माविजरोविमृत्युर्विशोकोविजियत्सोऽपिपासः” इत्यादिश्रुतेः।महावीर्यःअचिन्त्यविविधविचित्रशक्तिकः। “परास्यशक्तिर्विविधैवश्रूयतेस्वाभाविकीज्ञानबलक्रियाच” इतिश्रुतेः।द्युतिमान्स्वाभाविकप्रकाशवान्।स्वयम्प्रकाशःज्ञानस्वरूपइतियावत्। “विज्ञानघनएवप्रज्ञानघनः” इतिश्रुतेः।धृतिमान्निरतिशयानन्दः। “धृतिस्तुतुष्टिःसन्तोषः” इतिवैजयन्ती। “आनन्दोब्रह्म” इतिश्रुतेः।सर्वंजगद्वशेऽस्यास्तीतिवशी, सर्वस्वामीत्यर्थः। “सर्वस्यवशीसर्वस्येशानः” इतिश्रुतेः॥ 1.1.8 ॥
बुद्धिमान्नीतिमान्वाग्ग्मीश्रीमान्शत्रुनिबर्हणः।
विपुलांसोमहाबाहुःकम्बुग्रीवोमहाहनुः॥ 1.1.9 ॥
अथसृष्ट्युपयोगिगुणानाहबुद्धिमानित्यादिना।बुद्धिमान्सर्वज्ञः। “यःसर्वज्ञःसर्ववित्” इतिश्रुतेः।नीतिमान्मर्यादावान्।श्रुतिरत्र “धातायथापूर्वमकल्पयत्।एषसेतुर्विधरणएषांलोकानामसम्भेदाय” इति।शोभनावागस्यास्तीतिवाग्ग्मी। “वाचोग्मिनिः” इतिग्मिनिप्रत्ययः।कुत्वेजश्त्वेचकृतेगकारलाभात्पुनर्गकारउक्तिशोभनत्वज्ञापनायेतिन्यासकारः।सर्ववेदप्रवर्त्तकइत्यर्थः। “योब्रह्माणंविदधातिपूर्वंयोवैवेदांश्चप्रहिणोतितस्मै” इतिश्रुतिः।श्रीमान्समृद्धोभयविभूत्यैश्वर्यः।”श्रीःकान्तिसम्पदोर्लक्ष्म्याम्”इतिबाणः। “सर्वमिदमभ्यात्तः” इतिश्रुतिः।शत्रून्तद्विरोधिनोनिबर्हयतिनाशयतीतिशत्रुनिबर्हणः। “बर्हहिंसायाम्” इत्यस्माद्धातोःकर्त्तरिल्युट्। “एषभूतपतिरेषभूतपालः” इतिश्रुतेः।अथ “यएषोऽन्तरादित्येहिरण्मयःपुरुषोदृश्यतेहिरण्यश्मश्रुर्हिरण्यकेशःआप्रणखात्सर्वएवसुवर्णस्तस्ययथाकप्यासंपुण्डरीकमे- -वमक्षिणी।तस्योदितिनामसएषसर्वेभ्यःपाप्मभ्यउदितउदेतिहवैसर्वेभ्यःपाप्मभ्योयएवंवेद ” इत्यन्तरादित्यविद्योदितंसर्वाङ्गसुन्दरविग्रहंदर्शयतिविपुलांसइत्यादिनासार्द्धश्लोकद्वयेन।विपुलांसःउन्नतस्कन्धः।उन्नतस्कन्धत्वंचमहापुरुषलक्षणमितिसामुद्रिकोक्तम्”कक्षःकुक्षिश्चवक्षश्चघ्राणःस्कन्धोललाटिका।सर्वभूतेषुनिर्द्दिष्टाउन्नतास्तुसुखप्रदाः॥” इति।महाबाहुःवृत्तपीवरबाहुः।आयतत्वंतुवक्ष्यतिआजानुबाहुरिति। “आजानुलम्बिनौबाहूवृत्तपीनौमहीश्वरः” इतिसामुद्रिकलक्षणम्।कम्बुग्रीवःशङ्खतुल्यकण्ठः।इन्दुमुखीतिवत्शाकपार्थिवादित्वान्मध्यमपदलोपीसमासः। “कम्बुग्रीवश्चनृपतिर्लम्बकर्णोऽतिभूषणः” इतिलक्षणम्। “रेखात्रयान्विताग्रीवाकम्बुग्रीवेतिकथ्यते” इतिहलायुधः।महत्यौहनूयस्यासौमहाहनुः।”स्त्रियाःपुंवत्” इत्यादिनापुंवद्भावः।हनुःकपोलोपरिभागः। “अधस्ताच्चि -बुकंगण्डौकपोलौतत्परोहनुः” इत्यमरः।”मांसलौतुहनूयस्यभवतस्त्वीषदुन्नतौ।सनरोमृष्टमश्नातियावदायुःसुखान्वितः॥” इतिलक्षणम्॥ 1.1.9 ॥
महोरस्कोमहेष्वासोगूढजत्रुररिन्दमः।
आजानुबाहुःसुशिराःसुललाटःसुविक्रमः॥ 1.1.10 ॥
महोरस्कइति।महद्विशालमुरोयस्यासौमहोरस्कः। “उरःप्रभतिभ्यःकप्” इतिकप्।लक्षणंतु”स्थिरंविशालंकठिनमुन्नतंमांसलंसमम्।वक्षोयस्यमहीपालस्तत्समोवाभवेन्नरः॥” इति।मांसलत्वंतुवक्ष्यतिपीनवक्षाइति।महान्इष्वासोधनुर्यस्यासौमहेष्वासः।अनेनतदुचितसंहननविशेषोलक्ष्यते, अतोनप्रक्रमविरोधः।गूढेमांसलत्वेनाप्रकाशेजत्रुणीअसंद्वयसन्धिगतास्थिनीयस्यासौगूढजत्रुः। “स्कन्धोभुजशिरोऽसोऽस्त्रीसन्धीतस्यैवजत्रुणी” इत्यमरः। “विषमैर्जत्रुभिर्निःस्वाअतिसूक्ष्मैश्चमानवाः।उन्नतैर्भोगिनोनिम्नैर्निःस्वाःपीनैर्नराधिपाः॥” इतिलक्षणम्।अरीन्दमयतिनिवर्त्तयतीत्यरिन्दमः। “सञ्ज्ञायांभृतृ़वृजिधारिसहितपिदमः” इतिखच्।असञ्ज्ञायामप्यार्षः।अरिशब्देनपाप्माविवक्षितः, अपहतपाप्मेत्यर्थः।अनेनायंविग्रहपरिग्रहोनकर्ममूलः, किन्त्वनुग्रहमूलः,”इच्छागृहीताभिमतोरुदेहः” इतिस्मृतेः।अतःनप्रक्रमभङ्गः।जानुऊरुपर्व, तत्पर्यन्तंविलम्बिबाहुराजानुबाहुः।सुष्ठुसमंवृत्तंछत्राकारंशिरोयस्यासौसुशिराः।”समवृत्तशिराश्चैवछत्राकारशिरास्तथा।एकछत्रांमहींभुङ्क्तेदीर्घमायुश्चजीवति॥”इतिलक्षणम्।सुललाटः।ललाटसौष्ठवंप्रोक्तम् “अर्धचन्द्रनिभंतुङ्गंललाटंयस्यसप्रभुः” इति।शोभनःविक्रमःपदविक्षेपोयस्यासौसुविक्रमः, शोभनत्वंचगजादितुल्यत्वम्।तथोक्तंजगद्वल्ल– -भायाम् “सिंहर्षभगजव्याघ्रगतयोमनुजामुने।सर्वत्रसुखमेधन्तेसर्वत्रजयिनःसदा॥” इति॥ 1.1.10 ॥
समःसमविभक्ताङ्गःस्निग्धवर्णःप्रतापवान्।
पीनवक्षाविशालाक्षोलक्ष्मीवान्शुभलक्षणः॥ 1.1.11 ॥
समःनातिदीर्घोनातिह्रस्वः।तथात्वंचतत्रैवोक्तम् “षण्णवत्यङ्गुलोच्छ्रायःसार्वभौमोभवेन्नृपः” इति।समानिअन्यूनाधिकपरिमाणानिविभक्तानिअश्लिष्टानिअङ्गानिकरचरणाद्यवयवायस्यससमविभ- -क्ताङ्गः।तानिचोक्तानिसामुद्रिकैः”भ्रुवौनासापुटेनेत्रेकर्णावोष्ठौचचूचुकौ।कूर्परौमणिबन्धौचजानुनीवृषणौकटी।करौपादौस्फिजौयस्यसमौज्ञेयःसभूपतिः॥” इति।स्निग्धःस्नेहयुक्तोवर्णोयस्यसःस्निग्धवर्णः।तत्रोक्तंवररुचिना “नेत्रस्नेहेनसौभाग्यंदन्तस्नेहेनभोजनम्।त्वचःस्नेहेनशय्याचपादस्नेहेनवाहनम्” इति।प्रतापवान्तेजस्वी, समुदायशोभासम्पन्नइत्यर्थः।पीनवक्षामांसलवक्षाः।विशालेपद्मपत्रायतेअक्षिणीयस्यसःविशालाक्षः। “बहुव्रीहौसक्थ्यक्ष्णोःस्वाङ्गात्षच्” इतिषच्।अत्रसामुद्रिकम् “रक्तान्तैःपद्मपत्राभैर्लोचनैःसुखभोगिनः” इति।लक्ष्मीवान्अवयवशोभायुक्तः।शुभलक्षणःअनुक्तसकललक्षणसम्पन्नः॥ 1.1.11 ॥
धर्म्मज्ञःसत्यसन्धश्चप्रजानांचहितेरतः।
यशस्वीज्ञानसम्पन्नःशुचिर्वश्यःसमाधिमान्।
प्रजापतिसमःश्रीमान्धातारिपुनिषूदनः॥ 1.1.12 ॥
एवमाश्रितानुभाव्यदिव्यमङ्गलविग्रहशालित्वमुक्त्वाआश्रितरक्षणोपयोगिगुणानाहधर्मज्ञइत्यादिनास्वजनस्यचरक्षितेत्यन्तेन।धर्मंशरणागतरक्षणरूपंजानातीतिधर्म्मज्ञः।वक्ष्यति “मित्रभावेनसम्प्राप्तंनत्यजेयंकथञ्चन।दोषोयद्यपितस्यस्यात्सतामेतदगर्हितम्॥” इति।सत्यासन्धाप्रतिज्ञायस्यससत्यसन्धः “प्रतिज्ञानेवधौसन्धा” इतिवैजयन्ती। “अप्यहंजीवितंजह्यांत्वांवासीतेसलक्ष्मणाम्।नहिप्रतिज्ञांसंश्रुत्यब्राह्मणेभ्योविशेषतः॥” इति।प्रजानांप्राणिनांहितेहितकरणेरतःतत्परः।यशस्वीआश्रि- -तरक्षणैककीर्त्तिः। “तस्यनाममहद्यशः” इतिश्रुतेः।ज्ञानसम्पन्नः “यःसर्वज्ञःसर्ववित्” इत्युक्तरीत्यास्वरूपतःस्वभावतश्चसर्वविषयज्ञानशीलः।शुचिःपावनःपरिशुद्धोवा,ऋजुरितियावत्।वश्यःवशङ्गतः। “वशंगतः” इतिनिपातनाद्यत्।आश्रितपरतन्त्रइत्यर्थः।समाधिमान्समाधिःआश्रितरक्षणचिन्ता,तद्वान्।प्रजापतिसमः “मध्येविरिञ्चिगिरिशंप्रथमावतारः” इत्युक्तरीत्याजगद्रक्षणायप्रजापतितुल्य– तयावतीर्णः।श्रीमान्पुरुषकारभूतयालक्ष्म्याअविनाभूतः।धातापोषकः। “डुधाञ्धारणपोषणयोः” इतिधातोस्तृच्।रिपून्शत्रून्निषूदयतिनिरस्यतीतिरिपुनिषूदनः। “सूददीपदीक्षश्च” इतिप्रतिषेधस्यानित्य– त्वात् “अनुदात्तेतश्चहलादेः” इतियुच्, नन्द्यादिपाठाद्वाल्युः।सुषामादित्वात्षत्वम्।आश्रितविरोधि– निरसनशीलइत्यर्थः॥ 1.1.12 ॥
रक्षिताजीवलोकस्यधर्मस्यपरिरक्षिता।
रक्षितास्वस्यधर्मस्यस्वजनस्यचरक्षिता॥ 1.1.13 ॥
अथावतारैकान्तान्गुणानाहरक्षितेति।लोकेसार्वभौमःस्वकीयजनरक्षणएवयतते, अयंतुनतथा, किन्तुसर्वस्यप्राणिजातस्यरक्षिता।ताच्छील्येतृच्।शेषेषष्ठी।ननुयदिसर्वेषांरक्षितातर्हिदुष्कृतिन- -मपिसुखिनमापादयेदित्यत्राहधर्मस्यपरिरक्षितेति।आचरणप्रचारणाभ्यांसर्वधर्मस्यव्यवस्थापयिता।उच्छास्त्रप्रवर्त्तिनोऽपिचिकित्सकन्यायेनअनघ(अलङ्घ)यितेत्यर्थः।स्वस्यस्वकीयस्यशरणागतरक्षणरू- पस्यधर्मस्यविशेषधर्मस्यविशिष्यरक्षिता।यद्वा, धर्मस्यतत्तद्वर्णाश्रमधर्मस्यनित्यंसमन्ततोरक्षिता।लोकेसर्वधर्मप्रवर्त्तकोऽपि “धर्मोपदेशसमयेजनाःसर्वेऽपिपण्डिताः।तदनुष्ठानसमयेमुनयोऽपिनपण्डिताः॥” इतिन्यायेनस्वधर्मानुष्ठानेस्खलति, नतथायमित्याहस्वस्यधर्मस्यरक्षिता, स्वासाधारण– -स्यक्षत्रियधर्मस्यरक्षितेत्यर्थः।लोकेसर्वरक्षकोऽपिकश्चित्स्वजनरक्षणंकर्त्तुंनप्रगल्भते। “दास्यमैश्व– र्य्यभावेनज्ञातीनांचकरोम्यहम्।अर्धभोक्ताचभोगानांवाग्दुरुक्तानिचक्षमे॥” इतिभगवताप्युक्तेः।तदपिकर्तुमीहतइत्याहस्वजनस्यचरक्षितेति।स्वजनस्यच, स्वजनस्यापीत्यर्थः।अनेनस्वजनरक्षणस्यदुर्घटत्वंसूचितम्।यद्वा, चस्त्वर्थः।स्वजनस्यशरणागतस्यविशेषेणरक्षिता।विशेषस्तुतदपराधसहिष्णुत्वम्।वक्ष्यति “मित्रभावेनसम्प्राप्तंनत्यजेयंकथञ्चन।दोषोयद्यपितस्यस्यात्सता- मेतदगर्हितम॥” इति।यद्वा, लोकेकश्चित्सर्वान्रक्षन्स्वजनंपीडयति,असौतुस्वजनस्यापिरक्षितेत्यर्थः।अथवास्वावतारप्रयोजनमाहरक्षितेति।गीतंहि “परित्राणायसाधूनांविनाशायचदुष्कृताम्।धर्मसंस्थापनार्थायसम्भवामियुगेयुगे॥” इति।स्वजनस्यस्वशेषभूतस्येतिसर्वलोकविशेषणंरक्षणहेतु- सम्बन्धद्योतनार्थम्।रक्षिताइष्टप्रापकः, अनेनसाधुपरित्राणमुक्तम्।चशब्दोऽन्वाचये।रक्षिताचअनिष्टनिवर्त्तकः।अनेनानुषङ्गिकदुष्कृद्विनाशउक्तः।धर्मस्यसामान्यविशेषरूपस्यस्थापनमाहेतर– वाक्यद्वयेन।रक्षितास्वस्यधर्मस्यसीतापरिणयमुखेनस्वाश्रमोचितधर्माणामनुष्ठाता।यद्वा, स्वस्यधर्मःपरत्वम्, तस्यरक्षिता।हरधनुर्भङ्गपरशुरामजयादिनाहिपरत्वंस्थापितम्।यद्वा, धर्मोधनुः “स्वाम्यस्वभावसुकृतेष्वस्त्रीधर्मंतुकार्मुके।” इतिबाणः।सदाधनुर्द्धरः।स्वजनस्यचरक्षितास्वभूतोजनःस्वजनःज्ञानी “ज्ञानीत्वात्मैवमेमतम्’ इतिगीतत्वात्, तस्यरक्षिताआत्मनइवसर्वयोगक्षेमावहइत्यर्थः॥ 1.1.13 ॥
वेदवेदाङ्गतत्त्वज्ञोधनुर्वेदेचनिष्ठितः।
सर्वशास्त्रार्थतत्त्वज्ञःस्मृतिमान्प्रतिभानवान्॥ 1.1.14 ॥
अथास्याष्टादशविद्यास्थानाभिज्ञत्वमाहवेदेति।विदन्त्यनेनधर्मादिकमितिवेदः।करणेघञ् ।सचतुर्विधः।ऋग्यजुःसामाथर्वणभेदात्।वेदस्यकिञ्चित्कराणिवेदाङ्गानितानिचषट्।तथोक्तम् “शिक्षाकल्पोव्याकरणंनिरुक्तंज्योतिषांगतिः।छन्दसांविचितिश्चेतिषडङ्गानिप्रचक्षते॥” इति।तत्रशिक्षा– नामअकारादीनांवेदवर्णानांस्थानकरणप्रयत्नस्वरादिबोधिका, यागक्रियाक्रमोपदेशःकल्पः, साधुशब्द– व्याख्यानंव्याकरणम् “वर्णागमोवर्णलोपोवर्णविपर्ययः” इत्यादिनानिश्चयेनोक्तंनिरुक्तम्, कर्मानुष्ठान -कालादिप्रतिपादकंशास्त्रंज्यौतिषम्, छन्दसांपद्यानांशास्त्रंछन्दोविचिति।वेदाश्चवेदाङ्गानिचवेदवे- दाङ्गानितेषांतत्त्वंतत्त्वार्थःतंजानातीतितथोक्तः। “इगुपधज्ञाप्रीकिरःकः” इतिकप्रत्ययः।धनुर्वेदोनामधनुर्हस्तमुष्टिस्थितिविशेषाकर्षणविमोक्षणदिव्यास्त्रादिप्रयोगप्रतिपादकोग्रन्थ।चकारइतरोपवेदसमुच्च–यार्थः।क्षत्रियोधनुर्वेदप्रधानइतितस्यनिर्द्देशः।तेचोपवेदाश्चत्वारः।तथाहि “आयुर्वेदोधनुर्वेदोवेदोगान्धर्वएवच।अर्थशास्त्रमितिप्रोक्तमुपवेदचतुष्टयम्॥” इति।आयुर्वेदोबाहटंवैदिकधर्मानुष्ठानविरोधि –रोगनिवर्त्तकौषधादिप्रतिपादकम्।गान्धर्ववेदोभरतशास्त्रंसामगानोपयोगि।अर्थशास्त्रंचाणक्यादि– प्रणीतंनीतिशास्त्रंकर्मानुष्ठानेषूपयोग्यर्थसाधनम्, तेषुनिष्ठितः।सर्वशास्त्रार्थतत्त्वज्ञइति।सर्वशास्त्राणिउपात्तव्यतिरिक्तानिउपाङ्गानिगोबलीवर्दन्यायात्। “धर्मशास्त्रंपुराणंचमीमांसान्वीक्षिकीतथा।चत्वार्ये –तान्युपाङ्गनिशास्त्रज्ञाःसम्प्रचक्षते॥” इति।तत्रधर्मशास्त्रंपूर्वकाण्डोपबृंहणम्, पुराणंवेदान्तोपबृंहणम्, न्यायमीमांसेसर्ववेदसाधारण्यौतेषामर्थतत्त्वम्अर्थयाथात्म्यम्, निगूढाशयमित्यर्थः।तत्जानातीतितथा।अष्टादशविद्यास्थानतत्त्वज्ञइत्यर्थः।स्मृतिमान्ज्ञातार्थविषयेविस्मरणलेशरहितः।प्रतिभानवान्व्यवहारकालेश्रुतस्याश्रुतस्यवाझटितिस्फुरणंप्रतिभानम्, तद्वान्॥ 1.1.14 ॥
सर्वलोकप्रियःसाधुरदीनात्माविचक्षणः।
सर्वदाभिगतःसद्भिःसमुद्रइवसिन्धुभिः॥ 1.1.15 ॥
अथसर्वदासदुपास्यत्वमाहसर्वेति।सर्वेलोकाःप्रियायस्यसःसर्वलोकप्रियः, सर्वेषांलोकानांप्रियःसर्वलोकप्रियः।सर्वलोकप्रियत्वात्सद्भिरभिगन्तव्यइत्यर्थः।साधुःतत्कार्यसाधकः।उण्प्रत्ययः।यद्वासाधुःउचितः, सदभिगमनोचितइत्यर्थः। “साधुस्त्रिषूचितेसौम्येसज्जनेवार्धुषावपि” इतिवैजयन्ती।अदीनात्माअकार्प्पण्यात्मा।अतिगम्भीरप्रकृतिरितियावत्।विचष्टइतिविचक्षणः।नन्द्यादित्वात्ल्युः “अस्युस्यनेचक्षिडःख्याञ्नेतिवाच्यम्” इतिव्ख्याञादेशाभावः।विविधंवक्तीत्यर्थः।अतएवसर्वदासदुपास्यमानत्वमाहसर्वदेति।सर्वदाअस्त्राभ्यासकालेष्वपिसद्भिःसत्पुरुषैःअभिगतःपरिगतः, परिवारितइत्यर्थः।कथमिव ? समुद्रःसिन्धुभिरिवनदीभिरिव। “स्त्रीनद्यांनानदेसिन्धुर्देशभेदेऽम्बुधौगजे।”इतिवैजयन्ती।सर्वदाभिगतःसद्भिःखुरलीकेलिश्रमविश्रान्तएकान्तेछायामवगाहमानेरामेसन्तःसर्वेतत्तदर्थविशेषश्रवणायपरिवृत्त्यस्थिताइत्यर्थः।तथाचवक्ष्यति “ज्ञानवृद्धैर्वयोवृद्धैःशीलवृद्धैश्चसज्जनैः।कथयन्नास्तवैनित्यमस्त्रयोग्यान्तरेष्वपि॥” इति।अस्त्रयोग्योऽस्त्राभ्यासः।समुद्रइवसिन्धुभिः।एवंसदभिगमनंनरामस्याज्ञातज्ञापनाय, तस्यस्वतएवपूर्णत्वात्।किन्तुस्वेषामेवापूर्वार्थविशेषलाभाय, गत्यन्तराभावादितिभावः।सिन्धवोहिस्वसत्तालाभायैवसमुद्रमभियान्ति, नतुतस्यातिशयापादनाय ॥ 1.1.15॥
आर्यःसर्वसमश्चैवसदैकप्रियदर्शनः।
सचसर्वगुणोपेतःकौसल्यानन्दवर्द्धनः॥ 1.1.16 ॥
एवमभिगमनहेतुभूतंसौलभ्यादिकंविशदयतिआर्यइति।आङ्पूर्वात् ‘ऋगतौ’ इत्यस्माद्धातोःकर्मणिण्यत्प्रत्ययः।अभिगन्तुमर्हइत्यर्थः।किंसतामेव ? नेत्याहसर्वसमः, जातिगुणवृत्त्यादितारतम्यंविनासर्वेषामाश्रयणीयत्वेतुल्यः।अस्यकादाचित्कत्वंवारयत्येवकारः।चकारउक्तसमुच्चयार्थः।किञ्चिदुप- देशाभावेऽपिसौन्दर्यादभिगन्तव्यत्वमाहसदैकप्रियदर्शनइति।सदानुभवेऽपिनवनवतयाभासमानइत्यर्थः।अथ “इषुक्षयान्निवर्त्तन्तेनान्तरिक्षक्षितिक्षयात्।मतिक्षयान्निवर्तन्तेनगोविन्दगुणक्षयात्॥” इतिभगवद्गुणानांवर्षायुतेनापिवर्णयितुमशक्यत्वेनसङ्ग्रहेणवदन्नुत्तरमुपसंहरतिसचेति।कोसलस्यराज्ञोऽपत्यंस्त्रीकौसल्या।”वृद्धेत्कोसलाजादाञ्ञ्यङ्” इतिञ्यङ्प्रत्ययः।”यङश्चाप्” इतिचाप्।तस्याआनन्दंवर्द्धयतीतिकौसल्यानन्दवर्द्धन।चशब्दएवकारार्थ।कौसल्यासुतत्वेनावतीर्णोविष्णुरेववेदान्तो -दितसकलगुणसम्पन्नःपरमात्मा, नतुब्रह्मादिष्वन्यतमइत्यर्थ।दशरथनन्दनइत्यनुक्तिःपुत्रलाभफ–लस्यकौसल्ययैवलाभात्।अतएववक्ष्यति “कौसल्यालोकभर्त्तारंसुषुवेयंमनस्विनी” इति॥ 1.1.16 ॥
समुद्रइवगाम्भीर्य्येधैर्येणहिमवानिव।
विष्णुनासदृशोवीर्येसोमवत्प्रियदर्शनः॥ 1.1.17 ॥
अथास्यनिस्समाभ्यधिकत्वंवक्तुंलोकेप्रकृष्टवस्तूनांतदेकैकगुणसाम्यमाहसमुद्रइवेत्यादिश्लोक– द्वयेन।गाम्भीर्यंनामस्वान्तर्गतपदार्थाप्रकाशकत्वम्।यथासमुद्रःस्वान्तर्गतंरत्नादिकमप्रकाशयन्नेववर्त्ततेतथायमपिस्वीयंपरत्वमप्रकटयन्नेवास्तइत्यर्थः।वक्ष्यति “आत्मानंमानुषंमन्ये” इति।धैर्यंनामशोकहेतुसद्भावेऽपिनिःशोकत्वम्।तेनहिमवानिवहिमवत्सदृशः। “गिरयोवर्षधाराभिर्हन्यमानानविव्यथुः।अभिभूयमानाव्यसनैर्यथाधोक्षजचेतसः॥” इतिह्युक्तम्।अत्रवस्तुतःसमुद्रादेरुपमानत्वाभावे अपिप्रतिपत्तृ़णामुपमानत्वंसम्भवतीत्येवमुक्तम्।यथा “इषुवद्गच्छतिसविता” इत्यत्र।विष्णुनेति।वीर्येविषयेविष्णुनासदृशः।विष्णोरर्धत्वेनरामस्यविष्णुसादृश्यंसुवचमेव। “सउश्रेयान्भवतिजायमानः” इत्युक्तत्वेनतदंशस्यापितत्सदृशत्वंयुक्तमेव।सोमवत्प्रियदर्शनःशोकनिवृत्तिपूर्वकमाह्लादकरः॥ 1.1.17 ॥
कालाग्निसदृशःक्रोधेक्षमयापृथिवीसमः।
धनदेनसमस्त्यागेसत्येधर्मइवापरः॥ 1.1.18 ॥
क्रोधेकालाग्निसदृशः, कालाग्निक्रोधसमक्रोधइत्यर्थः।स्वविषयापराधमेवस्वयंसहते।स्वाश्रितविषयाप -राधकरणेतुज्वलज्ज्वलनइवशीतलतरेऽपिहृदयेकोपमावहतीत्यर्थः।जलेहिकालाग्निर्ज्वलति।क्षमयाक्षमारूपसदृशधर्मेणपृथिवीसमःपृथिवीतुल्यक्षमः, स्वस्मिन्नपकारकरणेअचेतनवद्वर्त्ततइत्यर्थः। “नस्मरत्यपकाराणांशतमप्यात्मवत्तया।” इतिवक्ष्यति।त्यागेत्यागविषयेधनदेनकुबेरेणसमः, तद्वद्दा– तेत्यर्थः।कुबेरस्यत्यागित्वं “त्यागेचधनदोयथा” इत्यादिवक्ष्यमाणवचनशतसिद्धम्।नचतस्यलुब्धत्वंकुतश्चित्सिद्धम्।”त्यागेसत्यपिधनदवदाढ्यः” इतिव्याख्यानंतुप्रक्रमविरुद्धम्, नह्याढ्यत्वंकश्चिद् गुणः।तथासतिलुब्धत्वमेवास्यसिद्धंस्यात्।सत्येसत्यवचनेअपरःउत्कृष्टवस्त्वन्तररहितःधर्मःधर्मदेवतेवस्थितः, धर्मदेवतेवनिरपायसत्यवचनइत्यर्थः।सत्येअपरोधर्मइवस्थितइतिव्याख्यानेप्रकृतौपम्येविरोधः, तस्योत्प्रेक्षारूपत्वात्।क्वचिदुपमाक्वचिदुल्लेखःक्वचिदुत्प्रेक्षेतिविजातीयसङ्करइत्यप्याहुः॥ 1.1.18 ॥
तमेवङ्गुणसम्पन्नंरामंसत्यपराक्रमम्।
ज्येष्ठंश्रेष्ठगुणैर्युक्तंप्रियंदशरथःसुतम्॥ 1.1.19 ॥
एवंवेदान्तोदितजगत्कारणत्वसर्वज्ञत्वसर्वशक्तित्वसर्वान्तर्यामित्वप्रमुखसमस्तकल्याणगुणाकरंब्रह्मकिंरामत्वेनावतीर्णोविष्णुः, उतब्रह्मरुद्रादिष्वन्यतमइतिवाल्मीकिनावेदोपबृंहणायपृष्टेवेदान्तोदित- गुणानांतदन्येष्वसम्भवात्तस्यैवसम्भवाच्चसएववेदान्तोदितंपरंतत्त्वमित्युपदिष्टम्।तत्रतत्रजगत्का -रणप्रकरणेषुप्रयुक्ताःस्वयम्भूशिवादिशब्दाःसद्ब्रह्मादिसामान्यशब्दवदपर्यवसानवृत्त्याऽवयववृत्त्यावापरमात्मपराइत्यप्यर्थसिद्धम्।एवंवेदान्तसारार्थःसन्दर्शितः।ननुब्रह्मस्वरूपमिवफलस्वरूपंतदुपाय- स्वरूपमपिवेदार्थत्वादुपबृंहणीयम्, तदुभयंकिमितिनपृष्टंनोपदिष्टंच।मैवम्परिपप्रच्छेत्यत्रपरिणातदुभयस्वरूपमपिपृष्टमेव।उत्तरेच “प्रजानांचहितेरतः” इत्यादिनोपायत्वं “सदैकप्रियदर्शनः” इत्यादिनो -पेयत्वंचतस्यैवेत्युक्तम्।ननुसिद्धस्यैवतस्योपायत्वेसर्वमुक्तिप्रसङ्गइतिचेन्नयउपायोपेयाधि– कारीतस्यैवफलंदिशतिनानधिकारिणइतिव्यवस्थापनात्।अधिकारश्चतत्प्राप्त्यपेक्षासाधनान्तरपरि- त्यागश्चेत्युत्तरग्रन्थेसुव्यक्तम्।ननुवेदोपबृंहणमिदंरामायणमित्युक्तम्।धर्मोऽपिवेदार्थः।सकथंनोपबृंहितः, किञ्चइयताग्रन्थेनवेदान्तार्थउपबृंहितः, किमतःपरेणग्रन्थेन ? उच्यतेउक्ताननुक्तांश्चकल्याणगुणांस्तच्चरित्रनिदर्शनमुखेनप्रतिपादयितुमुत्तरग्रन्थःपूर्वभागोपबृंहणंचरा मायणपुरुषाचारमुखेनहिसामान्यधर्मोविशेषधर्मश्चोपबृंहितः।ननुतथापिकथंबालकाण्डकथानोपदर्शिता ? मैवम्तत्रप्रदर्शनीय -गुणविशेषाभावात्, नचसाप्यत्यन्तमप्रदर्शिता। “इक्ष्वाकुवंशप्रभवः” इत्यवतरणम्, “महावीर्यः” इतिताटकाताटकेयादिवधः, “धनुर्वेदेचनिष्ठितः” इतिकौशिकाधिगतनिखिलदिव्यास्त्रवत्त्वम्, “श्रीमान्” इतिवैदेहीलाभश्चेतिबालकाण्डकथासूचनात्।अथायोध्याकाण्डकथांप्रस्तौतितमेवमित्यादिना।आदौश्लोक- द्वयमेकान्वयम्।दशसुदिक्षुरथोयस्यसदशरथः।अप्रतिहतरथत्वेनरामायराज्यंदत्तम्, भीतिदत्तत्वा– भावेनपुनरनादातव्यत्वमुक्तम्।महीपतिःअस्वामिदत्तत्वाभावउच्यते।एवंदात्रदोषेणपुनरनाहरणीयत्व- मुक्त्वासम्प्रदानगुणेनाप्याहतमित्यादिना।तंप्रसिद्धम्।एवंगुणसम्पन्नंपूर्वोक्तसर्वगुणसमृद्धम्, सर्वस्यस्वामिभूतमितियावत्।सत्यपराक्रमममोघपराक्रमम्, सर्वरक्षणशक्तमितियावत्।ज्येष्ठंजन्म -क्रमेणापिराज्यार्हम्।श्रेष्ठगुणैर्युक्तम्नीतिशास्त्रोक्तषाड्गुण्ययुक्तम्,सन्धिविग्रहयानासनद्वैधीभाव- समाश्रयाःषड्गुणाःकामन्दकोक्ताः।प्रियंप्रीतिविषयम्।अनेनतात्कालिकप्रीतिदानव्यावृत्तिः।सुतंजन्मनैवराज्यार्हम्॥ 1.1.19 ॥
प्रकृतीनांहितैर्युक्तंप्रकृतिप्रियकाम्यया।
यौवराज्येनसंयोक्तुमैच्छत्प्रीत्यामहीपतिः॥ 1.1.20 ॥
प्रकृतीनांप्रजानांहितैःहितकरणैर्युक्तम्, अनेनसर्वानुकूल्यमुक्तम्।एवम्भूतंरामंप्रकृतिप्रियकाम्ययाअमात्यादीनांप्रीतिकरणेच्छया।इच्छायांकाम्यच्प्रत्ययः। “अप्रत्ययात्” इत्यप्रत्ययः। “अजाद्यतष्टाप्”।प्रीत्यास्वप्रीत्याच।चकारोऽर्थसिद्धः। “गामश्वंपुरुषंजगत्” इतिवत्।मन्त्रिवृद्धैरालोचनपूर्वकंकृत– त्वादप्रत्याख्येयत्वमुच्यते। “प्रकृतिःपञ्चभूतेषुस्वभावेमूलकारणे।छन्दःकारणगुह्येषुजन्मामात्या– -दिमातृषु” इत्युभयत्रवैजयन्ती।युवाचासौराजाचयुवराजःतस्यभावःकर्मवायौवराज्यम्।ब्राह्मणा– दित्वात्ष्यञ्।तेनपितरिराज्यंनिर्वहत्येवसर्वनिर्वाहकत्वेनाभिषिक्तःपुत्रोयुवराजः, तस्यभावेनेत्यर्थः।संयोक्तुंघटयितुमैच्छत्, तत्सम्भारान्समभरदित्यर्थः॥ 1.1.20 ॥
तस्याभिषेकसम्भारान्दृष्ट्वाभार्याथकैकयी।
पूर्वंदत्तवरादेवीवरमेनमयाचत॥
विवासनंचरामस्यभरतस्याभिषेचनम्॥ 1.1.21 ॥
एवंपुनरादानायोग्यंरामायराज्यप्रदानमुक्त्वाअपरिहरणीयमनन्तरभाविकैकेय्यायाचनमाहतस्येतिसार्द्धश्लोकएकान्वयः।अथरामायराज्यप्रदानेच्छानन्तरंतस्यरामस्याभिषेकःकर्मविशेषः, तस्यसम्भारानुपकरणानि। “औदुम्बर्यासन्दीतस्यैप्रादेशमात्राःपादाःस्युः” इत्यादीनि “दधिमधुसर्पिरातप- वर्ष्याआपः” इत्यन्तानिब्राह्मणोक्तानिदृष्ट्वामन्थरामुखेनदर्शनइवज्ञात्वा।भार्याभर्तुंयोग्या, नतुस्वातन्त्र्यार्हा।पूर्वंपूर्वकाले।विभक्तिप्रतिरूपकमव्ययम्।तेनदशरथेनदत्तवराशम्बरासुरविजयकालेसारथ्यकरणपारितोषिकतयादत्तवरा।याचनहेतुत्वेनेदमुक्तम्। (तच्छब्दस्यदशरथपरामर्शितयाशम्बरा -सुरसमरंसूचितम्।दशसुदिक्षुअप्रतिरुद्धरथोहिसः।) दीव्यतीतिदेवी।पचाद्यच्।देवडितिटित्त्वेनपाठात्ङीप्।भोगोपकरणभूतेतिव्यामोहमूलोक्तिः।कैकयीकेकयानांराजाकेकयः। “क्षत्रियसमानशब्दा- ज्जनपदात्तस्यराजन्यपत्यवत्” इत्यञ्। “जनपदेलुप्”।केकयस्यापत्यंस्त्रीकैकयी। “जनपदशब्दात्क्षत्रि- यादञ्” इत्यपत्यार्थेऽञ्। “टिड्ढाणञ् ” इत्यादिनाङीप्।नन्वञ्प्रत्यये “केकयमित्रयुप्रलयानांयादेरियः” इतीयादेशःकिंनस्यात् ?उच्यते “जरायांजरसन्यतरस्याम्” इत्यतोऽन्यतरस्यामित्यनुवृत्तेस्तस्यवैकल्पिकत्वात्।नचेयादेशाभावआर्षइतिवाच्यम्।कैकेयीकैकयीतिशब्दभेदप्रकाशिकायामुक्तेः। “प्राक्कैकयीतोभरतस्ततोऽभूत्” इतिभट्टिप्रयोगात्।केकयीतिपाठेतुकेकयान्जन्मभूमित्वेनाचष्टइतिकेकयी। “तदाचष्टे” इतिणिजन्तादौणादिकेस्त्रियामिकारप्रत्ययेटिलोपेणिलोपेचकृते “कृदिकारादक्तिनः” इतिङीषित्याहुः। “पुंयोगादाख्यायाम्” इतिवाङीष्।तत्रयोगशब्देनाविशेषाज्जन्य- जनकभावोऽपिगृह्यते।केकयशब्दोमूलप्रकृतिरेवोपचारात्स्त्र्यपत्येवर्त्तते।शार्ङ्गरवादिपाठात्ङीनितिन्यासकारः।कैकयी।एनंदशरथम्। “द्वितीयाटौस्स्वेनः” इत्यन्वादेशेएनादेशः।रामस्यविवासनंभरत– स्याभिषेचनंचवरमयाचतअर्थितवती।याचिर्द्विकर्मकः॥ 1.1.21 ॥
ससत्यवचनाद्राजाधर्मपाशेनसंयतः।
विवासयामाससुतंरामंदशरथःप्रियम्॥ 1.1.22 ॥
सइति॥राजासर्वरञ्जकः, “राजाप्रकृतिरञ्जनात्” इतिप्रयोगात्।औणादिकःकनिन्प्रत्ययः।यद्यपि “रजकरजनरजस्सूपसङ्ख्यानम्” इतिवचनादत्रनलोपप्रसक्तिर्नास्तितथापिरजस्साहचर्यादौणादिकस्यतत्रग्रहणम्।सपूर्वंरामायदत्तराज्यः, मन्त्रिप्रमुखैरालोचनपूर्वकंप्रतिज्ञातरामाभिषेकइत्यर्थः।दशरथः।धर्मःपाशइवधर्मपाशः। “उपमितंव्याघ्रादिभिः” इतिसमासः।व्याघ्रादेराकृतिगणत्वात्।तेनसंयतोबद्धःसन्सत्यवचनात्स्त्रीविषयवचनसिद्धिहेतोःप्रियंसुतंविवासयामास, “रामोविग्रहवान्धर्मः” इत्युक्तरीत्याप्रथममङ्गीकृतंपरमधर्मंपरित्यज्यानन्तरंप्रवृत्तंस्त्रीविषयंक्षुद्रधर्ममवलम्बितवानित्यर्थः।एतेन “साङ्केत्यंपारिहास्यंवास्तोभंहेलनमेववा।वैकुण्ठनामग्रहणमशेषाघविनाशनम्॥” “आक्रुश्यपुत्रमघवान्यदजामिलोऽपिनारायणेतिम्रियमाणउपैतिमुक्तिम्” “कामाद्गोप्योभयात्कंसः” इत्येवंयथाकथञ्चित्भगवन्नामवतांमुक्तिसिद्धौसर्वदारामपरायणस्यदशरथस्यकथंनमुक्तिरितिशङ्कादूरोत्सारिता।सिद्धसाधनत्यागात्काशकुशावलम्बनात्धर्मपाशप्रतिबन्धाच्चमुक्तिप्रसङ्गाभावात्तथाचमुमुक्षुणादशरथवन्नवर्तितव्यमित्युक्तंभवति॥ 1.1.22 ॥
सजगामवनंवीरःप्रतिज्ञामनुपालयन्।
पितुर्वचननिर्देशात्कैकेय्याःप्रियकारणात्॥ 1.1.23 ॥
पितृवचनपरिपालनमवश्यंकर्त्तव्यम्, एतद्रामाचारमुखेनदर्शयतिसजगामेति।सरामःवीरोऽपिराज्यपरि -पालनसमर्थोऽपिकैकेय्याःप्रियकारणात्प्रीतिहेतुभूतात्स्त्रीपारवश्येनोक्तादपीत्यर्थः।पितुर्वचननिर्देशात्वचनमेवनिर्द्देशःआज्ञा।”आज्ञायामपिनिर्देशः” इतिबाणः।तस्माद्धेतोःप्रतिज्ञांकैकेयीसमक्षंकृतांप्रतिज्ञामनुपालयंश्च। “लक्षणहेत्वोःक्रियायाः” इतिहेत्वर्थेशतृप्रत्ययः।वक्ष्यति “तद्ब्रूहिवचनंदेविराज्ञोयदभिकाङ्क्षितम्।करिष्येप्रतिजानेचरामोद्विर्नाभिभाषते” इतिस्वप्रतिज्ञापालनार्थंपितृवचनपालनार्थंचेत्यर्थः।वनंदण्डकावनमुद्दिश्यजगाम॥ 1.1.23 ॥
तंव्रजन्तंप्रियोभ्रातालक्ष्मणोऽनुजगामह।
स्नेहाद्विनयसम्पन्नःसुमित्रानन्दवर्द्धनः॥
भ्रातरंदयितोभ्रातुःसौभ्रात्रमनुदर्शयन्॥ 1.1.24 ॥
इक्ष्वाकुवंशेत्यादिनासमस्तकल्याणगुणपरिपूर्णत्वोक्त्यापरत्वमुक्तम्।तमेवमित्यादिनाअभिषेकप्रवृत्ति –निवृत्तिकथनात्सौलभ्यमुक्तम्।अथपरत्वसौलभ्यानुगुणंसमाश्रयणमाहतंव्रजन्तमिति।यद्वाअथसिद्धसाधननिष्ठैःलक्ष्मणवत्कैङ्कर्यपरैर्भवितव्यमितिव्यञ्जयन्नाहतंव्रजन्तमिति, सार्द्धश्लोकएकान्वयः।प्रीणातीतिप्रियः।रामेप्रीतिमान्। “इगुपधज्ञाप्रीकिरःकः” इतिकः।अनेनानुगतिहेतुर्भक्ति– रुक्ता।भ्राता “भ्रातास्वामूर्तिरात्मनः”इतिमूर्तिभूतः।विनयसम्पन्नःकैङ्कर्यहेतुविनययुक्तः।विनयःशेषत्वज्ञानंरामकैङ्कर्य्यरूपाचारोवा। “विनयोधर्मविद्यादिशिक्षाचारप्रशान्तिषु” इतिवैजयन्ती।सुमित्रायाःआनन्दंवर्द्धयतीतिसुमित्रानन्दवर्द्धनः,”सृष्टस्त्वंवनवासाय” “रामंदशरथंविद्धिमांविद्धिजनकात्मजाम्।अयोध्यामटवींविद्धिगच्छतातयथासुखम्॥” इतिसुमित्रयैवोक्तत्वात्।दयितःरामस्येष्टतमः।”यमेवैषवृणुतेतेनलभ्यः” इत्युक्तरीत्याप्रियतमत्वेनवरणीयइत्यर्थः।लक्ष्मणःकैङ्कर्य –लक्ष्मीसम्पन्नोभविष्यतीतिज्ञात्वालक्ष्मणइतिवसिष्ठेनकृतनामधेयः, “सतुनागवरःश्रीमान्” “अन्तरिक्षगतःश्रीमान्” इत्युक्तेः।कैङ्कर्यलक्ष्मीवत्त्वं “लक्ष्मणोलक्ष्मीसम्पन्नः” इतिवक्ष्यति। “लक्ष्म्याअच्च” इतिपामादिगणसूत्रान्मत्वर्थीयोनप्रत्ययः, अकारश्चान्तादेशः। “लक्ष्मीवान्लक्ष्मणःश्रीमान्” इतिपर्यायपाठश्च।सुभ्रातुर्भावःसौभ्रात्रम्।भावेअण्, अनुशतिकादित्वात्उभयपदवृद्धिः।रामंविनाक्षणमपिजीवनाक्षमत्वंसुभ्रातृत्वम्।वक्ष्यति “नचसीतात्वयाहीनानचाहमपिराघव।मुहूर्त्तमपिजीवावोजलान्म -त्स्याविवोद्धृतौ॥” इति।रामस्यलक्ष्मणविरहासहत्वंसुभ्रातृत्वम्।तच्चवक्ष्यति “नचतेनविनानिद्रांलभतेपुरुषोत्तमः।मृष्टमन्नमुपानीतमश्नातिनहितंविना॥” इति।तदनुदर्शयन्सन्।यद्वाएवंसुभ्रातृ- -भिर्वर्त्तितव्यमितिदर्शयन्निवेतिगम्योत्प्रेक्षा।व्रजन्तम्एकान्तेस्वाभिमतसकलकैङ्कर्यप्रधानप्रवृत्तंभ्रातरम्।उपलक्षणमिदम्, “मातापिताचभ्राताचनिवासःशरणंसुहृत्।गतिर्नारायणः” इत्युक्तसकलवि- धबन्धुः।वक्ष्यति “अहंतावन्महाराजेपितृत्वंनोपलक्षये।भ्राताभर्त्ताचबन्धुश्चपिताचममराघवः॥”इति।स्नेहात्”बाल्यात्प्रभृतिसुस्निग्धोलक्ष्मणोलक्ष्मिवर्द्धनः” इत्युक्तरामभक्तेरेवहेतोरनुजगाम। “येनयेनधातागच्छतितेनतेनसहगच्छति” इतिवदपूर्वोऽयंकश्चिद्वृत्तिविशेषइतिऋषिर्विस्मयतेहेति। “हविस्मयेविषादेच” इतिबाणः। आशालेशमात्रेणस्वस्मिन्नेवाधिकप्रेमाणंभगवन्तंकुत्रचित्एकान्तस्थलेस्वमनोरथानुरूपविशिष्टविषयसकल कैङ्कर्यलाभायानुसरन्नधिकार्यत्रविनिर्दिश्यते॥ 1.1.24 ॥
रामस्यदयिताभार्यानित्यंप्राणसमाहिता।
जनकस्यकुलेजातादेवमायेवनिर्मिता॥ 1.1.25 ॥
अथसीतायाःसाधनदशायांपुरुषकारतयाफलदशायांप्राप्यतयाचान्वयात्तयानित्ययोगंदर्शयतिरामस्येत्यादिश्लोकद्वयेन।रामस्याभिरामस्यापिदयिताअभिरामानित्यंभार्याहृदिसन्ततंधार्या।बिभर्त्तेः “ऋहलोर्ण्यत्” इतिण्यत्।प्राणसमाउक्तार्थद्वयेहेतुरयम्।हिताचेतनहितपरा। “मित्रमौपयिकंकर्तुम्” इत्यादिवक्ष्यति।रामहितपरावा।वक्ष्यति “स्मारयेत्वांनशिक्षये” इति।जनकस्यकुलेजाता, आचारप्रधानेत्यर्थः।देवमायेवनिर्मिता।अमृतमथनानन्तरमसुरमोहनार्थंनिर्मिताविष्णुमायेवस्थिता। “माययामोहयित्वातान्विष्णुःस्त्रीरूपमास्थितः” इत्युक्तेः।यद्वानिर्मिताकृतमूर्तिःदेवमायाविष्णोराश्चर्यशक्तिरिवस्थिता, अनेनसौन्दर्यस्यपराकाष्ठोक्ता।अथवानिर्मिताकृतावतारा।देवमायादेवस्यविष्णोर्लक्ष्मीः।वक्ष्यतिउत्तरकाण्डे “ऋतेमायांविशालाक्षींतवपूर्वपरिग्रहाम्” इति।इवशब्दोवाक्यालङ्कारेएवकारार्थेवा॥ 1.1.25 ॥
सर्वलक्षणसम्पन्नानारीणामुत्तमावधूः।
सीताप्यनुगतारामंशशिनंरोहिणीयथा॥ 1.1.26 ॥
सर्वलक्षणसम्पन्नासामुद्रिकोक्तैःसर्वैरुत्तमस्त्रीलक्षणैःसम्पन्ना।नारीणामुत्तमापूर्वोक्तसर्वप्रकारेणसर्वस्त्रीश्रेष्ठा।पुरुषोत्तमरामानुरूपनार्युत्तमेत्यर्थः।वधूर्दशरथस्नुषाअचिरोढावा। “अचिरोढावधूः” इतिवैजयन्ती।सीता “सीतालाङ्गलपद्धतिः” तज्जन्यत्वात्तद्व्यपदेशः।अनेनायोनिजत्वोक्तेर्दिव्यलोकवासकालिकसौन्दर्यान्यूनतोक्ता।अपिशब्दनेलक्ष्मणानुगतिःसमुच्चीयते।राममनुगतानिरवधिकसौन्दर्याकृष्टहृदयतयानुगतवती, रोहिणीयथा।यथाशब्दइवार्थः। “यथातथेवैवंसाम्ये” इत्यमरः।रोहिणीनामचन्द्रस्यासाधारणपत्नी। “वरिष्ठासर्वनारीणामेषाचदिविदेवता।रोहिणीनविनाचन्द्रंमुहूर्त्तमपिदृश्यते॥” इति।नकेवलंरामसौन्दर्याकृष्टानुगता, किन्तुकलङ्किनंरोहिणीवपातिव्रत्यस्वरूपप्रयुक्तागतेत्यर्थः।अयमर्थोऽनसूयासमक्षंव्यक्तीभविष्यति॥ 1.1.26 ॥
पौरैरनुगतोदूरंपित्रादशरथेनच।
शृङ्गिबेरपुरेसूतंगङ्गाकूलेव्यसर्ज्जयत्॥
गुहमासाद्यधर्मात्मानिषादाधिपतिंप्रियम्॥ 1.1.27 ॥
रामभक्त्यविशेषाल्लक्ष्मणसीतावत्पौराणामप्यनुवृत्तिंदर्शयतिपौरैरिति।पूरेभवाःपौराः।अनेनस्त्रीबाल -वृद्धाविशेषउक्तः।दूरमनुगतःइत्यनेनविरहासहिष्णुत्वोक्त्यापौराणांपरमाभक्तिरुक्ता। “पुनर्विश्लेष -भीरुत्वंपरमाभक्तिरुच्यते” इतिवचनात्।पौरैरित्यनेनतद्देशवासएवरामभक्तिहेतुरित्युक्तम्।पित्रादशरथेनच।चशब्दोऽन्वाचये।अल्पमनुगतइत्यर्थः।आद्वारंहितेनानुगतम्।पित्रेत्यनेनपुत्रकृतवात्स– ल्यादनुगतइत्युक्तम्।एवंपरत्वसौलभ्येदर्शिते।अथवात्सल्यसौशील्येदर्शयतिशृङ्गिबेरपुरइति।धर्मौआश्रितवात्सल्यसौशील्येआत्मास्वभावोयस्यसःतथा।आश्रितवात्सल्यसौशील्यस्वभावोरामःशृङ्गि– बेरपुरेशृङ्गिणःकृष्णसारादयःतेषांबेराणिकृत्रिमशरीराणि। “प्रतिच्छन्दःप्रतिनिधिर्बेरंचप्रतिरूपकम्” इतिवैजयन्ती।वञ्चनेनसजातीयमृगग्रहणार्थानियस्मिन्तत्शृङ्गिबेरम्।तथात्वात्तदाख्येपुरेगङ्गाकूले, शृङ्गिबेरपुरसन्निहितगङ्गातीरइत्यर्थः।एतेनगङ्गातीरत्वमात्रेणनोद्देश्यत्वम्, किन्तुभक्तसेवितत्वेनेत्युक्तम्। “साकाशीतिनचाकशीति ” इत्याद्यभियुक्तोक्तेः।निषादाःप्रतिलोमजाति -विशेषाः। “निषादोमृगघातीस्यात्” इतिवैजयन्ती।तेषामधिपतिरितिजात्यपकर्षउक्तः।प्रीणातीतिप्रियःतम्, स्वस्मिन्प्रीतिमन्तमित्यर्थः।गूहतिगोपयतिवञ्चयतिपरस्वमितिगुहः।इगुपधलक्षणःकप्रत्ययः।तम्, जातितोवृत्तितोगुणतःकुलतश्चहीनमपिस्वस्मिन्नानुकूल्यमात्रेणादरणीयत्वमुक्तम्।निषादाधिपतिमासाद्येत्यनेनसौशील्यमुक्तम्।महतोमन्दैस्सहनीरन्ध्रेणसंश्लेषोहिसौशील्यम्।धर्मात्मेत्यनेनमहत्त्वमुक्तम्।आसाद्येत्यत्राभिविधिवाचिनाआङाअर्थान्नैरन्ध्र्यमुक्तम्।शृङ्गिबेरपुरेगुहमासाद्येत्यनेनदोषेऽपिभोग्यत्वरूपंवात्सल्यमुक्तम्।सूतंसुमन्त्रम्, पारम्पर्येणानुवर्त्तमानमपिव्यसर्ज्जयत्व्यसृजत्।स्वार्थेणिच्।सद्यःप्रसूतवत्सवात्सल्यात्पूर्ववत्संपरिहरन्त्याधेनोरिववात्सल्यातिशयउक्तः॥ 1.1.27 ॥
गुहेनसहितोरामोलक्ष्मणेनचसीतया॥ 1.1.28 ॥
स्वस्मिन्नाशालेशमात्रेणजनितंगुहविषयप्रेमातिशयंदर्शयतिगुहेनेति।रामःगुहेनसहितःसन्लक्ष्मणेनसीतयाचसहितः।गुहसन्धानानन्तरमेवलक्ष्मणसीताभ्यांनित्यानपायिभ्यांसाहित्यमासीत्।ततःपूर्वंसिद्धमपिसदसत्प्रायमासीदित्यर्थः।यद्वादृष्टान्तार्थंलक्ष्मणसीतासाहित्यकथनम्, तादृशसौहार्दं (स्नेहो) गुहेऽप्यासीदितिभावः।सहितःसंहितः। “समोवाहितततयोः” इतिमलोपः।सःरामःलक्ष्मणेनसीतयाचसहगुहेनहितःप्रहितःगङ्गांतारितइत्यप्याहुः॥ 1.1.28 ॥
तेवनेनवनंगत्वानदीस्तीर्त्वाबहूदकाः।चित्रकूटमनुप्राप्यभरद्वाजस्यशासनात्॥ 1.1.29 ॥
तेवनेनइतिश्लोकद्वयमेकान्वयम्।तेरामादयस्त्रयइत्यनेनगुहनिवर्त्तनंद्योतितम्।वनेनवनंगत्वावनाद्वनंगत्वा।पञ्चम्यर्थेतृतीया, हेतौतृतीयावा।अनेननूतनवनावलोकनकुतूहलित्वंनगरप्रवेशस्यस्वाधिकारविरुद्धत्वंचद्योत्यते।यद्वाअवनेनवनंगत्वाअन्योन्यरक्षणेनवनंगत्वेत्यर्थः।वक्ष्यति “अग्रतोगच्छसौमित्रेसीतात्वामनुगच्छतु।पृष्ठतोऽहंगमिष्यामित्वांचसीतांचपालयन्।अन्योन्यस्येहनोरक्षाकर्त्तव्यापुरुषर्षभ॥” इति।यद्वाअवनेनपितृवचनपरिपालनेनहेतुनावनंगत्वा, अवनेनलोकरक्षणेनहेतुनावा।रावणादिदुष्टनिबर्हणमुखेनलोकरक्षणार्थंहितेषांवनगमनम्।यद्वा “तेवृदेवने” इतिधातोर्भावेल्युट्।तेवनेनदेवनेनलीलयाअनायासेनेत्यर्थः।मृगयाक्रीडनेनवा।अनयैवव्युत्पत्त्यातेवनंपादसञ्चारइतिलभ्यते, सूतविसर्जनानन्तरंरथादवरुह्यपादसञ्चारेणवनंगत्वेत्यर्थः।यद्वाअवनेनसहवनंगत्वामध्येमध्येस्थलप्रदेशंवनंचगत्वेत्यर्थः।वनेनजलेनसहितंवनम्, नतुमरुकान्तारमितिवार्थः। “पयःकीलालममृतंजीवनंभुवनंवनम्” इत्यमरः।बहूदकाःविपुलोदकाःअधिकोदकावा। “विपुलानेकयोर्बहुः” इतिवैजयन्ती।नौतार्याइत्यर्थः।नदीःगङ्गाम्तीर्त्वाउत्तीर्य। “गङ्गानदीनाम्” इतिनदीमुख्यत्वात्निरुपपदनदीशब्देनगङ्गोच्यते। “जात्याख्यायामेकस्मिन्बहु– वचनमन्यतरस्याम्” इतिबहुवचनम्, पूजायांबहुवचनंवा।”अदितिःपाशान्” इतिवदवयवबहुत्वाभिप्रायेणवाबहुवचनम्।अत्र ‘अग्निहोत्रंजुहोति, यवागूंपचति’ इतिवदर्थक्रमेणनदीस्तीर्त्वावनंगत्वेतियोजनीयम्।यद्वाअपूर्वकालेऽपिक्त्वाप्रत्ययः ‘आस्यंव्यादायस्वपिति’ इतिवत्।यद्यपि “आस्यंव्यादायस्वपितिसंमील्यहसतिइत्युपसङ्ख्यानम्” इतिवार्त्तिकेस्थलद्वयमेवोपात्तम्तथापिन्यासकृता “परावरयोगेच” इतिपूर्वसूत्रेचकारात्सर्वत्रायंप्रयोगःसम्भवतीत्युक्तम्।यद्वातेवनेनेत्यनेनगङ्गातर- णमर्थसिद्धम्।नदीशब्दोयमुनापरः।यद्वानदीःगङ्गायमुनामन्दाकिनीः।मन्दाकिनीनामचित्रकूट– परिसरेपरिसरन्तीस्रवन्ती।सौकर्याययुगपदुक्तम्।यद्वापूर्वार्द्धेसरामोलक्ष्मणेनसीतयाचसहगुहेनहितःप्रहितः, सीतालक्ष्मणरामाःगुहेनगङ्गांतारिताइत्यर्थः।अतःपादसञ्चारेणवनगमनमत्रोक्तम्।भरद्वाजस्यशासनात्चित्रकूटमनुप्राप्य।प्रजाभरणशीलोभरद्वाजः।इत्थंनिरुक्तमृगारण्यके “एषएवबिभ्रद्वाजःप्रजावैवाजःताएषबिभर्त्तियद्बिभर्त्तितस्मात्भरद्वाजइत्याचक्षते” इति।यद्वावाजंरेतः, वाजकरणमित्यादौतथाप्रयोगात्।बिभ्रद्वाजंभरद्वाजः।नित्यब्रह्मचारीत्यर्थः। “भरद्वाजोहत्रिभिरायुर्भिर्ब्रह्मचर्यमुवा(पा)स” इतिश्रुतेः।तस्यशासनान्नियमनात्चित्रकूटेभवद्भिःस्थातव्यम्, तस्यायमेवमार्गइत्येवंरूपात्।अनुसदृशम् “पश्चात्सादृश्ययोरनु” इत्यमरः।राजकुमाराणांस्वेषामुचितमित्यर्थः। “सुभगश्चित्रकूटोऽसौगिरिराजोपमोगिरिः।यस्मिन्वसतिकाकुत्स्थःकुबेरइवनन्दने॥” इतिवक्ष्यति।पश्चाद्भागेवाचित्राणिआश्चर्यावहानिकूटानिशिखराणियस्यासौचित्रकूटःतम्। “आश्चर्यालेख्ययोश्चित्रम्”इत्यमरः।प्राप्यगत्वा॥ 1.1.29 ॥
रम्यमावसथंकृत्वारममाणावनेत्रयः।
देवगन्धर्वसङ्काशास्तत्रतेन्यवसन्सुखम्॥ 1.1.30 ॥
रम्यंरमणीयंजलरामणीयकस्थलरामणीयकादियुक्तम्आवसथंपर्णशालारूपंगृहम्। “धिष्ण्यमोकोनिवसनंस्थानावसथवास्तुच” इत्यमरःकृत्वानिर्माय।अत्रपर्णशालानिर्माणेलक्ष्मणस्यसाक्षात्कर्तृत्वम्।इतरयोस्तुउचितदेशप्रदर्शनादिनाप्रयोजककर्तृत्वम्। “समानकर्तृकयोःपूर्वकाले” इत्यत्रसूत्रे ‘गृहैकत्ववदु- द्देश्यगतत्वेनद्वित्वस्याविवक्षितत्वादनेकक्रियास्वपिक्त्वाप्रत्ययस्सम्भवति’ इतिन्यासकारोक्तेःक्त्वाप्रत्ययबाहुल्यम्।तत्रवनेचित्रकूटोपान्तवनेरममाणाःलीलारसमनुभवन्तःसन्तःसीतारामयोःपुष्पा –पचयसलिलक्रीडादिकंरतिः।”वैदेहिरभसेकच्चिच्चित्रकूटेमयासह।पश्यन्तीविविधान्भावान्मनोवा –क्कायसंयुतान्।” इतिहिवक्ष्यति।लक्ष्मणस्यतुविशिष्टविषयकैङ्कर्यलाभजाप्रीतिः।वक्ष्यति “भवांस्तुसहवैदेह्यागिरिसानुषुरंस्यते।अहंसर्वंकरिष्यामिजाग्रतःस्वपतश्चते॥” इति।त्रयोरममाणाःइत्यनेनान्दहेतुभेदेऽप्यानन्दांशेतौल्यमुच्यते “परमंसाम्यमुपैति” “भोगमात्रसाम्यलिङ्गाच्च” इतिवत्।रममाणाइतिवर्त्तमाननिर्द्देशेननैरन्तर्य्यमुक्तम्।वर्त्तमानार्थकस्याप्यस्यन्यवसन्नितिभूतप्रत्ययान्तविशेषणत्वम्। “धातुसम्बन्धेप्रत्ययाः” इत्यनुशासनात्अग्निष्टोमयाजीपुत्रस्तेभविता’ इतिवत्सम्भवति।अतएवदेवगन्धर्वसङ्काशाःसन्तः, देवगन्धर्वामनुष्यगन्धर्वेभ्योऽधिकानन्दाः।यद्वादेवीचदेवश्चदेवौलक्ष्मीनारायणौ। “पुमान्स्त्रिया” इत्येकशेषः।गानंधारयतीतिगन्धर्वः। “एतत्सामगायन्नास्ते” इत्युक्तःसर्वदासामगानपरोमुक्तः । देवौचगन्धर्वश्चदेवगन्धर्वाःतत्सदृशाःदेवगन्धर्वसङ्काशाः।निभादित्वादुत्तरपदभूताएवसन्तःसदृशवचनाः। तथाहामरः “स्युरुत्तरपदेत्वमी।निभसङ्काशनीकाशप्रतीकाशोपमादयः” इति।तेतएवसन्तःसाकेतवासिनःएवसन्तःसुखंन्यवसन्।वक्ष्यति “सुरम्यमासाद्यतुचित्रकूटंनदींचतांमाल्यवतींसुतीर्थाम्।ननन्दरामोमृगपक्षिजुष्टांजहौचदुःखंपुरविप्रवासात्॥” इति।यद्वातएवसन्तःवनवासिनएवसन्तः, नागरिकाअपिचिरंवनचराइवावसन्नित्यर्थः।मुखग्लान्यादिभिस्तेषांवैदेशिकत्वगन्धोऽपिनाज्ञायतेतिभावः। सुखंयथाभवतितथान्यवसन्।कदाचिदपिदुःखलेशोऽपिनान्वभावीत्यर्थः। अत्रक्रियाभेदात्तच्छब्दद्वयप्रयोगइत्यप्याहुः।तेतीर्त्वाजग्मुरितिक्रियापदमध्याहृत्यकेचिद्योजयन्ति। अत्रदेवगन्धर्वसङ्काशाइतिपदगतेनोपमालङ्कारेणकिञ्चिद्वस्तुध्वन्यतेयस्तावत्स्वरूपज्ञानपूर्वकंभगवत्यनुरक्तो भवतितंभगवान्देव्यासमागत्यदिव्यंविमानमारोप्यातिवाहिकगणैःसत्कार्यविरजांतीर्त्वातिल्यकान्तार– मासाद्यामानवेनानुज्ञाप्यदिव्यलोकेमहामणिमण्डपमुपेत्यदिव्यसिंहासनारूढःश्रियासहमोदमानस्तद्रचितस र्वदेशसर्वकालसर्वावस्थोचितसकलविधकैङ्कर्योऽस्मैस्वानन्दसममानन्दंदत्त्वातेनसहयावत्कालमास्तइति ॥ 1.1.30 ॥
चित्रकूटंगतेरामेपुत्रशोकातुरस्तथा।
राजादशरथःस्वर्गंजगामविलपन्सुतम्॥ 1.1.31 ॥
एवंलक्ष्मणस्यभगवच्छेषत्ववृत्तिंप्रतिपाद्यभरतस्यपारतन्त्र्यवृत्तिंदर्शयतिमृतेतुतस्मिन्नित्यादिना।तदुपोद्घातत्वेनाहचित्रेति।रामेचित्रकूटंतथाउक्तप्रकारेणगतेसतिदशरथोराजापुत्रशोकेनपुत्रादर्श– नजदुःखेनातुरःपीडितःसन्सुतमुद्दिश्यहासुतेत्येवंविलपन्प्रलापंकुर्वन्स्वर्गंजगाम॥ 1.1.31 ॥
मृतेतुतस्मिन्भरतोवसिष्ठप्रमुखैर्द्विजैः।
नियुज्यमानोराज्यायनैच्छद्राज्यंमहाबलः॥ 1.1.32 ॥
मृतेत्विति।तस्मिन्दशरथेमृतेसति।स्वर्गप्राप्तिरपिनश्वरत्वेनानुपादेयेतिमृतेइत्युक्तम्।महाबलःराज्यभरणसमर्थःअतएवभरतः।भरतइतिराज्यस्यभरणादित्युक्तरीत्याभावज्ञेनवसिष्ठेनभरतइतिकृतनामावसिष्ठप्रमुखैर्द्विजैःवसिष्ठादिभिर्ब्राह्मणैः।राज्यायराज्यंकर्तुंनियुज्यमानः।”क्रियार्थोपपदस्यचकर्मणिस्थानिनः”इतिचतुर्थी।राज्यंराजत्वम्। “येचाभावकर्मणोः” इतिप्रतिषेधादनोनप्रकृतिभावः।नैच्छत्नाभ्यलषत्।महाबलइत्यनेनसत्यामेवशक्तौस्वरूपविरुद्धत्वाद्राज्यंनाङ्गीचकारेत्यवगम्यते।अतएववक्ष्यति “राज्यंचाहंचरामस्यधर्मंवक्तुमिहार्हसि।विललापसभामध्येजगर्हेचपुरोहितम्।कथंदशरथाज्जातोभवेद्राज्यापहारकः॥” इति॥ 1.1.32 ॥
सजगामवनंवीरोरामपादप्रसादकः॥ 1.1.33 ॥
सजगामेत्यर्द्धमेकंवाक्यम्।वीर्येणयुक्तोवीरः।वीर्यमत्रशत्रुभूतरागादिजेतृत्वम्।विषयानाकृष्टचित्तइत्यर्थः।यद्वा “एभिश्चसचिवैःसार्द्धंशिरसायाचितोमया।भ्रतुःशिष्यस्यदासस्यप्रसादंकर्तुमर्हसि॥ ” इत्युक्तरीत्याचतुरङ्गबलसहितःसभरतःरामपादप्रसादक।पादशब्दःपूज्यवाची।”पूज्येतुपादना– माङ्कः” इत्यमरशेषः।प्रसादकः।”तुमुन्ण्वुलौक्रियायांक्रियार्थायाम्” इतिण्वुल्।पूज्यंरामंप्रसादयितु– मित्यर्थः।यद्वारामचरणयोःप्रसादकः, रामस्यैवप्रसाद्यत्वेऽपिपादयोःप्रसाद्यत्वोक्तिःशेषभूतव्यवहा- रानुसारेण।राजानंद्रष्टुमितिवक्तव्येराजपादौद्रष्टुमितिहिभृत्यजनोव्यवहरति।वनंजगामप्राप, वस्तुतोरामस्यकोपाभावेऽपिभरतायराज्यंदत्तमितिबुद्धिंनिवर्तयितुमित्यर्थः। “पूजितामामिकामातादत्तंराज्यमिदंमम।तद्ददामिपुनस्तुभ्यंयथात्वमददामम॥” इत्युत्तरत्रापिवक्ष्यति॥ 1.1.33 ॥
गत्वातुसुमहात्मानंरामंसत्यपराक्रमम्।
अयाचद्भ्रातरंराममार्यभावपुरस्कृतः॥ 1.1.34 ॥
गत्वात्विति।अत्रसइत्यनुषज्यते।सआर्यभावपुरस्कृतःपुरस्कृतःआर्यभावःयेनसः।आहिताग्न्या– दित्वात्परनिपातः।यद्वाआर्यभावेनस्वस्यार्यभावेनपुरस्कृतःपूजितः।उचितमनेनक्रियतइतिश्लाघितइत्यर्थः। “पूजितःस्यात्पुरस्कृतः” इतिबाणः।तथाविधःसन्सुमहान्आत्माअन्तःकरणंयस्यतम्, सुमहात्मानंस्वतःप्रसन्नहृदयमित्यर्थः।सत्यपराक्रमंसत्येपराक्रमोऽप्रच्युतत्वंयस्यतंरामम्, गत्वातुप्राप्य, तुविशेषोस्ति।तस्याग्रेस्थितिरेवालम्, याचनमतिरिच्यतइतिभावः।भ्रातरंराममयाचत्प्रार्थयामास, स्वाभीष्टमितिशेषः।याचेर्द्विकर्मकत्वात्स्वरितेत्त्वादुभयपदी।क्रियाभेदाद्रामशब्दस्यनपुनरुक्तता॥ 1.1.34॥
त्वमेवराजाधर्मज्ञइतिरामंवचोऽब्रवीत्।
रामोऽपिपरमोदारःसुमुखःसुमहायशाः।
नचैच्छत्पितुरादेशाद्राज्यंरामोमहाबलः॥ 1.1.35 ॥
स्वाभीष्टमेवाहत्वमेवेति।धर्मज्ञःज्येष्ठेविद्यमानेनकनिष्ठोराज्यमर्हतीतिधर्मंजानन्त्वमेवराजानान्यःइतिरामंवचोऽब्रवीत्। “अकथितंच” इतिद्विकर्मकत्वम्।ननुभरतकृताप्रपत्तिःकुतोनाफलत्, अधिकारिवैगुण्याद्वाशरण्यवैगुण्याद्वा ? नाद्यःअपेक्षातिरिक्तस्याभावात्।नान्त्यः, तस्यसर्वगुणपरि- पूर्णत्वात्इत्याशङ्क्यप्रबलप्रतिबन्धकस्यप्रारब्धस्यसद्भावात्नसाफलितेत्याहरामोऽपीति।अपिशब्दःप्रतिविशेषणमन्वेति।रामोऽपिरमयतीतिव्युत्पत्त्यास्वरूपरूपगुणैराश्रितचित्तरञ्जनस्वभावोऽपिपरमोदारोऽपिस्वपर्यन्तापेक्षितार्थप्रदोऽपि “यआत्मदाबलदा” इतिश्रुतेः।सुमुखोऽपिअर्थिजनलाभेनप्रसन्नमुखोऽपिसुमहायशाःअपि “नह्यर्थिनःकार्यवशादुपेताःककुत्स्थवंशेविमुखाःप्रयान्ति” इतिश्रीविष्णुपुराणोक्तरीत्यामहाकीर्तिरपिमहाबलोऽपिआश्रितमनोरथपूरणेनिपुणोऽपिरामःपितुरादेशात्बलवत्प्रतिबन्धकान्नैच्छत्।चकारात्तदवसानेत्वैच्छदित्यर्थः।आदेशोनियोगः॥ 1.1.35 ॥
पादुकेचास्यराज्यायन्यासंदत्त्वापुनःपुनः।
निवर्त्तयामासततोभरतंभरताग्रजः॥ 1.1.36 ॥
सर्वथाप्रपत्तेर्वैफल्यमनुचितमितियावत्प्रतिबन्धकानिवृत्तिफलप्रतिनिधिंदिशतिस्मेत्याहपादुकेचेति।चस्त्वर्थः।किन्तुभरताग्रजःफलप्रदानोचितसम्बन्धशीलःराज्यायराज्यंकर्तुम्। “क्रियार्थोपपदस्यचकर्मणिस्थानिनः” इतिचतुर्थी।अस्यभरतस्यपादुकेन्यासंस्वप्रतिनिधिंदत्त्वा, रामपादुकेराज्यंकुरुतःअहंतयोःपरिचारकइतिभावयेतिदत्त्वेत्यर्थः।पुनःपुनर्भरतंतस्माद्देशान्निवर्त्तयामास।पुनःपुन– रित्यनेनभरतस्यरामविरहासहिष्णुत्वंद्योत्यते।स्वार्थत्वनिवृत्तिपूर्वकपरस्वत्वापादनरूपत्वाभावात्नचतुर्थी, किन्तुसम्बन्धसामान्येषष्ठी॥ 1.1.36 ॥
सकाममनवाप्यैवरामपादावुपस्पृशन्।
नन्दिग्रामेऽकरोद्राज्यंरामागमनकाङ्क्षया॥ 1.1.37 ॥
अथप्रपन्नस्ययावत्प्रारब्धनिवृत्तिशेषिणिवृत्तिंदर्शयन्नाहसकाममिति।सभरतःकामंरामकैङ्कर्यमनो- रथमप्राप्यैव।रामपादौरामस्यपादुके।पादशब्दःपादुकोपलक्षकः। उपस्पृशन्प्रत्यहंसेवमानःसन्रामागमनकाङ्क्षयाकदारामआगमिष्यतीतिप्रत्याशयाचतुर्दशवर्षरूपप्रतिबन्धक मुत्तीर्य्यकदारामकैङ्कर्यंलप्स्यइतिमनोरथमभिवर्धयन्नित्यर्थः। रामरहिततन्निवासस्यातिदुःखावहतयायोध्यांविहायनन्दिग्रामेनन्दिग्रामाख्येअयोध्यासन्निहितेकुत्रचित्ग्रामेरा ज्यमकरोत्तदाज्ञाकैङ्कर्यमकरोत् परस्मैपदेन स्वस्य तस्मिन् फलत्वनिवृत्तिरवगम्यते॥1.1.37 ॥
गते तु भरते श्रीमान्सत्यसन्धो जितेन्द्रियः । रामस्तु पुनरालक्ष्य नागरस्य जनस्य च॥ 1.1.38 ॥
तत्रागमनमेकाग्रो दण्डकान्प्रविवेश ह ॥ 1.1.39॥
अयोध्याकाण्डप्रतिपाद्यपितृवचनपरिपालनसिद्धिं निगमयन्नुत्तरकाण्डार्थं प्रस्तौति–गतेत्विति। अत्रार्द्धत्रयमेकं वाक्यम्। भरते तु विशेषोऽस्तीति तमेवाह। श्रीमान् प्रतिज्ञाभङ्गभयजनितविषाद– विगमादुत्पन्नकान्तिविशेषः सत्यसन्धः भरतनिर्बन्धेनाप्यविचाल्यप्रतिज्ञः। ‘सन्धा प्रतिज्ञा मर्यादा’इत्यमरः। जितेन्द्रियः मातृभरतादिप्रार्थनाव्याजे सत्यपि राज्यभोगलौल्यरहितः रामः। नगरे भवो नागरः।“ तत्र भवः इत्यण् “। तस्य जनस्य तत्र चित्रकूटे पुनरागमनमालक्ष्य आलोच्य चकारादृषिविप्रकारदर्शनाच्च तत्प्रदेशं विहाय एकाग्रः पितृवचनपालने दत्तावधानो विरोधिभूयिष्ठ देशत्वेन सावधानो वा दण्डकान् प्रविवेश। हेति विषादे। ‘एकसर्गोनन्यवृत्तिरेकाग्रैकायनावपि ‘इति वैजयन्ती । सीतालक्ष्मणयोश्च प्रवेशोऽर्थसिद्धः।दण्डकस्य राज्ञो जनपदो दण्डकः।“ तस्य निवासः” इत्यण् “जनपदे लुप्” इति लुप्। शुक्रशापेन वनतां प्राप्तः।कुत्सायांकन्।अवान्तरवनबहुत्वाद्बहु– वचनम्। वक्ष्यत्युत्तरकाण्डे।‘शप्तो ब्रह्मर्षिणा तेन पुरा वै दण्डको हतः। ततः प्रभृति काकुत्स्थ दण्डकारण्यमुच्यते। तपस्विनः स्थिता यत्र जनस्थानमतोऽभवत्’इति ।दण्डकामिति पाठे दण्डको नाम राजाऽस्यामटव्यामस्तीति दण्डका।“ अर्शाअदिभ्योऽच् ”इत्यच् प्रत्ययः। ततष्टाप्।क्षिपकादित्वान्नेत्वम्। एवमयोध्याकाण्डवृत्तान्तसंग्रहेण पितृवचनपरिपालनरूपसामान्यधर्मः शेषभूतस्य शेषिविषयकैङ्कर्यवृत्तिः प्रपन्नस्य भगवत्पारतन्त्र्यम् प्रदर्शितम्। शत्रुघ्नवृत्तान्तप्रदर्शनेन तस्य भागवतपारतन्त्र्यम् च सूचितम् ॥ 1.1.39॥
प्रविश्य तु महारण्यम् रामो राजीवलोचनः। विराधं राक्षसं हत्वा शरभङ्गं ददर्श ह । सुतीक्ष्णं चाप्यगस्त्यं च अगस्त्यभ्रातरं तथा॥1.1.40॥अथ ब्राह्मणेषु विशिष्यसत्यप्रतिज्ञत्वप्रतिपादनपरमारण्यकाण्डवृत्तान्तं संगृह्णाति—प्रविश्येत्यादिना। रामो महारण्यं दण्डकारण्यं प्रविश्य।तु विशेषोऽस्ति तमाह। राजीवलोचनःअपूर्वसंस्थानविपिनविलोक- नजनितकुतूहलेन विकसितनयनारविन्दः सन् तेनैवोत्साहेन विराधं राक्षसं हत्वातद्धननमुपहारी– कृत्य शरभङ्गं ददर्श। हेत्यैतिह्ये। तदनुज्ञया सुतीक्ष्णं चापीत्येकनिपातः समुच्चयार्थकः। अगस्त्यम -गस्त्यभ्रातरम् ददर्श। तथेति समुच्चये। अगस्त्यभ्राता सुदर्शनाख्यः। तदुक्तं सनत्कुमारसंहितायाम- गस्त्येन ‘यवनीयानेष मे भ्राता सुदर्शन इति स्मृत’इति। कुम्भसम्भवस्यागस्त्यस्य भ्राता सहपोषणादिति बोध्यम्। अगस्त्यं च अगस्त्यभ्रातरमित्यत्र सन्धिकार्याभावो वाक्ये सम्हिताया अनित्यत्वात्। तथोक्तं ‘पदेषु संहिता नित्यानित्या धातूपसर्गयोः। नित्या समासे वाक्ये तु सा विवक्षामपेक्षते’इति ॥1.1.40॥
अगस्त्यवचनाच्चैव जग्राहैन्द्रं शरासनम् ।खड्गं च परमप्रीतस्तूणी चाक्षयसायकौ ॥1.1.41 ॥
अगस्त्येति। अत्र राम इत्यनुषज्यते।रामः परमप्रीतः सन्। जगदेकवीरस्य स्वस्य सदृशायुधजाल- लाभाद्भृशं संतुष्टः सन् अगस्त्यवचनादेव न तु स्वाभ्यर्थनात्। ऐन्द्रमिन्द्रेणदत्तं“तस्येदम्”इति सबन्धसामान्येऽण्। ‘दत्तोमम महेन्द्रेण’इति वक्ष्यमाणत्वात्। इदं शरासनादित्रयसाधारणं विशेषणम्। शरा अस्यन्ते क्षिप्यन्तेऽनेनेति शरासनं धनुः तच्च। खड्गं च अक्षयसायकौ समरसीम्नि सहस्रशो विनियोगेऽप्यक्षयशरौ तूणी निषङ्गौ जग्राह स्वीकृतवान्। वचनाज्जग्राहेत्यनेन खड्गादिकमगस्त्यो न स्पृष्टवान् किन्तु निर्दिष्टवानित्युच्यते॥1.1.41 ॥
वसतस्तस्य रामस्य वने वनचरैः सह ।ऋषयोऽभ्यागमन्सर्वे वधायासुररक्षसाम्॥ 1.1.42 ॥
स तेषां प्रतिशुश्राव राक्षसानां तदा वने ॥ 1.1.43 ॥
एवं विरोधिनिरसनानुकूल्यदर्शनलब्धावसरमुनिजनामभ्यर्थनमाह—वसतइति । वने शरभङ्गवने तस्य वसतः तस्मिन्वसतीत्यर्थः। षष्टीचेति योगविभागात् “यस्य च भावे न भावलक्षणम्” इत्यस्मिन्नर्थे षष्ठी। यद्वा षष्ठ्यर्थसंबन्धसामान्यस्य उक्तविशेषे पर्यवसानं। ‘शरभङ्गाश्रमे राममभिजग्मुश्च तापसा,’इतिवक्ष्यमाणत्वाच्च शरभङ्गवन इति सिद्धं । सर्वे वैखानसवालखिल्यादय ऋषयः शरभङ्गाश्रमवासिनो वनचरैश्चित्रकूटपम्पावनप्रभृतिवनवासिभिः सह। वक्ष्यति ‘पम्पावननिवासाना –मनुमन्दाकिनीमपि। चित्रकूटालयानां च क्रियते कदनं महत् ‘इति। यद्वा वनचरैः सह वने वसतस्तस्य।“षष्ठी चानादरे” इत्यनादरे षष्ठी।सविशेषणेहातिन्यायेन तस्य वने वासमनादृत्येत्यर्थः।वक्ष्यतिहि ‘ते वयं भवता रक्ष्या भवद्विषयवासिनः। नगरस्थो वनस्थो वा त्वं नो राजा जनेश्वर’इति। यदा वने वसतस्तस्य समीपमित्युपस्कार्यम्। आसुराणि असुरप्रकृतीनि रक्षांसि। अनेन ‘विभीषणस्तु धर्मात्मा न तु राक्षसचेष्टितः’इत्युक्तविभीषणव्यावृत्तिः। यद्वा असुराश्च रक्षांसि चेति द्वन्द्वः। असुराः कबन्धादयः। तत्र दनुशब्दप्रयोगात्। यद्वाअसून्प्राणान् गृह्णन्तिइत्यसुराणि। असुराणि च तानि रक्षांसि चेति कर्मधारयः।तेषां वधाय वधं कारयितुं प्रार्थयितुं वा।“क्रियार्थोपपदस्य च कर्मणि स्थानिनः” इति चतुर्थी। अभ्यागमन् अभिमुखतया आगताः।नह्याभिमुख्यादन्यच्चरणा- गतिर्नामास्ति।सत्सु कार्यवतां पुंसामलमेवाग्रतःस्थितिः’।यद्वा असुररक्षसां वने वसतस्तस्यअसुररक्षसां वधायाभ्यागमन्नित्युभयत्राप्यन्वयः। काकाक्षिन्यायान्मध्यमणिन्यायाद्वा॥ 1.1.42 ॥
मुनीनां दुर्दशामालोक्य तद्विरोधिनिरसनं प्रतिज्ञातमित्याह- सतेषामिति। स रामः राक्षसानां वने दण्डकारण्ये तेषामृषीणां तथा प्रतिशुश्राव।यथा तैरर्थितं तथा प्रतिजज्ञे इत्यर्थः। ‘आश्रवःसङ्गरः सन्धा प्रतिश्रवः संश्रवः प्रतिज्ञा च’इति हलायुधः॥ 1.1.43 ॥
प्रतिज्ञातश्च रामेण वधः संयति रक्षसाम् । ऋषीणामग्निकल्पानां दण्डकारण्यवासिनाम् ॥ 1.1.44 ॥
मुनिभिरार्थितो रामेण प्रतिज्ञातश्च कोऽर्थ इत्यत्राह—प्रतिज्ञातश्चेति। रामेण प्रतिज्ञातोर्थस्तुअग्निक- ल्पानामीषन्न्यूनमग्निसादृश्यं प्राप्तानाम् “ईषदसमाप्तौ कल्पब्देश्यदेशीयरः”इति कल्पप्प्रत्ययः। अत एव दण्डकारण्यवासीनामृषीणामित्यत्र चतुर्थ्यर्थे षष्ठी। संयति युद्धे ‘समुदायः स्त्रियां संयत् समित्याजिसमिद्युधः’इत्यमरः। रक्षसां वधः “ कर्तृकर्मणोः कृति” इति कर्मण्यर्थे षष्ठी। प्रतिज्ञातं त्विति पाठे सामान्ये नपुंसकम्। प्रतिज्ञातं वस्तु वध इत्यर्थः॥ 1.1.44 ॥
तेन तत्रैव वसता जनस्थाननिवासिनी । विरूपिता शूर्पणखा राक्षसी कामरूपिणी ॥1.1.45 ॥
अथ प्रतिज्ञानिर्वाहबीजमुपक्षिपति—तेनेति।तत्रैव जनस्थाने वसता तेन रामेण जनस्थाने निवसितीति जनस्थाननिवासिनी “ सुप्यजातौ णिनिस्ताच्छील्ये” इति णिनि। कामेनेच्छया रूपमस्या अस्तीति कामरूपिणी। शूर्पतुल्या नखा यस्याः सा शूर्पणखा “पूर्वपदात्संज्ञायामगः“ इति णत्वम् “नखमुखात्सं -ज्ञायाम्” इति ङीपप्रतिषेधः। शूर्पणखाख्या राक्षसी विरूपिता कर्णनासिकाच्छेदेन वैरूप्यं प्रापिता। ‘रामस्य दक्षिणो बाहुः’इति लक्ष्मणस्य रामबाहुत्वाद्रामस्य विरूपकरणकर्तृत्वोक्तिः। शूर्पनखीतिपाठे न सा संज्ञा॥ 1.1.45 ॥
ततः शूर्पणखावाक्यादुद्युक्तान्सर्वराक्षसान् । खरं त्रिशिरसं चैव दूषणं चैव राक्षसम्॥1.1.46 ॥
निजघान रणे रामस्तेषां चैव पदानुगान्। ततइत्यादि । सार्द्धश्लोकमेकं वाक्यम्। ततः शूर्पणखावैरूप्यकरणानन्तरं शूर्पणखावाक्यादुद्युक्तान् युद्धार्थं सन्नद्धान् सर्वराक्षसान् चतुर्दशसंख्याकप्रधानराक्षसान्। तेष्वपि प्रधानं ‘खरं त्रिशिरसं चैव दूषणं चैव राक्षसम्’चैवेतिनिपातद्वयसमुदायः समुच्चयार्थः।॥1.1.46 ॥तेषां पूर्वोक्तानां राक्षसानां खरादीनां च पदानुगान् अनुचरांश्चरणे युद्धे निजघान हतवान्। यद्वा खरादीन् तेषां पदानुगान् सर्वराक्षसांश्च निजघानेति योजना।
वने तस्मिन्निवसता जनस्थाननिवासिनाम् । रक्षसां निहतान्यासन्सहस्राणि चतुर्दश ॥1.1.47॥
हतान् राक्षसान् परिसञ्चष्टे—वनइति। तस्मिन्वने निवसता रामेणेत्यनेनासहायत्वं दर्शितम्।जनस्थाननिवासिनामित्यनेनारण्यवर्तित्वेनातिघोरत्वमुक्तम्। रक्षसां चतुर्दशसहस्राणीति यौगपद्यमुक्तम्। निहतानीति निःशेषत्वमुच्यते। सहस्राणीति संख्यासंख्येययोरभेदेन निर्देशः।
चतुर्दशसंख्याकानि सैन्यानि वा॥ 1.1.47॥
ततो ज्ञातिवधं श्रुत्वा रावणः क्रोधमूर्छितः । सहायं वरयामास मारीचं नाम राक्षसम् ॥ 1.1.48॥
एवं रामस्य सत्यप्रतिज्ञत्वे दर्शिते सीतायाः पुरुषकारत्वं वक्तुं बीजमुपक्षिपति—ततइति। ततः खरादिवधानन्तरं ज्ञातिवधं खरवधम्। खरस्य ज्ञातित्वं स्वमातृष्वसुर्विश्रवसो जातत्वादित्यारण्य– पर्वणि व्यक्तम्। श्रुत्वा अकम्पनशूर्पणखामुखेन ज्ञात्वा। रावणः रौति रावयतीति रावणः। वक्ष्यत्युत्त-रकाण्डे ‘यस्माल्लोकत्रयं ह्येतद्रवतो भयमागतम्। तस्मात्त्वं रावणो नाम नाम्ना तेन भविष्यसि’ इति। यद्वा विश्रवसोऽपत्यं रावणः शिवादिगणे विश्रवसो विश्रवणरवण इति पाठाद्रवणादेशः अण् च। क्रोधमूर्छितः क्रोधेन मूर्छितः मूढः‘मूर्छितौ मूढसोच्छ्रयौ ’इति वैजयन्ती। नचायं मूर्च्छतेर्निष्ठा मूर्त्त इति तद्रूपत्वात्। किन्तु मूर्च्छस्य संजातेति मूर्छितः तारकादित्वादितच्। मारीचं नाम राक्षसं सहायं वरयामास॥ 1.1.48॥
वार्यमाणः सुबहुशो मरीचेन स रावणः । न विरोधो बलवता क्षमो रावण तेन ते ॥ 1.1.49 ॥
अनादृत्य तु तद्वाक्यं रावणः कालचोदितः । जगाम सहमारीचस्तस्याश्रमपदं तदा ॥ 1.1.50 ॥
तेन मायाविना दूरमपवाह्य नृपात्मजौ । जहार भार्यां रामस्य गृध्रं हत्वा जटायुषम् ॥ 1.1.51 ॥
वार्यमाणइति। अत्रान्ते इतिकरणं द्रष्टव्यम्। स रावणः। हे रावण!ते बलवता खरादिषु दृष्टापदानवता। बलीयसा तेन रामेण विरोधो न क्षमो न युक्तः।‘क्षमस्त्रिषु हिते योग्ये युक्ते श्क्तौ पटावपि’इति शब्दरत्नाकरे। इति सुबहुशो मुहुर्मुहुः वार्यमाणोऽभूत्॥1.1.49॥ अनादृत्येति । रावणःकालचोदितः कालेन मृत्युना प्रेरितः सन् तद्वाक्यं मारीचवाक्यमनादृत्य सहमारीचः मारीचसहितः। “तेनसहेति तुल्ययोगे” इति समासः।“वोपसर्जनस्य” इति सह शब्दस्य सभावाभावः। तदा तस्मिन्नेव काले तस्य खरदूषणादिहन्तृत्वेन प्रसिद्धस्य रामस्य आश्रमपदमाश्रमस्थानम्।‘पदंव्यवसितत्राण– स्थानलक्ष्माङ्घ्रिवस्तुषु ’इत्यमरः। जगाम प्राप॥ 1.1.50॥तेनेति।मायाविना प्रशस्तमृगमायावता। “अस्मायामेधास्रजो विनिः” इति विनिप्रत्ययः। लोभनीयविचित्रकनकमृगवेषधारिणेत्यर्थः।तेन मारीचेन प्रयोज्येन नृपात्मजौ दशरथपुत्रौ दूरं यथा भवति तथा अपवाह्य अपसार्यदृश्यादृश्यतयारामंरामस्वरतुल्यस्वरेण लक्ष्मणं च दूरं निःसार्येत्यर्थः।मध्ये सीताविमोचनाय प्राप्तं जटायुषंजटायुर्नामकं गृध्रं हत्वा मरणपर्यवसायिनीं हिंसां कृत्वा रामस्य भार्यां नित्यानपायिनीं सीतां जहार हृतवान्। अत्रास्यं व्यादाय स्वपितीतिवदपूर्वकाले क्त्वा प्रत्ययः। सीतां हृत्वा जटायुषं जघानेत्यर्थः। अत्र मायानिर्मिता सीतैवापहृता स्वयमग्नावन्तर्हिता अत एव मायासीतायामग्निप्रविष्टायां निजसीताया उत्थानं यथाकथञ्चिल्लोकापवादात्पुनः सन्त्यागश्चोपपद्यते इत्याहुः ॥ 1.1.51 ॥
गृध्रं च निहतं दृष्ट्वा हृतं श्रुत्वा च मैथिलीम् ।राघवः शोकसंतप्तो विललापाकुलेन्द्रियः ॥1.1.52॥
गृध्रंचेति । मृगरूपमारीचहननं पर्णशालायां सीताया अदर्शनेन तदन्वेषणं च चकारेण समुञ्चीयते। निहतं मुमूर्षुं गृध्रं जटायुषं दृष्ट्वा तद्वचनान्मैथिलीं सीतां हृतां रावणेनापहृतां श्रुत्वा राघवः शोकेन संतप्तः सम्यक् तप्तः सन् सीताया अदर्शनेन तप्तः जटायोर्मरणेन सुतरां तप्तः। अतएव व्याकुलेन्द्रियः कलुषितसर्वेन्द्रियः सन् विललाप परिदेवनमकरोत्। ‘विललापः परिदेवनम् ’इत्यमरः।‘राज्याद्भ्रंशो वने वासः सीता नष्टा हतो द्विजः।ईदृशीयं महालक्ष्मीर्निर्दहेदपि पावकम्’। अत्र राघवमैथिलीशब्दाभ्यां कुलद्वयावद्यकरमिदमपहरणमिति शोकातिशयहेतुरुच्यते। ननु विष्ण्ववतारभूतस्यास्य कथं शोकमोहौ सम्भवत इति। सम्भवत एव पुरुषधौरेयस्य। यदि हि लोकोत्तरगुणविशिष्टवस्तुविनाशेऽपि तौ न स्यातां तर्हि स कथं पुरुषधौरेयः स्यात्। तच्च कथमतिसुन्दरं स्यात्। तयोरुभयोर्नमस्कार एव स्यात्। वक्ष्यति च महापुरुषगुण्मणिवर्णनप्रकरणे ‘व्यसनेषु मनुष्याणां भृशं भवति दुःखितः ‘इति। मारुतिश्च वक्ष्यति ‘दुष्करं कृतवान्रामो हीनो यदनया प्रभुः। धारयत्यात्मनो देहं न शोकेनावसीदति ’इति॥1.1.52॥
ततस्तेनैव शोकेन गृध्रं दग्ध्वा जटायुषम्॥1.1.53 ॥
मार्गमाणो वने सीतां राक्षसं संददर्श ह । कबंधं नाम रूपेण विकृतं घोरदर्शनम् ॥ 1.1.54 ॥
ततइति।अर्द्धत्रयमेकं वाक्यं। तेनैव शोकेन गृध्रहननजनितेनैव शोकेन सीतापहरणजशोकादप्यधि -केनेत्यर्थः। ततः व्याप्तो रामः गृध्रं तिर्यग्विशेषमपि जटायुषं पितृसखत्वात् शेषिकार्याय त्यक्तप्राणत्वाच्च दज्ध्वा ब्रह्ममेधेन संस्कृत्य। ‘यत्तु प्रेतस्य मर्त्यस्य कथयन्ति द्विजातयः। तत्स्वर्गगमनं तस्य क्षिप्रं रामो जजाप ह’इति वक्ष्यमाणत्वात् मुक्तत्यक्तशरीरत्वाच्चेदं ब्रह्ममेधमर्हतीति। तथोक्तं नृसिंहपुराणे ‘मत्कृते निधनं यस्मात्त्वया प्राप्तं द्विजोत्तम। तस्मात्त्वं मत्प्रसादेन विष्णुलो- कमवाप्स्यसि ’इति सामान्यतश्चोक्तम्। यथाग्नेये‘विष्णोः कार्यं समुद्दिश्यदेहत्यागो यतः कृतः । ततो वैकुण्ठमासाद्य मुक्तो भवति मानवः’ इति । आश्वमेधिके च ‘प्राणांस्त्यजति यो मर्त्त्यो मां प्रपन्नोऽपि मत्कृते। बालसूर्यप्र्काशेन व्रजेद्यानेन मद्गृहम्’इति। अत्रापि वक्ष्यति ‘या गतिर्यज्ञशीलानामाहिताग्नेश्च या गतिः। अपरावर्तिनां या च या च भूमिप्रदायिनाम्। मया त्वं समनुज्ञातो गच्छ लोकाननुत्तमान् ’इति। अत्रापरा वृत्तिर्न च पुनरावर्तते इत्युक्ता मुक्तिरेव। न तु युद्धे अपलायनम्। तत्फलस्य स्वतःसिद्धत्वेन तदनुग्राह्यत्वाभावात् । न च संस्काराभावे सुकृतफलस्यानुत्पत्या तत्करणेन तदनुग्राह्यत्वमेवेति वाच्यम्। तिरश्चो यज्ञानधिकारेण तस्य तदभावेन तस्य तदनुग्राह्यत्वात्। अङ्गिफलस्यैवाङ्गफलत्वेन उपासनाङ्गानां यज्ञदानादीनामपि मुक्तिरेव फलमित्यभिप्रायेण या गतिर्यज्ञशीलानामित्याद्युक्तम्। यद्वा “इमांल्लोकान्कामान्नीकाम- रूप्यनुसंचरन्” इत्यादिश्रुत्युक्तरीत्या मुक्तस्य सर्वलोकसंचारसंभवाद्या गतिरित्याद्युक्तं क्रममुक्तिपरमिदं वचनम्। ननु ‘आत्मानं मानुषं मन्ये ’इति मनुष्यत्वं भावयतः कथं परत्वासाधारणचिह्नं मोक्षप्रदत्वमुच्यते इति चेन्न। सत्येन लोकान् जयतीत्युक्तस्य सर्वलोकजयस्य मानुषत्वेप्यविरोधात्।एनं जटायुषं दग्ध्वा वने तां सीतां मार्गमाणः अन्वेषणं कुर्वन्। मार्ग-अन्वेषण इत्यस्माद्धातोः शानच्। “ आधृषाद्वा ” इति विकल्पाण्णिजभावः। रूपेण शरीरेण विकृतं विकारयुक्तम्। “ येनाङ्गविकारः ” इति तृतीया। कुक्षिनिक्षिप्तमस्तकमित्यर्थः। यद्यप्ययं दानव एव तथापि राक्षसप्रकृतित्वात्तथोक्तमिति ज्ञेयम् ॥ 1.1.54॥
तं निहत्य महाबाहुर्ददाह स्वर्गतश्च सः । स चास्य कथयामास शबरीं धर्मचारिणीम् ॥ 1.1.55 ॥
श्रमणां धर्मनिपुणामधिगच्छेति राघव । तमिति। महाबाहुः कबन्धभुजनिकर्तनक्षमभुजो रामः तं कबन्धं निहत्य तत्प्रार्थनया ददाह दग्धवान्।स च कबन्धोदाहेने हेतुना स्वः स्वर्गं गतः।इदमर्धमेकं वाक्यम्। सचेति।स स्वर्गं गच्छन् कबन्धोऽपि अस्य उपकारस्मृत्या क्षणमाकाशे स्थित्वा धर्मचारिणीं गुरुशुश्रूषादिधर्माचरणशीलाम्। आचार्याभिमानरूपचरमपर्वनिष्ठामित्यर्थः;‘पादमूलंगमिष्यामि यानहंपर्यचारिषम्’इति वक्ष्यमाणत्वात्। धर्मे अतिथिसत्काररूपे निपुणां समर्थां धर्मसूक्ष्मज्ञामित्यर्थः।रामः समागमिष्यतीति स्वादूनि फला– न्यास्वाद्यास्वाद्य परीक्ष्य निक्षिप्तवती फलानीति प्रसिद्धिः। श्रमणीं परिव्राजिकाम्॥ 1.1.55 ॥‘चतुर्थमाश्रमं प्राप्ता श्रमणी नाम ते स्मृता’इतिस्मरणात्। शबरीमिति। शबरीं विलोमस्त्रियम्। तदुक्तं नारदीये ‘नृपाणां वैश्यतो जातः शबरः परिकीर्त्तितः। मधूनि वृक्षादानीय विक्रीणीते स्ववृत्तये’इति। “ जातेरस्त्रीविषयात्”इतिङीप्। अभिगच्छ आभिमुख्येन गच्छेति राघवं कथयामास। राघव इति पाठे तस्योत्तरश्लोकेनान्वयः। राघवेति पाठे हे राघव ! शबरीमभिगच्छेति अस्य रामस्य कथयामासेत्यर्थः। अत्र भागवतभक्तिमहिम्ना हीनजातेरप्यभिगन्तव्यत्वमुक्तम्॥
सोऽभ्यगच्छन्महातेजाः शबरीं शत्रुसूदनः॥ 1.1.56 ॥
शबर्या पूजितः सम्यग्रामो दशरथात्मजः ।सइति । महातेजाः चरमपर्वनिष्ठजनलिप्सयातिसंतुष्टः स राघवः शत्रुसूदनः। ‘गमिष्याम्यक्षयांल्लोकान्त्वत्प्रसादादरिन्दम ’इत्युक्तरीत्या तत्प्राप्तिप्रतिबन्धकनिवर्तकः।“सात्पदाद्योः” इतिषत्वाभावः। शबरीं नीचत्वसीमाभूमिभृतामभ्यगच्छदिति सौशील्यातिशयोक्तिः॥1.1.56॥ दशरथात्मजः रामः शबर्या सम्यक् पूजितः।षष्टिवर्षसहस्राणि वन्ध्यस्य दशरथस्य प्रसादेऽत्यन्तादरकृतभोजनादप्यति- शयितं तत्कालमात्रसमागत–शबरीसमर्पितमृष्टान्नमिति भावः। शरभङ्गादिभिरगस्त्यान्तैः कृतं पूजामात्रम्। शबर्या कृतं तु सम्यक् पूजनम्। तस्याश्चरमपर्व–निष्ठत्वादिति भावः। उक्तं हि ‘मम भक्तभक्तेषु प्रीतिरभ्यधिका भवेत् ’इति। यद्वा सम्यक् पूजनं परीक्षितरसैः फलैर्भोजनम्। पूजित इत्यत्र “ मतिबुद्धिपूजार्थेभ्यश्च ” इतिवर्त्तमाने क्तः। तथा च शबर्येत्यत्र “ क्तस्य च वर्त्तमाने ” इति कथं न षष्ठीति चेत्। अत्र केचिदाहुः आर्षः षष्ठ्यभाव इति। अन्ये तु नायं वर्त्तमाने क्तः किन्तु भूते। तद्योगे च “ न लोकाव्यय ” इत्यादिना षष्ठीप्रतिषेधात्तृतीयैवेति। वस्तुतः पूजास्य संजातेति पूजितः। तारकादित्वादितच्प्रत्ययः। अनेन तृतीया भवत्येव॥
पम्पातीरे हनुमता सङ्गतो वानरेण ह ॥1.1.57॥
हनुमद्वचनाच्चैव सुग्रीवेण समागतः । एवं सत्यप्रतिज्ञत्वप्रधानमारण्यकाण्डचरितं संगृह्य मित्रकार्यनिर्वाहकत्वपरां किष्किन्धाकाण्डकथां संगृह्णाति-पम्पेति। पम्पा नाम पद्मसरः तस्यास्तीरे तटकाननैत्युद्दीपकसंनिधानोक्तिः। हनुमता प्रशस्तहनुना। वीरकिणाङ्कितमुखेनेत्यर्थः। वानरेण संगतः संयुक्तो राम इति शेषः। हेति हर्षे॥ 1.1.57॥
विरहिजनप्राणापहारिणि पम्पोपवने स्वकामिनीघटकसमागमोऽयं चौरैर्वनेऽपहृत- सर्वस्वस्य स्वजन-मुखावलोकनवदतीवाश्वासनमिति मुनेर्हर्षः। हनुमता का गतिरिहेदानीमिति अतिमात्रपर्याकुलतादशायां विजयकिणाङ्कितवदनवता पुरुषेण सङ्गमो यदृच्छया संजातः। वनरेणेति विशेषणेनरावणवत्संन्यासिवेषरहिततया स्ववेषेण समागमादाश्वसनीयता द्योत्यते। हनुमत्वचनात्सुग्रीवेण समागतः। चैवेति निपातसमुदायःसमुच्चयार्थः। अनुकूलपुरुषकार- लाभादुचितमित्रलाभो जात इति भावः।
सुग्रीवाय च तत्सर्वं शंसद्रामो महाबलः॥1.1.58॥
आदितस्तद्यथा वृत्तं सीतायाश्च विशेषतः ॥अथ सख्यहेतुं रहस्योद्भेदं दर्शयति-सुग्रीवायेति। महाबल इत्यनेन वृत्तस्मरणकालिककातर्य- गोपनहेतुर्धैर्यमुच्यते। राम आदितह जन्मन आरभ्य तत्प्रसिद्धं सर्वं वृत्तं सुग्रीवाय शंसत्। अनित्यमागमशासनमित्यडभावः॥1.1.58॥ अकथयदित्यर्थः। सीतायाः तद्वृत्तं च रावणहृतत्वादिकं यथावृत्तं वृत्तमनतिक्रम्य। पदार्थानतिवृत्तावव्ययीभावः। तदन्वेषणस्यावश्यकर्त्तव्यतया विशेषेणाशंसत्॥
सुग्रीवश्चापि तत्सर्वं श्रुत्वा रामस्य वानरः ॥1.1.59॥
चकार सख्यं रामेण प्रीतस्चैवाग्निसाक्षिकम्॥ सुग्रीवइति। चापीति निपातसमुदायः समुच्चयार्थः। वानरः सुग्रीवोऽपि रामस्य संबन्धि तत्सर्वं पूर्वोक्तं वृत्तान्तं श्रुत्वा प्रीतः रामस्य प्रयोजनापेक्षितत्वान्मामकमपि प्रयोजनं निर्वर्त्तयिष्यतीति संतुष्टः सन्॥1.1.59॥ अग्निः साक्षी साक्षाद्रष्टायस्य तदग्निसाक्षिकम्। “ शेषाद्विभाषा ” इति कप्प्रत्ययः। रामेण सख्यं सखित्वम् ।“ सख्युर्यः”इति भावार्थे यप्प्रत्ययः। चकार कृतवान्। वानररामशब्दाभ्यां सख्यस्यासदृशत्वं। व्यञ्जितं तेन च रामस्य सौशील्यातिशयो व्यज्यते।गुहस्य हीनमनुष्यजातितया तत्सख्यं सौशील्यहेतुः। तत्रापि स्त्रीत्वेन शबर्यभिगमनं ततस्तरां सौशील्यं सुग्रीवस्य तिर्यक्त्वेन ततस्तमाम् सौशील्यमिति भावः।
ततो वानरराजेन वैरानुकथनं प्रति ॥1.1.60॥
रामायावेदितं सर्वं प्रणयाद्दुःखितेन च ।प्रतिज्ञातं च रामेण तथा वालिवधं प्रति ॥1.1.61॥
वालिनश्च बलं तत्र कथयामास वानरः । ततइति । ततः सख्यकरणानन्तरं दुःखितेन परमसुहृद्भूतरामसन्निधानादुद्बुद्धपूर्ववृत्तान्ततया बाष्पं मुञ्चतेत्यर्थः। वानरराजेन सुग्रीवेण। “ कर्तृकरणयोस्तृतीय ”इति कर्तरि तृतीया। वैरस्य वालिविरोधस्यानुकथनमनुकूलकथनम् । प्रश्नानुकूलमुत्तरमित्यर्थः । वालिना सह तव कुतो वैरमासीदित्येवं प्रभः। तं प्रति वक्तव्यं सर्वं रहस्यप्रकाशरूपं प्रण्यात्स्नेहाद्विस्रम्भाद्वा । ‘प्रणयास्त्वमी ।विस्रम्भयाञ्चाप्रेमाणः ’इत्यमरः। रामायावेदितमासमन्तादुक्तम् । कार्त्स्न्येनोक्तमित्यर्थः प्रतिज्ञातं चेति। चशब्दो भिन्नक्रमः। रामेण च तदा आवेदनानन्तरकाले वालिवधं प्रति प्रतिज्ञातम्। वालिवधप्रतिज्ञा कृतेत्यर्थः। भावे क्तः॥1.1.61॥
वानरः सुग्रीवश्च तत्र ऋष्यमूके वालिनो बलम्। ‘समुद्रात्पश्चिमात्पूर्वं दक्षिणादपि चोत्तरम्। कामत्यनुदिते सूर्ये वाली व्यपगतक्लमः’इत्यादिना वक्ष्यमाणं बलमुत्साहवर्द्धनाय कथयामास।
सुग्रीवः शङ्कितश्चासीन्नित्यं वीर्येण रघवे ॥1.1.62॥
सुग्रीवइति।सुग्रीवो राघवे विषये वीर्येण हेतुना नित्यं दर्श्नादारभ्य सालभेदनपर्यन्तं मुहुर्मुहुराशङ्कित आसीच्च। अयं वालितुल्यवीर्यो नवेति शङ्कितवानित्यर्थः। नित्यशब्दस्य वीप्सापरत्वं महाभाष्ये “नित्यप्रहसितो नित्यप्रजल्पित” इति। “मतिबुद्धि” इत्यादिसूत्रे शङ्कितादयोप्यर्थसिद्धा इति सूचनात् कर्त्तरि निष्ठा॥1.1.62॥
राघवप्रत्यययार्थं तु दुन्दुभेः कायमुत्तमम् । दर्शयामास सुग्रीवो महापर्वतसंनिभम् ॥1.1.63॥
राघवेति । तुशब्दो विशेषवाची। न केवलं शङ्कितोऽभूत्। किन्तु प्रत्ययार्थमन्यद्दर्शयामास चेत्यर्थः। राघवप्रत्ययार्थं रामविषयज्ञानार्थम्। रामबलविज्ञानार्थमित्यर्थः। रामविषयविश्वासजननार्थमिति वा। ‘प्रत्ययोधीनशपथज्ञानविश्वसहेतुषु’इत्यमरः। दुन्दुभेः दुन्दुभ्याख्यस्य वालिहतस्यासुरस्य उत्तममशिथिलमतएव महापर्वतसन्निभम्। उत्तममुन्नतं वा कायं कायाकारास्थि दर्शयामास। रामायेति शेषः। वाली एतदस्थिपादाग्रेऽन्यस्य ऊर्ध्वं क्षिपतीत्युक्त्वा दर्शयामासेत्यर्थः॥1.1.63॥
उत्स्मयित्वा महाबाहुः प्रेक्ष्य चास्थि महाबलः ।पादाङ्गुष्ठेन चिक्षेप सम्पूर्णं दशयोजनम् ॥1.1.64॥
उत्स्मयित्वेति । महाबलः अपरिमेयबलः। महाबाहुः बलानुगुणकार्यकरणसमर्थभुजः रामः अस्थि प्रेक्ष्य उत्स्मयित्वा कियन्मात्रमेतदित्यनादृत्य स्मित्वा। इडार्षः। पादाङ्गुष्ठेन सम्पूर्णमन्यूनं दशयोजनम्। पात्रादित्वात्समाहारे डीबभावः। अत्यन्तसंयोगे द्वितीया। उच्चिक्षेप उद्यम्य चिक्षेप । “ व्यवहिताश्च ” इति उपसर्गस्य व्यवहितप्रयोगः। वालिना पादेन क्षिप्तम्। रामेण तु पादाङ्गुष्ठेन उत्क्षिप्यते। तेन द्वे ध्नुःशते। अनेन दशयोजनमिति विशेषः॥1.1.64॥
बिभेद च पुनः सालान्सप्तैकेन महेषुणा । गिरिं रसातलं चैव जनयन्प्रत्ययं तदा ॥1.1.65॥
चिरं युद्धपरिश्रान्तेन वालिना आर्द्रं शरीरं प्रक्षिप्तम्। त्वया तु स्वस्थेन शुष्कमित्यनाश्वसन्तं प्रति प्रत्ययान्तरमकरोदित्याह—बिभेदेति। अत्र राम इत्यनुषज्यते। पुनश्च सप्तसालान् सर्जकतरून् तत्समीपस्थं गिरिं रसातलमधोलोकेषु षष्ठलोकं च प्रत्ययं विश्वासं जनयन् प्रत्ययजननार्थम् । “ लक्षणहेत्वोः ”इति शतृप्रत्ययः।एकेन महेषुणा बिभेद। महेषुणेत्यनेन सुग्रीवकार्यसाधनाय रामेण तप्तपरशुधारणं कृतमिति ध्वन्यते॥1.1.65॥
ततः प्रीतमनास्तेन विश्वस्तः स महाकपिः । किष्किन्धां रामसहितो जगाम च गुहां तदा ॥1.1.66॥
ततः सालादिभेदनानन्तरं तेनातिमानुषचरित्रेण विश्वस्तः अयमवश्यं वालिहननक्षम इति विश्वासं प्राप्तः प्रीतमनाः अचिरादेव राज्यं लप्स्ये इति सन्तुष्टचित्तः महाकपिः आत्मानं कपिराजं मन्यमानः स सुग्रीवः रामसहितः सन् तदा तस्मिन्नेव काले किष्किन्धां किष्किन्धाख्यां गुहां गुहावत्पर्वतमध्यवर्त्तिनीं पुरीं जगाम। चकारेण पुनर्गमनं समुच्चीयते॥1.1.66॥
ततोऽगर्जद्धरिवरः सुग्रीवो हेमपिङ्गलः । तेन नादेन महता निर्जगाम हरीश्वरः ॥1.1.67॥
ततः किष्किन्धागमनानन्तरं हरिवरः आत्मनः कपिवरत्वनिश्चयवान् हेमपिङ्गलः स्वर्णवत्पिङ्गलवर्णः। हर्षप्रकर्षेण निवृत्तवैवर्ण्य इत्यर्थः। सुग्रीवो गर्जितानुगुणकण्ठध्वनिः अगर्जत् घोषं चकार। महता पूर्वगर्जितविलक्षणेन तेन नादेन हेतुना हरिवरो वाली गुहान्निर्जगाम ॥1.1.67॥
अनुमान्य तदा तारां सुग्रीवेण समागतः। निजघान च तत्रैनं शरेणैकेन राघवः ॥1.1.68॥
ततः सुग्रीववचनाद्धत्वा वालिनमाहवे ।सुग्रीवमेव तद्राज्ये राघवः प्रत्यपादयत् ॥1.1.69॥
अनुमान्येति । वाली तदा निर्गमनकाले तारामद्य वनादागतेनाङ्गदेन सुग्रीवो रामसहायस्तिष्ठतीति कथितम्। अद्य पराजितो निर्गतः पुनरागतः अतस्त्वद्गमनमनुचितमिति वारयन्तीं तारामनुमान्य धार्मिकाग्रेसरो रामः कथं मामनपराधिनं हन्यादिति परिसान्त्व्य सुग्रीवेण समागतः।अयुध्यतेत्यर्थः। राघवः महाकुलप्रसूतत्वेन धर्मसूक्ष्मज्ञः तत्र युद्धभूमौ एनं परेण युद्ध्कृतमपि वालिनं तदा परेण युद्धकाले। चावधारणार्थः। एकेन शरेण निजघान। द्वितीयशरप्रयोगे तदाभिमुख्येन तद्वधो दुर्लभ इति भावः। युद्धेऽभिमुखस्य बलं वालिनमेव गच्छतीति वरप्रसिद्धिः॥1.1.68॥
ततइति। सुग्रीववचनात्सुग्रीवप्रार्थनावचनात्। आहवे सुग्रीवस्य युद्धे वालिनं हत्वा ततः वालिवधानन्तरं राघवः तद्राज्ये वालिराज्ये सुग्रीवमेव प्रत्यपादयत् स्थापयामासेत्यर्थः॥1.1.69॥
स च सर्वान्समानीय वानरान्वानरर्षभः ।दिशःप्रस्थापयामास दिदृक्षुर्जनकात्मजाम् ॥1.1.70॥
अथ सुग्रीवस्य प्रत्युपकारं दर्शयति—सचेति। वानरर्षभः वानरराजत्वेनाभिषिक्तः स च सुग्रीवोऽपिजनकात्मजां दिदृक्षुः द्रष्टुमिच्छुः सन् सर्वान् नानादेश्निवासिनो वानरान् समानीय आहूय दिशश्चतस्रः प्रति प्रस्थापयामास। शीघ्रं सीतां दृष्ट्वागच्छतेति आदिष्टवानित्यर्थः॥1.1.70॥
ततो गृध्रस्य वचनात्सम्पातेर्हनुमान्बली । शतयोजनविस्तीर्णं पुप्लुवे लवणार्णवम् ॥1.1.71॥
ततः सुन्दरकाण्डकथां संगृह्णाति—ततइति। ततः प्रस्थानानन्तरं बली अपरिच्छेद्यबलः। भूमार्थे मत्वर्थीयः। हनुमान् प्रशस्तहनुः। अन्वर्थसंज्ञेयम्। तथा चेन्द्रो वक्ष्यति ‘मत्करोत्सृष्टवज्रेण हनुस्तस्य तदा क्षतः। नाम्नैष हरिशार्दूलो भविता हनुमानिति ’। आभ्यां पदाभ्यां पूर्वकथाप्रस्तावेन जाम्बवता कृतोत्साहत्वम्। तदुद्भूतनिरवधिकबलवत्त्वं च द्योत्यते। सम्पातेः सम्पातिनामकस्य जटायुर्ज्येष्ठस्य पक्षिणो वचनात्। इतः शतयोजनात्परे समुद्रमध्ये लङ्कायां सीता वर्तते। ‘तर समुद्रं तां पश्यसि ’इति वचनात् । शतयोजनविस्तीर्णं लवणार्णवं पुप्लुवे । प्लुत्वा ततारेत्यर्थः॥1.1.71॥
तत्र लङ्कां समासाद्य पुरीं रावणपालिताम्।ददर्श सीतां ध्यायन्तीमशोकवनिकां गताम् ॥1.1.72॥
तत्रेति । हनुमान् रावणपालितां लङ्कां समासद्य तत्र लङ्कायां अशोकवनिकामन्तःपुरोद्यानं गतां ध्यायन्तीं राममेव नैरन्तर्येण स्मरन्तीं सीतां ददर्श॥1.1.72॥
निवेदयित्वाभिज्ञानं प्रवृत्तिं विनिवेद्य च । समाश्वास्य च वैदेहीं मर्दयामास तोरणम्॥1.1.73॥
निवेदयित्वेति। ततो हनुमान् अभिज्ञानमङ्गुलीयकरूपं रामचिह्नं निवेदयित्वा समर्प्य। अनित्यत्वात् समासेऽपि ल्यबभावः। अतएवाह न्यासकारः वा छन्दसीति वक्तव्ये क्त्वापि छन्दसीति वचनं असमासेऽपि ल्यबर्थम्। तेनार्च्यदेवानागत इति सिद्धमिति। अनेन व्यभिचारेण समासे ल्यब्विधे– रनित्यत्वं सिद्धमेव। प्रवृत्तिं सुग्रीवसख्यकरणसेनासमूहिकरणप्रभृतिरामागमनवृत्तान्तं ‘वार्त्ता प्रवृत्तिर्वृत्तान्तः’इत्यमरः। चकारात् ‘नैव दंशान्न मशकान्न कीटान्न सरीसृपान् । राघवोपनयेद्– गात्रात्वद्गतेनान्तरात्मना’इति रामस्य सीतैकपरायणत्वादिकं समुच्चीयते। निवेद्य उक्त्वा च वैदेहीं समाश्वास्य सद्यस्ते कान्तः समागमिष्यतीति सान्त्वयित्वा तोरणमशोकवनिकाबहिर्द्वारं मर्दयामास। तोरणोऽस्त्री बहिर्द्वाररम्’इत्यमरः॥1.1.73॥
पञ्चसेनाग्रगान्हत्वा सप्त मन्त्रिसुतानपि। शूरमक्षं च निष्पिष्य ग्रहणं समुपागमत्॥1.1.74॥
पञ्चेति । अग्रे गच्छ्न्तीत्यग्रगाः सेनाया अग्रगाः सेनाग्रगाः। अन्तादिष्वपाठेष्वपि ‘अन्यत्रापि दृश्यते’इति –प्रत्ययः। तान् पञ्च पिङ्गलनेत्रप्रमुखान् जम्बुमालिप्रमुखान् सप्तमन्त्रिसुतानपि हत्वा शूरमक्षमक्षकुमारं रावणद्वितीयपुत्रं निष्पिष्य चूर्णीकृत्य ग्रहणमिन्द्रजित्प्रयुक्तब्रह्मास्त्रेण ब्रह्मणो बन्धनं समुपागमत् प्राप्तः ॥1.1.74॥
अस्त्रेणोन्मुक्तमात्मानं ज्ञात्वा पैतामहाद्वरात्। मर्षयन्राक्षसान्वीरो यन्त्रिणस्तान् यदृच्छया ॥1.1.75॥
अस्त्रेणेत्यादि । श्लोकद्वयमेकान्वयि। वीरः सुरासुराप्रधृष्यरावणपालितलङ्काप्रधर्षणादिना प्रख्यात- वीर्यः। महाकपिः स्वयमक्षत एवानेकराक्षसहननक्षम इत्यर्थः। पैतामहात्पितामहदत्ताद्वरादात्मानं यदृ -च्छया प्रयत्नं विना अस्त्रेण ब्रह्मास्त्रेण उन्मुक्तं परित्यक्तं ज्ञात्वा यन्त्रिणःआत्मानं रज्जुयन्त्रेण बद्धा इतस्ततः कृषत इत्यर्थः।राक्षसान् मर्षयन् तदपराधान् क्षममाण इत्यर्थः॥1.1.75॥
ततो दग्ध्वा पुरीं लङ्कामृते सीतां च मैथिलीम्। रामाय प्रियमाख्यातुं पुनरायान्महाकपिः ॥1.1.76॥
तत इति। मैठिलीं मिथिलराजसुतां सीतामृते विना कुलप्रभावात्तन्मात्रमदग्ध्वा लङ्कां पुरीं दग्ध्वा रामाय प्रियं सीतादर्शनप्रियमाख्यातुं वक्तुं पुनरायात्॥1.1.76॥
सोभिगम्य महात्मानं कृत्वा रामं प्रदक्षिणम्। न्यवेदयदमेयात्मा दृष्टा सीतेति तत्त्वतः॥1.1.77॥
सोभिगम्येति।अमेयात्मा अपरिच्छेद्यबुद्धिः स हनुमान् महात्मानं सीतावियोगज्वरेऽप्यवार्यधैर्यं राममभिगम्य आभिमुख्येन प्राप्य। अनेन हनुमतः कृतकार्यत्वं द्योतितम्। प्रदक्षिणं च कृत्वा सीता तत्त्वतो यथावदृष्टेति न्यवेदयत् अकथयत्। सीता दृष्टेति वक्तुं शक्यत्वेपि दृष्टा सीतेत्युक्तिः रामस्य सीईतादर्शनजीवनादिविषयसंशयो माभूदिति वदन्ति। अन्ये त्वदृष्टेति प्रतिभासेतेति दृष्टेत्युक्तमिति। अपरे तु सन्तोपातिशयप्रकतनाय प्रथ्मं कृतकार्यनिर्देश इति॥1.1.77॥
ततः सुग्रीवसहितो गत्वा तीरं महोदधेः। समुद्रं क्षोभयामास शरैरादित्यसन्निभैः॥1.1.78॥
अथ युद्धकाण्डकथां संगृह्णाति—ततइत्यादि। ततः हनुमद्वाक्यश्रवणानन्तरं सुग्रीवसहितःसन् महोदधेः शतयोजनविस्तीर्णसिन्धोस्तीरंगत्वा आदित्यसन्निभैः शरैः समुद्रं क्षोभयामास आपातालमाकुलीचकार ॥1.1.78॥
दर्शयामास चात्मानं समुद्रः सरितां पतिः। समुद्रवचनाच्चैव नलं सेतुमकारयत् ॥1.1.79॥
दर्शयामासेति । सरिताई नदीनां पतिः। अनेन रामकोपशान्तये कालिय इव सम्द्रः सपत्नीकः समागत इति ध्वन्यते। समुद्रः आत्मानं निजरूपं दर्शयामास। रामायेति शेषः। समुद्रवचनादेव नलं सेतुमकारयच्च नलेन सेतुं कारयामास। “हृक्रोरन्यतरस्याम्” इति प्रयोज्यकर्तुः कर्मत्वम्॥1.1.79॥
तेन गत्वा पुरीं लङ्कां हत्वा रावणमाहवे। रामः सीतामनुप्राप्य परां व्रीडामुपागमत् ॥1.1.80॥
तेनेति । रामस्तेन सेतुना लङ्कां पुरीं गत्वा आहवे युद्धे रावणं हत्वा सीतां प्राप्य अनु पश्चात् परामतिशयितां व्रीडां लज्जामुपागमत् पौरुषनिर्वहणाय रिपुहननपूर्वकं सीता पुनः प्राप्ता। परगृहस्थितां कथमङ्गीकरिष्यामिति लज्जितोऽभूदित्यर्थः॥1.1.80॥
तामुवाच ततो रामः परुषं जनसंसदि । अमृष्यमाणा सा सीता विवेश ज्वलनं सती॥1.1.81॥
तामिति । ततः व्रीडाप्राप्तेर्हेतोः। ‘यत्तद्यतस्ततो हेतौ’इत्यमरः। तां तादृश्पातिव्रत्यां सीतां जनसंसदि देवादिसभायां परुषं वचनमुवाच। “अकथितं च” इति द्विकर्मकत्वम्। जनसंसदीत्यनेन प्रत्ययोत्पादनार्थं शपथं कुर्वति सूचितम्। सती पतिव्रता सीता अमृष्यमाणा रामोक्तपरुषवचनम– सहमानाज्वलनं लक्ष्मणानीतमग्निं विवेश॥1.1.81॥
ततोऽग्निवचनात्सीतां ज्ञात्वा विगतकल्मषाम्। कर्मणा तेन महता त्रैलोक्यं सचराचरम् ॥1.1.82॥
सदेवर्षिगणं तुष्टं राघवस्य महात्मनः । बभौ रामः सम्प्रहृष्टः पूजितः सर्वदैवतैः ॥1.1.83॥
‘ततोग्निवचनात्सीतां ज्ञात्वा विगतकल्मषाम्। बभौ रामः सम्प्रहृष्टः पूजितः सर्वदैवतैः’इति क्रमः। अन्यस्तु लेखकप्रमादकृतः। ततः अग्निप्रवेशानन्तरमग्निवचनात्सीतां विगतकल्मषां करणत्रयेऽपि दोषगन्धरहितां ज्ञात्वा रामः सम्प्रहृष्टः सन् बभौ सर्वदैवतैः पूजितश्च बभूव। अहो रामस्य धर्मापेक्षितेति स्तुतोऽभूदित्यर्थः। कर्मणेति। महात्मनो महास्वभावस्य राघवस्य तेन कर्मणा रावणवधेन सचराचरं स्थावरजङ्गमसहितं सदेवऋषिगणं त्रैलोक्यं त्रिलोकी। स्वार्थे ण्यञ्। तुष्टं सन्तुष्टमासीत्। स्थावरस्य सन्तोषः पल्लवोद्गमादिनाऽवगम्यते ‘अन्तःसंज्ञा भवन्त्येते’इति विष्णुपुराणम्॥1.1.83॥
अभिषिच्य च लङ्कायां राक्षसेन्द्रं विभीषणम्। कृतकृत्यस्तदा रामो विज्वरः प्रमुमोद ह ॥1.1.84॥
अभिषिच्येति। यद्यपि सीतासमागमात्पूर्व विभीषणाभिषेकः तथाप्यत्र क्रमो न विवक्षित इति ज्ञेयम्। रामः विभीषयतीति विभीषणस्तम्। नन्द्यादित्वाल्ल्युः। शत्रुभयङ्करमित्यर्थः। लङ्कायां चाभिषिच्य समुद्रतीरेऽभिषेकः समुच्चीयते। यद्वा चोवधारणार्थः। अभिषिच्यैव कृतकृत्यो नतु रावणं हत्यैव। लङ्कायां विभीषणमभिषिच्य स्रुहिवनं छित्वा सहकारं स्थापयित्वेतिवत्। यद्वा चोन्वाचये। प्रधानतयाऽपवर्गमनुगृह्यानुषङ्गिकतया राज्येऽभिषिच्येत्यर्थः।‘शरीरारोग्यमर्थांश्च भोगाश्चैवानुषङ्गि- कान्।ददाति ध्यायतां पुंसामपवर्गप्रदो हरिः’इति वचनात्। अभिषिच्य तदा रामः अभिषेकात्पूर्वं कथं स्यादिति। विवर्णोऽभूत् । विज्वरः भरतो यथा राज्यं न स्वीकृतवान् तथायमपि चेत् किं कुर्यामिति पूर्वं ज्वरोऽभूत्। स इदानीं निवृत्त इत्यर्थः। यद्वा नागपाशप्रभृतिषु ‘यन्मया न कृतो राजा राक्षसानां विभीषणः। तच्च मिथ्याप्रलपन्तं मां प्रधक्ष्यति न संशयः’इति। योऽयमन्तस्तापः स इदानीं निवृत्त इत्यर्थः। न केवलं विज्वरः प्रमुमोद च प्रकर्षेण मोदं प्राप्तश्च। चक्षिङो ङित्करणादनित्यमनुदात्तेन आत्मनेपदत्वम्। अतोऽत्र परस्मैपदप्रयोगः।अनेन रामस्य रावणवधसीताप्राप्ती आनुषङ्गिकफले ।स्वाश्रितविभीषणाभिषेचनमेव परमपुरुषार्थ इत्यवगम्यते। यद्वा वौ पक्षिणि जटायुषि ज्वरो यस्य सः। यथा लोके कस्यचित्पुत्रस्योत्सवे कथञ्चिन्मोदमानोऽपि पिता पूर्वातीतपुत्रस्मरणात् सन्तप्त एव भवति। एवं सर्वलोकपिता स्वामी च विभीषणाभिषेकसमये विनाभिषेकमतीतं जटायुषं स्मरन् किञ्चिदन्तस्तापोपपन्न एव मुमुदे इत्यर्थः। यद्वा विज्वर इत्यनिष्टनिवृत्तिरुक्ता। प्रमुमोदेतीष्टप्राप्तिः। हेति प्रसिद्धौ विस्मये वा। हन्त रामस्य सत्यप्रतिज्ञत्वमित्यर्थः॥1.1.84॥
देवताभ्यो वरं प्राप्य समुत्थाप्य च वानरान् । अयोध्यां प्रस्थितो रामः पुष्पकेण सुहृद्वृतः ॥1.1.85॥
देवताभ्यइति। रामः देवताभ्यः रामविजयश्लाघनायागताभ्यःवरं प्राप्य तेन वरेण वानरान् रणे मृतान् समुत्थाप्य सुप्तानिवोत्थाप्य सुहृद्भिः सुग्रीवविभीषणादिभिर्वृतः सन् पुष्पकेण कुबेरं विजित्य रावणेन समानीतेन पुष्पकाख्यविमानेन अयोध्यां प्रति प्रस्थितः॥1.1.85॥
भरद्वाजाश्रमं गत्वा रामः सत्यपराक्रमः । भरतस्यान्तिके रामो हनूमन्तं व्यसर्जयत्॥1.1.86॥
भरद्वाजेति। सत्यपराक्रमः सत्यविषयपराक्रमवान्। राम इति क्रियाभेदाद्द्विरुक्तिः। भरद्वाजाश्रमं गत्व भरतस्यान्तिकं समीपं प्रति हनूमन्तं व्यसर्जयत् व्यसृजत्। हनू शब्द ऊकारान्तोऽप्यस्ति। भरद्वाजेनात्र स्थातव्यमिति प्रार्थिते तद्दिवसे न चतुर्दशवर्षपूर्त्तेः’पूर्णे चतुर्दशे वर्षे आगमिष्यामि’इति भरतं प्रत्युक्तेः। सत्यत्वरक्षणाय हनूमन्तं प्रेरितवानिति भावः॥1.1.86॥
पुनराख्यायिकां जल्पंसुग्रीवसहितस्तदा । पुष्पकं तत्समारुह्य नन्दिग्रामं ययौ तदा॥1.1.87॥
पुनरिति। रामस्तत्पुष्पकं समारुह्य सुग्रीवसहितः सन् तदा गमनकाले आख्यायिकां पूर्ववृत्तकथाम्। ‘आख्यायिकोपलब्धार्था ’इत्यमरः। पुनः पुनः जल्पन् कथयन् अर्थात् भरतविषयाख्यायिकां सुग्रीवेण जल्पन्निति गम्यते। नन्दिग्रामं भरतस्थानं तदा तस्मिन्नेव काले शीघ्रमित्यर्थः । ययौ प्राप॥1.1.87॥
नन्दिग्रामे जटां हित्वा भ्रातृभिः सहितोऽनघः। रामः सीतामनुप्राप्य राज्यं पुनरवाप्तवान् ॥1.1.88॥
नन्दिग्राम इति। अनघः सम्यगनुष्ठितपितृवचनः। यद्वा ‘शिरसा याचतस्तस्य वचनं न कृतं मया’इत्युक्तपापरहित इत्यर्थः। यद्वा निरस्तसमस्तव्यसनः। ‘दुःखैनोव्यसनेष्वघ्म्’इति वैजयन्ती। रामः भ्रातृभिः सहितः। ‘कदान्वहं समेष्यामि भरतेन महात्मना। शत्रुघ्नेन च वीरेण त्वया च रघुनन्दन’इत्युक्तमनोरथपूर्ण इत्यर्थः। नन्दिग्रामे जटां हित्वा शोधयित्वा। उपलक्षणमेतत्। ‘विशोधितजटः स्नातश्चित्रमाल्यानुलेपनः। महार्हवसनो रामस्तथौ तत्र श्रिया ज्वलन्’इत्युक्तरूपः सीतामनुप्राप्य समीपे प्राप्य ‘रामं रत्नमये पीठे सहसीतं न्यवेशयत् ’इत्याद्युक्तरीत्या दिव्यसिंहासने सीतयाभिषेकं प्राप्येत्यर्थः। राज्यं पुनरवाप्तवान्। पितुर्वचनात्पूर्वं प्राप्तं विश्लिष्य पुनरद्यप्राप्त इत्यर्थः ॥1.1.88॥
प्रहृष्टमुदितो लोकस्तुष्टः पुष्टः सुधार्मिकः। निरामयो ह्यरोगश्च दुर्भिक्षभयवर्जितः ॥1.1.89॥
रामस्य राज्यप्राप्तिकृतं लोकस्यातिशयं दर्शयति–प्रहृष्टेति।लोकःजनः प्रहृष्टमुदितः। तदानीमासीदिति शेषः।एवमुत्तरत्रापि प्रहृष्टः सञ्जातरोमाञ्चः “हृषेर्लोमसु” इति अनिट्त्वविधानात्। मुदित इति तन्मूलसन्तुष्टान्तःकरणत्वमुच्यते। तुष्टः समस्तकामलाभजनितप्रीतियुक्तः। यद्वा ‘इच्छामो हि महाबाहुं रघुवीरं महाबलम्। गजेन महता यान्तं रामं छत्रावृताननम्’इत्यभिलषितलाभ उच्यते। पुष्टः ‘विषये ते महाराज रामव्यसनकर्षिताः। अपि वृक्षाः परिम्लानाः सपुष्पाङ्कुरकोरकाः’इत्युक्तरामविरहजकार्श्यत्यागात् पुष्टः। सुधार्मिकः सुधर्मः रामभक्तिपूर्वकं कर्म तच्चरतीति सुधार्मिकः। “धर्मं चरति” इति ठक्।‘स्त्रियो वृद्धास्तरुण्यश्च’इत्युक्तः। धर्मः फलभागित्यर्थः । निरामयः शारीररोगरहितः। अरोगः मानसव्याधिरहितः । दुर्भिक्षभयवर्जितः। भिक्षाणां व्यृद्धिः दुर्भिक्षम्। व्यृद्धावव्ययीभावः । दुर्भिक्षात् भयं दुर्भिक्षभयं तेन वर्जितः। अनेन पूर्वं सीताविशिष्ट– रामवियोगे प्रजानामामयमासीत्। तदिदानीं निवृत्तमित्युच्यते। प्रहृष्टेत्यादिरामाभिषेकदर्शनसन्तोषो न वर्णयितुं शक्य इत्याह कविः ‘प्रहृष्टमुदितो लोकस्तुष्ट पुष्ट’इति। अथ प्रीतिकारितकैङ्कर्यसिद्धिं दर्शयति-सुधार्मिक इति। शोभनो धर्मो विशिष्टविषयकैङ्कर्यमेव । अथ कैङ्कर्यविरोधोनिवृत्तिमाह। निरामयो ह्यरोगश्चेति । कैङ्कर्यापकरणसमृद्धिमाह–दुर्भिक्षेति॥1.1.89॥
न पुत्रमरणं केचिद्रक्ष्यन्ति पुरुषाः क्वचित् । नार्यश्चाविधवा नित्यं भविष्यन्ति पतिव्रताः॥1.1.90॥
अथ वर्णाश्रमधर्मपरिपालनप्रधानामुत्तरकाण्डकथां संगृह्णाति—नपुत्रेत्यादि। केचिदपि पुरुषाः क्वचित् कुत्रापि देशे किञ्चित्कदाचित्कमपि पुत्रमरणं न द्रक्ष्यन्ति। न द्रक्ष्यन्तीत्यनेन ब्राह्मणपुत्र इव कदाचित्प्राप्तमपि परिहरिष्यतीति भावः। नार्यश्चाविधवाः नित्यं पतिव्रताश्च भविष्यन्तीति। यद्वा विविधा धवा यासां ताः विधवा न विधवा अविधवा अव्यभिचारिण्यः। अव्यभिचारित्वेऽपि पत्यावप्यननुरागः कासाञ्चित्स्यात्स नेत्याह—पतिव्रताइति। कौसल्यादयस्तु पुत्रवत्तया वृद्धतया च न विधवा इति भावः
॥1.1.90॥
न चाग्निजं भयं किञ्चिन्नाप्सु मज्जन्ति जन्तवः। न वातजं भयं किञ्चिन्नापि ज्वरकृतं यथा॥1.1.91॥
न चापि क्षुद्भयं तत्र न तस्कर्भयं तथा। तत्र राज्ये तापत्रयगन्धोऽपि न भविष्यतीत्याह—नचेत्याद्यर्द्धत्रयं । अग्निजं भयं न किञ्चित् भविष्यतीत्यर्थः जंतवः नाप्सु मज्जन्ति। मङ्त्वा न मरिष्यन्तीत्यर्थः। एवमाधुदैविकनिवृत्तिरुक्ता। अथाध्यात्मिकादिनिवृत्तिमाह । नापि ज्वरकृतं तथा॥1.1.91॥
न चापि क्षुद्भयमिति । न तस्करभयमित्याधिभौतिकोपलक्षणम् ।
नगराणि च राष्ट्राणि धनधान्ययुतानि च ॥1.1.92॥
नित्यं प्रमुदिताः सर्वे यथा कृतयुगे तथा । तत्र रामराज्ये अनिष्टनिवृत्तिमुक्त्वेष्टसिद्धिमाह—नगरेति। नगराणि राष्ट्राणि धनयुतानि धान्ययुतानि च भविष्यन्ति॥1.1.92॥ अत एव सर्वे नागरिका जानपदाश्च यथा कृतयुगे तथा अत्र त्रेतायामपि नित्यं प्रमुदिता भविष्यन्ति। “ गत्यर्थाकर्मक ” इत्यादिना कर्तरि क्तः ।
अश्वमेधशतैरिष्ट्वा तथा बहुसुवर्णकैः ॥1.1.93॥
गवां कोट्ययुतं दत्त्वा विद्वद्भ्यो विधिपूर्वकम्। असङ्ख्येयं धनं दत्त्वा ब्राह्मणेभ्यो महायशाः॥1.1.94॥
एवं क्षत्रियासाधारणं प्रजापालनरूपं धर्ममुक्त्वा द्विजातिधर्मानाह-अश्वमेधेति। अर्द्धत्रयमेकान्वयम्। महायशाः प्रजापालनलब्धमहाकीर्तिः । अनेन द्रव्यशुद्धिरुक्ता। अश्वमेधशतैः अनेकाश्वमेधैः। ‘दशवर्शसहस्राणि वाजिमेधमुपाकरोत्’इति वक्ष्यमाणत्वात्। तथा बहुसुवर्णकैः बहुसुवर्णाकाख्यक्रतु- विशेषैश्च।‘सुबहूनि सुवर्णानि यत्रोपकरणत्वतः।विन्दते सष्ठानप्रदर्शंनेन पूर्वक्रतवोग्निष्ठोमादयोऽपि ह्यनुष्ठिता इति सिद्धम्॥1.1.93॥
गवां कोट्ययुतं दत्त्वा दशसहस्रकोटिपरिमिताः गाः ब्राह्मणेभ्यो क्रतुः सद्भिः स्मृतो बहुसुवर्णकः’इति वचनात्।एवमुत्तरक्रत्वनुदत्त्वा ब्रह्मलोकं ब्रह्मणः स्वस्य लोकं अप्राकृतस्थानं परमपदं प्रयास्यति। अत्र महायशा इत्यनेन यत्किञ्चिदपवादश्रवणमात्रेण सीतात्यागः सूचितः।दशवर्षसहस्राणि अश्वमेधानुष्ठानकाले इत्युक्त्या सीतां विनैव क्रत्वनुष्ठानस्य वक्ष्यमाणत्वा- च्चाभिषेकात्परं स्वल्प एव वर्षसहस्रकाले सीतावियोग इत्यवसीयते।अश्वमेधारम्भश्च रावणवधरूप- पापनिबर्हणार्थतया प्रसक्त इत्यवलम्बितः।ततः पूर्वमेव सीतावियोगः प्रथमाश्वमेधे सीताप्रतिरूपकर -णात्। प्रतिकृत्यापि यज्ञानुष्ठानस्य प्रामाणिकत्वं वक्ष्यति दर्भशयनप्रकरणादौ ॥1.1.94॥
राजवंशाञ्छतगुणान् स्थापयिष्यति राघवः । चातुर्वर्ण्यञ्च लोकेस्मिन् स्वे स्वे धर्मे नियोक्ष्यति॥1.1.95॥
एवं धर्मानुष्ठातृत्वमुक्त्वा धर्मप्रवर्तकत्वमाह—राजेति। अस्मिन् लोके राघवः राजवंशान् क्षत्रियवंशान् शतगुणान् शतगुणितान् स्थापयिष्यति । शतगुणं विवृद्धान् । राजवंशान् प्रत्येकं राज्यप्रदानेन पालयिष्यतीत्यर्थः। चत्वारोवर्णाश्चातुर्वर्ण्यम्। स्वार्थे ष्यञ् । स्वे-स्वे स्व-स्ववर्णाश्रमोचिते धर्मे। पूर्वादित्वात्सर्वनामत्वविकल्पः। नियोक्ष्यति प्रवर्त्तयिष्यति॥1.1.95॥
दशवर्षसहस्राणि दशवर्षशतानि च । रामो राज्यमुपासित्वा ब्रह्मलोकं प्रयास्यति॥1.1.96॥
धर्मसंस्थापनातिशयप्रदर्शनायराज्यपरिपालनकालबहुत्वं दर्शयति—दशेति । ‘दशवर्षसहस्राणि दशवर्षशतानि च’एकादशसहस्रसंवत्सरानित्यर्थः। उपासित्वा उपास्य। वा छन्दसीति वक्तव्ये क्त्वापि छन्दसीति प्रयोगादनित्यो ल्यबादेशः । सान्त्वपूर्वं जनानुवर्त्तनेन परिपाल्येत्यर्थः । अत्यन्तसंयोगे द्वितीया । राज्यपालने व्यासङ्गाभावो दर्शितः । ब्रह्मलोकं वैकुण्ठं गमिष्यति॥1.1.96॥
इदं पवित्रं पापघ्नं पुण्यं वेदैश्च सम्मितम् । यः पठेद्रामचरितं सर्वपापैः प्रमुच्यते ॥1.1.97॥
अथैतत्पाठस्य मोक्षसाधनत्वमाह—इदमिति । पूयतेऽनेनेति पवित्रम् ।“कर्त्तरिचर्षिदेवतयोः” इति करणे इत्रप्रत्ययः। परिशुद्धिसाधनमित्यर्थः। न केवलं शुद्ध्यापादकं किन्तु पापघ्नम्।“अमनुप्यकर्तृकेच” इति टक् प्रत्ययः।पुण्यं लाङ्गलजीवनमितिवत् पुण्यसाधनम्। अनेन प्रायश्चित्तव्यावृत्तिरुक्ता।तद्धि पापमेव निवर्त्तयति। उक्तार्थत्रये हेतुमाह—वेदैश्चसंमितमिति। सर्ववेदसदृशमित्यर्थः। इदं रामचरित्रं संक्षेपरूपं यः पठेत् वेदवत् सनियमं प्रतिदिनं पठेत् स सर्वपापैः पूर्वोत्तराघैः प्रमुच्यते। तदुक्तं रामोपनिषदि “ब्रह्महत्यासहस्राणि वीरहत्याशतानि च। स्वर्णस्तेयसुरापानगुरुतल्पायुतानि च। कोटि- कोटिसहस्राणि उपपातकाजान्यपि। सर्वाण्यपि प्रणश्यन्ति रामचन्द्रस्य कीर्त्तनात्” इति॥1.1.97॥
एतदाख्यानमायुष्यं पठन् रामायणं नरः। सपुत्रपौत्रः सगणः प्रेत्य स्वर्गे महीयते॥1.1.98॥
एवं रामचरितपाठस्य मोक्षं फलमुक्त्वानुषङ्गिकफलोक्तिपूर्वकं तस्य संबन्धि संबन्धपर्यन्ततामाह—-एतदिति। आयुःप्रयोजनमस्यायुष्यम्। ‘स्वर्गादिभ्योयद्वक्तव्य’इति यत्प्रत्ययः। आख्यानमाख्यायिकारूपमेतद्रामायणं बालरामायणं रामस्यायनं रामायणम्। अयगतावितिधातोर्भावे ल्युट् । रामचरितमित्यर्थः। रामः अप्यते प्राप्यते अनेन इति वा रामायणम्। रामः अयनं प्रतिपाद्यो यस्येति वा रामायणम्। पठन्नरः वर्णाश्रमादिनियमं विना योऽपि कोऽपि सपुत्रपौत्रः दशपूर्वापरसहित इत्यर्थः। सगणः सभृत्यबन्धुः प्रेत्य आत्यन्तिकशरीरनाशं प्राप्य स्वर्गे परमपदे। “तस्या हिरण्मयः कोशः स्वर्गो लोको ज्योतिषावृतः” इति। तस्मिन्स्वर्गशब्दप्रयोगात्। विमुक्तसर्वपापं प्रति स्वर्गमात्रस्याफलत्वाच्च। महीयते पूज्यते। “तं पञ्चशतान्यप्सरसां प्रतिधावन्ति शतं मालाहस्ताः शतं चूर्णहस्ताः” इति श्रुतेः॥1.1.98॥
पठन्द्विजो वागृषभत्वमीयात् स्यात्क्षत्रियो भूमिपतित्वमीयात्। वणिग्जनः पण्यफलत्वमीयाज्जनश्च शूद्रोऽपि महत्त्वमीयात्॥1.1.99॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकाण्डे प्रथमः सर्गः ॥
अथ चातुर्वर्ण्यव्यतिरिक्तस्य नाधिकार इति सूचयन् वर्णविशेषनियतानि फलानि दर्शयति–पठन्निति। स्यादित्येतदव्ययं यद्यर्थे । इदं बालरामायणं पठन्द्विजो यदि वागृषभत्वं वाचि श्रैष्ठ्यं वेदवेदाङ्गपारगत्वमीयात् प्राप्नुयात्। ई गतावित्यस्माद्धातोर्लिङ् । पठन् क्षत्रियो यदि भूमिपतित्वं चक्रवर्त्तित्वमीयात्। पठन् वणिग्जनो यदि पण्यफलत्वमीयात् पणमूल्यं तदर्हतीति पण्यं क्रयविक्रयार्हं वस्तु तदेव फलं लाभो यस्य स पण्यफलः तस्य भावः पण्यफलत्वम्। ‘पणो द्यूतादिषूत्सृष्टे भृतौ मूल्ये धनेऽपि च’इत्यमरः। पणशब्दादर्हार्थे यत्प्रत्ययः।“अवद्यपण्य”इत्यादिना पणतेर्यत्प्रत्ययान्तो निपातो वा। पठन् शूद्रोऽपि जनो यदि महत्त्वं स्वजातिश्रेष्ठत्वमीयात्। यद्वा स्यादित्येतत् अल्पार्थेऽव्ययम्। स्यात्क्षत्रियः अल्पनृपतिः भूमिपतित्वमखण्डभूमण्डलेश्वरत्वमीयात्। एवमल्प- ब्राह्मण इत्यादि ज्ञेयम् । यद्वा स्याच्छब्दः कथञ्चिदर्थे निपातः। स्यादस्ति स्यान्नास्तीत्यादि- सप्तभङ्गीव्याख्याने तथोक्तत्वात्।तथा च कथञ्चित् पठन् शास्त्रोक्तनियमं विनापि पठन्नित्यर्थः। एकदेशं पठन्निति वा। अथवा वागृषभत्वादिकमीयात्। ‘स्याच्च सत्तां लभेत च’इति सर्वसाधारणं सत्तालाभरूपं फलम्। “अस्ति ब्रह्मेति चेद्वेद। सन्तमेनं ततो विदुः” इति श्रुतेः।कश्चित् ‘स्यात्प्रबन्धे चिरातीते’इति वचनात्, स्याच्छब्दः प्रबन्ध्पर इत्याह तदज्ञानविजृम्भितम्। ‘स्यात्प्रबन्धे चिरातीते निकटागामिके पुरा’इति वाक्यशेषात्। पुराशब्दस्य नानार्थत्वं हि तत्रोच्यत इति। यद्यपि ‘श्रावयेच्चतुरो वर्णान् कृत्वा ब्राह्मणमग्रतः’इति शूद्रस्येतिहसपुराणयोः श्रवणमात्रं स्मृतिभिरनुज्ञातं न तु पठनं तथापि पठन्नित्यादिऋषिवचनप्रामाण्यात्। वचनाद्रथकारस्येतिन्यायेनास्मिन्सङ्क्षेप- पाठमात्रेऽधिकारोऽस्तीति सिद्धम्। तथा सहस्रनामाध्यायान्ते च दृश्यते ‘य इदं शृणुयान्नित्यं यश्चापि परिकीर्तयेत्’इत्यारभ्य ‘वेदान्तगो ब्राह्मणः स्यात् क्षत्रियो विजयी भवेत् वैश्यो धनसमृद्धः स्याच्छूद्रः सुखमवाप्नुयात्’इति। यद्वा वेदोपबृंहणे शूद्रस्य सर्वथानधिकाराच्छूद्र इत्यत्र प्ठन्निति नानुपज्यते। किन्तु शृण्वन्नित्यध्याह्रियते। ‘शृण्वन् रामायणं भक्त्या’इति श्रवणस्यापि महाफलत्ववचनात्। अत्र सङ्क्षेपे तकारेणोपक्रम्य यादिति समापनाद्गायत्रीरूपत्वमस्य गम्यते। अत्र श्लोके उपजातिवृत्तम्। ‘स्यादिन्द्रवज्रा ततजास्ततो गौ । अनन्तरोदीरितलक्ष्मभाजः पादा यदीया उपजातस्यताः’इति लक्षणात् ॥1.1.99॥
प्रथमसर्गमुपसंहरति—इतीति ।र्षिणा प्रोक्तमार्ष्म्। “तेन प्रोक्तम्” इत्यण्। श्रीरामायणेश्रीरामायणाख्ये आदिकाव्ये प्रथमकाव्ये बालकाण्डे सङ्क्षेपो नाम प्रथमः सर्गः समाप्त इति शेषः। काव्यलक्षणं सर्गलक्षणं चोक्तं दण्डिना काव्यादर्शे–”नगरार्णवशैलर्तुचंद्रार्कोदयवर्णनैः। उद्यानसलिलक्रीडामधुपान- रतोत्सवैः। विप्रलम्भैर्विवाहैश्च कुमारोदयवर्णनैः। मन्त्रद्यूतप्रयाणाजिनायकाभ्युदयैरपि। अलङ्कृत– मसङ्क्षिप्तं रसभावनिरन्तरम्। सर्गैरनतिविस्तीर्णैः श्राव्यवृत्तैः सुसन्धिभिः । सर्वत्र भिन्नवृत्तान्तैरुपेतं लोकरञ्जनम्। काव्यं कल्पान्तरस्थायि जायते सदलङ्कृति’इति ।
इतिकौशिकगोविन्दराजकृते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने सङ्क्षेपरामायणं नाम प्रथम सर्गः ॥