अथाहमुत्तरं देव्या पुनरुक्तः ससम्भ्रमः ।
तव स्नेहान्नरव्याघ्र सौहार्दादनुमान्य वै ॥ ५।६८।१ ॥
एवं बहुविधं वाच्यो रामो दाशरथिस्त्वया ।
यथा मामाप्नुयाच्छीघ्रं हत्वा रावणमाहवे ॥ ५।६८।२ ॥
अथेत्यादि । हे नरव्याघ्र तव स्नेहात्, मयीति शेषः । सौहार्दात् सुहृद्भावात्, आप्तत्वादिति यावत् । अनुमान्य सम्यान्य । उत्तरं ततः परम् उत्तरं कार्यं वा । पुनर्देव्या ऽहमुक्त इत्यन्वयः । ससम्भ्रमः गमनत्वरान्वित इत्यर्थः ॥ ५।६८।१,२ ॥
यदि वा मन्यसे वीर वसैकाहमरिन्दम ।
कस्मिंश्चित्संवृते देशे विश्रान्तः श्वो गमिष्यसि ॥ ५।६८।३ ॥
मम चाप्यल्पभाग्यायाः सान्निध्यात्तव वीर्यवन् ।
अस्य शोकविपाकस्य मुहूर्तं स्याद्विमोक्षणम् ॥ ५।६८।४ ॥
गते हि त्वयि विक्रान्ते पुनरागमनाय वै ।
प्राणानामपि सन्देहो मम स्यान्नात्र संशयः ॥ ५।६८।५ ॥
तवादर्शनजः शोको भूयो मां परितापयेत् ।
दुःखाद्दुःखपराभूतां दुर्गतां दुःखभागिनीम् ॥ ५।६८।६ ॥
अयं च वीर सन्देहस्तिष्ठतीव ममाग्रतः ।
सुमहांस्त्वत्सहायेषु हर्यृक्षेषु हरीश्वर ॥ ५।६८।७ ॥
कथं नु खलु दुष्पारं तरिष्यन्ति महोदधिम् ।
तानि हर्यृक्षसैन्यानि तौ वा नरवरात्मजौ ॥ ५।६८।८ ॥
त्रयाणामेव भूतानां सागरस्यास्य लङ्घने ।
शक्तिः स्याद्वैनतेयस्य तव वा मारुतस्य वा ॥ ५।६८।९ ॥
शोकविपाकस्य शोकवृद्धेरित्यर्थः ॥ ५।६८।३९ ॥
तदस्मिन् कार्यनिर्योगे वीरैवं दुरतिक्रमे ।
किं पश्यसि समाधानं ब्रूहि कार्यविदां वर ॥ ५।६८।१० ॥
काममस्य त्वमेवैकः कार्यस्य परिसाधने ।
पर्याप्तः परवीरघ्न यशस्यस्ते बलोदयः ॥ ५।६८।११ ॥
बलैः समग्रैर्यदि मां हत्वा रावणमाहवे ।
विजयी स्वां पुरीं रामो नयेत्तत् स्याद्यशस्करम् ॥ ५।६८।१२ ॥
यथा ऽहं तस्य वीरस्य वनादुपधिना हृता ।
रक्षसा तद्भया देव तथा नार्हति राघवः ॥ ५।६८।१३ ॥
बलैस्तु सङ्कुलां कृत्वा लङ्कां परबलार्दनः ।
मां नयेद्यदि काकुत्स्थस्तत्तस्य सदृशं भवेत् ॥ ५।६८।१४ ॥
तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः ।
भवत्याहवशूरस्य तथा त्वमुपपादय ॥ ५।६८।१५ ॥
तदर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितम् ।
निशम्याहं ततः शेषं वाक्यमुत्तरमब्रुवम् ॥ ५।६८।१६ ॥
देवि हर्यृक्षसैन्यानामीश्वरः प्लवतां वरः ।
सुग्रीवः सत्त्वसम्पन्नस्तवार्थे कृतनिश्चयः ॥ ५।६८।१७ ॥
तस्य विक्रमसम्पन्नाः सत्त्ववन्तो महाबलाः ।
मनस्सङ्कल्पसम्पाता निदेशे हरयः स्थिताः ॥ ५।६८।१८ ॥
येषां नोपरि नाधस्तान्न तिर्यक् सज्जते गतिः ।
न च कर्मसु सीदन्ति महत्स्वमिततेजसः ॥ ५।६८।१९ ॥
असकृत्तैर्महाभागैर्वानरैर्बलदर्पितैः ।
प्रदक्षिणीकृता भूमिर्वायुमार्गानुसारिभिः ॥ ५।६८।२० ॥
मद्विशिष्टाश्च तुल्याश्च सन्ति तत्र वनौकसः ।
मत्तः प्रत्यवरः कश्चिन्नास्ति सुग्रीवसन्निधौ ॥ ५।६८।२१ ॥
अहं तावदिह प्राप्तः किं पुनस्ते महाबलाः ।
न हि प्रकृष्टाः प्रेष्यन्ते प्रेष्यन्ते हीतरे जनाः ॥ ५।६८।२२ ॥
कार्यनिर्योगे कार्यगतौ । दुरतिक्रमे दुर्निर्वहे ॥ ५।६८।१०२२ ॥
तदलं परितापेन देवि मन्युर्व्यपैतु ते ।
एकोत्पातेन वै लङ्कामेष्यन्ति हरियूथपाः ॥ ५।६८।२३ ॥
मम पृष्ठगतौ तौ च चन्द्रसूर्याविवोदितौ ।
त्वत्सकाशं महाभागे नृसिंहावागमिष्यतः ॥ ५।६८।२४ ॥
अरिघ्नं सिंहसङ्काशं क्षिप्रं द्रक्ष्यसि राघवम् ।
लक्ष्मणं च धनुष्पाणीं लङ्काद्वारमुपस्थितम् ॥ ५।६८।२५ ॥
नखदंष्ट्रायुधान् वीरान् सिंहशार्दूलविक्रमान् ।
वानरान् वारणेन्द्राभान् क्षिप्रं द्रक्ष्यसि सङ्गतान् ॥ ५।६८।२६ ॥
शैलाम्बुदनिकाशानां लङ्कामलयसानुषु ।
नर्दतां कपिमुख्यानामचिराच्छ्रोष्यसि स्वनम् ॥ ५।६८।२७ ॥
निवृत्तवनवासं च त्वया सार्धमरिन्दमम् ।
अभिषिक्तमयोध्यायां क्षिप्रं द्रक्ष्यसि राघवम् ॥ ५।६८।२८ ॥
तदलमिति । मन्युः दैन्यम् । “मन्युर्दैन्ये क्रतौ क्रुधि " इत्यमरः ॥ ५।६८।२३२८ ॥
ततो मया वाग्भिरदीनभाषिणा शिवाभिरिष्टाभिरभिप्रसादिता ।
जगाम शान्तिं मम मैथिलात्मजा तवापि शोकेन तदा ऽभिपीडिता ॥ ५।६८।२९ ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशत्सहस्रिकायां संहितायां श्रीमत्सुन्दरकाण्डे अष्टषष्टितमः सर्गः ॥ ५।६८ ॥
तव शोकेनापि ऽनैव दंशान्ऽ इत्यादिमदुक्त्या श्रुतेन । तदा मम पुरस्तादभिपीडिता । अदीनभाषिणा मया । शिवाभिः इष्टाभिः वाग्भिः अभिप्रसादिता शान्तिं दुःखनिवृत्तिं जगाम ॥ ५।६९।२९ ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने अष्टषष्टितमः सर्गः ॥ ५।६८ ॥
सुन्दरकाण्डः समाप्तः ॥
इत्थं कौशिकवंशमौक्तिकमणिर्गौविन्दराजाभिधो वात्स्यश्रीशठकोपदेशिकपदद्वन्द्वैकसेवारतः ।
पूर्वाचार्यकृता विलोक्य विविधा व्याख्या मुहुर्जानकीकान्तस्याप्रतिमाज्ञयैव तिलकं सौन्दर्यकाण्डे व्यधात् ॥ १ ॥